एतद्वै परमं तपो यद् व्याधितस्तप्यते परमं ..
[रोगजन्यदुःखम्, शबदाहादिकं च परमं तपः]
उपनिषत्
एतद्वै परमं तपो यद् व्याधितस्तप्यते परमं हैव स लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव स लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव स लोकं जयति य एवं वेद ॥
इति त्रयोदशं ब्राह्मणम्
भाष्यम्
व्याधीञ्छवहतिं चैव शवदाहादिकं तथा ।
विष्णवे तप इत्येव चिन्तयन्याति तत्परम् ॥ इति च ॥
अक्लेशितोऽपि क्लेशादीनतीतैष्यानपीह यः ।
विष्णवे तप इत्येव प्रार्पयेत्स परं व्रजेत् ॥
विष्णोः स्वरूपवेत्ता चेदन्यथा न कथञ्चन ।
यथा स्वरूपवेत्तुः स्यादेकैकाऽपि ह्युपासना ॥
मोक्षाय सहिताः सर्वा अप्यज्ञस्य नतु कचित् ।
यथावत्केशवं ज्ञात्वा स्वयोग्यैकामुपासनाम् ॥
अपि कृत्वा हरिं दृष्ट्वा मुच्यते नात्र संशयः ॥
इति ब्रह्मतर्के ॥
भावबोधटिप्पणी
ननु व्याध्यादिग्रस्तस्य मोक्षसाधनानुष्ठानासम्भवात्कथं तस्योक्तो मार्ग इत्यतो व्याध्यादिकमपि तपोरूपत्वान्मोक्षसाधनमेवेत्याह-- एतद्वा इति ब्राह्मणेन ।। तत्र सर्वेषामपि व्याधिशवहृतिशबदाहानामेव परमतपस्त्वमुच्यत इति प्रतीतिनिरासाय ब्राह्मणं प्रमाणेन व्याचष्टे - व्याधीनिति ॥ ननु व्याधिर्विष्णवे तप इति चिन्तयितुं शक्यते न शवतिशवदाहौ तदा स्वस्य मृतत्वादित्यत आह- अक्लेशितोऽपीति ।। न व्याध्यादिप्राप्तावेव तस्य विष्णुं प्रति तपस्त्वचिन्तनं किन्तु अतीतानागतमपि व्याध्यादिकं विष्णुं प्रति तप इति चिन्तनीयमिति भावः । ननूक्तप्रार्थनस्यैव परप्राप्तिरूपमोक्षसाधनत्वे 'ब्रह्मविदाप्नोति परम्' इत्यादिवाक्यविरोध इत्यत आह- विष्णोरिति ॥ ननु विष्णुस्वरूपज्ञानिनो यद्वयाधितस्तप्यत इत्युक्तमुपासनात्रयं पूर्णमद इत्युक्तोपासना वा मिलित्वैव मोक्षसाधनं उतैकापीति जिज्ञासायामाह - यथेति । अपिशब्देन किमु मिलिता इति कैमुत्यमभिप्रैति । ननु यथावद्विष्णुज्ञानिन एकैकाप्युपासना यदि मोक्षसाधनं तर्ह्यज्ञस्य सर्वा अपि मिलिता मोक्षसाधनं भवेयुरित्यत आह- सहिता इति ॥ कचित्कदाचित् मोक्षाय न स्युः किं तत् मोक्षायेत्यत उक्तमुपसंहरति-- यथावदिति । तस्मादिति शेषः । यद्वा विष्णुस्वरूपवेत्तुः एकैकोपासना किं साक्षान्मोक्षाय भवति नेत्याह-- यथावदिति ॥ १३ ॥
खण्डार्थः
एतद्वै परमं तपः किं यद्वयाधितस्तप्यते व्याधिस्तपो विष्णवे तप इति चिन्तनम् । तस्य फलमाह- परममिति । य एवं व्याधिस्तपो विष्णुं प्रति तप इति वेद स परमं हैव लोकं जयति प्राप्नोति यं प्रेतं मां अरण्यं प्रति हरन्ति ज्ञातस्तद्विष्णुं प्रति तप इति यत्प्राक्कालीनं चिन्तनमेतद्वै परमं तपः यं प्रेतं मामग्नावभ्यादधति तद्विष्णुं प्रति तप इति यत्प्राक्कालीनं चिन्तनमेतद्वै परमं तप इत्यर्थः ।।
इति त्रयोदशं ब्राह्मणम् ।। ७.१३ ।।