न च धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति..

बाध्यत्वानुमानेन मिथ्यात्वसिद्धावनिर्वचनीयत्वसिद्धिरिति शङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

अस्तु तर्हि विवादपदं मिथ्या बाध्यत्वादित्यनुमानं शुक्तिरजतादेरनिर्वचनीयत्वे मानं । मिथ्यात्वस्यासति प्रसिद्धत्वेनाप्रसिद्धविशेषणतानवकाशात् । न चैव-मनिर्वचनीयत्वासिद्धिः । समानं खलु सत्यविवेकलक्षणं मिथ्यात्वमसत्यनिर्यचनीये च । तस्मिन्ननेनानुमानेन सिद्धे निर्विशेषस्य सामान्यस्य प्रतिपत्तुमशक्यत्वेन नेदमसत्प्रतीत-त्वादित्यनेनासत्त्वे प्रतिक्षिप्तेऽनिर्वचनीयत्वस्य प्रसिद्धेरित्यत आह

मूलं

न च धूमत्ववन्मिथ्यात्वमित्युभयसम्प्रतिपन्नं सामान्यमस्ति ।

चशब्दोऽनुमानान्तरदूषणसमुच्चयार्थः । इतिशब्दो निर्देशार्थो मिथ्यात्वाख्य-मिति । स्यादेतदेवम् । यदि मिथ्यात्वं नाम सामान्यमसदनिर्वचनीयोरुभयवादिसम्प्रतिपन्नं स्यात् । नैतदस्ति । प्रागितोऽनिर्वचनीयस्यैवाप्रसिद्धत्वात् । न चाश्रयासिद्धौ सामान्यं सिद्धं भवति । बाष्पारोपितधूमस्यैवाप्रसिद्धत्वेन तत्र धूमान्तरे च धूमत्वसामान्यसिद्धिवत् । अन्यथा तत्रापि प्रसज्ज्येत । अतो मिथ्यात्वे साधितेऽसत्त्वस्यैव प्रतिपत्तौ सत्यां पुनस्तन्निषेधे सत्प्रतिपक्षतया द्वयोरप्रामाण्यापत्तिः । असत्प्रतीतेरुपपादयिष्यमाणत्वादसत्त्वप्रतिक्षेपानु-पपत्तिश्च ।