तद्यथाsस्मिन्नाकाशे श्येनो वा सुपर्णो वा ..
[ सुषुप्तिमुत्तयोः न दुःखम् ]
उपनिषत्
तद्यथाsस्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सल्लयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कश्चन स्वप्नं पश्यति ॥ १९ ॥
भाष्यम्
यं विष्णुं श्येनवच्छ्रान्तो जीवो जागरिते भ्रमन् ।
स्वप्रे च सुप्तावभ्येति संश्रान्तः सद्गृहं यथा ।
स्वित्यानन्दः परो विष्णुस्तमाप्तः सुप्त उच्यते ।
सम्प्राप्य तमयं जीवः कामयेनैव किञ्चन ।
नच स्वप्नसमभ्रान्तिज्ञानं याति कदाचन ।
सुषुप्तौ च किमु ज्ञानान्मुक्तौ प्राप्तो जनार्दनम् ।
भावबोधटिप्पणी
तद्यथास्मिन्नाकाशे श्येन इति खण्डं व्याचष्टे - यमिति । यथा श्येन आकाशे विपरिपतनेन श्रान्तस्सन् गृहं श्रमनिवारकं स्वनीडमभ्येति । तथा जीवो जागरिते स्वप्ने च भ्रमन् श्रान्तः सुप्तौ यं विष्णुमभ्येतीति सम्बन्धः | यमिति यच्छब्दस्य तमयमित्युत्तरत्र तच्छब्देनान्वयः । यत्र सुप्त इति सुप्तशब्दार्थमाह- स्वितीति || आनन्दः आनन्दरूपः स्वित्युच्यत इति सम्बन्धः । सुशब्दस्य सुखवाचकत्वात् । ' यत्र सुप्तो न कञ्चन कामं कामयते' इत्यादि वाक्यं व्याचष्टे - सम्प्राप्येति । न कञ्चन स्वप्नं पश्यती- त्यस्यार्थः ॥ नचेति ॥ यत्रेत्यस्यार्थो सुषुप्ताविति चशब्दोऽपिशब्दार्थः । सुषुप्तावपि तं सम्प्राप्येत्यन्वयः । यत्र सुप्तो न कञ्चन कामं कामयत इत्यादिवाक्यं मुक्तिपरत्वेनापि व्याचष्टे - किम्बिति । यत्रेत्यस्यार्थो मुक्ता- विति । सुप्त इत्यस्यार्थो जनार्दनं प्राप्त इति । कामयेन्नैवेत्यादिकमत्राप्य- नुवर्तते । कैमुत्यस्फोरणाय ज्ञानात्प्राप्त इत्युक्तम् । सुप्तौ त्वज्ञानादेवेति ॥ १९ ॥