तस्माद्वा एतस्मात् मनोमयात्

विज्ञानमयप्रकरणम्
तैत्तिरीयोपनिषत्

तस्माद्वा एतस्मात् मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ॥ १० ॥

तदप्येष श्लोको भवति । विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान् कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य ॥ ११ ॥

भाष्यम्

'श्रद्धाख्यं श्रुतिधर्तृत्वात् श्रद्धायां तच्छिरः स्मृतम् । ऋतं ज्ञानततेर्दाता चर्तस्थो दक्षिणः करः ॥'
'
वामः सत्यस्थितस्सत्यं सतां यस्मान्नियामकः । योगाख्यं सर्वलोकस्य योगादत्रैव योगगम् ॥'
'
मध्यं पुच्छं महोनाम महनीयत्वतस्सदा । तस्मिन्नानन्दरूपोऽसौ स्थितो नारायणस्सदा ॥' १०-११॥

भाष्यप्रकाशिका

तस्य विज्ञानमयस्य शिरः श्रद्धैव । 'श्रु श्रवणे' इति धातोः कर्मण्यौणादिके डत्प्रत्यये कृते श्रुतिरेव श्रदित्युच्यते । अतः श्रुतेर्धारणाच्छ्रद्वापदवाच्यं सत् श्रद्धायां तिष्ठति ।ऋ गतौ' इति धातो: किप् प्रत्यये सर्वापहारे कृते ऋपदेनैव ज्ञानमुच्यते । तत्ततं यस्मिन् तदृतं ऋतनामकं विज्ञानमयस्यदक्षिणः पक्षःदक्षिणहस्तः ऋते ज्ञानततौ तिष्ठति । ऋतशब्दस्य नित्यनपुंसकत्वात् पुंलिङ्गेन सम्बन्धो युज्यते । सतां नियामकत्वात् सत्यशब्दवाच्यो विज्ञानमयस्य वामकरः सत्ये सत्यवचने तिष्ठति । सर्वलोकस्य योगात्संयोगाद्योगपदवाच्यो विज्ञानमयस्याऽत्मा मध्यदेहः भगवति मनोयोगाख्ये योगे तिष्ठति । महनीयत्वान्महोनाम्नी विज्ञानमयस्य पुच्छोपमप्रतिष्ठा 'मह पूजायाम्' इति धातोः भगवदाराधनाख्ये महसि तिष्ठति ।। १०-११ ॥

पदार्थदीपिका

'तस्य श्रद्धैव शिरः' इत्यादौ विज्ञानमयनामकवासुदेवाख्यभगवच्छिरआदेः श्रद्धाद्यभेदप्रतीतिनिरासाय श्रद्धादिशब्दान् विज्ञानमयनामक भगवच्छिर आदौ योगरूढिभ्यां व्याख्याति - श्रद्धाख्यमिति ॥ श्रद्धेत्यास्तिक्यबुद्धिरुच्यते भारती वा । श्रद्धायां स्थितं तच्छिरः श्रुतिधर्तृत्वाच्छ्रुतिधारकत्वाच्छ्रद्वाख्यमित्यनेन रूढियोगौ दर्शिताविति ज्ञातव्यम् । ऋतस्थः यथार्थज्ञानस्थः । नियामक इति च शब्दार्थः । सर्वलोकस्यात्रैव मध्यदेह एव योगात् ॥
आश्रितत्वेन सम्बन्धादित्यर्थः । पुच्छमित्यनन्तरं महः संस्थं महः सूर्यादितेजःपुञ्जं तत्स्थमित्यपि द्रष्टव्यम् । महनीयत्वतः पूज्यत्वतः ।मह पूजायाम्' इति धातोः।तस्माद्वा एतस्माद्विज्ञानमयात्' इत्यानन्दमयप्रकरणं व्याचष्टे- तस्मिन्नित्यादिना ।। तस्मिन् विज्ञानमयनामके वासुदेवे ।आनन्दरूप' इत्यनेन मयटस्तादात्म्यमर्थ इत्युक्तं भवति । नारायण इत्यनेनानन्दमयस्यापि कोशत्वोक्तिः परास्तेति ज्ञातव्यम् ॥ १०-११ ॥

Load More