नचाऽगमस्याप्रामाण्यं वक्तुं युक्तं तत्प्रमाणाभावात्

[बौद्धमतनिराकरणम् ]

भाष्यम्

नचाऽगमस्याप्रामाण्यं वक्तुं युक्तं तत्प्रमाणाभावात् । स्वतः प्रामाण्याच्च ।

भावबोधटिप्पणी

सौगताद्यास्तु शब्द एव तावदप्रमाणम् । कुतस्तद्विशेषो वेदादिरिति कथं तेनोक्तार्थसिद्धिः स्यादित्याहुः । तद्दूषयति- नचेति ॥ कुतो न युक्तमिति चेत् । किमागमाप्रामाण्यं तत्साधकप्रमाणसद्भावाद् उत तत्प्रामाण्यसाधक- प्रमाणाभावात् । नाऽद्य इत्याह- तदिति । तत्तत्राऽगमाप्रामाण्य इत्यर्थः । ननु प्रत्यक्षादेरेवाऽगमाप्रामाण्ये प्रमाणत्वेन तत्प्रमाणाभावो सिद्धः । मानस-प्रत्यक्षावसेयं हि ज्ञानानामप्रामाण्यमिति चेन्न । प्रत्यक्षादेरेव प्रामाण्ये प्रमाणाभावात् । तत्प्रामाण्यं स्वत एवेति चेत्तर्हि आगमप्रामाण्यस्यापि स्वतस्त्वेन न तदप्रामाण्यमित्याह - स्वत इति ॥

Load More