कतम आत्मेति योऽयं विज्ञानमयः ..
उपनिषत्
कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुष: स समानः सन्नुभौ लोकावनु सञ्चरति ध्यायतीव लायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
भाष्यम्
स्वातन्त्र्याद् ध्यायतीवासौ ध्याययन् जीवमञ्जसा ।
गृह्णातीव ग्राहयन् स जीवं सर्वेश्वरेश्वरः ॥
सदा विज्ञानपूर्णोऽसौ समानोऽसौ सदा समः ।
अविकारात् समानः सन् जीवमादाय सञ्चरेत् ॥
उभौ लोकौ स्वापकत्वाद् भूत्वाऽसौ स्वप्ननामकः ।
इमं लोकं जाग्रदाख्यं मृत्युरूपात्मकं सदा ।
बहुपापैकहेतुत्वात् तारयेत् स्वप्नमानयन् ॥
इमं लोकं च भूराख्यं तारयित्वाऽन्तरिक्षगम् ।
जीवं कुर्यान्मृतौ विष्णुर्भूलोकः क्षिप्रमृत्युमान्॥
बहवो मृत्यवश्चात्र मृत्यो रूपाण्यतस्त्वयम् ।
पापहेतुत्वतश्चात्र मृत्यो रूपाण्यतस्त्वयम्।
जाग्रच्च पृथिवी चैव द्यौ: सुषुप्तिस्तथैव च ॥
स्वप्नश्चैवान्तरिक्षं च ज्ञेया अन्योन्यनामकाः ।
तद्व्यभिप्रयिका तस्मादुभौ लोकाविति श्रुतिः ॥
भावबोधटिप्पणी
यद्यात्मा भगवान् तर्हि तस्य ध्यायतीव लेलायतीवेति ध्यानग्रहण कर्तृत्त्वं कथमुच्यते तस्य जीवधर्मत्वात् । नचास्य जीवपरत्वे इवशब्दवैयर्थ्यं ध्यानादेरपि मिथ्यात्वाभिप्रायेण तदुपपत्तेरित्यतस्तद्यथावद् व्याचष्टे - स्वातन्त्र्यादिति ॥ असौ सर्वेश्वरेश्वरो जीवमञ्जसा ध्यायन् स्वयं ध्यायतीवेत्युच्यते । कुतः ? स्वातन्त्र्यादिति योजना । ला उपादान इति धातोर्लेलायतीत्येतद्गृह्णातीति व्याख्यातम् ।। यद्वा ध्यायतीति लेलायतीत्यस्यान्तर्णीतणिच्त्वमभिप्रेत्योक्तं ध्यायन् ग्राहयन्निति । इवशब्दोऽल्पार्थे । ननु विज्ञायतेऽनेनेति विज्ञानं बुद्धिस्तन्मयस्तत्प्राय इति जीवस्य विज्ञानमयत्वोक्तेः कथमात्मा भगवानित्यत आह– सदेति |! ननु स समानः सन्नुभौ लोकावनुसञ्चरतीत्युभयलोकसञ्चरण- मुच्यते । तच्च जीवस्यैव कर्मवशादुपपद्यते नतु भगवत इत्यतः तद् व्याख्यातुं समानशब्दार्थं तावदाह- समान इति ।। यतः सदा समः अतः समानः । कथं सदा समत्वमित्यत आह- अविकारादिति । तदिदानीं व्याचष्टे - समानस्सन्निति ॥ ननु स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणीति जीवलिङ्गप्रतीतेः कथं भगवत्परतया व्याख्यानमित्यतस्तद् व्याचष्टे- स्वापकत्वादिति ।। ननु स्वप्नावस्थाप्रेरकः परमात्मेमं लोकं पृथिव्याख्यमति- क्रामतीत्यसङ्गतमनुपपन्नं चेत्यत उक्तम्- जाग्रदाख्यमिति ।। इमं लोकमतिक्रामति मृत्यो रूपाण्यतिक्रामतीति वाक्यभेदप्रतीतिनिरासायाऽह - मृत्युरूपात्मकमिति ॥ तर्हि श्रुतौ बहुवचनानुपपत्तिरित्याशङ्कां परिहरन् जाग्रदवस्थाया मृत्युरूपाऽ- त्मकत्वमुपपादयति-- बह्विति ।। तारयेदित्यनेनातिक्रामतीत्येतद् अन्तर्णीत- णिजन्तमित्युक्तं भवति । स्वापकत्वात् स्वप्ननामकस्य जाग्रत्तरणहेतुत्वं कथ- मित्यत उक्तम्– स्वप्रमानयन्निति । जीवमित्यनुवर्तमानं वक्ष्यमाणं वा तारयेदित्यत्र स्वप्नमानयन्नित्यत्र च सम्बद्ध्यते । प्रकारान्तरेणापि तद्वाक्यं व्याचष्टे- इमं लोकमिति । अस्मिन्पक्षे स्वप्नो भूत्वेत्यस्यान्तरिक्षलोकप्रापको भूत्वेत्यर्थोऽ- भिप्रेतः । यथाश्रुतेऽसङ्गत्यापत्तेरिति भावेनाह- अन्तरिक्षगमिति || अनेनैव देहेन जीवमन्तरिक्षगं कुर्यात्किमिति जिज्ञासायामुक्तम् ॥ मृताविति ॥ भूर्लोकस्य मृत्युरूपत्वमुपपादयति- भूर्लोक इति ॥ बहुवचनार्थमाह- बहव इति ।। चशब्दो यस्मादित्यर्थे । मृत्यवः कलावाभ्रोपमा जीवा इत्यादिवक्ष्यमाण- प्रकारेण बहवः । हेत्वन्तरेणापि मृत्युरूपत्वमुपपादयति- पापेति ॥ नन्विदं च परलोकस्थानं चेत्युक्तभूलोकस्वर्गलोकसन्धौ स्वप्नावस्थाया भवनाभावात्कथं सन्ध्यं तृतीयं स्वप्नस्थानमित्युक्तमिति चेन्न । भूलोकपरेदंशब्देन जाग्रदवस्थायाः द्युलोकपरपरलोकस्थानशब्देन सुषुप्यवस्थाया अवस्थावाचकस्वप्नशब्देनान्तरिक्ष- लोकस्यापि ग्रहणात् । तथाच जाग्रत्सुषुप्तिसन्धौ भवं सन्ध्यं स्वप्नस्थानं भूलोकद्युलोकयोः सन्धौ भवं सन्ध्यं अन्तरिक्षलोकस्थानमिति वाक्यार्थ इति भावेन लोकवाचकशब्दयोरवस्थावाचकत्वं अवस्थावाचकशब्दस्य लोकवाचकत्वं प्रमाणेनाह– जाग्रच्चेति।। अनेनेमं लोकं जाग्रदाख्यमिति यदुक्तं अन्तरिक्षगमित्यनेन स्वप्नो भूत्वेत्यस्य अन्तरिक्षलोकप्रापको भूत्वेति च यद् विवक्षितं तदुभयमपि उपपादितं भवति । एवं लोकवाचकशब्दस्यावस्थाया अपि वाचकत्वे उभौ लोकावित्यत्र न लोकमात्रं ग्राह्यम् ।किन्तु अवस्थापि ग्राह्येत्याह- तद्व्यभि- प्रायिकेति ॥ तस्माल्लोकवाचकशब्दस्यावस्थावाचकत्वस्यापि सत्वादित्यर्थः ।