त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा ..

बृहदारण्यकोपनिषद्भाष्यम्

द्वितीयं ब्राह्मणम्

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं, देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्ठा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २ ॥

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दयध्वमिति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ ३ ॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये द्वितीयं ब्राह्मणम् ॥

॥ इति बृहद्भाष्ये द्वितीयं ब्राह्मणम् ॥ २ ॥

ज्ञानदानं तु देवानां फलदानं तु कर्मणाम् । विष्णुना विहितं पूर्वं पुनर्देवनरासुराः ॥ ब्रह्माणमपि पप्रच्छुर्देवानां सद्गुणोच्छ्रितेः । अनहंकारमात्रं तु ब्रह्मणा विहितं सदा ॥ सर्वोच्चमोक्षसम्प्राप्त्यै नराणां ज्ञानसाधनम् ॥ देवादीनां दानमेव हविरादेः प्रकीर्तितम् । तमःप्राप्तिविलम्बाय दैत्यानां विहिता दया ॥ इति प्रवृत्ते ॥