श्रवणं मननं चैव ध्यानं भक्तिस्तथा दृशिः

[मोक्षसाधननिरूपणम् ]

भाष्यम्

श्रवणं मननं चैव ध्यानं भक्तिस्तथा दृशिः ।

ज्ञानञ्चोविशेषाणां सर्वेषां साधनं भवेत् ॥

त्यक्त्वैतानि न कस्यापि भवेन्मोक्षः कदाचन ।

सर्वोत्तमतया ज्ञानपूर्वकः स्नेह एव तु ।

भक्तिर्विष्णौ समुद्दिष्टा तदन्येषां च योग्यतः ॥

विष्णुभक्तिर्देवभक्तिर्गुरौ भक्तिस्तथैव च ।

तत्तच्छ्रेष्ठयानुसारेण मुक्तौ नियतसाधनम् ॥

भक्तिपूर्ती भवेन्मुक्तिस्तदभावे च नो भवेत् ।

भक्तिर्ज्ञानं तथा ध्यानं मुक्तानामपि सर्वशः ॥

नियमेन न हीयन्ते मुक्तानां ते स्वरूपकाः ।

साधनानि तु सर्वाणि भक्तिज्ञानप्रवृद्धये ॥

नैवान्यसाधनं भक्तिः फलरूपा हि सा यतः ।

स्वात्मोत्तमेषु विद्वेषात्तमो नियमतो व्रजेत् ॥

गुणानामल्पताज्ञानं तत्स्त्रीरागस्तथैव च ।

तत्प्रतीपेच या बुद्धिस्त्रिविधो द्वेष उच्यते ॥

द्वेषोज्झिता च या भक्तिः सा मोक्षं नियमान्नयेत् ।

निर्दुःखं तु सुखं नित्यं मोक्ष इत्यभिधीयते ॥

चिदानन्दशिरोदेहपाणिपादात्मकाः सदा ।

सर्वदोषविनिर्मुक्ताः मुक्ताः क्रीडन्ति नित्यशः ॥

अनादिकालादारभ्य या भार्यास्ताः सदैव तु ।

ब्रह्मादीनां विमुक्तौ च भार्याः स्युर्नियमात्सदा ॥

न कदाचिद् विमुक्तानां भार्याः काश्चित्स्युरन्यगाः ।

न कदाचिद् वियोगश्च न विद्वेषो न वाऽरतिः ॥

मोदन्ते सहिताः सर्वे सदा विष्णुपरायणाः । इत्यादि पैनिश्रुतिः

भावबोधटिप्पणी

साधनैरित्युक्तसाधनान्याहश्रवणमिति । उक्ता विशेषा देवत्वादयो येषां ते उक्तविशेषाः । तेषां सर्वेषामधिकारिणाम् । उक्ता ये विशेषास्तारतम्योपेता- नन्दादयस्तेषां ज्ञानं च साधनं मोक्षस्येति शेषः । यद्वा, सर्वेषां 'ब्रह्म सदा सर्वगुणात्मकम्' इत्यादिना पूर्वोक्तानां विशेषाणां ज्ञानमित्यर्थः । कारणताग्राहकव्यतिरेकमाहत्यक्त्वेति || भक्तिस्वरूपमाह - सर्वोत्तम- तयेति ।। योग्यतो योग्यत्वतः उत्तमतया ज्ञानपूर्वकः स्नेह एव तदन्येषां भक्तिरिति सम्बन्धः । भक्तेः श्रवणादिसाम्यनिरासायाऽह - विष्विति || अनादिकालतो भक्तेः सद्भावेऽपि मुक्त्यनुदयात्कथं सा तत्र साधनम् इत्याशङ्कां परिहरन्नियतत्वोपपादकावन्वयव्यतिरेकावाह - भक्तीति ।। भक्त्यादेः साधनत्वोक्त्या फलप्राप्त्यनन्तरं अभावशङ्कां निवारयति - भक्तिरिति ॥ कुतो न हीयन्त इत्यत आहमुक्तानामिति ।। ननु भक्तेरिव श्रवणादेरपि मुक्तौ नियतसाधनत्वात्को विशेषो भक्तेरित्यत आह- साधनानीति || श्रवणादिवद्भक्तेरप्यन्यसाधनत्वे पुनस्तदवस्थो दोष इत्यत आह- नैवेति ।। यतोऽन्यसाधनानां फलरूपाऽतोऽन्यसाधनं नैवेत्यर्थः । भक्तेर्मोक्षसाधनत्वे इत्थम्भावान्तरं वक्तुमाह- स्वात्मेति ।। द्वेषस्वरूपमाह - गुणानामिति ।। यदर्थमेतदुक्तं तदाह- द्वेषोज्झितेति । मोक्षस्य पुरुषार्थत्वं दर्शयितुं वादिविप्रतिपत्तेः मोक्षस्वरूपं दर्शयतिनिर्दुःखमिति ।। सुखस्य वैषयिकत्वशङ्कानिरासाय नित्यमि- त्युक्तम् । मोक्षस्य नित्यसुखाभिव्यक्तिरूपत्वमङ्गीकुर्वद्भिरपि मुक्तानां निराकारत्वाङ्गीकारात्तन्निरासायाह - चिदानन्देति ॥ क्रीडन्तीत्युक्त्या स्त्रिया क्रीडनं सूचितम् । तत्किं सर्वेषां सर्वाभिरित्याशङ्कां परिहरति- अनादीति || नियममेव दर्शयति- नेति ।। अरतिः सम्भोगराहित्यम् ॥