यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीन्मे ..

[हृदयनामकभगवदुपासना ]

उपनिषत्

यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीन्मे विदग्धः शाकल्यः हृदयं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छाकल्योऽब्रवीत् हृदयं वै ब्रह्मेत्यहृदयस्य किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतनं हृदयं वै सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥७॥

इति पडाचार्यब्राह्मणम् ॥ १ ॥

भाष्यम्

सदा प्रतिष्ठितानि भवन्ति । विशेषतोऽपि प्रतिष्ठितानि सुप्तौ ।

हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः ।

जीवानां स्थानमुद्दिष्टः सर्वदैव सनातनः ॥

हृत्कर्णिकामूलगत: स्वाङ्गुष्ठाग्रप्रमाणकः ।

मूलेश इति नामास्मिन् सर्वे जीवाः प्रतिष्ठिताः ॥

अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ ।

प्रविशन्ति सुषुप्तौ तु प्रबुद्ध्यन्ते ततस्तथा ॥

सोऽयं त्रिरूपो भगवान् हृदयाख्यः प्रकीर्तितः ॥ इति च ॥

स्थानमायतनं प्रोक्तं प्रतिष्ठा धारकः पुमान् ॥ इति च ॥

इति षडाचार्यब्राह्मणम् ॥ १ ॥

भावबोधटिप्पणी

हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठेति प्रतिज्ञावाक्ये हृदयशब्देन सर्वदा जीवधारकं सुप्तौ च जीवधारकं भगवद्रूपमुच्यत इति ज्ञापनाय हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्तीत्युपपादकवाक्यम् अपेक्षिताध्याहारेण द्वेधा व्याचष्टेसदेति ॥ ननु हृदयनामकं हृद्गतं च भगवद्रूपमेकमेव । अत्र तु हृदयं वै सम्राट् सर्वेषां भूतानामायतनमित्यायतनत्वेनोच्यमानं रूपं एकं प्रतिष्ठात्वेनोच्यमानं रूपद्वयमिति रूपत्रयमुच्यते । तत् कथमित्यतो हृदयस्थं रूपत्रयमप्यस्तीति भावेन हृदयं वै सम्राट् सर्वेषां भूतानामायतनमिति वाक्यं तावद् व्याचष्टेहृदय इति ॥ तत्तद्धृदयव्यापी तत्तज्जीवस्थानमिति सर्वेषां जीवानां स्थानमित्यर्थः । एवं सर्वे जीवाः प्रतिष्ठिता इत्युत्तरवाक्यमपि व्याख्येयम् । हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठेति वाक्यं द्वेधा व्याचष्टे- हृत्कर्णिकेति ।। प्रतिष्ठिताः सर्वदेति शेषः । तु विशेषेण प्रविशन्तीत्यन्वयः । अनेनप्रादेशमात्रं पुरुषं वसन्तम्' (भा.२.२.८.) इतिअङ्गुष्ठमात्रः पुरुषःइतिअङ्गुष्ठाग्रप्रमाणकः’(छां. भा. ५.१८.१) इति वचनानां विरोधः परिहृतो भवति । ननु जाग्रदवस्थायां जीवो दक्षिणाक्षिस्थः स्वप्नावस्थायां कण्ठदेशस्थः सुप्तौ तु हृदयस्थः । जाग्रदाद्यवस्थाप्रेरकविश्वतैजसप्राज्ञानां दक्षिणाक्ष्यादिषु स्थितत्वात् । यथोक्तंदक्षिणाक्षिमुखे विश्व:' ( माण्डूक्य. भा) इत्यादि । तथाच हृत्कर्णिकामूलगतभगवद्रूपे जीवः सर्वदा प्रतिष्ठितः । सुप्तौ हृत्कर्णिकाग्रस्थितहरौ प्रविशतीति कथमुक्तम् । कथं वा हृदयव्याप्त- प्रादेशपरिमितभगवद्रूपस्य सर्वदा जीवस्थानत्वमिति चेन्न । हृदिस्थमेव सर्वदा जीवस्वरूपं 'हृदि ह्येष आत्मा' इत्यादि श्रुतेः । 'अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि' (ब्र. सू. २.३.२४) इति सूत्राच्च । जागरितादावप्यक्ष्यादिषु विशेषसन्निहितं भवति दीपप्रकाशवत् । यथोक्तं 'गुणाद् वाऽलोकवद्' (ब्र.सू. २.३.३५) इति । ननु कथमङ्गुष्ठमात्रत्वं भगवद्रूपस्य परिमाणान्तरस्यापि तत्र सत्वादिति चेन्न । हृदि विद्यमानाऽकाशस्याङ्गुष्ठमात्रत्वेन भगवन्मूर्तिविशेषस्य तत्राभिव्यक्त्या लक्षणयाङ्गुष्ठमात्रत्वव्यपदेशात् । भिन्नेष्वपि स्थानैक्योक्तिवद् हृदयाकाशस्य अङ्गुष्ठमात्रत्वेन तत्सम्बन्धात् सर्वगतेऽपि हरौ उपचारेण अङ्गुष्ठमात्रत्वव्यपदेशात् । नन्वेवं विष्णुरूपस्यैव यद्यायतनत्वं प्रतिष्ठात्वं च तर्हि श्रुतौ हृदयमायतनं हृदयं प्रतिष्ठेति कथमुक्तमित्यत आह- सोऽयमिति । नन्वायतनप्रतिष्ठाशब्दयोर्नार्थभेदोऽस्ति । नचायतनशब्दः स्थानार्थ इत्युक्तमिति वाच्यं तथापि प्रतिष्ठाशब्दस्य तदन्यार्थानुपलम्भादित्यत आह- स्थानमिति ॥ ७ ॥

खण्डार्थः

एवं विद्यापरीक्षानन्तरं जनको ह वैदेह आसां चक्रे आसनं कृतवान् | सिंहासनमधिरूढ इति यावत् । अथ तदनन्तरं याज्ञवल्क्यो जनकसमीपमावव्राज । तं याज्ञवल्क्यं विधिवत् सम्पूज्य होवाच जनकः । किमिति हे याज्ञवल्क्य किमर्थमचारी: पर्यटनमकार्षीः किं पशूनिच्छन् उताणुर्भगवान् तद्विषयान् अन्तान्निर्णयान् वक्तुं वेति । एवमुक्तो याज्ञवल्क्यो हे सम्राट् सार्वभौम उभयमेव पश्विच्छाण्वन्तवचनं चेत्युभयमपि मम चरणे निमित्तमित्युवाच । उभयमेव नान्यदिति वा ॥ १ ॥

यद्यण्वन्तान् वक्तुमागतस्तर्हि वक्तव्यमिति राज्ञोक्ते स्वयमन्येभ्यो ज्ञातादधिकं मुक्तिसाधनं वक्तुं ते तव कश्चिदाचार्यो यदब्रवीत् तत्तावद् वयं शृणवामेत्याह याज्ञवल्क्यः । एवमुक्तो जनक आह- अब्रवीदिति || मे मम शिलिनस्यापत्यं शैलिनः जित्वा नामतो ब्रह्मगुणपरिपूर्णं विष्ण्वाख्यं वाग् वै वक्तृत्त्वाद् वाङ्नामकं वै प्रसिद्धमित्यब्रवीत् । शैलिनोपदिष्टं स्तोतुकामो याज्ञवल्क्य-स्तस्याऽप्तत्वप्रयोजकीभूतशुद्धित्रयमाह - यथेति । माता यस्यानुशासित्री स मातृमानू, पिता यस्यानुशासकः स पितृमान्, आचार्यो यस्यानुशासकः स आचार्यवान् पुरुषो यथा स्वशिष्याय ब्रूयात् शैलिनस्तुभ्यं वाग् वै ब्रह्मेत्यब्रवीदिति यत्तत्तथेत्यर्थः । वाग् वै ब्रह्मेत्येतन्मुनिरेवोपपादयति- अवदत इतिं ।। अवदतो वाङ्नामकभगवद्रूपशून्यस्य किं फलं स्यात् वचनक्रियाया एवासम्भवेनाध्ययनादिनित्यकर्मानुष्ठानस्यैवासम्भवात् । हि यस्मादिति । तस्माद् वाग् ब्रह्मेति साधूक्तम् । अनेनैवोपदेशेन कृतकृत्योऽस्मीति न मन्तव्यमिति भावेन नृपं प्रति मुनिः पृच्छति - अब्रवीदिति ॥ स जित्वा ते तव तस्य वाङ्नामकस्य भगवतः आयतनं स्थानं प्रतिष्ठां प्रतिमां उपलक्षणमेतत् । वाङ्नामार्थं तु विशेषेणाब्रवीत् किमिति । एवमुक्तो जनको न मेऽब्रवीदित्याह तं प्रति मुनिराह हे सम्राट् एतत् जित्वोपदिष्टमुपास्यस्य भगवतो वाड्नामकत्वमेकपाद् वा इति। उपास्यस्य भगवतो हि आयतनं प्रतिमा रहस्यं नाम तदर्थि चतुष्टयं मोक्षार्थं ज्ञेयम् । तत्र जित्वा रहस्यनाममात्रमुपदिष्टवानिति तदुपदिष्टमेकदेशरूपमेवेत्यर्थः । एवमुक्तो राजाह - स इति ॥ हे याज्ञवल्क्य स वै सर्वब्राह्मणप्रश्नोत्तरदाता त्वं नोऽस्माकं ब्रूहि । वाङ्नामकस्य भगवत आयतनादित्रयमिति शेषः । एवमुक्तो मुनिराह - वागेवेति ॥ वागेव प्रसिद्धवागिन्द्रियमेवाऽयतनमधिष्ठानं आकाश आ समन्ताद्दीप्तत्वादाकाशनाम्नी रमा प्रतिष्ठा प्रतिमा । एनद् एतत् प्रज्ञेत्युपासीत । राजा पृच्छति - का प्रज्ञतेति । धर्मधर्मिणोरभेदाभिप्रायेणोत्तरमाह- वागेवेति ॥ वाङ्नामकभगवद्रूपमेवेत्यर्थः । तस्य प्रज्ञतामुपपादयति- वाचेति ।। वाचा वै वाड्नामकभगवद्रूपेण बन्धुः प्रज्ञायते । को बन्धुरित्यत आह- ऋग्वेद इति ।। ऋग्वेदादीनामिष्टसाधनावबोधकत्वाद् बन्धुत्वम् । विद्येत्यमिताक्षरं पञ्चरात्रमुच्यते, श्लोका इति मिताक्षरं पञ्चरात्रं, सूत्राणि ब्रह्मसूत्रादीनि, अनुव्याख्यानानि वेदव्याख्यानविस्तररूपाणि बृहत्तर्कादीनि, व्याख्यानानि वेदव्याख्यानभूतब्रह्मतर्कादीनि इष्टं यजनं, हुतं होम:, अशितमन्नदानम्, पायितं पेयदानं, अयं च लोकः परश्व लोकः सर्वाणि भूतानि च वाचा वै प्रज्ञायन्ते । उपसंहरति- वाग्वा इति । अत इति शेषः । यद्वा ब्रह्मशब्दस्यान्यत्रापि कथंचिद्वृत्तेः 'वाग्वै ब्रह्म' इत्यत्र वाङ्नामकत्वमन्यस्योच्यत इति न भ्रमितव्यमित्याहवाग्वा इति । उक्तप्रकारेण वाङ्नामकभगवदुपासकस्य फलमाहनैनमिति ।। यो देवत्वयोग्योऽधिकारी एवमायतनादिचतुष्टयसाहित्येन एतत् वाङ्नामकभगवद्रूपं विद्वानुपास्ते एनमधिकारिणं वाक् वाङ्नामकं ब्रह्म न जहाति स देवान्देवत्वमप्येति । ततो देवो भूत्वा स्वोत्तमदेवेषु सायुज्यं प्राप्य देवान् क्रीडादिगुणसम्पन्नश्वेतद्वीपादिस्थितभगवद्रूपविशेषान् ब्रह्मणा सहाप्येति प्राप्नोति । तत्र मुक्तौ सर्वाणि भूतानि तदवराणि एनमभिक्षरन्ति एतस्मै सर्वान् भोगान् दुहन्तीत्यर्थः । यो देवपदायोग्य एवं विद्वानेतदुपास्ते स देवो भूत्वा देवलोकस्थो भूत्वा देवानप्येति मुक्तौ देवेषु सायुज्यं प्राप्नोति । इतरत्समानम् । अत्र देवपदयोग्यस्य वागिन्द्रियादिषु युगपदुपासनं अन्यस्य तु क्रमेणेति युक्तः फलभेदः । एवमुपदिष्टो राजा स्वयोग्यगुरुदक्षिणां प्रतिजज्ञे - हस्त्यृषभमिति ॥ हस्तिना युक्त ऋषभो हस्तृषभस्तं सहस्रं सहस्रसङ्ख्याकं ददामीति होवाच जनको वैदेहः । एवमुक्तः स याज्ञवल्क्यो होवाच । किम् | अननुशिष्य शिष्यस्योपदेष्टव्यं सर्वमनुपदिश्य नाहरेत गुरुदक्षिणां न गृह्णीयादिति मे मत्पिताऽमन्यत । अतो नाहं समग्रमनुपदिश्य गृह्णामीति भावः । एवमुत्तरखण्डपञ्चकेऽप्यक्षरयोजना || ||

शुल्वायनस्यापत्यं शौल्वायनः । उदको नामतः ब्रह्मा प्राणः प्रणयनात् प्राणनामकं वै प्रसिद्धमित्यत्राब्रवीत् । अप्राणतः प्राणनामकभगवद्रूपशून्यस्य किं स्यात्। चेष्टादिसर्वप्रवृत्तिविलोपपत्तेः प्राण एव प्राणापानादिरूपो वायुरेव आयतनं स्थानं एतत्प्राणनामकं ब्रह्म प्रियमित्युपासीत । प्राणनामकस्य भगवतः प्रियत्वमुपपादयति - प्राणस्यैवेति ॥ हे सम्राट् प्राणस्यैव प्राणस्थस्य प्राणनामकस्य विष्णोरेव कामाय सम्प्रीत्यै भोजनं भवेत् । तादृशभोजनार्थमेवाज्ञोऽपि जनः प्राणस्य तन्नामकविष्णोः कामायेच्छयैवायाज्यं याजनायोग्यं शूद्रादिकमपि याजयति । अप्रतिगृह्यस्याप्रतिग्राह्यमपि प्रतिगृह्णाति यस्मात्प्रतिग्रहो न ग्राह्यस्तस्य सकाशादिति वा । चौर्यं च करोति तदर्थं यां दिशमेति तत्र वधाशङ्कं वधविषयाशङ्का भवतीत्यर्थः । यद्वा यां दिशमेति तत्र वधाशङ्कं यथा भवति तथा तां दिशमेतीत्यर्थः । एनमुपासकं प्राणः प्राणस्थः प्राणनामको विष्णुर्न जहाति ॥ ३ ॥

वट्कुर्नामतः वृष्णस्यापत्यं वार्ष्णः । ब्रह्म चक्षुः सर्वदर्शनाच्चक्षुर्नामकं वै अपश्यतश्चक्षुर्नामकभगवद्रूपशून्यस्य किं स्यात् । विश्वनामकस्य तस्य जाग्रद्दर्शनमात्रहेतुत्वेन तदभावे जाग्रद्दर्शनमात्राभावापत्तेरिति भावः । चक्षुरेव चक्षुरिन्द्रियमेव । आयतनमवस्थानम् । चक्षुःस्थस्य चक्षुर्नामकस्य विश्वस्य सत्यत्वमुपपादयति- चक्षुषेति ॥ चक्षुषा चक्षुःस्थेन चक्षुर्नामकेन विश्वाख्यविष्णुरूपेणं तत्प्रेरणयेति यावत् । पश्यन्तं पुरुषं प्रत्याहुरन्ये पुरुषाः । त्वं तत्र रूपादिकमद्राक्षीरिति । स पश्यन्नाह - अद्राक्षमिति । पुनर्दृष्टं चेत् तद् वस्तु सत्यं यथास्थितं भवति । श्रौत्रज्ञानाद्युपलक्षणमेतत् । एवमन्वय उक्तः । चक्षुःस्थविश्वाख्यविष्णुरूपस्य कण्ठस्थानादौ गमने जाग्रद्दर्शनं न भवतीति व्यतिरेकोऽपि द्रष्टव्यः । यत एवं चक्षुर्नामकभगवतो यथार्थज्ञानहेतुत्वं तत्तस्माच्चक्षुःस्थं ब्रह्म सत्यं भवतीत्यर्थः । एनम् उपासकं चक्षुःस्थं चक्षुर्नामकं ब्रह्म न जहातीत्यर्थः ॥ ४ ॥

गर्दभी गर्दभदेशीयः विपीतो नामतः, भरद्वाजस्यापत्यं भारद्वाजः । ब्रह्म श्रोत्रं श्रवणाच्छ्रोत्रनामकं वा इत्यब्रवीत् । अशृण्वतः श्रोत्रनामकभगवच्छून्यस्य किं स्यात् । सच्छास्त्रश्रवणाद्यसम्भवात् श्रोत्रमेव श्रोत्रेन्द्रियमेवाऽयतनम् । दिश एव चक्षुः स्थितो दिङ्नामकः विष्णुरेवेत्यर्थः । दिग्गतस्य विष्णोरनन्तत्वमुपपादयति - तस्माद्वा इति ॥ हे सम्राट् हि यस्माद्दिशोऽनन्ताः दिङ्नामा दिक्षु स्थितो विष्णुः सर्वव्यापी तस्मादेव यः कोऽपि यां काञ्चन दिशं तन्नामकभगवदधिष्ठितां दिशं प्रति गच्छति अस्या दिशोऽन्तमवसानं नैव गच्छतीत्यर्थः । यदधिष्ठितदिशामेवानन्तत्वं सोऽनन्त इति किमु बक्तव्यमित्यर्थः । नन्वेवं दिङ्नामकस्य दिक्स्थस्य विष्णोरनन्तत्वेऽपि श्रोत्रान्तर्गतस्य विष्णोरनन्तत्वेनोपासनं कथं स्यादित्यत आह- दिशो वा इति ॥ दिक्स्थं विष्णुरूपमेव श्रोत्रं श्रोत्रान्तर्गतमित्यर्थः । एनमुपासकं श्रोत्रस्थं श्रोत्रनामकं ब्रह्म न जहाति ॥ ५ ॥

जबालाया अपत्यं जाबालः, सत्यकामो नामतः, मनो मन्तृत्वतो मनोनामकं वै ब्रह्मेत्यब्रवीत् । अमनसो मनोनामकभगवद्रहितस्य किं स्यात् । मननादे - रसम्भवात् मन एव प्रसिद्धमनोरूपेन्द्रियमेवायतनम् । एतन्मनोनामकं ब्रह्मा- नन्दहेतुरित्युपासीत । आनन्दता आनन्दहेतुता मनोगतस्य मनोनामकस्य विष्णोरानन्दहेतुत्वमुपपादयति- मनसेति । मनसा मनोनामक विष्ण्वधिष्ठितेन मनोरूपेन्द्रियेणैव पुमान् स्त्रियं प्रत्यभिहार्यते नीयते ह । तस्यां स्त्रियां प्रतिरूपोऽनुरूपः पुत्रो जायते । स जातः पुत्रः आनन्दः आनन्दहेतुः । एवं यदधिष्ठित मनोव्यापारेण जातः पुत्रः सुखहेतुः स आनन्दरूपः परमात्मा सुखहेतुरिति किमु वक्तव्यमित्यर्थः । एनमुपासकं मनोनामकं मनःस्थं ब्रह्म न जहातीत्यर्थः ॥ ६ ॥

विदग्धो नामतः शकलस्यापत्यं शाकल्यः हृदयं हृदयनामकं वै ब्रह्मेत्यब्रवीत् अहृदयस्य हृदयनामकभगवद्रूपशून्यस्य किं स्यात् । जीवस्य सुत्याद्यसम्भवादिति भावः । हृदयमेव प्रसिद्धं हृदयमेव । आयतनं स्थितिः स्थितिहेतुः । स्थितता स्थितिहेतुता । उत्तरमाह - हृदयमेवेति || हृदयमेव हृदयगतं हृदयनामकं हृदये सर्वत्र व्याप्तं प्रादेशपरिमितं हृत्कर्णिकामूलगतं अङ्गुष्ठाग्रप्रमाणकं हृत्कर्णिकाग्रगतं अङ्गुष्ठमात्रपरिमितं चेति भगवद्रूपत्रयमेव स्थितिहेतुरित्यर्थः । आद्यस्य हृदयनामकस्य स्थितिहेतुत्वमुपपादयति- हृदयं वा ॥ सम्राट् हृदयं वै हृद्गतं हृदयनामकं हृदये सर्वशो व्याप्तं प्रादेशपरिमितं भगवद्रूपं सर्वेषां भूतानामायतनं स्थानं वै प्रसिद्धमित्यर्थः । द्वितीयतृतीयरूपयोः स्थितिहेतुत्वमुपपादयतिहृदयं वा इति ॥ हृदयं हृदयनामकं हृद्द्भतं कर्णिकामूलगतं हृत्कर्णिकाग्रगतं विष्णुरूपं सर्वेषां भूतानां प्रतिष्ठा धारकं सर्वदा सुप्तौ चैवेति शेषः । तदुपपादयति- हृदये ह्येवेति ॥ हृदयनामके हृत्कर्णिकामूलगते विष्णुरूपे एव सर्वाणि भूतानि सदा प्रतिष्ठितानि भवन्तीत्यर्थः । तथा हृदयनामके हृत्कर्णिकाग्रगते विष्णुरूपे सर्वाणि भूतानि विशेषतोऽपि सुप्तौ प्रतिष्ठितानि भवन्तीत्यर्थः । एनमुपासकं हृदयस्थं हृदयनामकं भगवद्रूपं न जहातीत्यर्थः ।। ७ ॥ इति षडाचार्यब्राह्मणम् ॥ १ ||