सर्वव्यक्तिष्वभिव्याप्त्यै तात्पर्याधिक्यवित्तये

भाष्यम्

[पुनरुक्तिप्रयोजननिरूपणम् ]

पुनरप्यश्वस्य मेध्यस्येति वचनं कस्यचिदश्वस्यैवमासीदितीतिहासरूपेण नोच्यते किन्तु सर्वमेध्यानामेवमिति ज्ञापनार्थम् । 'सर्वव्यक्तिष्वभिव्याप्त्यै तात्पर्याधिक्यवित्तये ।

प्रतीतानुपपत्तेरप्याभासत्वे विवक्षया ॥

पुनर्वचनमुद्दिष्टं शतशोऽपि पृथक् पृथक् ॥ इति च ॥

भावबोधटिप्पणी

अश्वस्य मेध्यस्येति सर्वत्रानुषङ्गार्थं पुनर्वचनमित्यन्यैर्व्याख्यातं तदसत् । प्रथमो-क्तेरेव सर्वत्रानुषङ्गसम्भवात् । कस्यचिदश्वस्यैवमासीदितीतिहासरूपेणोच्यत इति शङ्काया अपरिहाराच्चेत्यभिप्रेत्य स्वयं पुनर्वचनप्रयोजनमाह - पुनरपीति । कुत एतत्सिद्ध्यतीत्यतो नियामकं पठति - सर्वव्यक्तिष्विति || 'विश्वस्मा- दिन्द्र उत्तर' इति पुनर्वचनं 'एष त आत्मान्तर्याम्यमृत:' (बृ. ३.७.३) इत्यादिपुनर्वचनं च तात्पर्याधिक्यवित्तये । एतेन सर्वे व्याख्याता व्याख्याता इति प्रतीता-नुपपत्तेराभासत्वविवक्षयोद्दिष्टमिति योज्यम् । न केवलमेकवारं पुनर्वचनं किन्तु शतशोऽपि स्युः । पृथक् पृथक् प्रतिवाक्यम् ।।