एवं मुक्तक्रिया नित्या नान्येषां भ्रान्तिसम्भवात्
[ मुक्तानां क्रिया अपि नित्या: ]
भाष्यम्
एवं मुक्तक्रिया नित्या नान्येषां भ्रान्तिसम्भवात् ॥
मुक्तावुच्छेदतश्चैव नि:शेषेणाखिलस्य च ।
नैवं मुक्तक्रियायास्तु तस्याश्च पुनरुद्भवात् ॥
अमुक्तानां क्रिया याच मुक्तावपि समास्थिताः ।
अभिन्ना इति ता ज्ञेया अभिव्यक्तेः पुनःपुनः ॥
चिन्तनादिक्रियाणां तु मुक्तावुच्छेदतः सदा ।
किं मया कार्यमादीनां भेदाभेद उदीरितः ।
अचेतनेष्वस्वतन्त्राः क्रिया यस्मात्सदैव तु ।
'भेदाभेदस्ततो ज्ञेयः सर्वत्र नियमेन तु ॥
ईश्वरः प्रकृतिर्जीवो जडं चेति चतुष्टयम् ।
पदार्थानां समुद्दिष्टं तत्रेशो विष्णुरुच्यते ॥ इत्यादि ब्रह्मतर्के ॥
भावबोधटिप्पणी
एवमीश्वरक्रियानित्यत्वमुपपाद्य तेनैव न्यायेन मुक्तक्रियानित्यत्वमप्युपपादनीय- मित्याह - एवमिति । तथाचेश्वरस्य मुक्तस्य च स्वक्रियाभिरैक्यमुपपन्नमिति भावः। ‘भेदाभेदस्तु बद्धानाम्' इत्यमुक्तक्रियाणां भेदाभेदोऽभिहितस्तत्साधयितुं प्रतिजानीते- नान्येषामिति । क्रिया नित्येत्यनुवर्तते । कुत इत्यत आह- भ्रान्तीति ।। नामुक्तक्रिया नित्या तस्या भ्रान्त्योत्पत्तेरित्यर्थः । यद्यप्युत्पन्नत्वादित्येव वक्तव्यं तस्यैव नित्यत्वाभावे हेतुत्वात् । तथाऽप्युत्पत्तौ कारणप्रदर्शनार्थं भ्रान्तीत्युक्तम् | हेत्वन्तरमाह - मुक्ताविति || अमुक्तकर्मणो मुक्तावेवोच्छेदतश्च न नित्यत्वमित्यर्थः । संसार एव जागरावस्थायां चिन्तनादिकर्मव्यक्तेरुच्छेदात् मुक्ताविति किमर्थमुक्तमित्यत आह- अखिलस्येति ॥ इदानीमेकैककर्म- व्यवच्छेदेऽपि अखिलस्य च कर्मणो न व्युच्छेद इत्यर्थः । सुषुप्तावखिलस्यापि चिन्तनादिकर्मण उच्छेदोऽस्त्येवेति किमर्थं मुक्तावित्युक्तमित्यत आह- नि:शेषेणेति ॥ सुषुप्तौ तु न निःशेषेण तदुच्छेदः । वासनायाः सत्वात्। अन्यथा पुनरुद्भवानुपपत्तेः । वक्ष्यति च 'वासनाया हि पुनरुद्भवः' इति । मुक्तौ तु निःशेषेणैव तदुच्छेदः । पुनरुद्भवाभावेन वासनाया अप्यभावादिति भावः । नन्वेवं मुक्तक्रियाया अपि नित्यत्वमयुक्तम् । मुक्तो यदा क्रियान्तरं करोति तदा पूर्वक्रियोच्छेदावश्यम्भावादित्यत आह- नैवमिति ॥ मुक्तक्रियायाश्चैवममुक्तक्रियावद् उच्छेदो नास्तीत्यर्थः । क्रियान्तरकरणकाले क्रियान्तराभावात् कथं नोच्छेद इत्यत आह- तस्याश्चेति ॥ क्रियान्तर-करणकालेऽपि न क्रियान्तरस्योच्छेदः । तस्या एव क्रियायाः पुनरुद्भवात् किन्तु शक्त्यात्मनाऽवस्थितिरेवेति भावः । नन्वमुक्तक्रियाणां मुक्तावच्छेदेन नित्यत्वाभावे मुक्तक्रियाणामपि नित्यत्वं न युज्यते । अमुक्तक्रियाणामेव मुक्तौ भावात् । नहि मुक्तावागन्तुकक्रियाः सन्ति । नच तासां नित्यत्वं युक्तमित्यत आह- अमुक्तानामिति ॥ तर्हि कासाममुक्तक्रियाणां मुक्तावुच्छेदो भेदाभेदश्चेत्यत आह- चिन्तनादीति ॥ किं मया कार्यमित्येवमादिरूपाणां चिन्तनादिक्रियाणामिति सम्बन्धः । चिन्तनादिक्रियासद्भावदशायाम् अभेदः तदभावदशायां भेद इति प्रतीतिनिरासाय सदा भेदाभेद इत्युक्तम्। नन्वमुक्तानां यथा स्वक्रियाभिरत्यन्ताभेदो भेदाभेदश्च तथाऽचेतनानामपि स्वक्रियाभि- रप्यत्यन्ताभेदो भेदाभेदश्चेति द्वयमप्यस्ति किम् नेत्याह- अचेतनेष्विति || अस्वतन्त्राः परसापेक्षोत्पत्तिकाः इत्यर्थः । अत एव विनाशवत्यश्च । सर्वत्राचेतनेष्विति सम्बन्धः । नियमेन भेदाभेदो नत्वत्यन्ताभेद इत्यर्थः । ननु विष्णुमुक्तामुक्तजडानामेव धर्मा विचारिताः । तदतिरिक्तपदार्थधर्मविचारः कस्मान्न क्रियत इति चेत् तदभावादेवेत्याह- ईश्वर इति । प्रकृतिग्रहणं मुक्तोपलक्षणार्थम् । जीव इत्यमुक्तग्रहणम् । ननु विष्णुधर्म एवात्र विचारितो नत्वीशधर्म इत्यत आह- तत्रेति ||