देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति
[उत्क्रमणद्वाराणि]
भाष्यम्
देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति ।
सतु तद्देवताद्वारेणोत्क्रामति न संशयः ।।
विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु ।
तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः । इत्यध्यात्मे ॥
सविज्ञानो भवति । जीवेन सहितो भवति ।
स विज्ञानं जीवमेवान्ववक्रामति ।
जीवमारुह्य गच्छति भगवान् प्राज्ञेनात्मनाऽन्वारूढ इति ह्युक्तम् ।
'यो विज्ञाने तिष्ठन्य आत्मनि तिष्ठन्' इत्युभयोर्जीवाभिप्रायेण हि पाठः ।
‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते' इति भगवद्वचनम्।
'विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र' इति च ।
भावबोधटिप्पणी
ननु हृदयाग्रप्रद्योतनप्रकाशितद्वारेण गच्छन् ज्ञानी मूर्ध्न एव गच्छतीति प्रतीयते निर्भिद्य मूर्धन् व्यसृजेत्परङ्गत इति वचनात् । अतश्चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्य इत्युक्तिः कथमित्यत आह- देवलोक इति । यद्देवलोक इत्यर्थः । तद्देवताद्वारेण तदेवताभिमतचक्षुरादिद्वारेण । ब्रह्मणश्चतुर्मुखस्य लोकं गच्छन्नपि तथैव मूर्ध्न एवोत्क्रामेत् तर्ह्यनयोः को विशेष इत्यत आह- सुषुम्नायाविभेद इति || विष्णुलोकं गच्छन् सुषुम्नया मूर्धानं गत्वोत्क्रामेत् ब्रह्मलोकं गच्छंस्तु सुषुम्नाप्रभेदेन मूर्धानं गत्वोत्क्रामतीति तयोर्विशेष इत्यर्थः । स विज्ञानो भवतीत्यस्य स परमात्मा विज्ञानो भवतीत्यर्थप्रतीतिनिरासाय तदनूद्य व्याचष्टे – स विज्ञान इति || नन्वेवं स विज्ञानमेवान्ववक्रामतीत्यस्य जीवसहितं भगवन्तमन्वक्रामतीत्यर्थः स्यात् नचासौ युक्तः । जीवसहितभगवन्तं प्रतिगन्तुरभावादित्यतस्तद् वाक्यं यथावद् व्याचष्टे - स इति ॥ ननु जीवः पूर्वमेव भगवन्तं प्राप्तोऽस्त्येव । बल्यं न्येतीत्युक्तत्वात् तथाच स भगवान् जीवमन्ववक्रामतीति कथमुच्यत इत्यतस्तदभिप्रायमाह - जीवमिति । भगवान् जीवमारुह्य गच्छतीत्यत्र प्रमाणमाह- प्राज्ञेनेति । नन्वत्र विज्ञानशब्दो जीवपरः कुत इति चेत् यो विज्ञाने तिष्ठन्नित्यन्तर्यामिब्राह्मणे माध्यन्दिनशाखिनां आत्मशब्दस्य जीवाभिप्रायेण पाठात् । तत्समाख्ययात्रापि विज्ञानशब्दस्य जीवपरत्वोपपत्तेरिति भावेनाह - य इति ।। उभयोः काण्वमाध्यन्दिनशाखिनो- र्विज्ञानात्मशब्दयोः जीवाभिप्रायेण पाठ इत्यत्र नियामकं सूत्रं पठति- शारीरश्चेति ।। नच स्मार्तमिति पूर्वसूत्रान्नञोऽनुकर्षणार्थश्वशब्दः । शारीरो जीवश्च नान्तर्यामी कुतः यतः उभयेऽपि काण्वमाध्यन्दिनाश्च यो विज्ञाने तिष्ठन्निति य आत्मनि तिष्ठन्निति एनं जीवमन्तर्यामिणो भेदेनाधीयत इति भगवद्वचनेन विज्ञानात्मशब्दयोर्जीवपरत्वोक्तेस्तयोर्जीवाभिप्रायेण पाठ इति सिद्धमित्यर्थः। विज्ञानशब्दस्य जीववाचित्वे स्पष्टं च प्रमाणमाह - विज्ञानात्मेति ॥ तदेतदक्षरं वेदते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति वाक्यशेषः । विज्ञानात्मा विज्ञानस्वरूपो जीवः प्राणाश्चक्षुरादयः भूतानि पृथिव्यादीनि सर्वैर्देवैरभिमानिभिः सूर्याद्यैस्सह यत्र यस्मिन्नक्षरे सम्प्रतिष्ठति तदेतदक्षरं वेदते विजानाति यः पुरुषः स सर्वज्ञः सर्वं परब्रह्माविवेशैव ध्रुवमाविशत्येवेत्यर्थः । नचात्र विज्ञानात्मशब्दो ब्रह्मपरः यत्र सम्प्रतिष्ठन्तीत्युक्तिविरोधात् । किञ्च षट्प्रश्नोपनिषदि पूर्वोक्तार्थे ह्ययं मन्त्र उदाह्रियते पूवोक्तश्चार्थो जीवस्य विज्ञानरूपत्वं सुषुप्तौ कस्य सुखं भवतीति पृष्टे शरीरे सुखं भवतीत्युक्तत्वात् शरीरशब्दस्य ज्ञानात्मकत्वेन भगवत्सादृश्ययुक्तजीवपरत्वात् । यथोक्तं 'सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत्' इति ।।