त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां ..
अथ त्रयब्राह्मणम्
[ भारतीप्राणरुद्रैः कृता प्रपञ्चसृष्टि: ]
उपनिषत्
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषां सामेतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥
अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रयं सदेकमयमात्माऽऽत्मैकः सन्नेतत्त्रयं तदेतदमृतं सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३ ॥
इति त्राह्मणम्
।। इति बृहदारण्यके तृतीयोऽध्यायः ॥
भाष्यम्
सहैव माति जानातीति समम् । आत्मा प्राणः । नामरूपयोरपि प्राणाधीन- त्वादेकमित्युच्यते।
'प्राणो वायुरिति प्रोक्तस्तत्पत्नी नाम भारती ।
रूपं तु तत्सुतो रुद्रो वशे प्राणस्य तद्द्वयम् ॥
अमृतो वायुरुद्दिष्टो नित्यज्ञानात्मकत्वतः ।
सत्यं यथार्थवक्तृत्वाद् भारती रुद्र एव च ॥' इति ॥
रुद्रे वेदेषु च प्राणः प्रविष्टश्छादितः सदा ।
सत्य इत्युच्यते नित्यं स्वरूपेणामृतः स्मृतः ॥ इति च ॥ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये तृतीयोध्यायः ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
प्राणस्यैव रुद्रभारत्युत्तमत्वरूपं महिमान्तरमाह - त्र्यं वा इति ब्राह्मणेन ॥ तत्र ‘एतद्धि सर्वैर्नामभिः सम्' इत्यादिवाक्यत्रयं परैरेतद् वाग्रूपशब्दसामान्यं सर्वैः स्वविशेषभूतैः देवदत्तादिनामभिः सममविशेषेणानुस्यूतमिति व्याख्यातम् । तदसत् । वाक्त्वरूपशब्दत्वस्य कथंचिच्छब्दविशेषानुस्यूतत्वेऽपि वागिति सामान्य- शब्दस्य तदनुस्यूतत्वाभावात् । किञ्चैवं सति नामस्विति सप्तमी स्यान्नतु तृतीया । सामान्यशब्दस्य
विशेषशब्दकारणत्वाभावेन ‘अतो हि सर्वाणि नामान्युत्तिष्ठन्ति' इत्यस्यानुपपत्तेश्चेति भावेन खण्डत्रयगतसममित्यस्यार्थमाह-सहैवेति ।। सहेत्यस्य सभावः माङ् मान इत्यत आतोऽनुपसर्गे क इति कप्रत्यये 'आतो लोप इटि च' इत्याकारलोपे मातीति ममित्यर्थः । आत्म-तदित्यात्मशब्देनात्मशब्दवाच्यशरीरनिर्वर्त्यकर्मसामान्यमुच्यत इति व्याख्यान- मसत् । तथात्वे आत्मशब्दस्य लाक्षणिकत्वापत्तेः । सर्वकर्मणां शरीरनिर्वर्त्य- कर्मसामान्यत्वाभावाच्चेति भावेनात्मशब्दार्थमाह- आत्मा प्राण इति ॥ आत्मशब्दोक्तमेव तदेतदमृतमिति तदेतच्छब्देन परामृश्य प्राणो वा अमृतमिति तद्व्याख्यानादिति भावः । तदेतत्त्रयं सदेकमयमात्मेति वाक् चक्षुरात्मनामभेद उच्यत इति प्रतीतिनिरासाय व्याचष्टे – नामरूपयोरपीति । अत्र नामरूपशब्दाभ्यां वाक्चक्षुषोर्ग्रहणं प्राणशब्दस्येन्द्रियादिपरत्वमपाकुर्वन् वाक्चक्षुःशब्दार्थौ वदन्नामरूपयोरपीत्युक्तार्थे प्रमाणमाह - प्राण इति । तत्पत्नी भारती नामेति वागिति प्रोक्ता । तत्सुतो रुद्रो रूपमिति चक्षुरिति प्रोत इत्यर्थः । प्राणो वा अमृतमिति वाक्यं व्याचष्टे - अमृत इति || नामरूपे सत्यमित्ये तद् व्याचष्टे— सत्यमिति ।। यथार्थवक्तृत्वा- देवेति सम्बन्धः । ननु वायोरेव सर्वाच्छादकत्वात्कथं ताभ्यामयं प्राणः छन्न इत्युक्तमित्यतस्तद् व्याचष्टे– रुद्र इति । यतः सत्ये रुद्रे सत्येषु वेदेषु तदभिमानिभारत्यां च सदा प्रविष्टः प्राणः तस्मात्सत्येनाच्छादित इत्युच्यत इत्यर्थः । ननु नित्यज्ञानात्मकत्वं सर्व- साधारणमिति कथं वायोरमृतत्वे तन्निमित्तमित्यत आह- नित्यमिति ॥ यतः स्वरूपेणाविर्भूतस्वरूपज्ञानेन नित्यं स्थितोऽतो वायुरमृत इति सम्बन्धः । आविर्भूतज्ञानतिरोभावो नास्तीति भावः । यथोक्तं ‘अतिरोहितविज्ञानाद्वायुरप्यमृतः स्मृतः' इति ॥
खण्डार्थः
सरस्वतीरुद्राभ्यां वायोरुत्तमत्वं वक्तुं तदभिमन्यमानं जगत्तावद् विभजति- त्रयमिति || इदं जगत् त्रयं वै त्रिविधम् । त्रैविध्यमेव दर्शयति-- नामरूपं कर्मेति ॥ इतिशब्दोऽध्याहार्यः । नामाभिमानिस्वरूपमाह - तेषामिति ॥ तेषां नामरूपकर्मणां मध्ये नाम्नां वाग् भारतीत्येतद्दैवतम् । तन्महिमानमाह- एतदिति ।। एषां नाम्नां वागित्येतदुक्थमुत्थापकम् । कुतः ? हि यस्मादतो वाचो भारत्याः सर्वाणि नामानि उत्तिष्ठन्ति उत्पद्यन्ते । वाचो महिमान्तरमाह- एतदिति । वागित्येतदेषां नाम्नां साम । कुतः । हि यस्मादेतद्वागित्येतत् सर्वैर्नामभिः शब्दैः सहैव रूपाणि कर्माणि च माति जानातीति च समम् । महिमान्तरमाह - एतदिति । वागित्येतद् एषां नाम्नां ब्रह्म । कुतः । हि यस्मात् वागित्येतत्सर्वाणि नामानि बिभर्ति ॥ १ ॥
रूपाभिमानिस्वरूपं दर्शयंस्तन्महिमानमाह-- अथेति । अथ नामाभिमानि- स्वरूपनिरूपणानन्तरम् । रूपाभिमानिस्वरूपमुच्यत इति शेषः । रूपाणां चक्षुश्चक्षुर्नामको रुद्र इत्येतद्दैवतं इतरत्पूर्ववत् । सर्वैः रूपैः सहैव नामानि कर्माणि च माति जनातीति समममित्यर्थः ॥ २ ॥
कर्माभिमानिस्वरूपं निरूपयंस्तन्महिमानमाह- अथेति || कर्मणामात्मा प्राण इत्येतद्दैवतं एतदेषामित्यादि पूर्ववत् । सर्वैः कर्मभिः सहैव नामानि रूपाणि च माति जानातीति सममित्यर्थः । भारतीरुद्रवायूनां नामादित्रितयाभिज्ञ- त्वोत्त्या साम्यशङ्कां वारयति - तदेतदिति । तदेतद्वागादित्रयं सदेकं द्वयोरेकाधीनत्वाद् एकमित्यर्थः । किं तदेकं यदधीनं द्वयमित्यत आह- अयमात्मेति ।। तथाच वाक् चक्षुषोरात्माधीनत्वमिति भावः । तदुपपादयति- आत्मेति || आत्मा प्राणः एको मुख्य: सन् एतत्त्रयं वागादित्रयमुच्यत इत्यर्थः । नन्वात्मनः श्रेष्ठत्वं वाक् चक्षुषोर श्रेष्ठत्वं च कथमित्यत आह— तदेतदिति । तदेतदमृतमित्येतद् व्याचष्टे - प्राणो वा इति । प्राणो वायुरमृतमतिरोहितविज्ञानादित्यर्थः । सत्येनेत्युक्तसत्यशब्दार्थमाह- नामरूपे इति । वाक्चक्षुषी इत्यर्थः । इदानीं वाक्यार्थमाह— ताभ्यामिति ।। ताभ्यां वाक्चक्षुर्भ्यां सरस्वतीरुद्राभ्याम् अयममृतः प्राणः छन्नः तयोर्नियामकत्वेन प्रविष्टत्वादित्यर्थः ॥ ३ ॥
इति त्रयब्राह्मणम्
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्बृहदारण्यकभाष्यटीकायां
श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृतायां तृतीयोऽध्यायः