शाकल्येति होवाच

[ दिग्देवताः, तेषां आश्रयदातारश्च ]

उपनिषत्

शाकल्येति होवाच । याज्ञवल्क्यस्त्वां स्विदिमे ब्राह्मणा अंगारावक्रयणमकृता३ इति ॥ १८ ॥

याज्ञवल्क्येति होवाच । शाकल्यो यदिदं कुरुपाञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवा सप्रतिष्ठाः ॥ १९ ॥

भाष्यम्

दिशो वेद सदेवाः सप्रतिष्ठा इति याज्ञवल्क्यवचनं सर्वप्रतिष्ठात्वेन ब्रह्मणोऽपि ज्ञानं भवतीति किं ब्रह्म विद्वानित्यस्य चोत्तरम् ।

भावबोधटिप्पणी

शाकल्यो याज्ञवल्क्येति सम्बोद्ध्योवाच । कुरुपाञ्चालानां ब्राह्मणानत्यवादीरिति यत् इदं भवान् ब्रह्म विद्वानिति सदेवाः सप्रतिष्ठा दिशो वेदेति किमिति प्रतीत्या दिशो वेद स देवा इति वाक्यमपि शाकल्पवचनमिति प्रतीयते तामपाकरोति- दिश इति || अन्यथा किं ब्रह्म विद्वानित्यस्योत्तराभावप्रसङ्ग इति भावः । ननु दिशो वेदेत्यस्य याज्ञवल्क्यवचनत्वेऽपि किं ब्रह्म विद्वानित्यस्य कथमुत्तरं जातम् । एतस्य तदुत्तरत्वाप्रतीतेरित्यत आह- सर्वेति । दिशो वेदेत्युच्यमानं ज्ञानं सप्रतिष्ठाः परब्रह्मपर्यन्तमाश्रयपरासाहित्येन दिशो वेदेत्युक्त्याऽऽदित्याद्युदानान्तसर्वाश्रयत्वेन ब्रह्मणोऽपि ज्ञानं भवतीति किं ब्रह्म विद्वानित्यस्यापि इदमुत्तरं भवतीत्यर्थः । ननु किं ब्रह्म विद्वानिति प्रश्ने ब्रह्म वेदेत्येव वक्तव्ये सप्रतिष्ठाः सदेवा दिशो वेदेति किमर्थमुच्यत इति चेन्न । न केवलमहं ब्रह्ममात्रं वेद किन्तु तदाश्रिता दिशो देवांश्च वेदेति स्वस्य ज्ञानाधिक्यज्ञापनाय तथोक्तत्वात् । तदिदमुक्तं सर्वप्रतिष्ठात्वेनेति ।

Load More