न चानिर्वचनीये किञ्चिन्मानम्..

अनिर्वचनीये प्रमाणाभावोक्तिः

श्रीमज्जयतीर्थटीका

कथमनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वमित्यत आह

मूलं

न चानिर्वचनीये किञ्चिन्मानम्

द्वैतद्युमणि:

अनुमानप्रकारमाह ।। इदमुक्तमिति ।। असन्दिग्धेति ।। प्रेक्षावत्सम्बन्धि-सन्देहाविषयविषयकत्वादित्यर्थः । तादृशसन्देहानधीनत्वादिति पर्यवसितः ।। अनुपलब्धेति ।। प्रेक्षावन्निष्ठसत्त्वप्रकारकानाहार्यप्रतीतिविषयत्वाभाववदारोप्यमाणकोटिकत्वात् स्वीयारोप्यमाण-कोटिप्रतियोगिकसादृश्यवन्निष्ठविशेष्यताकानाहार्यसत्त्वप्रकारकप्रतीत्यभाववत्प्रेक्षावत्सामान्यक-त्वादिति यावत् । तेन सर्वत्र संशये आरोप्यमाणकोटेरसत्त्वेन तत्र प्रेक्षावतां सत्त्वप्रकारक-प्रतीत्यभावात्सर्वसंशयेषु व्यभिचारशङ्कानवकाशः । प्रथमानुमानहेतौ सन्देहे प्रेक्षावन्निष्ठत्व-निवेशान्नासिद्धिः । द्वितीयानुमानेऽप्यप्रेक्षावन्निष्ठां प्रेक्षावन्निष्ठामप्यसत्त्वेन प्रतीतिं तन्निष्ठा-मेवाहार्यसत्त्वप्रतीतिमादाय नासिद्धिः । प्रेक्षावत्सामान्यनिवेशाद्यत्किञ्चित्प्रेक्षावदवृत्तिस्वारोप्य-माणसजातीयविषयकोक्तप्रतीतिके स्थाणुपुरुषादिसंशये न व्यभिचारः ।। एवं प्रत्याख्यानेति ।। तत्रानुक्ततायाः सर्वैरङ्गीकृतत्वान्नेष्टापत्तिस्तत्र युक्तेति भावः ।। कारणादीति ।। कारणादौ प्रश्नं सन्देहं प्रति वा साक्षात्परम्परया वा कारणीभूते साधारणधर्मज्ञाने तत्प्रयोजकीभूतकोट्यनु-भवादौ । विमर्शः प्रामाण्याप्रामाण्यान्यतरनिश्चायकहेत्वाद्यनुसन्धानम् । तद्वतामित्यर्थः ।। तर्हीति ।। कारणविपर्यासात् कारणीभूतात् भ्रमादित्यर्थः । यद्वा कारणे साधारणधर्मज्ञाने कोट्यनुभवादौ । विपर्यासात्प्रपाण्यभ्रमादित्यर्थः । निश्चितप्रामाण्यकसाधारणधर्मादिज्ञान-स्यैवानाहार्यसंशयकारणत्वात् साधारणधर्मदर्शनादौ प्रामाण्यनिश्चयस्यापि संशयप्रयोजकत्व-मिति भावः । ननु कथं भ्रमात्कार्याङ्गीकारः । तथात्वे रजतभ्रमोत्तरप्रवृत्त्यादिना रजत-निष्पत्तिपूर्वकं कटकादिसिद्धिः स्यादित्यत आह ।। ज्ञानजन्येष्विति ।। प्रमात्वघटितरूपा-नवच्छिन्नज्ञाननिष्ठकारणताकेष्वित्यर्थः ।। कारणविपर्यासादिति ।। पूर्ववदर्थद्वयमपि द्रष्टव्यम् ।

ननु प्रेक्षावत्त्वं किं भ्रमरहितत्वमुत प्रमावत्त्वम् । नाद्यः । भगवदतिरिक्तानां परशुक्लाति-रिक्तानां च सर्वेषामेव भ्रमवत्त्वनियमेन तादृशप्रेक्षावदप्रसिद्धेः । न द्वितीयः । क्वचित्प्रमा-वत्त्वस्य सर्वेषां सत्त्वेन शशविषाणादिसंशयवतामपि प्रेक्षावत्त्वापत्त्या दृष्टान्ते साध्यवैकल्यस्य बाधस्य चापत्तेरिति चेन्न । स्वनिष्ठसंशयप्रयोजकभ्रमरहितानां प्रेक्षावत्पदेन विवक्षितत्वात् । तथा चानाहार्यभ्रमाघटितसामग्य्रनधीनत्वं तादृशभ्रमघटितसामग्रीप्रयोज्यत्वरूपं वा अयुक्तत्वं संशये प्रश्ने च साध्यतया पर्यवसन्नम् । तादृशसामग्य्रनधीनसन्देहप्रकारीभूतस्वकोटित्वं अनाहार्यभ्रमघटितसामग्य्रधीनसन्देहविषयीभूतस्वकोटिकत्वं तादृशसन्देहाधीनत्वं वा प्रथमानु-माने हेतुः । अन्यतरनिर्णयवत्पुरुषकर्तृके परपरीक्षार्थप्रश्ने वाक्यार्थज्ञानमुद्रया आहार्यसंशय-स्यावश्यकतया तदधीनप्रश्ने सन्देहस्य किञ्चिदंशे भ्रमत्वनैयत्येन सन्देहरूपभ्रमघटित-सानग्य्रधीनतत्प्रश्नस्य लोके नायुक्तत्वव्यवहारः । तादृशयुक्तत्वस्य वादिप्रश्नस्य साधने वादि-नस्तादृशभ्रमस्योक्तपुरुष इव भ्रान्तत्वव्यवहारानिर्वाहकतया वादिनिग्रहासम्पादकत्वेन उक्तानु-मानस्याकिञ्चित्करत्वापत्तेरतः साध्यकोटौ भ्रमेऽनाहार्यत्वनिवेशः । इत्थं च हेतुकोटावपि भ्रमे अनाहार्यत्वानिवेशे उक्तपरपरीक्षार्थप्रश्नादौ व्यभिचारः स्यादतस्तन्निवेशः । १न च वादिनोऽ-निर्वचनीयत्वादिसन्देहस्याऽहार्यत्वाभ्युपगमादिति वाच्यम् । प्रकृतप्रश्नसंशयस्यानाहार्यत्वपक्ष एवानिर्वचनीयनिराकरणोपोद्धातविधयोक्तग्रन्थस्य प्रवृत्तत्वात् । एतच्चाग्रे व्यक्तीभविष्यति । द्वितीयानुमानेऽप्युक्तमेव साध्यम् । हेतुस्तु सत्त्वेन प्रमीयमाणत्वाभाववत्स्वकोटिनिष्ठसादृश्य-प्रतियोगिकत्वम् । अनिर्वचनीयत्वरूपैककोटिमादायैव पक्षे हेतुसत्त्वमुपपादनीयम् । न तु पारमार्थिकत्वरूपकोटिमित्याशयेनारोप्यमाणेत्यभिहितम् । न तु तदपि निविष्टम् । प्रयोजना-भावात् । सत्त्वेनानिर्वचनीयप्रतीतेरनाहार्यायाः परस्यैव सत्त्वात् तादृशप्रतीतिविषयत्वा-भावघटितहेतोरसिद्धिपरिहाराय प्रमाविषयत्वाभावनिवेशः । न च प्रतीत्यभाव एव साधितो भवतीत्युत्तरग्रन्थविरोधः । तस्य हेतुशरीराघटकत्वे तत्साधनस्याकिञ्चित्करत्वापत्तेरिति वाच्यम् । तस्य प्रतीतिसामान्याभावघटितपूर्वोक्तयथाश्रुतहेत्वभिप्रायेण प्रवृत्तत्वात् । तत्र प्रेक्षावत्पदेन स्ववृत्तिभ्रमाधिकरणक्षणानवच्छिन्नस्यैव हेतुशरीरनिविष्टतया यथाश्रुतहेतोरपि दोषाभावात् । उक्तनिष्कृष्टहेत्वादरे यथा न विरोधस्तथाऽनुपदमेवोत्तरग्रन्थो व्याख्यास्यते ।

ननु सन्देहस्यायुक्तत्वे अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेवेति मूलं भेदस्येति शेषपूरणेन भेदत्वस्य साधारणधर्मत्वखण्डनपरतया व्याख्याय प्रकारान्तरेण तत्प्रतीत्या संशयो भवतीत्या शङ्क्य तत्प्रतीतिसामान्यनिराकरणरूपतया तदेव मूलं योजितम् । इदानीं संशयस्यायुक्तत्वे अनुपलब्धारोप्यमाणकोटिकत्वादिति द्वितीययोजनालब्धार्थो हेतुत्वेन वर्णितः । इत्थं च प्रथमयोजनालब्धार्थो यदि संशयायुक्तत्वे हेतुस्तस्यात्राकथनान्न्यूनता । यद्यहेतुस्तदा १प्रथमव्याख्यानमयुक्तमिति चेन्न । प्रथमत एव भेदत्वरूपसाधारणधर्मज्ञानाधीनकोटि-स्मृत्यादिमूलकत्वं वा प्रकारान्तराधीनकोटिस्मृतिमूलकत्वं वेति विकल्पौ हृदि निधाय तत्राद्यपक्षनिराकरणपरतया न च भेद इति मूलस्य २तृतीययोजनां कृत्वा तद्धेतुतयाऽ-निर्वचनीयस्येति मूलं शेषपूरणेन व्याख्याय प्रथमकल्पोक्तदोषपरिहारपूर्वकं द्वितीयकल्प-मुत्थाप्य तदाशङ्कापरिहारकत्वेन तदेव मूलं यथाश्रुतमेव व्याख्यातम् । तत्र प्रथमव्याख्याया अकरणे भेदप्रयोगोत्तरं जायमानसंशयस्य पुरःस्फूर्तिकभेदत्वरूपसाधारणधर्मज्ञानजन्यत्वकल्पस्य प्रथमत एव बुद्धिस्थस्य निराकरणमकृत्वा कथञ्चित्तदुपस्थित्यादिना संशयोपपत्तिनिराकरणे अवसराभावेनानाकाङ्क्षिताभिधानत्वापत्त्या तन्निराकरणाय प्रथमव्याख्यानमावश्यकमेव । एवं च भेदत्वरूपसाधारणधर्मज्ञानजन्य उक्तसंशयो ३भ्रममूलस्वमतापरिज्ञानान्यतरमूलकः । भेद-त्वस्य कोटिद्वयसाधारणत्वाभावात् । पारमार्थिकत्वसमानाधिकरणत्वेन स्वमतासिद्धत्वाच्चेति अनुमानं प्रथमव्याख्याने लब्धम् । तच्च स्फुटमेवेति तदा न प्रदर्शितम् । द्वितीयव्याख्या-लब्धानुमानमनिर्वचनीयत्वकोटिकसंशयसामान्यस्यायुक्ततासाधकमिति तस्यैव मुख्यत्वाच्छश-विषाणं गोविषाणं वेति मूलेन तत्रैव दृष्टान्त आचार्यैः प्रदर्शितोऽतस्तद्व्याख्यानटीकायां तदेवानुमानं प्रदर्शितमतो न पूर्वोत्तरग्रन्थसन्दर्भाशुद्धिरिति धीरा विभावयन्तु ।