तद्धैतदेतदेव तदास सत्यमेव स यो हैतं ..

बृहदारण्यकोपनिषद्भाष्यम्

चतुर्थं ब्राह्मणम्

तद्धैतदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्वसावसद्य एवमेतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये चतुर्थं ब्राह्मणम् ॥

॥ इति बृहद्भाष्ये सप्तमाध्याये चतुर्थं ब्राह्मणम् ॥ ४ ॥

ततत्वादेकरूपत्वात् तत्परं ब्रह्म कीर्तितम् । तदेव तादृशं प्रोक्तं नैवान्यत् तादृशं क्वचित् ॥ तदेतत् सत्यमेवासीद्वासुदेवाख्यमव्ययम् ॥ इति ब्रह्मतर्के ॥

तदेव हि तत् । तन्नारायणाख्यं परं ब्रह्मैतदेव सत्यं वासुदेवाख्यमासीदित्यर्थः ॥

स्वस्मात् स्वयं समुत्पन्नो वासुदेवात्मना प्रभुः । सत्यं ब्रह्मेति यो वेद महायाज्यं तु तं परम् ॥ प्राप्नोत्येव हि तल्लोकांजीवन्नप्युत्तमो भवेत् । इति प्रध्याने ॥

स्वभागहरणाद्दानात् फलानां यापनान्नृणाम् । हृदयं भगवान् विष्णुः सत्यं तद्गुणरूपतः ॥ इति सत्तत्त्वे ॥

प्रजापतिरिति ब्रह्मा वेदेषूक्तो ह्यमुख्यतः । यस्मिन्नूषुर्ब्रह्मचर्यं देवासुरनरोऽब्जजे ॥ एष वै भगवान् विष्णुर्मुख्यतस्तु प्रजापतिः । यज्ज्ञानान्मुक्तिमायान्ति स्वर्गाख्यां हृदयं च सः ॥ हृतिसद्दानयानेभ्यः सत्यं सद्गुणरूपतः । यत्तद्धृदयमित्युक्तं ब्रह्म तत्सत्यतामगात् ॥ सत्यत्वं सदनीयत्वमासाद्यं यन्मुमुक्षुभिः । एवं तद्ब्रह्म यो वेद स हि लोकानिमांजयेत् ॥ एतल्लोकजयो नाम धर्मज्ञानादिपूर्णता । जित एव ह्यसौ लोको यदा वेद जनार्दनम् ॥ इति गुणपरमे ॥

परलोको जित एवाभवदित्यर्थः ॥