तस्य प्राची दिक् प्राञ्चः प्राणाः..
[सर्वे सुराः इन्द्रस्य सेवका एव]
उपनिषत्
तस्य प्राची दिक् प्राञ्चः प्राणाः दक्षिणा दिक् दक्षिणाः प्राणाः प्रतीची दिक् प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अर्वाची दिगर्वाञ्चः प्राणाः सर्वाः दिशः सर्वे प्राणाः स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यते अशीर्यो न हि शीर्यते असंगो न हि सज्यते असितो न व्यथते न रिष्यत्यभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः स होवाच जनको ह वैदेहोऽभयं त्वागच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे नमस्तेऽस्त्विमे विदेहा अयमहमस्मि ॥ ४ ॥
इति कूर्चब्राह्मणम् ॥ २ ॥
भाष्यम्
तस्य पूर्वदिशीन्द्राग्नी सभार्यौ सम्प्रतिष्ठितौ ॥
यमराक्षसौ दक्षिणस्यां वरुणो वायुरेव च ।
पश्चिमस्यामुत्तरस्यां सोमेशानौ प्रतिष्ठितौ ।
ब्रह्मा प्रधानवायुश्च तथोर्ध्वायां दिशि स्थितौ ।
अधरायां शेषकामौ सभार्याः सर्व एव च ।
एकैकस्यां हि चत्वारो नेतृत्वात् प्राणनामकाः ।
इन्द्रियाभिमते चैव प्राणा इत्येव शब्दिताः ।
त्वत्प्रसादाद् यदभयमस्माकं प्राप्तं तदेव तव तृप्तयेऽस्तु नान्यद् वयं प्रत्युपकर्तुं शक्नुम इत्यर्थः । ‘स भगवान् स्वकृतेन तुप्येत्' इतिवत् । इन्धो दीप्तः । जीवभोगस्य भोक्तेशो जीवस्तद्भोगभुङ् नतु ।
विविक्तभुगिवातोऽसौ भगवान् पुरुषोत्तमः । इति पाद्मे ॥ इति ब्राह्मणम् ॥ २ ॥
भावबोधटिप्पणी
तस्य प्राची दिक् प्राञ्चः प्राणा इत्यादि वाक्यं प्राच्यादिदिशां तत्तत्प्राणानां चाभेद उच्यत इति प्रतीतिनिरासाय व्याचष्टे - तस्येति । सभार्याविन्द्राग्नी इत्यनेन प्राञ्चः प्राणा इति बहुवचनोपपत्तिर्दर्शिता । अग्निराक्षसवाय्वीशानाः कोणपाः । सभार्यावित्यस्योत्तरत्रापि सम्बन्धः । तेन तत्रापि बहुवचनोपपत्तिः । सर्वा दिशः सर्वे प्राणा इति वाक्यं व्याचष्टे - सभार्या इति । चशब्दोऽपिशब्दार्थः । सर्वेऽपीन्द्राद्यास्सभार्याः एकैकस्यां दिशि चत्वार एवेति सम्बन्धः । यद्येवं तर्हि कथं श्रुतौ प्राणशब्दप्रयोग इत्यत आह- नेतृत्वादिति || प्राणशब्दस्य तेषु योगमुक्त्वा रूढिमप्याह - इन्द्रियेति ॥ इन्द्रियाणां च प्राणशब्दवाच्यत्वादिति भावः । यो यदभिमानी स तच्छब्दवाच्य इत्येतत्प्रसिद्धमिति द्योतनायाद्य एवशब्दः । प्राणा इत्येव शब्दिताः प्राणशब्दरूढिविषया एवेत्यर्थः । अभयं त्वागच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयस इत्यस्यैकवाक्यतासिद्धये यत्तच्छब्दाध्याहारेण वाक्यं योजयति - त्वत्प्रसादादिति || नन्वात्मारामस्य मुनेरभयनामा भगवांस्तृप्तिहेतुरिति सिद्धमेव तत्किमनेनोच्यत इत्यतस्तत्तात्पर्यमाह– नान्यदिति || अत्र दृष्टान्तमाह - स इति । इति वचनस्य यथा नित्यतृप्तस्य भगवतः प्रत्युपकाराभाव एव तात्पर्यं तथाऽत्रापीत्यर्थः । इन्ध इत्यस्य स्थूलार्थभोक्तृत्वेन सदा स्फुरणादिति व्याख्यानमसत् । तन्मते भोक्तुर्विशिष्टस्य प्राप्यत्वायोगात् प्राप्यस्य च भोक्तृत्वाभावादिति भावेनेन्धशब्दार्थमाह- इन्ध इति । ननु जीवभोग्यस्येशभोग्यत्वाभावादीशभोग्यस्य च जीवभोग्यत्वाभावेनेशस्य प्रविविक्ताहारतरत्वमेव वक्तव्यं अतः कथमिवशब्दप्रयोग इत्यत आह- जीवभोगस्येति ।। भोगस्य भोग्यस्य तद्भोग्यभुगित्यर्थः । गन्धादिषु जीवेन्द्रियागोचरः सारभागस्तस्यापि परमात्मभोग्यत्वादिति भावः । यद्वा ‘श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते' (भ.गी. १५.९) इतीशस्य जीवभोग्यविषयभोगोक्तेः कथं शरीरात् प्रविविक्ताऽ- हारतरत्वमित्यत आह— जीवेति । यद्यपि जीवभोग्यस्येशो भोक्ता तथापि जीवस्तद्भोग्यभोक्ता नैव भवति गन्धादिगोचरसारभागस्यापीशभोग्यत्वात् । अतोऽसौ विविक्तभुगित्युच्यत इत्यर्थः । अवतारेषु स्थूलमपि भुङ्ग इतीवशब्दः । अनेन प्रविविक्ताहारतरोऽयं जीव एवेति परास्तम् । शारीरादात्मन इति भेदाभिधानात् । नहि जीवो जीवादेव विलक्षणाहार इति युज्यते । ननु शारीराज्जागरावस्थाज्जीवात् स्वप्नसुषुप्त्यवस्थः स एव प्रविविक्ताहारतर इत्यवस्थाभेदोपाधिकं जीवस्य भेदमङ्गीकृत्य व्याख्यास्यामीति चेन्न । 'शारीरस्तु त्रिधा भिन्नो जाग्रदादिष्ववस्थिते:' इति वचनात् त्र्यवस्थस्यापि शारीरशब्देन गृहीतत्वात्ततः स्वप्नसुषुप्त्यस्थस्य भेदायोगात् । नन्वस्तु व्यवस्थोऽपि शारीरः तथाप्यस्मादिति विशेषणेनात्र शारीरादिति जागरावस्थो जीवो गृह्यते तस्माच्च स्वप्नाद्यवस्थस्य भेदोक्तिरुक्तविधया सम्भवति । भवत्पक्षे शारीरादिति जीवे सिद्धे अस्मादिति विशेषणं व्यर्थं स्यादिति चेन्न । एतद्विशेषणसार्थक्यायेश्वरं परित्यज्य जीवस्य ग्राह्यत्वात् । ' शारीरौ तावुभौ ज्ञेयौ जीवश्वेश्वरसञ्ज्ञितः' इति ईश्वरस्यापि शारीरत्ववचनात् शारीरादित्येवोक्तावीश्वरस्यापि प्राप्तावीश्वरा- देवेश्वरस्य भेदानुपपत्तेस्तद् व्यावृत्त्यर्थं जीवमात्रपरिग्रहाय विशेषणमिति सार्थक्योपपत्तेः । नन्वेवं पक्षद्वयेऽप्युपपत्तावीश्वर एवात्रोच्यते न जीव इति Maa विनिगमनमिति चेन्न । भेदश्रुतेः स्वाभाविकभेदरूपे गत्यन्तरे सम्भवति पुरुषभेद एवार्थतया ग्राह्यः नत्ववस्थाभेदः मुख्यामुख्ययोः मुख्ये सम्प्रत्ययात् । अतो युक्तं विनिगमनम् । दूषयिष्यते चायं भेदः । आह च ' प्रविविक्तभुग्यतो ह्यस्माच्छरारीत्पुरुषोत्तमः' इति ॥ ४ ॥
खण्डार्थः
जनको ह वैदेहः स्वयोग्यं ज्ञानं श्रोतुं कूर्चात् सिंहासनादवरुह्योपावसर्पन् गुरूपसदनं कुर्वन् कृत्वेति यावत् उवाच । हे याज्ञवल्क्य ते नमोऽस्तु मा मां अनुशाधि मोक्षानुकूल्येन शिक्षय । एवमुक्तो याज्ञवल्क्य इतरसाधन- सामग्रीसम्पत्तिमतोऽपि यत्स्वात्मना मुक्तौ प्राप्यं तदुपासनयैव मुक्तिर्भवतीति भावेनेतरसाम्ग्र्यनुवादपूर्वकं प्राप्यं पृच्छति स होवाचेत्यादिना || हे सम्राट् यथा कश्चित् त्वादृशः सम्राट् राजा महान्तमध्वानं मार्गं स्थले जले वैष्यन्यथाक्रमं रथं नावं वा समाददीत । एवं त्वमेताभिः पूर्वोक्ताभिः वाग्वै ब्रह्मेत्यादिभिरुपनिषद्भिः समाहितात्मा स्वस्थमना असि । अनेनान्तःकरणशुद्धिरुक्ता । वैराग्यं सूचयन् बिशेषणान्तरमाह– एवमिति । एवं दृश्यमानप्रकारेण वृन्दारकः भृत्यादिवृन्दैः प्राप्यतमः आढ्यः धनी सन्नपि अधीतवेदः उक्तोपनिषत्कः व्याख्यातोपनिषत्कस्त्वमितः संसाराद् विमुच्यमानः क्व गमिष्यसीति । अहं यत्र गमिष्यामीति तत्प्रमेयं न वेदेति राज्ञोक्ते मुनिराह - अथेति । त्वं यत्र गमिष्यसि तत्प्राप्यमहं ते तव वक्ष्यामीति । एवमुक्तः स राजोवाच ब्रवीतु भगवानिति ॥ १ ॥
मुनिरुपदिशति – इन्ध इति ॥ योऽयं प्रसिद्धः सर्वेषां दक्षिणेऽक्षन् दक्षिणेऽक्षिणि विद्यमानः पुरुषो दीप्तत्वादिन्धो वै नाम एष मुक्तौ राजभिः प्राप्यः अतस्स एव तद्वृदिस्थः उपास्यः तं राजहृदयान्तःस्थमेनं दक्षिणाक्षिस्थमिन्ध- मिन्धनामानं सन्तमिन्द्र इति परोक्षेणाप्रसिद्धेन नाम्नाऽऽचक्षते देवाः । कुत एवमाचक्षत इत्यत आह- परोक्षप्रिया इति । हि यस्माद्देवाः परोक्षप्रियाः अप्रसिद्धनाम्ना भगवदुपदेशप्रियाः प्रत्यक्षद्विषः प्रत्यक्षनाम्ना भगवदुपदेशद्वेषिणः प्रत्यक्षोपदेशेऽसुराणामपि सम्यग्दर्शनापत्तेः । असम्यग्दर्शनेन तत्पतनस्यैव- देवानां प्रियत्वात् । क्वचिद्योग्येष्वपरोक्षोपदेशेनापि प्रीतिमत्त्वात् परोक्षप्रिया इवेतीवशब्दः ॥ २ ॥
दक्षिणाक्षिस्थभगवद्रूपमहिमानमाह- अथेति । अथशब्दो माहात्म्योक्ति- प्रारम्भार्थः । एतद्दक्षिणाक्षिस्थितमेव पुरुषरूपं वामेऽक्षिणि स्थितं एषा प्रसिद्धा विराण्णाम्नी श्रीः अस्याक्षिस्थपरमात्मनः पत्नी । यद्वा, यदेतत् प्रसिद्धं वामेऽक्षिणि विद्यमानं पुरुषरूपं पुरुषप्रतिमा एषा विराट् विराणाम्नी श्रीः अस्य दक्षिणाक्षिस्थपरमात्मनः पत्नी । एषः तयोरिन्द्रविराजोः संस्तावः सर्ववेदात्मिका स्तुतिः । कः योऽन्तर्हृदये प्राणेन क्रियमाण आकाश आसम्यक् सर्वजीवानां काशमानः । कर्णपिधाने घोषात्मकतया श्रूयमाण एष इत्यर्थः ।अथ य एष प्रसिद्धोऽन्तर्हृदयेऽन्तः स्थितो लोहितपिण्डो हत्कमलरूप एतदेनयोः पूर्वोक्तयोरन्नं तत्र स्थित्वा ताभ्यामन्नादनात् । अथ यदेतत्प्रसिद्धं हृदयेऽन्त- र्जालकमिव स्रगिव वर्तमानं वपारूपमेतदेनयोः पूर्वोक्तयोः प्रावरणम् । अथ यैषा प्रसिद्धा हृदयादूर्ध्वोपरि वर्तमाना नाडी उच्चरति मस्तकपर्यन्तं उद्गच्छति एषा तयोः पूर्वोक्तयोः सञ्चरणी सञ्चरणहेतुभूता सृतिर्मार्गः । हृत्कमललोहित- पिण्डस्थितः किं भुङ्क्ते इत्यतः तस्याहारं वक्तुमाह- यथेति । यथा केशः सहस्रधा भिन्नः एवमेताः प्रसिद्धा हिता नाम जीवस्य हितकारित्वात् परमात्मस्वरूपविशेषसन्निहितत्वाद् वा हिता नाम नाड्यः सहस्रधा भिन्नाः अस्य जीवस्य हृदयेऽन्तः प्रतिष्ठिता भवन्ति । एताभिः हितानामकनाडीभिरेत- ज्जीवमुक्तेऽने जीवेन्द्रियागोचरं गन्धादिसारभूतं आस्रवत् क्रमेण स्यन्दमानं आमा स्रवति आगच्छति । तद्भुङ्क्ते परमात्मेत्यर्थः । तस्मात्तददनात् एष परमात्मा अस्माच्छारीरादात्मनो जीवात् प्रविविक्ताहारतर अतिशयेन विलक्षणभोग एव भवति । अवतारेषु स्थूलमपि भुङ्क इतीवशब्दः । जीवभोग्यस्येशभोग्यत्वेऽपि ईशभोग्यस्य जीवभोग्यत्वाभावाद् वा इवशब्द: ।। ३ ।।
तस्य परमात्मनः सर्वत्रावस्थितान् सेवकानाह - तस्येत्यादिना || प्राञ्चः प्राचीदिगवस्थिताः प्राणा नेतृत्वात्प्राणनामका इन्द्रियाभिमानिनो वा । इन्द्राग्नी तद्भार्ये चेति चत्वारः । तस्य परमात्मनः प्राची दिकू प्राच्यां दिशि प्रतिष्ठिताः । अत्र दिक्चतुष्टयविवक्षयाऽग्नेय्या अपि दिशः प्राची दिगन्तर्भावेण सभार्यस्याग्नेः प्राक्त्वोक्तिः । एवमुत्तरत्रापि । दक्षिणाः प्राणाः दक्षिणदिगवस्था यमनिर्ऋती तद्भार्ये चेति चत्वारस्तस्य दक्षिणादिक्स्थाः । प्रत्यञ्चः प्रतीचीदिक्स्थाः प्राणा वरुणवायू तद्भार्ये चेति चत्वारस्तस्य प्रतीचीदिक्स्थाः । उदञ्चः प्राणाः उत्तरदिक्स्थाः सोमेशानौ तद्भार्ये चेति चत्वारः तस्य उदीचीदिक्स्थाः । ऊर्ध्वा ऊर्ध्वदिगवस्थिताः प्राणाश्चतुर्मुखप्रधानवायू तद्भार्ये चेति चत्वारस्तस्यो- र्ध्वदिगवस्थिताः । अर्वाञ्चः अधो दिगवस्थिताः प्राणाः शेषकामौ तद्भार्ये चेति चत्वारस्तस्यार्वाचीदिगवस्थिताः । एवं सर्वे प्राणाः सभार्या इन्द्राद्याः सर्वा दिशः परमात्मनः परितः सर्वासु दिक्षु प्रतिष्ठिताः । स एष इत्याद्युक्तार्थम् । हे जनक त्वमभयं मुक्तस्य सर्वदाऽभयप्रदं ' अथाभयं भवेद् ब्रह्म तस्य मुक्तस्य सर्वदा' इति वचनात् । प्राप्तोऽसीति होवाच याज्ञवल्क्यः । जनकस्य निश्चितमोक्षत्वात्प्राप्तोऽसीत्युक्तम् । 'एष्यत्तु निश्चितं यत्स्यादतीतत्वेन भण्यते' इति वचनात् । स जनको ह वैदेह उवाच । हे भगवन् याज्ञवल्क्य यस्त्वं प्रसन्नः सन् नः अस्मान् यदभयं परमात्मरूपं वेदयसे प्रापयसि तं त्वां तदेवाभयं गच्छतात् तत् तब तृप्तिहेतुरस्तु नान्यद् वयं प्रत्युपकर्तुं शक्नुम इति यावत् । तत्तुभ्यं नमोऽस्तु । अन्यत्किं देयं इमे मदीयत्वेन प्रसिद्धविदेहदेशास्तव यथेष्टं भोगाय सन्तु । अयं त्वयोपदिष्टोऽहं तव दासोऽस्मि । मां राज्यं च यथेष्टं प्रतिपद्यस्वेत्यर्थः ।। ४ ।। इति कूर्चब्राह्मणम् ॥ २ ॥