ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते..

रामानुजमतनिरसनपूर्वकं ईश्वरस्य मुक्तनियामकत्वसमर्थनम्

श्रीमज्जयतीर्थटीका

अपर आह । अस्तु मुक्तस्येश्वराद्भेदस्तथापि न तन्नियन्तृत्वमीश्वरस्योपपद्यते । नियम्यनियामकभावो हि न भेदमात्रेण सम्भवति । किन्तु हीनोत्तमभावेन च । न चासौ प्रकृतेऽस्ति प्रमाणाभावादित्यत आह ।

मूलं

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।

तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ।।

ब्रह्मेशानादिशब्देन मुक्तामुक्ता गृह्यन्ते । सङ्कोचे कारणाभावात् । यत्कैवल्यं सर्वोत्तमत्वम् । यत्स्वाभावो यस्य नैसर्गिकम् ।

मूलं

परो मात्त्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।

कर्तृविशेषानुक्तेर्मुक्ता अमुक्ताश्चेति शेषः । साम्यवचनानां गतिरन्यत्रै-वोक्ताऽस्तीत्यत्र नावादीदाचार्यः । एवं मुक्तनियन्तृत्वादावपीति ।

द्वैतद्युमणि:

।। अपर इति ।। रामानुजीय इत्यर्थः ।। हीनोत्तमभावेनेति ।। नन्वेतदपि कथम् ? लोके गुणविशेषैर्हीनोत्तमभावापन्नानामपि नियम्यनियामकभावादर्शनात् । जीवि-कार्थे वैपरीत्यस्यापि दर्शनादिति चेन्न । हीनोत्तमभावस्य नियम्यनियामकभावव्याप्य-त्वाभावेऽपि व्यापकत्वस्य प्रकृतोपयुक्तस्याहानेः । गृणान्तरैरुत्कृष्टस्यापि स्वाधमनियम्यताऽपि तत्प्रयोजकगुणविशेषेणापकर्षसत्व एव भवति । अन्यथा तस्या निर्बीजत्वापत्तेरित्यतस्तत्रापि न व्यभिचार इति भावात् । प्रमाणाभावादिति ।। कर्मबन्धवर्जिते मोक्षे तदधीनहीनोत्तम-भावायोगाच्चिन्मात्रस्वरूपेषु वैलक्षण्ये मानाभावादित्यर्थः ।। मुक्ता अमुक्ता इति ।। अमुक्तग्रहणं दृष्टान्तार्थम् । अमुक्तिदशायामप्यनादियोग्यतारूपजीवस्वभावमूलकर्मादिवशादेव साम्योत्तमहीनभावेनावस्थानं ब्रह्मादीनामतः स्वभावसिद्धं तारतम्यं मुक्तावपि दुर्वारम् । अन्यथा स्वरूपहानिप्रसङ्गादिति युक्तिसूचनार्थं चेति द्रष्टव्यम् ।

।। सङ्कोचे कारणाभावादिति ।। न च ब्रह्मादिपदानां शरीविशेषावच्छिन्नवाचितया मुक्तानां भूतभावेन तद्व्यवहारभागिता वाच्यम् । सा चामुख्यैव । अन्यथा बालान् भोजनार्थमानयेत्युक्तौ पूर्वकाले बाल्यवतां बृद्धानामानेताऽपि प्रेक्षावान् स्यादिति वाच्यम् । यदि ब्रह्मादिशरीरावच्छिन्नैरेव न प्राप्यते इति वाक्यस्य तात्पर्यं भवेत् तदा न प्राप्यते न प्राप्तमिति वा निर्देशः स्यात् । न तु ‘नैव शक्यते’ इति । ब्रह्मादिशरीरावच्छिन्नैरपि तच्छरीरावच्छिन्नसाधनानुष्ठानादिनेति यावत् , प्राप्तुं न शक्यत इति निषेधः क्रियते । स च निषेधः स्वरसतः उत्तरकालसामान्ये प्रतीयते । शरीरपातव्यवधानादिना किञ्चिदुत्तरकाले प्राप्त्यङ्गीकारे नैवेति सर्वथा निषेधानुपपत्तेः ब्रह्मादिशरीरावच्छेदेन बद्धतया स्थितानां सर्वोत्तमत्वाप्रसक्त्या तन्निषेधमात्रायोगाच्च । वाक्यत उक्तरीत्या स्वरसतः प्रतीयमानार्थं परित्यज्य संसारदशामात्रपरतया वाक्यस्य कथञ्चिद्योजना न युक्तेत्याशयात् । एवं च श्लोकस्थब्रह्मादिपदं तत्तच्छरीरावच्छिन्नपरमेव न तु लक्षणा अभ्युपेयतेऽतो नोक्तदोषः । टीकायां तु मुक्ता अमुक्ताः सर्वेऽप्यत्र प्रयुज्यमानैर्ब्रह्मादिशब्दैः श्लोकतात्पर्यविषयीभूत-सर्वोत्तमत्वप्राप्त्यभाववत्तया बोध्यन्ते । उक्तरीत्यैवकारलब्धार्थसङ्कोचे कारणाभावादित्यर्थ उक्त इत्यवधेयम् ।

ननु कैवल्यं नामेतरासाहित्वम् । तच्चानुपपन्नम् । तथात्वेऽद्वैतवादापत्तेः । इत्यत-स्तद्व्याचष्टे ।। सर्वोत्तमत्वमिति ।। तथा च कैवल्यं समाधिकराहित्यरूपसर्वोत्त-मत्वपर्यवसायीति भावः । प्रमाणे तस्य स्वभावत्वोक्तिस्तु नैव शक्यत इत्युक्तार्थहेतुतया । स्वाभावस्य तत्स्वलक्षणरूपस्यान्येषु कथमप्यसम्भवात् । स्वस्य भावो धर्म इत्यादिरीत्या अर्थान्तरपरत्वे नोक्तहेतुता युज्यते । चैत्रनिष्ठराज्याधिपत्यस्य मैत्रेणापि प्राप्तुं शक्यत्वात् । केवल इत्यनेन लब्धतन्निष्ठत्वस्य तद्धर्मतायाः स्फुटत्वात्तदुक्तिर्वृथैव स्यादित्यतोऽनेन रूढार्थग्रहणमेव युक्तम् । रूढिपरित्यागे मानाभावादित्याशयेन व्याचष्टे ।। नैसर्गिकमिति ।।

मूले ।। परो मात्रयेति ।। मीयन्ते प्रमाणैरवगम्यन्ते इति मात्राः गुणाः । एकवचनं समुदायविवक्षया । बहुवचनार्थे वा । गुणौरित्यर्थः । तन्वा शरीरेणैव न तु कीर्तिमात्रेण व्याप्त विष्णो त्वं मात्रया गुणैर्निमित्तैः परः सर्वोत्तमोऽसि । एतादृशस्य ते महित्वं पूर्णानन्दादिमहिमानं केऽपि न जानन्तीत्यर्थोऽन्यत्र टीकाकृदुक्तरीत्या ज्ञेयः ।। कर्तृविशेषेति ।। शेष इति ।। अन्यत्र केऽपीत्युक्तावपि तद्विवरणार्थमेवात्रेत्थमुक्तम् । ननु ‘परमं साम्यमुपैति’ इत्यादिश्रुतिस्मृतीनां मुक्तौ साम्यबोधिकानां विद्यमानत्वात्कथमेतद्वाक्येन निर्णय इत्यत आह ।। साम्येति ।। गतिरिति ।।

दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते’ ।

इत्यादिना दुःखासम्भिन्नाभिव्यक्तानन्दादिना साम्यपरतया गतिरनुव्याख्याना-दावुक्तेत्यर्थः । ननु साम्याभावेऽपि नियम्यनियामकभावे प्रामाणाभावात्स न युक्तः । तत्सत्वे तदुक्तिप्रसङ्गादित्यत आह ।। एवमिति ।। प्रामाणान्यन्यत्रोक्तानीत्यत्र नावादीदित्य-ध्याहारः । तानि च वाक्यानि छन्दोगोपनिषदादिगतानि ‘सह्येषां लोकानामीष्टे’ इत्यादीनि ‘लोकाधिपत्यं रविबिम्बगे हरौ’ इत्यादिनाऽनुव्याख्याने मुक्तविषयतया व्याख्यातान्यत्र ग्रन्थगौरवभयान्नोदाहृतानीति हृदयम् ।

।। रामानुजमतस्य सर्वात्मना, मुक्तस्येश्वरसाम्ये पर्यवसनम् ।।

ननु मुक्तानामीश्वरसाम्येन नियम्यत्वाभावः ‘अपर आह’ इत्यनेनोक्तो न सङ्गतः । रामानुजैर्जीवानां मुक्तावानन्दमात्रेण साम्यस्याङ्गीकृतत्वेऽपि खातन्त्र्यपारतृन्त्र्यादिधर्मा-णामङ्गीकृतत्वेन जीवान्प्रति शेषिभूतश्रीतत्त्वं प्रतीश्वरस्य शेषित्वस्य, विष्वक्सेनादीनां जीवनियामकत्वस्याङ्गीकृतत्वेन तेभ्यो निकृष्टानां सुतरामीशनिकृष्टत्वस्य सिद्धत्वात् । न्यायामृते तथैवोक्तेः । तथा च मुक्तानामीश्वरस्य च हीनोत्तमभावानङ्गीकारेण शङ्का न रामानुजमतानुसारेण युक्ता । अत एव मुक्तावपि सर्वोत्तमत्वसाधनाय मूले प्रमाणोदाहरण-मप्यकिञ्चित्करम् । न च शङ्का ग्रन्थस्थापर आहेत्येतत् वाद्यन्तरपरमेवास्त्विति वाच्यम् । मुक्तावत्यन्तभेदमङ्गीकृत्य सर्वात्मनेश्वीरसाम्यमङ्गीकर्तुर्वादिनोऽनुपलम्भादिति चेत् -

अत्र केचित् ‘तथा वादिनः कस्यचित्समयिनः अभावेऽपि ‘परमं साम्यमुपैति’ इति श्रुतिमात्रप्राप्तसाम्यमतं अपर आह’ इत्यादिनोपन्यस्तम् । परमं साम्यमित्यनेन सर्वात्मना साम्यस्यैव खरसतो लाभात् । अत एव निरवकाशश्रुत्युदाहरणेनैव तत्समाधानं कृतम्’ इति वदन्ति ।

वस्तुतस्तु रामानुजीयैः कण्ठतः सर्वात्मना साम्यस्यानुक्तत्वेऽपि पूर्णानन्देन साम्ये सर्वात्मना साम्यं तस्य गले बलात्पतति । यतो लोके स्वगृहे केवलं भुज्याद्यधीनसुखाद्यपेक्षया राजादीनां बहूनां नियमेन स्वनिष्ठान्यदीयबन्धविमोचकत्वाभीष्टदातृत्वादिगुणानुसन्धान- बहुजनकृतस्वत्ययनश्रवणाद्युत्कृष्टभार्यावत्वानुसन्धानस्वनिष्ठसर्वस्वातन्त्र्यादिगुणानुसन्धानाद्य- धीनसुस्वानामुत्कृष्टतया सर्वानुभवसिद्धत्वात् रोमहर्षणादिलिङ्गानामपहोतुमाशक्यतया ईश्वरे सर्वजगन्नियमनपालनमोक्षप्रदानसर्वविषयकनिरवधिकस्वातन्त्र्यरमापतित्वाद्यनुसन्धानादिरूप- महाभोगाधीनोत्कृष्टतमसुखसमानसुखानां जीवेषु सिद्ध्यर्थं तादृशभोगस्यावश्यं वक्तव्यतापातेन सर्वात्मनेश्वरसाम्यमेव तन्मते पर्यवसितं भवति । ब्रह्मरूपसद्वस्तुवादित्वेन स्वाभिमत-मायावादिमतस्यापि यथा शून्यमत एव पर्यवसानं तथेहापि । यद्यपि ‘भोगमात्रसाम्यलिङ्गात्’ ‘जगद्व्यापारवर्जम्’ इति सूत्रार्थमभिप्रेत्य मुक्तानां जगद्व्यापाराभाव उक्तः । अनेकेषां जगान्नियमनादौ स्वातन्त्र्ये अनेकेश्वरापात इत्यादीनि बाधकानि च सन्ति सर्वात्मना साम्ये । तथापि पूर्णानन्देन साम्यं उक्तरीत्या पर्यवस्यतीति तदुक्तिरकिञ्चित्करी स्वव्याहता च । उक्तबाधकान्यस्माभिरुद्भावनीयान्येव । इत्याशयेन तन्मतस्यापि मायिमतवदत्यन्तासम्भव-दुक्तिकत्वव्यक्तीकरणाय सर्वसाम्यं सिद्धवत्कृत्य सर्वोत्तमत्वबोधकश्रुतिबलेनैव पूर्वपक्षनिरासक-मूलानुसारेण रामानुजमतानुसारिपूर्वपक्षोऽत्र दर्शितः । यथाद्वैतवादिभिर्निर्विशेषाद्वितीयचैतन्य- वादिभिरपि शास्त्रारम्भस्य स्वमते उपपादनपूर्वकमङ्गीकृतत्वेऽपि तदुक्तेर्बाधककवलित्वेना-किञ्चित्करत्वासम्भवदुक्तिकत्वाभिप्रयेण शास्त्रानारम्भपूर्वपक्षस्तत्वप्रकाशिकायां चन्द्रिकादौ जिज्ञासासूत्रस्य दर्शितस्तद्वदिहापि दर्शित इति न कश्चिद्दोष इत्यवधेयम् ।

अत्राद्वैतवादिनो वदन्ति ‘आत्मस्वरूपानावृतपूर्णानन्दस्यैकत्वात्क्व तारतम्यावकाशः’ इति । तन्न । भवन्मते मुक्तिसाधनतत्स्वरूपजीवन्मुक्तावस्थापुरुषस्वरूपभूतानन्दादेः सर्वस्यानुपपत्तेः मुक्तौ तारतम्याभावस्य सुदूरपराहतत्वात् ।

।। मुक्तिसाधनतत्स्वरूपादिसमर्थनपूर्वकमद्वैतिना मुक्तौ तारतम्याभावसमर्थनम् ।।

नन्वेतदयुक्तम् । आत्मापरोक्षस्यैवात्माविद्यानिवृत्तिरूपमुक्तिहेतुत्वात् । न च ‘नेन्द्रियाणि नानुमानम्’ इत्यादिश्रुतिभिर्ब्रह्मण इन्द्रियजन्यज्ञानरूपप्रत्यक्षविषयत्वाभावप्रतिपादनात्कथं निरुपाधिकात्मसाक्षात्कारः ? शब्दस्य तु नापरोक्षज्ञानजनकत्वम् । शाब्दस्य परोक्षत्वात् । आत्मस्वरूपाभानापादकाज्ञानस्य साक्षात्कारप्रमां विना निवृत्त्ययोगादिति वाच्यम् । तत्त्वमसीत्यादिवाक्यस्यैवापरोक्षज्ञानजनकत्वाभ्युपगमात् । न च शब्दादपरोक्षधिय उत्पादनस्य कुत्राप्यदर्शनाददृष्टकल्पनाप्रसङ्गः । ज्ञानापरोक्ष्यं विषयापरोक्ष्यनिबन्धनम् । अपरोक्षत्वा-ख्यजातेरनङ्गीकारात् । किन्तु विषयताविशेषः । स च विषयस्वभावाज्ज्ञाने भवति । दशमस्त्वमसीत्यादिवाक्यजन्ये ज्ञाने साक्षात्कारत्वसत्वात् । दशमत्वस्य सङ्ख्याविशेषपूरकत्व-रूपतावदन्यतमत्वरूपस्यान्तःकरणोपहितनिष्ठस्य वा शरीरनिष्ठस्य वा साक्षिवेद्यत्वेनापरोक्ष त्वात्तज्ज्ञानं तत्स्वभावाधीनापरोक्षत्ववत् । पीतालोकमध्यवर्तिसमनस्केन्द्रियसन्निकृष्टघट-विषयकवाक्येनाप्यपरोक्षधीरिष्टैव । अन्यथा प्रत्यक्षसामग्य्राः तज्जन्यशाब्दबोधं प्रति प्रतिबन्धकताकल्पनापत्त्या गौरवापातात् । एवं पर्वतो वह्निमानित्याकारकायाः इन्द्रिय-सन्निकृष्टपर्वतादिविषयावच्छेदेनानुमितेरप्यपरोक्षत्वमिष्टमेव । प्रकृते बह्मणो ‘यत्साक्षाद-परोक्षाद्ब्रह्य’ इति श्रुत्याऽपरोक्षस्वभावत्वात् तद्विषयकस्यापरोक्षत्वं निराबाधम् ।

न च गुरुमुखेन श्रवणवेलायामेव तत्त्वमसीत्यादिवाक्येन ब्रह्मापरोक्षस्य जातत्वात्तत्काले संसारनिवृत्त्यापत्तिरिति वाच्यम् । तत्काल उत्पन्नस्याप्यपरोक्षस्य, निश्चितप्रामाण्यकत्व-रूपप्रतिष्ठितत्ववत एवाज्ञाननिवर्तकतया तद्रहितत्वेनाज्ञानानिवृत्त्या संसारानिवृत्तेः । तद्राहित्यं चासम्भावनाविपरीतसम्भावनाऽवरुद्धत्वेन । तत्सम्पत्तिश्च प्रमेयासम्भावनाशङ्का-निरासकतर्करूपमननेनासम्भावनाशङ्कायां निरस्तायां निरन्तरस्मरणोत्तरस्मरणपरम्परारूपेण वाऽन्यादृशेन वा ध्यानेन तद्वस्तुसंस्कारे दृढीकृते सति निदिध्यासनेवलायां भासमानमहा-वाक्येन किञ्चित्कालविलम्बेन स्मर्यमाणवाक्येन वाऽऽत्मापरोक्षं जायते । तदेवाज्ञाननिवर्तकं भवति । एतादृशापरोक्षे जननीये श्रवणमङ्गि । मनननिधिध्यासने तु तस्योक्तरीत्याङ्गभूते । शक्तितात्पर्यावधारणानुकूलस्तर्कः श्रवणम् । तेन शक्तितात्पर्यावधारणरूपविशेषणनिष्पत्तौ सत्यां तादृशतर्कावधारितशक्तितात्पर्यविशिष्टशब्देनैव शाब्दबोधजनने श्रवणस्याङ्गित्वं मनननिदिध्यासनयोस्तूक्तरीत्याङ्गत्वमेव ।

न च श्रवणमननजनितनिदिध्यासनया ब्रह्मापरोक्षमस्त्विति वाच्यम् । तथात्वे इन्द्रिया-करणकत्वेनापरोक्षत्वानिर्वाहात् । न च मनसैव ध्यानसहकृतेनात्मापरोक्षमस्त्विति वाच्यम् । मनसोऽनिन्द्रियत्वात् । तस्माच्छब्देनैव तत्रापरोक्षम् । ज्ञानाऽपरोक्ष्यस्य विषयस्वभावान-धीनत्वे तु श्रवणेन मनननिदिध्यासनाद्यनङ्गकेन परोक्षैव धीर्जायते । तदनन्तरं च पुनर्मननदृढध्यानाद्यङ्गकेनापरोक्षधीः प्रारब्धकर्मावसाने जायते । अपरोक्षं विना सविलासा- विद्यानिवृत्त्यनुपपत्तेः । दर्शनमुक्त्योः कार्यकारणभावावेदकश्रुत्यर्थनिर्वाहाय तत्कल्पनात् ।

वेदान्तविज्ञानसुनिश्चितार्थाः’ ‘तद्धा विजिज्ञौ’ ‘तमसः पारं दर्शयति’ इत्यादि-श्रुतयोऽपि शब्देनापरेक्षज्ञानोत्पत्तौ प्रमाणभूताः । प्रथमे विशब्देन विशेषविषयकत्वस्य लब्धत्वात्सुशब्देनापरोक्षज्ञानमेव बोधनीयम् । अन्यथा तस्य वैयर्थ्यापातात् । द्वितीये विजिज्ञावित्यपरोक्षज्ञानमेवोच्यते । सप्तमप्रपाठके ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ इति वाक्येन निवर्तकज्ञानस्य दर्शयतीत्यपरोक्षरूपत्वोक्तेः षष्ठप्रपाठकस्यै-तद्वाक्यस्यापि तत्परत्वात् । अस्योद्दालकस्य तत् तस्मादुपदेशात् तत् ब्रह्म विजिज्ञौ अपरोक्षतो ज्ञातवान् श्वेतकेतुरिति शेषः । तमसः पारं अज्ञानतत्प्रयुक्तान्यतरविलक्षणं दर्शयति साक्षात्कारयति । मृदितकषायाय त्यक्तविषयतृष्णाय नारदाय ।

तथाचाज्ञाननिवर्तकापरोक्षज्ञानस्य मनननिदिध्यासनाङ्गकश्रवणेन जातत्वात्तेनाविद्यानाशे सति प्रारब्धकर्मवशादविद्यालेशोपादानकपदार्थैरेव जीवन्मुक्तस्य व्यवहारादिस्तत्संस्कारेणा-विद्यालेशेन वा सम्पद्यते । तदवसाने चरमाप्रतिबद्धापरोक्षानन्तरमनावृतानन्दप्रकाशरूपः । तस्य चैकस्य स्वेनैव सह तारतम्यकथाऽपि दूरनिरस्ता । न च प्रथमतोऽविद्यानाशं स्वीकृत्य किं संस्कारादिमूलकजगत्प्रतीतिकल्पनयेति शङ्क्यम् । प्रथमतो ज्ञानेन ममाज्ञानं नष्टमित्यनु-भवात् । ‘तस्याभिध्यानात्’ इति श्रुतौ ‘भूयश्चान्ते विश्वमायानिवृत्तिः’ इति मायाशब्दिता-विद्यायाः पुनर्निवृत्तेः श्रूयमाणत्वान्यानुपपत्त्यैवाविद्यायाः संस्कारात्मनाऽवस्थानसिद्धेः । तथा च मायिमते मुक्तितत्साधनानां सर्वेषामुपपन्नत्वात्कथं तन्मतेऽनुपपत्तिः ?

।। शाब्दापरोक्षनिरासपूर्वकं तस्य मुक्तिसाधनत्वनिरासः ।।

इति चेन्न । शब्दस्यापरोक्षज्ञानजनकतायाः कुत्राप्यक्लृप्तत्वेन तेनात्मापरोक्षाङ्गी-कारायोगात् । यच्चोक्तं ‘सङ्ख्याविशेषपूरकत्वरूपदशमत्वं पूर्वोक्तान्यतमत्वरूपं साक्षि-सिद्धत्वादपरोक्षात्मकमेवेति तद्विषयकशाब्दस्याप्यपरोक्षत्वमेव’ इति । तन्न । शब्देन हि दशत्वसङ्ख्यापूरकत्वत्वेनैव भवदुक्तान्यतमत्वं भासते ? पूरणार्थमुत विधानात् ? द्वितीयस्त्वनुपपन्नः । दशम इति वाक्यात्तावदन्यतमोऽहमिति ज्ञानस्य दशत्वादिसङ्ख्यानव-गाहिनोऽनुभवविरुद्धत्वात् । नापि प्रथमः । पूरकत्वं च तज्जनकापेक्षाबुद्धिविशेषविषयत्व-रूपम् । तच्च न साक्षिवेद्यम् । नापि त्वगादिवेद्यम् । जन्यजनकभावपरकीयापेक्षाबुद्धि- तन्निष्ठतादृशापेक्षाबुद्धित्वादिरूपधर्माणामिन्द्रियागोचरत्वात् । स्वरूपतस्तादृशान्यतमत्वस्य कथञ्चित्साक्ष्यादिना भानोपपादनेऽप्युक्तशाब्दबोधस्यापरोक्षत्वासिद्धेः । पर्वतो वह्निमा-नित्यादिशब्दप्रयोगाद्यनन्तरं वह्निमत्पर्वतं शाब्दयामीत्येव सर्वेषामबाधितानुभवेन तादृशानु-मित्यनन्तरं वह्निविशिष्टपर्वतमनुमिनोमीत्येवसर्वसिद्धप्रत्ययबलेन च, ‘तस्य पर्वताद्यंशे साक्षात्कारत्वस्वीकारे प्रत्यक्षसामाग्य्राः शाब्दं प्रति प्रतिबन्धकत्वाकल्पनाल्लाघवम्’ इत्यपि प्रत्युक्तम् । तत्रैकस्मिन्नेव ज्ञाने साक्षात्कारत्वशाब्दत्वोभयावगाह्मनुभवापत्तेः । चक्षुषा पश्यामीतिवच्चक्षुषा वाक्येन च पश्यामीत्यनुभवापातश्च । तत्र शाब्दोत्पत्तेरनुभवविरुद्धत्वे प्रत्यक्षसामग्य्राः प्रतिबन्धकत्वमव्याहतमेव । तदुत्पत्तेरानुभाविकत्वे समानाकारज्ञानयोः क्रमिकयोरेवोत्पत्त्यङ्गीकारात् ।

न चैतज्ज्ञानं प्रथमतो जायत इत्यत्र विनिगमकाभाव इति वाच्यम् । यत्सामग्य्राः प्रथमतः सम्भवस्तस्यैव प्रथमोत्पत्त्यङ्गीकारात् । सामग्रीद्वयस्यैकस्मिन् क्षणे मेलने तदुभयकार्यस्यैकक्षणोत्पन्नत्वादिलिङ्गाद्यभावेन प्रत्यक्षादेरविगीतस्याभावात् । सामग्रीद्वयमेलन-सम्भावनामात्रेणान्यतरसामग्रीप्रतिबन्धकत्वकल्पनाऽप्रसक्तेस्तदभावप्रयुक्तलाघवस्याकिञ्चित्कर -त्वाच्च । तस्मान्न दशमस्त्वमसीति दृष्टान्तेन तत्त्वमसीत्यादेरपरोक्षजनकत्वम् ।

यदपि ‘विषयस्वभावाधीनमपरोक्षत्वम्’ इति । तन्न । परकीयसुखव्यवहितदेशकालस्था-परोक्षविषयविषयकपरोक्षधियोऽपि साक्षात्कारत्वापत्तेः । यदत्रोक्तं ‘यस्य पुरुषस्य यदपरोक्षं वस्तुतस्तद्विषयकत्वं ज्ञानस्य तत्पुरुषं प्रत्यपरोक्षत्वे नियामकम् । तत्पुरुषं प्रति विषयस्या-परोक्षत्वं च तदभिन्नत्वम् । तच्चेन्द्रियद्वारा बहिर्निर्गतान्तःकरणवृत्त्या प्रमातृचैतन्यस्य घटादिना सम्पाद्यते । स्वकीयसुखादौ स्वत एव’ इति । तदप्यन्तःकरणनिर्गमनादेः दृश्यत्वहेतुनिरासावसर एव निरस्तत्वेनापास्तम् । अपरोक्षज्ञानस्यान्तःकरणवृत्तिरूपस्य निष्पत्त्यनन्तरमेवाज्ञाननिरासेन घटावच्छिन्नचित्प्रमातृचितोरभेदद्वारा घटादिरूपविषयतादा-त्म्यस्य प्रमातृचैतन्ये सम्पादनात् वृत्त्युत्तरकालीनस्य विषयनिष्ठोक्तापरोक्षतायां नियामकत्व-मित्यस्यायोगात् । तद्योग्यत्वस्य तन्नियामकत्वे इतरसुखव्यवहितघटादिविषयकपरोक्ष-ज्ञानस्यापि साक्षात्कारत्वापत्तेः ।

ननु विषयापरोक्ष्यमपरोक्षवृत्तौ वा तन्निष्ठापरोक्षत्वं प्रति वा न हेतुं ब्रूमः । किन्तु तत्पुरुषस्यैतद्विषये इदमपरोक्षमिति व्यवहारविषयतावच्छेदको यो धर्मः तस्य ब्रह्मज्ञानेऽपि सत्वात्तस्यापरोक्षरूपत्वम् । तादृशधर्मश्च तन्मनोऽवच्छिन्नचित्प्रतियोगिकभेदशून्यतावच्छेदक-त्वरूपः पूर्वोक्तस्य पर्यवसितार्थरूपः । घटाद्यवच्छिन्नचिति बहिर्निर्गतमनोवृत्त्या मनोवच्छिन्न-चिद्भेदाभावसम्पत्तेर्घटादेस्तत्काले तदवच्छेदकत्वं, सुखादौ तत्सहजमेवेति चेन्न । धर्माधर्मा-देर्मनोऽवच्छिन्नात्मन्येवोत्पन्नत्वेन सुखादिवद्धर्मादेरपि तन्मनोऽवच्छिन्नचित्प्रतियोगिकभेदशून्य-तावच्छेदकतया तज्ज्ञानस्याप्यपरोक्षत्वापत्तेः । तथात्वे निष्प्रकारकचिन्मात्रविषयकवृत्तेरप-परोक्षत्वाभावापाताच्च । स्वस्य भेदाशून्यतां प्रत्यधिकरणतया तदवच्छेदकत्वाभावात् । तत्र च चिद्विषयकत्वादेरन्यादृशस्यैवापरोक्षत्वप्रयोजकत्वे घटादिज्ञानवद्विषयापरोक्षत्वमूलकत्वादेवात्म- ज्ञानेऽप्यापरोक्ष्यमित्यस्यासङ्गतेः । धर्मविषयकत्वमेवापरोक्षत्वप्रयोजकमित्युक्त्वाधर्मादिशाब्द- स्यापि अपरोक्षत्वस्य वक्तुं शक्यत्वात् । एतादृशपारिभाषिकापरोक्षत्वस्याज्ञाननिवर्तक-तानवच्छेदकत्वाच्च ।

उक्तभेदशून्यतावच्छेदकत्वं विहायोक्तभेदावच्छेदकत्वाभावनिवेशे चरमवृत्तेः सङ्ग्रहेऽपि धर्माधर्मादिज्ञानस्य तीरादेः शाब्दस्य शशविषाणादिविषयकशाब्दरूपविकल्पाख्य-वृत्तेश्चापरोक्षत्वं दुर्वारम् । शशविषाणादेः किमपि प्रत्यवच्छेदकत्वाभावात् । किञ्च भेदाभावावच्छेदकत्वं भेदावच्छेदकत्वाभावो वा वृत्त्याऽज्ञाननाशेन भेदनाशकाले एव । घटादीनां न वृत्त्युत्पत्तिक्षणे इति तद्विशिष्टवस्तुविषयकत्वस्य तथात्वे कालान्तरोत्पन्नघटादि-परोक्षस्याप्यपरोक्षत्वापत्तिः । स्वविषयनिष्ठा स्वसमानकालीना या स्वोपादानभूततन्म-नोऽवच्छिन्नप्रतियोगिताकभेदाभावावच्छेदकत्वाधिकरणता भेदावच्छेदकत्वाभावाधिकरणता वा तद्वद्विषयकत्वमेवापरोक्षत्व(प्रयोजक)म् । घटादिवृत्तेस्तु स्वद्वितीयक्षणावच्छेदेन तादृशाधि-करणतासमानकालिकत्वं, परोक्षवृत्तेस्तु नैवमित्युक्तौ स्वत्वेन निवेशादननुगमः । सुखादिगोचरसाक्षिण्यपरोक्षत्वानुपपत्तिः । स्वोपादानभूतमनसोऽप्रसिद्धेः । तत्परित्यागे चैत्रापरोक्षज्ञानकालीनमैत्रपरोक्षज्ञाने तत्समानविषयके चैत्रमनोघटितापरोक्षत्वस्यावर्जनीयतया तत्तात्पर्येणेदमपरोक्षमिति व्यवहारापत्तिरिति ।

यदपि धर्मादिज्ञानापरोक्षत्ववारणाय मनोऽवच्छेदप्रयुक्तभेदस्येवावरणप्रयुक्तभेदस्याप्य-भावोऽपि निवेश्यः । तथा चानावृतविषयज्ञानत्वमेवापरोक्षत्वम् । आवरणविरोधितावच्छेदकं तु चाक्षुषादिवृत्तौ अनुगतमननुगतं वेत्यनाग्रहः । न हि स्वावरणविरोधिता नाम तन्नाशकता । येन विरोधितावच्छेदकस्य चाक्षुषादिवृत्त्यननुगतत्वावरणनाशजनकतावच्छेदकत्वाभावापत्तिः स्यात् । किन्तु आवरणाभावव्याप्यत्वमेव विरोधित्वम् । न चापरोक्षत्वस्य जातित्वे तद्धटितधर्मस्य यत्र कारणत्वप्रतिबन्धकत्वादि तत्र जातेः स्वरूपतो निवेशाल्लाघवमुक्तरूपत्वे गौरवमिति वाच्यम् । आवरणाभावस्याखणडस्यैव तद्व्यक्तित्वेन हेतुत्वाङ्गीकारात् । इति ।

तन्न । आवरणात्यन्ताभावोऽपरोक्षत्वशरीरे निवेश्यते ध्वंसो वा ? अत्यन्ता-भावनिवेशेऽप्यावरणस्य परोक्षज्ञाननिवर्त्याज्ञानसाधारणरूपेण निवेशः उताभानापाद-काज्ञानस्यैव ? नाद्यः । घटादौ परोक्षज्ञानेनैकाज्ञानापगमात्तस्यापरोक्षत्वापत्तिः । अज्ञान-सामान्यं न निवृत्तमिति नापरोक्षमिति यद्युच्यते तदा चाक्षुषादिवृत्तिकालेऽपि भावितद्विषयकस्पार्शनचाक्षुषतद्विषयकशाब्दादिनिवर्त्याज्ञानानां तत्पुरुषनिरूपितानां सत्वा-त्तादृशचाक्षुषादेरपरोक्षत्वानुपपत्तिः । अभानापादकाज्ञाननिवेशपक्षेऽपि सर्वनिवृत्यनङ्गीकारे एष एव दोषः । धर्माधर्मार्दो स्वत एव सुखादाविव अभानापादकाज्ञानाभावसत्वात्सुखादि-विषयकसाक्षिण इव धर्मादिविषयकपरोक्षज्ञानस्यापि अपरोक्षत्वापत्तेरभानापादकाज्ञान-निवेशपक्षे वारयितुमशक्यत्वाच्च । ध्वंसनिवेशपक्षेऽपि सुखादिधियः साक्षिरूपाया अपरोक्षत्वानुपपत्तिः । साक्षिणस्तदावरकीभूताभानापादकाज्ञानस्याप्रसिद्धया तद्ध्वंसकत्वा-भावात् । आवरणपदेनाज्ञानसामान्यविवक्षया कालान्तरीणपरोक्षज्ञाननिवर्त्याज्ञानप्रसिद्धावपि साक्षिणस्तद्ध्वंसकत्वाभावात् ।

किञ्च तत्रावरणनाशस्य घटदिस्थलेऽङ्गीकारे तज्जनकतावच्छेदिका जातिश्चाक्षुषा-दावङ्गीकार्यैव । आवरणाभावस्य ध्वंसकाले सम्पाद्यमानस्य

तद्धेतुत्वायोगात् । तथा च तस्यावश्यकत्वे किमुक्तस्यापरोक्षत्वस्य निर्वचनेन ? आवर-णापगमस्य विशेषणतयोपलक्षणतया निवेशविकल्पेन पूर्वोक्तदोषोऽपि स्फुट एव । अज्ञान-विषयतावच्छेदकत्वमनावृतत्वमिति परिष्कारेऽपि पूर्वोक्तरीत्यैते दोषा एवोह्या इत्यलम् ।

ननु तर्ह्यस्त्वन्यत्र शब्दस्यापरोक्षजनकत्वाभावेऽप्यापरोक्ष्यस्य ‘दृष्ट्वैव तं मुच्यते’ इत्यादिश्रुतिसिद्धस्यान्येनायोगान्मनननिदिध्यासनाद्यङ्गकश्रवणेनैव भवति तदिति पक्षः इति चेन्न । मनसैव श्रवणमननोत्तराखण्डस्मरणरूपनिदिध्यासनेन सम्भवात् । न च मन-सोऽतीन्द्रियत्वान्न साक्षात्कारजनकत्वमिति वाच्यम् । मनस इन्द्रियत्वस्य स्मरणरूपप्रत्यक्ष- मानसवासनाधीनस्वाप्नसाक्षात्कारयोगजधर्माधीनसकलसाक्षात्काराद्यथाऽनुपत्त्या, ‘मनः षष्ठा-नीन्द्रियाणि’ ‘इन्द्रियाणां मनश्चास्मि’ इत्यादिपुराणवाक्यैर्भागवततात्पर्यादावुदाहृताचार्यं- वचनैश्च सिद्धत्वात् । उक्तश्रुत्यर्थानुपपत्त्यैव शब्दस्यापरोक्षज्ञानजनकत्वकल्पनावन्मनस इन्द्रियत्वकल्पनासम्भवाच्च । न च शब्दस्य ज्ञानकारणतायाः क्लृप्तत्वात्तज्जन्यज्ञानापरोक्षत्व-मात्रकल्पने लाघवम् । मनस इन्द्रियत्वं तज्जन्यज्ञानस्यापरोक्षत्वं च कल्पनीयमिति गौरवमिति वाच्यम् । प्रत्यक्षान्यज्ञानकारणत्वेनैव क्लृप्तस्य प्रत्यक्षकारणत्वकल्पनस्य  व्याहतत्वेनानुत्थितेर्म नसोऽनिन्द्रियत्वस्यासिद्धत्वेन तत्र तत्कल्पनासम्भवात् । अन्यथा चाक्षुषत्वस्यैव घ्राणादावपि दीर्घशष्कुलीभक्षणादौ परिकल्पनापत्तेः ।

न च स्मरणस्य भवन्मते प्रत्यक्षरूपत्वात्तत्करणस्यैव मनसः आत्मापरोक्षकरणत्वाङ्गीकारे ईश्वरस्मरणस्यैव तत्साक्षात्कारत्वापत्त्या स्मरणमात्रेण मोक्षापत्तिरिति वाच्यम् । योगि-नामतीतानागतविषयकप्रत्यक्षसमशीलस्य मानसप्रत्यक्षस्य लौकिकविषयताशालिन एव निरन्तरध्यानसहितेन मनसा भगवत्प्रसादसहितेनोत्पत्त्यङ्गीकारात् । अत एव परमपाटवमापन्नं ध्यानमेव साक्षात्कार इति वाचस्पतिमतप्रवेशाभावः । न च ‘यन्मनसा न मनुते’ ‘नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति’ ‘त्यापिश्रुतिविरोधो मनोग्राह्यत्वपक्ष इति वाच्यम् । ‘यतो वाचो निवर्तन्ते’‘ अशब्दमस्पर्शं’ ‘शब्दो न यत्र पुरुकारकवान् क्रियार्थः’ इत्यादिश्रुतिस्मृतिभिः शब्दगम्यताया अपि निषेधात् । औपनिषदत्वश्रुत्यनुरोधात्तानि वचनवृत्त्या श्रुतिवेद्यत्वाभावपराणि वाक्यानीति चेत् तर्हि ‘मनसैवानुद्रष्टव्यं’ ‘मनसैवेद-माप्तव्यं’ ‘नेह नानास्ति किञ्चन’ इति श्रुत्यनुरोधादुक्तश्रुतीनां श्रवणाद्यसहकृतमनोवेद्य-त्वाभावपरत्वोपपत्तेः ।

कस्तर्हि निर्णय इति चेत् ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ इत्यादिश्रुत्यनु-गृहीतानेकपुराणादिवाक्यैर्ध्यानेनैव भगवद्दर्शनस्याभिहितत्वेन तथैव निर्णयोपपत्तेः । न च पूर्वोक्तवाक्यैः शाब्दापरोक्षसिद्धिरिति वाच्यम् । ‘पश्यार्थैश्चानालोचने’ इति स्मरणेन दृशेर्ज्ञानसामान्येऽपि प्रयोगस्य पूर्वमभिहितत्वेन दृशेरपरोक्षज्ञानपरत्वाभावात् । अत एव तद्धा विजिज्ञाविति वाक्यं तदनुसारेणापरोक्षपरमित्यपास्तम् । वेदान्तविज्ञानेत्यस्यापि वेदानामन्तेन सूत्रोक्तयुक्तिज्ञानजन्येन शक्तितात्पर्यविषयकनिर्णयेनोत्पन्नं यद्विशेषज्ञानं विरुद्धकोटिप्रतिभास- निरासकज्ञानं तेन सुनिश्चिताः निश्चितप्रामाण्यकज्ञानविषयीभूता अर्था इत्यर्थकत्वस्य प्रतिभासेन शब्दादपरोक्षज्ञानोत्पत्तेरुक्तवाक्यादप्रतिभासात् । अन्यदधिकं न्यायामृतादवगन्त- व्यम् । एवं श्रवणादीनां न तर्करूपत्वम् । तथापि तत्र विधेरुपपत्तिरित्यादिकं न्यायामृतानु- सारेणान्यत्रास्माभिः प्रतिपादितमिति तत एवावगन्तव्यम् । ग्रन्थगौरवभयान्नेह प्रपञ्चितम् ।

।। पराभिमताज्ञाननिवृत्तिरूपमुक्तेः साध्यत्वाभावसमर्थनम् ।।

एवं परमते मुक्तेः साध्यत्वमप्यनुपपन्नम् । तस्यात्मान्यत्वेऽद्वैतहानिप्रसङ्गेनात्ममात्ररूप-त्वाभ्युपगमात् । नन्वज्ञाननिवृत्तिर्मुक्तिः । सा च ज्ञानोपलक्षितात्मस्वरूपैव । न च ज्ञाननिवृत्तौ मुक्तिनिवृत्तिप्रसङ्गः । उपलक्षणनिवृत्तावपि तन्निवृत्त्यभावात् । पाकनिवृत्तावपि पाचकनिवृत्त्यभाववत् । तदुक्तम् -

निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।

 उपलक्षणनाशेऽपि स्यान्मुक्तिः पाचकादिवत्’ ।। इति ।

न च वृत्त्युत्पत्तेः प्रागात्मनस्तदुपलक्षितस्य सत्वान्मुक्तिः स्यादिति वाच्यम् । पाकोत्पत्तेः प्राक् पाचक इति व्यवहाराभावेन तदुत्पत्तेः पूर्वं तदुपलक्षितत्वाभावात् । इदनीमयं पाचक इत्यादौ एतत्कालीनस्वनिष्ठपाचकत्वसम्बन्धेन व्यावर्तितोऽयमिति ज्ञानं जायते । कालश्च स्थूलकालात्मक एव बोध्यते । तेन पाककृत्यभावकालेऽपि तादृश-व्यवहारोपपत्तिः । तादृशस्थूलकाले किञ्चित्क्षणावच्छेदेन कृतेरुत्पन्नत्वात् । काल-विशेषाघटितस्तु व्यवहारस्तादृशकृत्युत्पतेः प्रागपीष्ट एव । एवं वृत्त्युत्पत्तेः प्राक्काले कालाघटितोऽयं मुक्त इति व्यवहारस्त्विष्टः । शतवर्षात्मकं वृत्तितत्प्रागभावोभयाधिकरणकालमादाय वृत्तिप्रागभावद-शायामप्यस्मिन् कालेऽयं मुक्त इति व्यवहारस्त्विष्ट एव । परन्तु यत्कालस्य वृत्तिप्रागभावाधि-करणत्वमेव न वृत्त्यधिकरणत्वं तत्कालमादाय व्यवहारस्तु न जायते मुक्तपदार्थतावच्छेद-काज्ञाननाशपदार्थकोटिप्रविष्टवृत्तावेव समभिव्याहृतकालान्वयस्य व्युत्पत्तिसिद्धत्वेन तत्र तस्य बाधितत्वादिति चेन्न ।

उक्तरीत्यङ्गीकारे चैत्रीयपाकाधिकरणीभूतदिवसोत्तरदिवसमात्रतात्पर्यकस्य ‘इदानीमयं पाचकः’ इति व्यवहारस्य, ‘इदानीमपि शुको मुक्तो वर्तते’ इत्यादिपौराणव्यवहारास्य चाप्रामाण्यापत्तेः । समभिव्याहृतकालान्वयस्य पाके वृत्तौ च बाधितत्वात् । तत्रेष्टापत्तौ च स्थूलकालमादायापि तथा व्यवहारस्यानङ्गीकर्तुं शक्यत्वेनैकशेषे बीजभावात् सोऽप्य-नङ्गीकरणीयः स्यात् । तत्रपीष्टापत्तौ पाककृतिकाल एव पाचक इति व्यवहारस्यैव बलात्प्राप्त्या विशेषणाधियैव व्यवहार इत्यापत्तेः । तथा पाककृतेरुपलक्षणतया व्यवहारमभि-लषतोक्तदोषपरिहाराय पाकप्रागभावमात्रकाले भाविपाककर्तृत्वमादाय तद्वेत्तॄणां पाचकोऽय-मिति व्यवहारस्त्विष्ट एवेति वक्तुं युक्तम् । यदि नास्तीत्याग्रहस्तदा तदुत्पत्तिक्षणामारभ्य विद्यमानधर्मविशेषं तत्प्रागभावध्वंसाधिकरणत्वं चोपादाय तादृशव्यवहारो वारणीयः । प्रकृते च शुद्धात्मनि वृत्तिध्वंसादेः कस्याप्यन्यस्याभावात् वृत्त्युपलक्षितत्वं तत्रान्यद्वक्तुं न शक्यमत आत्मैवाज्ञाननाश इत्यागतम् । वृत्त्युपहितस्याज्ञाननाशत्वमित्यस्य वृत्तेरेवाज्ञाननाशत्वमिति पक्षानतिरेकेण तद्दूषणेनैव दुष्टत्वात् । अतः शुद्धात्मन एवाज्ञाननाशत्वे पर्यवसानाद्वृत्तेः प्रागपि ‘अयमिदानीं मुक्तः’ इति व्यवहारप्रसङ्गो दुर्वारः। वृत्तेः प्रागप्यज्ञाननाशस्य सत्वादुत्तरकाल इव पूर्वकालेऽप्यज्ञानावस्थानायोगादज्ञानस्वरूपस्यैवाभावप्रसङ्गः । नाशकाले प्रतियोगि-सत्वासम्भवात् । आत्मरूपस्य मोक्षस्य कृत्यसाध्यतया पुरुषार्थत्वानुपपत्तिश्च ।

न चेतरेच्छानधीनेच्छाविषयत्वरूपपुरुषार्थत्वस्य कृतिसाध्यत्वाघटिततया कृतिसाध्यत्वा-भावेन पुरुषार्थत्वाभावापादनं मौढ्यमूलमिति वाच्यम् । पुरुषार्थत्वशरीरस्य कृतिसाध्य-त्वाघटितत्वेऽपि केनचिद्रूपेण कृतिनिष्पाद्यत्वस्य पुरुषार्थत्वव्यापकताया धर्मादिष्वव्यभि-चरितसाहचर्यदर्शनसिद्धत्वेन व्यापकाभावेन व्याप्याभावस्याऽपादितत्वेन तवैव तादृशोक्ते-र्मौढ्यमूलकत्वात् । न च ‘कृत्यायं पाचकः साधितो जातः’ इत्यादिप्रतीत्योपलक्षणे कृति-साध्यत्वप्रतीतिनिबन्धनस्य कृतिसाध्यत्वस्योपक्षितेऽपि विषयीकरणादुपलक्षितस्य कृतिसाध्य-त्वमस्तीति वाच्यम् । तादृशप्रतीतेः पाचकत्वविशिष्टषयकत्वेन तदुपलक्षितस्वरूप-मात्रविषयकत्वाभावात् । उक्तरीत्योपलक्षणपरिचित धर्मान्तरविशिष्टविषयकत्वस्य वा तत्र सम्भवात् । प्रकृते शुद्धस्वरूपात्मकस्योपलक्षितस्य कथमपि कृतिसाध्यत्वोक्तेरसम्भवात् ।

अथ यत्कार्योत्पत्तिकाले यन्न तिष्ठति स तस्य ध्वंसः । यथा विभाग एव संयोगनाशः । उत्तरदेशसंयरोगस्तन्नाशः । तदुत्तरकार्यं तन्नाशः । एवमन्ततो गत्वा चरमकार्यध्वंसः प्रलये परमाणुस्वरूप एवेति नवीनै रङ्गीरकृतत्वेन चरमवृत्तिरेव स्वातिरिक्तसर्वकार्यनाशरूपा तथा च वृत्तेः पूर्वं तदभावान्न मुक्तत्वव्यवहारो नाप्यविद्यानाशरूपपुरुषार्थस्य कृतिसाध्यत्वानुप-पत्तिरिति चेन्मैवम् । वृत्तेर्नाशकाभावेन तदवस्थानापत्तौ तदुपादानभूतमनआदीनामपि सत्वापत्त्या संसारस्यैव प्राप्त्या मुक्तिवाचोयुक्तेरयोगात् ।

ननु वृत्तिः स्वयमेव स्वस्य नाशिका । तथात्वे तस्याः क्षणिकत्वस्येष्टत्वात् । अथवा जीवन्मुक्तिकाले प्रथमत उत्पन्ना वृत्तिरज्ञाननाशरूपा । प्रारब्धकर्मपरिसमाप्त्युत्तर-कालिकवृत्तेरज्ञानलेशरूपोपादाननाशत्वं स्वद्वितीयक्षणावच्छेदेन स्वीक्रियते । तद्रूपस्वोपादान-नाशस्य द्वितीयक्षण एव सम्पत्त्या तृतीयक्षण एव वृत्तिनाशः । अथवा चरमवृत्त्युपादानं मनोऽपि तथा । चरमवृत्तेराद्यक्षण एवाज्ञानलेशरूपोपादाननाशात्तदुपादानकमनोनाशः । तन्नाशे च मनोनाशरूपकारणबलाद्वृत्तिनाश इति न तस्याः क्षणिकत्वमिति चेन्न ।

वृत्तिनाशस्यात्मातिरिक्तत्वे शुद्धावस्थानायोगः । आत्ममात्रत्वे कृत्युद्देश्यत्वानुपपत्तिः । न च वृत्तिरूपज्ञाननाशार्थमेव कृतिरस्त्विति वाच्यम् । वृत्तेः स्वतः सुखदुःस्वावाप्ति-हान्यन्यतरत्वाभावेन तन्मात्रोद्देशेन प्रवृत्त्ययोगात् । न च चरमवृत्तेरज्ञानादिनिखिल-कार्यनाशरूपतया दुःखनाशत्वेन पुरुषोद्देशतेति वाच्यम् । सर्वसुखनाशत्वबुद्ध्या इच्छा-विषयत्वाभावस्याप्यापत्तेः । नित्यानन्दाभिव्यक्तिहेतुत्वज्ञानादिच्छाविषयत्वमस्त्विति चेन्न । वृत्त्युत्तरमभिव्यक्त्यादेः शुद्धात्मस्वरूपत्वे त्वन्मतेऽनुपपत्तिः । वैषयिकसुखेष्वस्थिरत्वबुद्ध्या मुमुक्षोरिच्छाभाववत् चरमवृत्तिरूपदुःखनाशेऽप्यस्थिरत्वेन गृह्यमाणे स्थिरफलसाधनताग्रहं विना मुमुक्षोरिच्छाऽयोगात् । चरमवृत्तेरेवाज्ञानादिनाशत्वे तत्कारणीभूतवाक्यस्यैवा-ज्ञाननिवर्तकत्वाऽपत्त्या ज्ञानमेवाज्ञानाननिवर्तकमिति मतहानिः । ‘दृष्ट्वैव तं मुच्यते’ इत्यादिवाक्योक्ताया अविद्यानिवृत्तिरूपमुक्तेर्दर्शनकारणताया अनुपपत्तिः । चरमक्षणस्य चरमश्वासस्य वा विनिगमकाभावादज्ञाननिवृत्तित्वापातश्च । वस्तुतस्तु एकस्य संयोगनाशस्य विभागजन्यस्य कल्पने एव लाघवम् । न तु विभागे संयोगनाशत्वकल्पने । तत्काले एव तत्रोत्पन्नेषु पदार्थान्तरसंयोगविभागादिषु तत्कल्पनाया विनिगमकाभावेन दुर्वारतया महागौरव-प्रसङ्गात् । तस्मात्तव मतमेवासमञ्जसम् । तदनुरोधेन वृत्तेरविद्यानाशरूपत्वकल्पनादिकं सुतरामयुक्तम् ।

एतेन ‘आनन्दप्रकाशस्य फलत्वं न जन्यत्वं किन्तु व्यङ्ग्यत्वम् । तच्च तज्जन्या-वरणनाशाश्रयत्वम् । तस्य नाशो यद्युक्तात्मस्वरूपः तदोपलक्षणस्य जन्यत्वाज्जन्यत्वम् । यद्युक्ता वृत्तिरेव तदा जन्यैव’इति निरस्तम् । आत्मनस्तन्नाशरूपताया निरस्तत्वाज्जन्य-त्वासम्भवस्योक्तत्वात्स्वेन सहाश्रयाश्रयिभावस्यायोगाच्च । वृत्तेरज्ञाननाशरूपताया निरस्त-त्वात् । तन्नाशे सति फलकोटिप्रविष्टावरणनाशस्य नाशात्तद्धटितफलस्यापि निवृत्त्यापत्तिः । तदुपलक्षितस्य फलत्वे वृत्त्युपलक्षितात्मैव मुक्तिरित्यागतमिति तस्य कृतिसाध्यत्वा-भावात्पुरुषार्थत्वानुपपत्त्यादिदोषदूषितत्वमेव ।

न च मा न भूवं भूयासमितीच्छाविषयत्वस्यात्मनि सत्वेऽपि कृतिनिष्पाद्यत्वाभावात् उक्तपुरुषार्थत्वं प्रति कृतिनिष्पाद्यत्वं न व्यापकमिति नोक्तदूषणावकाश इति वाच्यम् । सिद्धत्वेनात्मस्वरूपमात्रकामनायोगात्सेच्छा शरीरस्थित्यादिविषयिण्येव । तस्यां चान्नपानादि-द्वारा कृतिनिष्पाद्यत्वस्याव्याहतत्वात् । वस्तुत आत्मस्वरूपे पुरुषार्थ इति लौकिकव्यवहारा-भावात्पुरुषप्रवृत्तिप्रयोजकेच्छाविषयत्वमेव पुरुषार्थत्वमर्थादिसाधारणम् । तत्प्रति कृतिनिष्पाद्य- त्वस्य व्यापकत्वमव्याहतमेवेत्यात्मरूपमोक्षस्य पुरुर्षत्वानुपपत्त्यादिदूषणानामपरिहार एव ।

यत्त्वत्राद्वैतचन्द्रिकायामुक्तम् ‘स्वाज्ञानविरोध्युपहितस्याऽत्मस्वरूपस्यैव सर्वत्र सुखरूप- त्वात्फलस्य प्रवृत्तिप्रयोजकेच्छाविषयत्वम् । स्वाज्ञानविरोधित्वं स्वाज्ञानाधिकरणकाल-पूर्वत्वाभाववत्क्षणवृत्तित्वम् । चन्दनादिजनितवृत्तेर्यत्किञ्चिदज्ञानविरोधित्वम् । चरमवृत्तेः सर्वाज्ञानविरोधित्वम् । पल्लवाज्ञाने साक्ष्यानन्दावरकत्वम् । मूलाज्ञाने पूर्णानन्दावरमकत्वम् । तद्विरोधिनी च चरमवृत्तिः । न च वृत्तीनामेव सुखत्वमस्तु किमात्मस्वरूपस्य लौकिकसु-खात्मकत्वाङ्गीकारेण । तथात्वे तत्स्वरूपे तारतम्याभावेन स्रक्चन्दनादिजनितसुखेषु तारतम्यानुपलब्धिप्रसङ्गदिति वाच्यम् । निष्कामतादशायां सुषुप्तौ च भासमानसुखस्य वृत्तित्वासम्भवात् । तदानीं वृत्तिसामग्य्रभावात् । सुखतारतम्यन्तु व्यञ्जकनिवृत्तितारतम्या- धीनमिति तस्याबाधकत्वात् । तथा च यत्किञ्चिदज्ञानविरोध्युपहितस्याऽत्मनः स्वतः पुरुषार्थत्वमात्रसत्वेऽप्यज्ञानसामान्यविरोध्युपहितस्याऽत्मनः परमपुरुषार्थत्वमव्याहतम् । सा च विरोधिनी चरमवृत्तिरेव । तस्या अस्थिरत्वेन तदुपहितस्याप्यस्थिरत्वेऽपि तादृशास्थिर-त्वमकिञ्चित्करम् । तदुत्तरं सुखं नावरणोपेतमिति सूक्ष्मधीमात्रवेद्यमेतत्’ इति ।

तन्मन्दधीमात्रगम्यम् । शुद्धात्मनः पुरुषार्थत्वाभावादुक्तवृत्त्युपहितस्य स्थिरत्वाभावे वैषयिकवृत्त्युपहितादस्य वैलक्षण्याग्रहेण तद्विहायात्रेच्छाया अयोगेनाकिञ्चित्करत्वोक्तेरेवा-किञ्चित्करत्वात् । न चाज्ञानसामान्यविरोधित्वरूपवैलक्षण्यग्रहादेव तत्रेच्छाप्रवृत्त्यादि । गुडजन्यसुखं विहाय शर्करासाध्यसुखविषयेच्छावदिति वाच्यम् । विषयसाध्यसुखेष्वप्यल्प-श्रमसाध्यसुखं विहाय स्वप्रयोजकप्रयत्नजन्यनान्तरीयकबहुदुःखहेतुसाध्यकसुखे तदधिकेऽपी-च्छाप्रयत्नाभावस्यैवानुभवसिद्धत्वात्सुलभसाध्यलौकिकसुखानि विहाय बहुजन्मप्रयत्नाद्य-धीननानाक्लेशप्रयोजकनानाविषयसाध्यसुखरूपसमस्तेष्टपरिहारहेतुभूतभवदुक्तक्षणिकसुखे सचेतसामिच्छाया असम्भवात् । तदुत्तरमज्ञानरूपावरणाभावबुद्धिरेव तत्रेच्छोत्पादिकेति न च वाच्यम् । तस्य सुखरूपत्वाभावेन तद्बुद्धेः भवदुक्तेच्छोत्पादनेऽकिञ्चित्करत्वात् । उक्तसुखस्य तज्जन्यत्वाभावाच्च । तज्जनकतया इच्छाविषयत्वे इतरेच्छानधीनेच्छाविषयत्वाभावापत्त्या परमपुरुषार्थत्वाभावापाताच्च ।

अत एव ‘आवरणाभावो दुःखाभावसाघनतयेष्टः’ इति परास्तम् । तत्साधनतयोक्ते-च्छाङ्गीकारेऽस्यापरमपुरुषार्थत्वापातात् । शून्यमतवत् त्वन्मते दुःखोच्छेदमात्रस्य पुरुषार्थ-त्वापाताच्च । आवरणमात्रसत्वेऽपि जागरेऽपि च सर्वदा दुःखासम्भवेन तन्मात्रस्य दुःखजनकत्वासम्भवाच्च । चरमवृत्त्युत्तरकालादेः कस्यापि निष्कृष्टपक्षेऽनङ्गीकारेण तदुत्तरमनावरणमिति ज्ञानस्याभ्रान्तानामसम्भवाच्च ।

यदपि ‘स्रक्चन्दनादिसाध्यवृत्तेरज्ञानविरोधित्वम्’ इति तदपि न । तथात्वे ज्ञाननिवर्त्यत्वाभावात्तस्याज्ञानत्वानुपपत्तिः । चन्दनादिसाध्यवृत्तेर्वा ज्ञानत्वापत्तिः । न चाज्ञाने वैजात्यमङ्गीकृत्य तन्निवर्तकत्वं विजातीयवृत्तावेव स्वीक्रियते । अन्यथा चन्दनादिप्रत्यक्षेणापि सुखित्वापत्तेः । तथा च तन्निवर्तकवृत्तेर्न ज्ञानत्वमिति वाच्यम् । तथात्वे पूर्णानन्दावरकाज्ञानस्यापि तादृशवैजात्याश्रयत्वस्य तन्निवर्तकचरमवृत्तेः स्त्रक्चन्द-नादिसाध्यवृत्तिजातीयवृत्तित्वापत्त्या बन्धस्य सुखनिवर्त्यत्वस्यैवापातात् ।

यदपि वृत्तेः सुखत्वाभावे युक्त्यभिधानं तदप्यसारम् । अज्ञानविरोधिवृत्तेर्निष्काम-तादशायां सुषुप्तौ चाभावे सुखावरकविरोध्युपहिताऽत्मस्वरूपाभावेन तवापि तदा सुखानुभवोक्तेरयुक्तत्वापातादित्यलम् ।

यदपि ‘यद्धर्मवत्तया ज्ञाते यत्र स्वेच्छा जायते तद्धर्मावच्छिन्नः सःस्वस्य पुरुषार्थः । तादृशधर्मश्च स्वं प्रत्यनावृतसुखत्वम् । न तु स्वसम्बन्धिसुखत्वमात्रम् । सुखं ते भविष्यति तच्चावृतमेवेति भ्रान्तप्रतारकादिवाक्यात् स्वसम्बन्धित्वेन ज्ञायमाने सुखे इच्छाऽनुदयात् । तेनाऽत्मस्वरूपसुखस्य येन केनापि सम्बन्धवैधुर्यात्कथं पुमर्थतेति शङ्काऽनवकाशः तथा च तदिच्छयैव मोक्षार्थं प्रवृत्तिः’ इति तदपि न ।

केवलानावृतसुखत्वस्यापीच्छाविषयतानच्छेदकत्वेन स्वभोग्यत्वरूपस्य स्वसम्बन्धित्व-स्यावश्यमिष्टतावच्छेदकघटकत्वेन भोग्यत्वादिरूपस्वसम्बन्धशून्यशुद्धात्मरूपस्वसुखे इच्छाया असम्भवात् । अन्यथा चैत्रस्य, ‘भाविसुखं तवाभोग्यमपि कारणविशेषात्तवानावृत्तं त्वच्छरीरवद्भवति’ इति प्रतारकवाक्यश्रवणोत्तरमपि तत्रेच्छोत्पत्त्यापत्तेः । तस्याश्चानु-भवविरुद्धत्वात् ।

किञ्च सुखत्वेन साक्षात्क्रियमाणं सुखं पुरुषार्थः । न तु स्वरूपतः केनचिद्रूपेण वा । यद्धर्मस्येच्छाविषयतावच्छेदकता तद्धर्मावच्छिन्नसम्पत्त्यैवेच्छानिवृत्तिः । अन्यथा शर्करासाध्य-सुखमिच्छतः तत्त्वेनाज्ञायमानसुखसाक्षात्कारदशायां तत्रेच्छाऽनुत्पत्तिप्रसङ्गात् । शर्करात्वेन ज्ञायमानगुडाभ्यवहाराधीनसुखेन तत्त्वेन साक्षात्क्रियमाणेनेच्छानिवृत्तिदर्शनात् । एवञ्च शुद्धात्मनि सुखत्वादेर्मुक्तावस्फुरणात्कथं तादृशानावृतानन्दस्य पुरुषार्थता ?

यत्तु ‘यदा जीवन्मुक्तिकाले पुमर्थता तदा सुखत्वेन सुखं प्रकाशत एव । न हि परममुक्तिकाले पुमर्थतासंसर्ग आत्मसुखस्य । इति वदामः । तदानीं तस्याव्यवहारेणानु-पयोगात् । परममुक्तौ कालस्यालीकत्वाच्च । यद्यपीष्टतावच्छेदकसंसर्गस्य भोग्यविषयाव्यभि-चारित्वनियमादात्मरूपसुखे परमकैवल्ये सुखत्वसंसर्ग आवश्यक इति भाति । तथाऽपि यद्धर्मविशिष्टविषयिणी कामना, भोगकाले तद्धर्मसंसर्गस्तत्रापेक्षितः । यथा सौन्दर्या-दिविशिष्टभार्याकामना । तत्र भोगकाले तत्सत्ताऽऽवश्यिकी । यत्र यद्धर्मोपलक्षितयदर्था-वगाहिनी कामना तत्र भोगकाले तत्र न तद्धर्मस्थितिरपेक्षिता । यथा वासार्थं शत्रुगृहका-मनास्थले तत्र स्ववासकाले गृहे शत्रुस्थितेरसम्भवात्तत्र भोगकाले नेष्टतावच्छेदकसंसर्गः । तथेहाप्यनावृतानन्दत्वोपलक्षित एव कामनाङ्गीकारान्मुक्तावात्मस्वररूपे तत्संसर्गाभावेऽपि न दोषः’ इति ।

तन्न । आनन्दत्वोपलक्षिते इच्छायाः कुत्राप्यदृष्टत्वेनेच्छायास्तद्विशिष्टविषयकत्व-नियमात् । अन्यथैतद्विषयरूपा साध्या वृत्तिः प्रथमक्षणे आनन्दरूपा भूत्वा द्वितीयादिक्षणे आनन्दत्वशून्या भवतीत्यादिप्रतारकवाक्यश्रवणोत्तरं द्वितीयदिक्षणेऽपि सा वृत्तिः मम भवत्वितीच्छाऽनुपपत्तिः । इष्टसाधनस्थले तूभयापीच्छा सम्भवति । आनन्दस्यैव परमेष्टत्वेन तत्साधनताज्ञानादन्यत्रेच्छा । सा च साधनता यत्र यद्धर्मोपलक्षिते गृह्यते तत्र तद्धर्मोपलक्षित एव यत्र यद्धर्मविशिष्टे गृह्यते तत्र तद्धर्मविशिष्ट एव च कामना जायते । सामग्रीभेदस्य तत्रानुभवसिद्धत्वात् । सुखादीच्छायां सुखत्वप्रकारकज्ञानमात्रस्य हेतुत्वेन तत्रोक्तवैलक्षण्यस्य वक्तुमशक्यत्वात् । आनन्दत्वस्यार्थे उपलक्षणतया भाने तस्यास्थिरत्वज्ञानस्य सहकारित्वमित्याग्रहकरणे मुमुक्षूणामस्थिरे इच्छैवानुपपन्नेति पूर्वोक्तमेव बाधकं दुर्वारम् ।

परममुक्तौ तदव्यवहारेणानुपयोगादिति पूर्वोक्तेः कोऽर्थः ? परममुक्तिकाले पुमर्थोऽत्रा-स्तीति व्यवहर्तुरभावादनुपयोग इति उत शास्तकाराणां परममुक्तौ पुमर्थत्वव्यवहाराभाव इति ? नाद्यः । परममुक्तौ कालो नास्तीति वदतः तथा वक्तुमशक्यत्वात् । परममुक्तिकाले व्यवहर्त्रभावेऽपि इदानीं तद्विचारे प्रवृत्तौ तत्र पुमर्थत्वतदभावयोरन्यतरस्य वक्तव्यत्वेन तदनुपयोगोक्तेरसङ्गतेश्च । परममुक्तेः कालासम्बद्धत्वे तस्य शशविषाणवदसत्वापाताच्च । न द्वितीयः । सर्वप्रेक्षावतां तत्रैव पुमर्थताव्यवहारात्तदिच्छयैव ब्रह्मविचारादौ प्रवृत्तेः तत्र पुमर्थत्वसंसर्गानिरूपणे तेषां भ्रान्तत्वस्य तत्प्रवृत्तेश्चैत्यवन्दनादिप्रवृत्तेरिव भ्रान्तिभूलकत्वस्य च त्वां प्रत्यापादनात् । तस्मान्न कथञ्चिदपि मुक्तेः फलत्वं त्वन्मते सम्भवति ।

एतेन ‘ज्ञानेनावरणध्वंसोत्पत्तिः । तस्य ब्रह्मातिरिक्तत्वे तन्निष्ठध्वंसस्यापि ध्वंसापेक्षाया-मनवस्थितध्वंसपरम्परोत्पत्त्या निष्प्रपञ्चब्रह्मावस्थानरूपमुक्त्यनुपपत्तिरतो ज्ञानाधिकरणक्षणस्य प्रपञ्चाधिकरणकालपूर्वकालत्वाभावनियम एवाज्ञाननिवृत्तिपदेन विवक्षितः’ इत्यादिजल्पन-मप्यपास्तम् । तथात्वे आवरणाभावसम्बन्धाभावेनानावृतानन्द इत्यस्यापि वक्तुमशक्य-त्वापत्त्या मुक्तिस्वरूपनिरूपणस्य सुदूरनिरस्तत्वात् । आवरणादिस्वरूपस्य निरस्तत्वेन ज्ञाननिवर्त्यत्वलक्षणनिरासप्रस्तावे उक्तनियमपक्षस्यापि निरस्तत्वाच्च भवदुक्तप्रक्रिया सर्वाऽप्ययुक्तैवेति स्थितम् ।

।। परमते मुक्तपदार्थस्यैवासिद्धिसमर्थनम् ।।

अपि च अहमर्थस्य चिन्मात्रे आरोपितत्वेन बाध्यत्वेन मुक्त्यनन्वयात् चिन्मात्रस्येच्छा-सम्बन्धरहितस्य घटतुल्यतया मुक्त्यर्थ प्रवृत्तिशून्यत्वात् चिन्मात्रस्यानावृतानन्दप्रकाशरूप-मोक्षसम्बन्धित्वशून्यत्वाच्च मुक्तपदार्थस्यैवासिद्धिः ।

यत्तु ‘अहङ्काररूपे यादृशविशेषणवत्तया मुक्तिकामिता तादृशविशेषणवति जीवन्मुक्ते मुक्त्यन्वयोऽस्त्येव । भवन्मत एव तदनुपपत्तिः । कामयितृशरीरपरित्यागेन लोकान्तर-प्राप्तिरूपमोक्षाङ्गीकारात्’ इति । तदहो मौढ्यम् । आमुष्मिकफलत्वेन सर्वसिद्धमोक्षस्यैहिक- फलत्वोपपादनात् । ननु ‘न तस्य प्राणा उत्क्रामन्ति, अत्र ब्रह्मसमश्नुते’ इत्यादिश्रुत्या यत्र लोके ज्ञानप्राप्तिः तत्रैव मुक्तिः प्रतिपाद्यते इति चेन्न । समाधौ ब्रह्माधीनानन्दविशेषवत्वमपि ब्रह्मज्ञानफलम् । न तु स्वर्गादिवत्प्राणोत्क्रमणोत्तरमेवेति ज्ञानस्तुतिपरत्वात् । अन्यथा न तस्येत्युक्तमरणाभावस्यापि प्रसङ्गात् । एवमपि मुख्यमुक्तेरैहिकत्वाङ्गीकारे ज्योतिष्टोमादेरपि कथंचिदैहिकफलत्वप्राप्तेरुपपादनेन स्वर्गाद्यपलापापत्तेः । ‘यन्न दुःखेन सम्भिन्नम्’ इति वाक्योक्तस्वःपदार्थभूतं सुखं कथमपि नैहिकं भवतीति चेत् । किं सर्वथाऽना-वृतानन्दप्रकाशरूपसुखमविद्यालेशतत्संस्काराद्यावृते जीवन्मुक्ते सम्भवति ? किं वा जीव-न्मुक्तीच्छैव मुमुक्षापदेन ब्रह्मविचाराधिकारत्वेन विवक्षिता ? सुचिरं विभावय ।

।। परमते जीवन्मुक्त्यसम्भवसमर्थनम् ।।

नापि जीवन्मुक्तिः सम्भवति । आत्मापरोक्षेणाविद्यानिवृत्त्यनन्तरं तदुपादान-कसर्वनिवृत्तेरावश्यकत्वेन देहादेः कस्यापि स्थित्ययोगात् । न च सर्पभ्रमहेत्वविद्यानिवृत्तावपि तत्संस्कारवशाद्भयकम्पाद्यनुवृत्तिवत् अविद्यानाशेऽपि । तत्संस्कारवशाद्देहादिप्रतिभासोप-पत्तिरिति वाच्यम् । वैषम्यात् । सर्पादेराविद्यकत्वेऽतिभयकम्पादेरविद्योपादानकत्वाभावेन तत्र सर्पज्ञानस्य निमित्ततया तस्य स्मरणादिरूपस्योत्तरकाले सम्भवेन तदुत्पत्तावपि प्रकृते संस्कारादेः सर्वस्यापि मूलाविद्योपादानकत्वेन तन्नाशे संस्कारस्थितेरयोगात् । न च न्यायनये समवायिकारणनाशक्षणे कार्यस्थितिवदत्रापि स्यादिति वाच्यम् । आवयोरुपादानोपादेययोः समवायादिप्रक्रियाया असम्मतत्वेन दृष्टान्तासम्मतेः । तत्र समवायिकारणनाशकाल एव तत्कार्यस्य घटादेर्नाशे नाशोत्पत्त्यनुपपत्त्या क्षणमात्रं तथास्थितिकल्पनेऽप्यत्र तादृशकारण-सम्पत्त्यनन्तरं कार्यनाशाभावे बीजाभावाच्च । न च प्रारब्धकर्मरूपप्रतिबन्ध-कवशान्नाविद्योपादानकपदार्थनाश इति वाच्यम् । तर्हि तदुपादानकमनआदिना प्रपञ्चसम्भवे संस्कारस्य नैयायिकसिद्धध्वंसवन्निरुपादानकस्याङ्गीकारे प्रयोजनाभावापत्तेः ।

न च मन्मते संस्कार एव ध्वंसः । मन्मते प्रलये विद्यमानस्य कार्यसूक्ष्मावस्थाविशेषस्यैव ध्वंसत्वाभ्युपगमात् । तथा चाविद्यानाशाभ्युपगम एव तत्संस्काराभ्युपगमः । तस्य च शुद्धात्माश्रितत्वेन शरीरादिप्रतिभासहेतुत्वं स्वीक्रियते । तं विना शुद्धचैतन्यमात्रस्य देहादिप्रतिभासे मुक्तावपि तत्प्रतिभासप्रसङ्गादिति वाच्यम् । अविद्याध्वंसस्यापि शरीरादि-प्रतिभासहेतुत्वे तस्य फलताया एवानुपपत्तेः । प्रतीतिमात्रशरीरस्याविद्यावृत्तिसापेक्षस्य अविद्यानाशरूपसंस्काराधीनप्रतीतिकत्वाङ्गीकारे तस्य संस्कारकार्यत्वस्यैव प्राप्त्या अविद्या-कार्यत्वाभ्युपगमेन अविद्यानाशेऽपि प्रारब्धकर्मरूपप्रतिबन्धकबलादुत्तरक्षणे नाशाभावोप-पादनासङ्गतेः । उक्तसंस्काररूपाविद्यानाशस्य जगत्प्रतिभासकारणत्वस्यैवानुपदमुपपादितत्वेन तन्नाशकत्वाप्रसक्त्या तत्र प्रारब्धकर्मणां प्रतिबन्धकत्वोक्तेरसङ्गतेश्च । अन्यथा कार्पासस्य भस्मावस्थायामपि तन्तुसत्वापत्तेः । स्वनाशेऽपि स्वस्य प्रतिबन्धकत्वे कदाऽप्य-निवृत्तिप्रसङ्गात् । एतेन प्रथमज्ञानानधिकविषयकेण द्वितीयज्ञानेन कथं निवृत्तिरित्याशङ्क्य प्रतिबन्धकतदभावसहकाराभ्यां विशेषव्युत्पादनमप्यपास्तम् । तस्य प्रतिबन्धकत्वस्यैवा-भावोपपादनात् । संस्कारस्याविद्यान्यस्य साक्षाज्ज्ञाननिवर्त्यत्वे मानाभावाद्गौरवाच्च ।

अथ मास्तु संस्कारपक्षोऽविद्यालेशेन तु जीवन्मुक्तस्य शरीरादिप्रतिभासः । तस्य शरीरारम्भहेतुत्वाभ्युपगमात् । न ह्यविद्यायां नष्टायां तत्कार्यपूर्वदेहादिः सम्भवतीति चेन्न । अविद्याया निरवयवत्वेनावयवावशेषादिरूपलेशोक्त्यसम्भवात् ।

ननु ‘इन्द्रो मायाभिः पुरुरूप ईयते’इति श्रुतिसिद्धनानाशक्तयः सन्त्यविद्यायाम् । तत्राऽऽवरणशक्तिविशिष्टायाः प्रथमज्ञानेन ‘ममाज्ञानं नष्टम्’ इत्यनुभवानुसारेण नाशेऽपि विक्षेपशक्तिविशिष्टाविद्यायाः प्रारब्धसमकालीनेन तत्त्वज्ञानेन नाशाभावात्तद्विशिष्टाऽविद्या लेशशब्देनोच्यते । तस्यास्तु भुज्यमानकर्मरूपप्रारब्धकर्मभोगसमाप्त्युत्तरकालिकापरोक्षज्ञानेन निवृत्तिः । न च जीवन्मुक्ते आवरणानङ्गीकारे पूर्णानन्दस्फुरणापत्तिः । इष्टापत्तेः । अत एव तस्य मुक्तव्यवहृतिगोचरत्वम् । इति चेन्न ।

उक्तश्रुतेः पूर्वमर्थान्तरस्य दर्शितत्वेनोक्तनानाशक्तिषु मानाभावात् । प्रारब्धकर्मानुभवकाले वैषयिकसुखानुभवसत्वे स्रक्चन्दनादिवृत्त्याऽऽवरणभङ्गस्यैव त्वयाऽभ्युपगतत्वेन तदाऽनावृत-सुखसत्वाभ्युपगमायोगात् । तादृशवृत्तेरानन्दावरकानिवर्तकत्वे सुखत्वानुपपत्तिः । अन्यथा जीवन्मुक्तसम्बन्धिदुःखस्यापि सुखत्वापत्तेः । अयं घट इत्यादिकस्य अपूर्वार्थविषयकस्य जीवन्मुक्तसम्बन्धिज्ञानस्य आवरणभञ्जकत्वेऽनावरणानुपपत्तिः । तदभावे तदीयदूरस्थ-विषयकशाब्दसमीपस्थविषयकशाब्दयोरविशेषापत्तिः । मूलाज्ञाननिवृत्तावपि तस्य तूलाज्ञा-नादिकमङ्गीकृत्य वृत्त्या तस्य घटाद्यवच्छिन्नचिदावरणभङ्गेन भेदापगमाद्यङ्गीकारे तस्य पूर्णानन्दस्वरूपाप्रकाशस्य बलात्प्रप्त्या पूर्णानन्दस्फुरणापादने त्वदिष्टापत्तेरयोगात् । एवम् -

नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः’ ।

इत्यादिप्रमाणबलाद्देवानां ब्रह्मज्ञानित्वेऽपि प्रारब्धकर्मानुभवितृत्वेन जीवन्मुक्ततया प्रमाणादिसिद्धत्वात्, आधिकारिकाणां प्रारब्धकर्ममात्रानुभवमात्रस्य त्वयाऽप्यङ्गीकृतत्वेन तेषां वसिष्ठादीनां च जीवन्मुक्ततया तेषां पुराणादौ गौतमशापपुत्रहननाद्यधीनातुलदुःखस्य श्रूयमा-णत्वात् कथं तेषां पूर्णानन्दस्फुरणम् ? अन्यथाऽस्माकमपि जीवन्मुक्तता कुतो न स्यात् ?

न च न ते जीवन्मुक्ताः किन्तु ‘भेजे स्वगेन्द्रध्वजपादमूलम्’ इत्यादिनोक्ता अत्र साधनानुष्ठानादिना त्यक्तदेहा वैकुण्ठादिस्थिता एवेति वाच्यम् । न हि तेऽपि भवन्मते गौणमुक्तत्वेन व्यवहृताः । अत एव जीवन्मुक्ता इत्यागतम् । तथात्वे तेषामपि ‘स यदि पितृलोककामो भवति’ इत्यादिना ‘जक्षन् क्रीडन् रममाणः’ इत्यादिना भोगार्थं विषय-कामनायाः, सङ्कल्पमात्रसिद्धविषयानुभवाधीनसुखादेश्च श्रवणात्तदनुपपत्तिः । अनावृतपूर्णा-नन्दस्फुरणोत्तरं वैषयिकसुखकामनायाः विषयसाध्यवृत्त्या आनन्दावरणाभिभवस्य चायोगात् । भूमिस्थानामेव जनकादीनां जीवन्मुक्तत्वस्य व्यवहृतत्वात्तदयोगाच्च ।

यत्तु ‘जीवन्मुक्तस्य न वैषयिकसुखादिकं किन्तु लोकानामेवायं सुखादिभोक्तेति प्रतिभासत’ इति । तत्तुच्छम् । तर्हि तस्य सर्वथा मुक्तिरेव तदीयदेहसदृशदेहादिप्रतिभास इत्यस्यैव वक्तुं शक्यत्वेन प्रारब्धकर्मावस्थानादिना जीवन्मुक्तेरेवासिद्धिप्रसङ्गात् । प्रमाणान्त-रानुसारेण तदङ्गीकारे तु तादृशार्थबोधकपुराणाद्यनुसारेण तेषां सुखदुःखादेरप्यवर्जनीयत्वात् ।

किञ्चापरोक्षज्ञानमोक्षयोरन्तरा भगवत्प्रसादस्यावश्यकत्वे खल्वीश्वरप्रसादविलम्बात् प्रारब्धकर्मावस्थानं तदिच्छयैव मोक्षविलम्ब इत्यादिकं युज्यते । ज्ञानस्वभावाधीनत्वेऽपि मुक्तेरीश्वरप्रसादाधीनत्वस्यान्यत्राचार्यैरुपपादितत्वात् । भवन्मते च ज्ञानस्वभावादविद्या-नाशस्यावश्यकत्वे तत्प्रयुक्ताखिलकार्यनाशस्यावश्यकतयाऽविद्यालेशावस्थानप्रारब्धकर्मावस्था- नादेर्निर्बीजत्वापातात् । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यते’ इति श्र्रुतिरेव प्रारब्धकर्मविलम्बेन मोक्षविलम्बं वदतीति न च वाच्यम् । अत एव तदनुपत्तेर्मया  त्वां प्रत्युच्यमानत्वात् । तस्मादावरणाशक्तिविशिष्टाविद्यापगमोत्तरं विद्यमाना विक्षेपशक्ति-विशिष्टाविद्यैवाविद्यालेशपदार्थः इत्ययुक्तमेव ।

यदपि ‘यागसूक्ष्मावस्थाया एवापूर्वताया मीमांसकवार्तिककृताऽङ्गीकृतत्वेन तद्रीत्याऽवि- द्यासूक्ष्मावस्थैवाविद्यालेशपदेनोच्यते’ इत्युक्तम् । तदपि न समीचीनम् । यतस्तस्य संस्कारपक्षातिरेको दुरुपपादः । अविद्याध्वंसरूपसंस्कारस्याप्यविद्यासूक्ष्मावस्थात्वाभ्युप-गमात् । तत्रावान्तरवैलक्षण्ये मानाभावात् । तादृशवैलक्षण्याङ्गीकारेऽपि स्थूलतन्तूपादान-कपटस्य स्थूलतन्तूनां नाशेऽवस्थानाभाववत् स्थूलाविद्योपादानकप्रारब्धकर्मणां स्थूला-विद्यानाशेन सूक्ष्माविद्यास्थितावपि स्थित्ययोगात् । कर्मणां सूक्ष्माविद्योपादानकत्वस्य कर्मोत्पत्तिप्राक्क्षणे तादृशस्यासत्वेन वक्तुमशक्यत्वात् । स्थूलाविद्याकालेऽपि तत्सत्तामुपगम्य तदुपादानकत्वमेव कर्मसु स्वीक्रियत इत्यङ्गीकारे ज्ञानोदयानन्तरं प्रारब्धवदप्रारब्धानामपि स्थित्यापातेनानन्तकर्मापरिसमाप्त्या मोक्षाभावप्रसङ्गः ।

।। ‘तस्याभिध्यानात्’ इति श्रुतेः स्वपराभिमतार्थव्यवस्थापननिरसने ।।

मन्मते चेश्वरस्यैव फलदत्वेन कर्मणां ज्ञानस्य चाचेतनत्वेन स्वतन्त्रेणेश्वरेण स्वामोघ-सङ्कल्पानुसारेणाप्रारब्धान्विनाश्य भाविनामश्लेषं सम्पाद्य भुज्यमानसमाप्त्यनन्तरं फलं दीयत इति प्रमाणानुसारेणाङ्गीकारे बाधकविरहात् । तव त्वीश्वरप्रसादस्य ज्ञानोत्पत्तावेवोपक्षीणत्वेन ज्ञानस्वभावाधीनमुक्तिविलम्बहेतुत्वस्य भुज्यमानकर्मणामङ्गीकारेऽचेतनस्वातन्त्र्यापातः। न च-

तस्याभिध्यानाद्योजनात्तत्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः’ ।

इति श्रूयते । भूयो निवृत्तिः । विशिष्टशक्तिमदज्ञाननिवृत्तिर्वाच्या । अन्यादृशस्य वक्तुमशक्यत्वात् । तत्त्वभावशब्दस्याघिष्ठानतत्त्वसाक्षात्कारादित्यर्थः । तथा च श्रुत्याऽविद्यालेशादेरुच्यमानत्वात्तत्खण्डनयुक्तिर्बाधितैवेति वाच्यम् । भूय इत्यस्य योजनादि-त्यनेनान्वयोपगमेन भूयो भगवति मनोयोजनाधीनात्तत्त्वसाक्षात्काराज्जातात्तस्य परमेश्वरस्य अभिध्यानादिच्छारूपप्रसादात् अन्ते प्रारब्धभोगान्ते विश्वमायायाः समस्तबन्धिकायाः प्रकृतेर्निवृत्तिरित्यर्थकत्वसम्भवेनास्याः श्रुतेरविद्यालेशावगमकत्वाभावात् । न च साक्षात्कारस्य प्रसादहेतुत्वमदृष्टमिति वाच्यम् । केवलसाक्षात्कारेण प्रसादाजननेऽपि स्वदर्शनार्थं बह्वायासाद्यनुभवितरि प्रसन्नेन राज्ञैव सम्पाद्य कालान्तरे विशेषप्रसादपूर्वकं फलदानस्य लोके दृष्टत्वात् । तद्दृष्टान्तेन विषयवैराग्यपूर्वकश्रवणादिरूपसेवाधीनप्रसादसाध्यस्वसाक्षात्कारवति मोक्षरूपमहाफलहेतुप्रसादवानीश्वरो भवतीत्यनुमीयते ।

यस्य प्रसादात्’‘यमेवैष वृणुते तेन लभ्यः’

इत्यादिश्रुतीनाम्

मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्’ ।

भक्त्या प्रसन्नः परमो दद्याज्ज्ञानमनाकुलम्’ ।

भक्तिं च भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत्’ ।।

इत्यादिस्मृतीनां चानुग्रहेणानुमानस्यानाभासत्वात् ।

अनुमानप्रकारश्च - ‘ईश्वरः स्वप्रसादाधीनस्वसाक्षात्कारवति स्वप्रापितदुःखनिवृत्तिसुख-विशेषहेतुविशेषप्रसादवात् । स्वप्रसादेन तत्साक्षात्कारविषयत्वात् । सद्राजवत्’ इति । फलस्य मोक्षात्मकत्वं तु इतरबाधादिना सिद्ध्यति । अतः पक्षदृष्टान्तयोरेकरूपावच्छिन्नसाध्याभाव इति परोक्तदूषणस्य नावकाशः । न चोक्तयोजनायां चशब्दवैयर्थ्यम् । भूयोभूय इत्यर्थलाभाय तत्सार्थक्यात् । अत एव भूयोभूयो भगवति योजनादिति तत्त्वप्रकाशिकायां व्याख्यातम् । अभिध्याऽभिध्यानशब्दयोरनतिभिन्नार्थकत्वादभिध्याशब्दस्य भगवदिच्छार्थत्वेऽभिध्यानशब्द- स्वापीच्छार्थकत्वमुपपन्नम् ।

यत्तु परेण व्याख्यातं ‘योजनाभिध्यानाधीनतत्त्वसाक्षात्कारादावरणशक्तिमद्विश्वमाया- निवृत्तिः । अन्ते प्रारब्धकर्मावसाने । चशब्द एवार्थः । तत्त्वभावादित्यनेन सम्बध्यते । तत्त्वसाक्षात्कारादेव न प्रसादादिनेत्यर्थः । भूयो विश्वमायानिवृत्तिः । अवशिष्टशक्तिमद-ज्ञानतत्प्रयुक्तदेहादिरूपविश्वमायानिवृत्तिर्भूयश्चेत्यर्थः । अत्र विश्वपदसङ्कोचो न दोषाय भूयश्चेति वाक्यान्तरसत्वात् । ब्रह्मणेभ्यः सर्वं धनं दत्तं यज्ञे भूयः सर्वं धनं दत्तमित्या-दाविवेति बोध्यम्’इति ।

तदप्यसत् । भवन्मते चरमसाक्षात्कारस्य तदुपलक्षितात्मस्वरूपस्य वा नित्यत्वेनाङ्गी-कृतत्वेन उभयस्यापि तदजन्यत्वेन श्रुत्यर्थानुपपत्तेः । न हि स्वयं स्वजन्यं स्वोपलक्षितजन्यं वा । ज्ञानेन नाशोत्पत्तिर्न भवति किन्तु ज्ञानाधिकरणक्षणस्याज्ञानतत्प्रयुक्ताधिकरण-कालपूर्वत्वाभावनियम इति निष्कृष्टभवदभिमतपक्षे श्रुत्यर्थानुपपत्तिः स्फुटैव । किञ्च निवृत्तस्य निवृत्तिपदार्थान्वययोग्यताविरहेण भूयः पदार्थान्वयानुपपत्त्या भूयः पदार्थस्य योजनादिरूप-श्रवणादिपदार्थान्वयतात्पर्यस्यैव ग्रहान्नानेन वाक्योनाविद्यालेशसिद्धिः । उक्तोदाहरणे तु द्वितीयवाक्यस्थधनपदार्थस्य पूर्ववाक्योक्तधनातिरिक्तस्य बाधात्तद्वाक्येन दानान्तरसिद्धिः । तद्धनातिरिक्तधनस्य यत्राबाधितत्वग्रहस्तत्र तद्वाक्यस्याबोधकत्वमेव सर्वसम्मतम् । अन्यथा तस्यैव धनस्य दानान्तरप्रतीतिप्रसङ्गात् । न च प्रकृते मायाद्वैविध्यमुक्तवाक्यार्थसिद्धेः प्राक् सिद्धम् । तथात्वे तादृशस्य स्पष्टवाक्यस्य वक्तव्यत्वापत्तेः । उक्तवाक्यार्थसिद्ध्यर्थमेव तत्कल्पनेऽन्योन्याश्रय एव ।

‘‘भूय इत्यस्याव्यवहितपाठबलात् ‘योऽदाभ्यं गृहीत्वा’ इत्यादौ अदाभ्यशब्दित-यागविशेषस्य गृहीत्वेत्यर्थेनान्वयवत् तत्त्वभावादित्यनेनान्वयो न योजनादित्यनेन । तथा च भूयस्तत्त्वसाक्षात्काराद्विश्वमायानिवृत्तिः’’ इत्यर्थान्तरवर्णनमप्यसत् । तथा च साक्षात्कारोत्त-रसाक्षात्कारस्य मायानिवर्तकत्वलाभेऽपि मायाया द्वेधा निवृत्त्यलाभात् । तल्लाभेऽपि प्रमाणान्तरानुसारेण मायाख्याऽविद्यावरणनिवृत्तावपि विद्यमानस्य भगवदिच्छारूपस्य मायाशब्दितस्यावरकस्य निवृत्तेः साक्षात्काराधीनभगवत्प्रसादाल्लाभार्थकत्वेन श्रुतिसामञ्जस्येन त्वदभिमताप्रामाणिकाविद्यालेशाद्यसिद्धेः । उक्तन्यायस्यौत्सर्गिकत्वेन सति तात्पर्ये व्यवहि-तान्वयस्यापि बहुशो दृष्टत्वेन भूय इत्यस्य योजनादित्यनेनान्वये बाधकाभावाच्च । श्रवणाद्यावृत्तेरेव साक्षात्कारहेतुत्वस्य लाभाय तात्पर्यस्यावश्यकत्वाच्च । चशब्दस्य अवधारणार्थकतया प्रसादव्यवच्छेदकत्वं पूर्वोदाहृतप्रमाणविरुद्धत्वादनुपादेयम् । ‘तस्य तावदेव चिरम्’ इति श्रुत्या प्रारब्धकर्मविलम्बान्मोक्षविलम्बप्रतिपादनेऽपि तदुत्तरकालीनेन तत्समान-कालीनेन वा प्रसादेन मोक्षाङ्गीकारे तद्विरोधविरहात् । अन्यथा प्रसादवच्चरम-साक्षात्कारस्यापि व्यवच्छेदापत्तेः ।

।। तरङ्गिण्युक्तस्य प्रसादद्वारा साक्षात्कारमोक्षसाधनत्वस्य ब्रह्मानन्दखण्डनखण्डनेन समर्थनम् ।।

एतेन ‘ध्यानादिन्द्रियवृत्तीनां परमात्मनि योजनाद्ध्यानपरिपाके सति तत्त्वसाक्षात्कार-जन्यभगवत्प्रसादाद्विश्वमायानिवृत्तिः’इति तरङ्गिण्युक्तार्थोऽपि निष्प्रत्यूहः । प्रसादस्य साक्षात्कारजन्यत्वे मुक्तिं प्रति च कारणत्वे बाधकस्योद्धृतत्वेन साक्षात्कारस्य प्रसादहेतुत्वकल्पनं मौढ्यादेवेति ब्रह्मानन्दोक्तेरेव मौढ्यमूलत्वात् । अभीत्यनेनैव ध्यानस्य स्वयोग्यसमग्रविषयकत्वस्यैवोक्तत्वेन परिपाकस्य लाभेन न तत्पदवैयर्थ्यम् । साक्षात्कारास्य प्रसादद्वारा हेतुत्वस्फोरणाय साक्षात्कारजन्यभगवत्प्रसादादित्युक्तत्वेन प्रसादस्य तत्त्वभाव-शब्दार्थत्वविरहेऽपि न क्षतिः । तत्त्वं जीवस्वरूपं भावयत्याविर्भावयतीति व्युत्पत्त्या तत्त्वभावशब्देनेश्वरवत्तत्प्रसादस्यापि तच्छब्दार्थत्वोपपत्तेश्च ।

प्रकृतेः पुरुषाणां च तत्त्वं भावयति स्फुटम् ।

 तत्त्वभावस्ततो विष्णुस्तत्प्रसादात्तु पश्यति’ ।।

इति स्मृतेः । अतोऽद्वैतचन्द्रिकोक्तैतद्दूषणद्वयस्यापि नावकाशः । तस्मादविद्यालेश-संस्कारादेरप्रामाणिकत्वात्पूर्वोक्तानेकबाधकवशाच्च न परमते जीवन्मुक्तिसम्भव इति स्थितम् ।

।। मुक्तावैक्यनिरासेन तारतम्यानुपपत्तिनिरासः ।।

एवं च परमते मोस्वरूपस्यैव पूर्वोक्तक्रमेण वक्तुमशक्यत्वात्तत्रानन्दतारतम्यभावादि-प्रतिपादनं सुतरामसङ्गतम् । न च मुक्तावानन्दतारतम्यसत्वे ऐक्यरूपमुक्त्यनुपपत्तेः तत्र तारतम्यनिर्वाहकाज्ञानाभावात् अतस्तच्छ्रुतीनामर्थान्तरप्रतिपादनं च शक्यमिति वाच्यम् । भेदादिप्रपञ्चारोपितत्वस्य पूर्वं निरस्तत्वेन सत्यभेदनिवृत्त्या वस्त्वैक्यस्य कुत्राप्यदृष्टत्वेनोप-पत्त्यादिविरुद्धत्वेन मुक्तौ जीवानामीश्वरेण परस्परं चैक्यस्य वक्तुमशक्यत्वात् । अतस्तत्प्रति-पादकतयाऽऽपाततः प्रतीतानां श्रुतिपुराणवाक्यानामन्यत्रोक्तरीत्या स्थानैक्यमत्यैक्यादि-परत्वेन सावकाशत्वान्मुक्तावैक्यस्यैवासिद्धेः । अत एव हि -

आधिक्यं जानतः पुंसः प्रसादस्तु तथाविधः’ । इति ।

विष्णुपुराणे प्रह्लादवाक्यम् -

परमात्माऽत्मनोर्भेदः परमार्थ इतीर्यताम् ।

 मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः’ ।। इति ।

हरौ नियतचित्तत्त्वाद्ग्रहवत्तत्प्रवेशनात् ।

 मोक्षं तादात्म्यमित्याहुर्न तु तद्रूपतः कचित्’ ।। इति च ।

प्रथमश्लोके पूर्वप्रक्रान्तमैक्यमेतदिति परामृश्य मिथ्येइति प्रतिज्ञा । अन्यदि-त्यादिहेतूक्तिः । अधिकमन्यत्र निरूपितम् ।

।। युवास्यादित्यादिमुक्तितारतम्यश्रुतीनां पराभिमतार्थानुवादपूर्वकं तत्खण्डनम् ।।

किञ्च तारतम्यप्रतिपादकवाक्यानां भवदुक्तार्थान्तरादिकमप्ययुक्तम् । तथाहि । ‘युवा स्यात्साधु युवेत्यारभ्योत्तरोत्तरं शतगुणानन्दप्रतिपादिकायाः श्रुतेरर्थस्त्वयोक्तः ‘‘अकामहत-शब्दार्थो मुक्त एक । जीवन्मुक्तो वा । सफलानुवृत्तकामवत्वेनाकमहतशब्दार्थत्वोपपत्तेः । सर्वथा कामशून्यत्वविवक्षायामकाम इत्येव वक्तव्यतापाताच्च । न च सर्ववाक्ये एक एवेन्द्रादितत्तत्साम्यवत्वेनोच्यते । तथा च नृपानन्दाच्छतगुणो मनुष्यगन्धर्वानन्द इत्युक्त्वा श्रोत्रियस्य चाकामहतस्येति वदति । ततः श्रोत्रियपदं मुक्तपरं चेत् अकामहत इत्यनेन सामानाधिकरण्यम् । चशब्दस्तु समभिव्याहृतमनुष्यगन्धर्वादिसमुच्चायकः । तस्य वाजसनेये नृपपरत्वे बहूनामेव तेषां बहुत्वाविवक्षयैकवचनेन परामर्शः । तयोरेव परस्परसमुच्चये चशब्दः । तथा च मुक्ताऽनन्दस्य मनुष्यगर्न्धानन्दस्य च साम्यमेवमुत्तरवाक्येष्वपि तत्तदानन्दसाम्यं मुक्ताऽनन्दस्योच्यते । साम्यवाचकपदं यद्यप्यत्र नास्ति । तथाऽपि

कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी’ ।

इत्यादाविव सहनिर्देशविशेषात्साम्यलाभो भवति । न चापरिच्छिन्ने मुक्ताऽनन्दे परिच्छिन्नतत्साम्यानुपपत्तिः । शतगुणात्वादिना तत्परिच्छेदोक्तेरिति वाच्यम् । मनुष्य-गन्धर्वानन्दापेक्षयाऽपकर्षशून्यत्वरूपधर्मस्य मनुष्यगन्धर्वानन्दमुक्ताऽनन्दयोरुभयत्रापि सत्वेन साम्यसम्भवात् । मुक्ताऽनन्दे कल्पितस्य मनुष्यगन्धर्वानन्दापेक्षयोत्कृष्टत्वस्य सत्वेऽपि क्षतिविरहात् । एवमुत्तरत्रापि । न च चरमोक्तसर्वोत्कृष्टानन्दं प्रत्यकामहतानन्दस्य सादृश्यानुपपत्तिर्भेदाभावादिति वाच्यम् । तत्र गगनं गगानाकारमितिवदुपपत्तेः । अकामह-तजीवन्मुक्ताऽनन्दत्वेन कल्पितभेदेन तदुपपत्तेः । न च जीवन्मुक्तस्योक्तवाक्येऽकामहतत्वेन विवक्षितत्वे एतत्समानार्थककाण्वश्रुतौ तस्य अवृजिनोऽकामहत इति वृजिनाभावोक्तिर्विरुद्धा स्यात् । तस्य भुज्यमानकर्मसत्वादिति वाच्यम् । अप्रशस्तचक्षुष्यचक्षुरिति व्यवहारावदुपपत्तेः इति तैत्तिरीयकश्रुत्यर्थ उक्तः ।

सोऽत्यन्तासम्भावितः । महाराजैश्वर्ये अन्नपानमात्रपूरकचण्डालैश्वर्यात् अपकृष्टत्वा-सत्वमात्रेण ‘महाराजचण्डालैश्वर्ये समे, चण्डालमहाराजावुभावैश्वर्यशालिनौ’ इति, पण्डितं प्रति कञ्चिन्मूर्खं यत्किञ्चिच्छ्लोकार्थज्ञानिनमुपादाय ‘अयं मूर्खः पण्डितः, त्वमपि’ इति च सचेतनैरव्यवहारात् । तथा व्यवहर्तॄणां मूर्खत्वस्यैव  सर्वलौकिकवैदिकसिद्धत्वेनैतादृश- समभिव्याहारस्य किञ्चित्साम्याप्रतिपादकत्वात् । प्रत्युतात्यन्तसाम्यस्यैव बोधनात् । किञ्च ‘सैषाऽऽनन्दस्य मीमांसा’इति प्रयोजनमीमांसामभिधाय प्रतिवाक्यमभ्यासपूर्वकमेतादृशा-व्यावर्तकसाम्यस्याभिधाने श्रुतेरुन्मत्तवाक्यत्वापत्तिः । मुक्तजीवन्मुक्तानन्दे निर्विशेषे एतत्साम्यस्य वस्तुतोऽसत्वेन कल्पनया तदभिधानस्य प्रयोजनाभावात् ।

न च कल्पितत्वमात्रेण तदभिधाने नृपानन्दसाम्योक्त्या नृपानन्दाच्छतगुणमनुष्य-गन्धर्वानन्दाल्पत्वरूपापकृष्टत्वस्य लाभात् मनुष्यगन्धर्वानन्दसाम्यकथनेन तदपेक्षयाऽपकृष्ट-त्वशून्यत्वमेव तदधिकसाम्यस्यापि कथनाद्बोध्यते ‘सूर्यो नक्षत्रस्य, चन्द्रस्य मनः’ इत्यादाविव । तथा च प्रथमवाक्येनाल्पत्वत्य लाभान्न व्याहतिरिति वाच्यम् । यतो यद्यत्रोभाविमौ समावित्याद्युक्तिः स्यात्, कथञ्चिदेवं वक्तुं शक्येत, न चैवम् । किन्तु ‘स एको मानुष आनन्दः। ते ये शतं मनुष्यगन्धर्वाणामानन्दाः’ इत्यादिसमभिव्याहारेण ‘श्रोत्रियस्य चाकामहतस्य’इत्यस्य बोधकतयैव साम्यलाभो वक्तव्यः । अन्यथा ‘आनन्दस्तत्समः’ इत्यश्रुताध्याहारापत्तेः । चैत्राधीनत्वं मैत्रस्य देवदत्तस्य चेत्यादौ उक्तानुवृत्त्यैवान्वयबोधस्यानादितात्पर्यसिद्धत्वाच्च । तथा च शतगुणपदस्य परिच्छेद-विशेषवाचिनोऽपकृष्टत्वाभावाबोधकत्वात्तेन च मुक्तानन्दस्योत्तरोत्तरवृत्त्यानन्दापेक्षयाऽप-कृष्टत्वप्रयोजकधर्मस्यैव लाभेनोत्तरोत्तरवाक्येन तन्निषेधे कथं न व्याहतिः ? शतगुणपदस्य तदपेक्षयाऽपकृष्टत्वाभावार्थकत्वं त्वलौकिकम् । तथात्वे सर्वेषामुत्तरोक्तानां पूर्वोक्तापेक्षयाऽप-कृष्टत्वाभावमात्रप्राप्त्योत्तरोत्तरेषामुत्कर्षालाभप्रसङ्गात् । प्रत्युत सर्वसाम्यस्यैव प्रसङ्गात् । तस्यैवाभिमतत्वे ‘सर्वे समाः’ इति विहायैतदुक्तेर्वैयर्थ्यापाताद्बाधाच्च ।

न च मुक्तानन्दे कल्पितानां मनुष्यगन्धर्वाद्यानन्दादिवृत्तितत्तच्छतगुणत्वानामप्यङ्गीकारे किं बाधकमिति वाच्यम् । तेषामविरुद्धत्वे उत्तरोत्तरवृत्तिधर्मस्य पूर्वपूर्वस्मिन् सत्वेऽपि बाधकाभावेन श्रुतौ तत्कल्पनस्यैवाऽऽनर्थक्यापातात् । यत्तु ‘‘प्रयोजनाभावरूप-दूषणाभिधानमयुक्तम् । ब्रह्मानन्दे सर्वानन्दानामन्तर्भावस्य ‘एतस्यैवानन्दस्यान्यनि भूतानि मात्रामुपजीवन्ति’ इत्यादिश्रुत्यन्तरसिद्धस्योपपादनरूपप्रयोजनसत्वात् । सर्वानन्दभेदोक्त्या तदुपपादनात्’’ इति तदप्येतेनैव निरस्तम् । विरुद्धधर्माणामेकत्र बोधनायोगस्याभिहितत्वात् । मात्रामुपजीवन्तीत्यनेन तदंशोपजीवनस्य तदधीनत्वगर्भिततत्प्रतिबिम्बभूतानन्दवत्वस्यैव बोधनेन प्रकृतवाक्यस्य तदुपपादकत्वोक्त्यसङ्गतेश्च । न हि चैत्रमन्य उपजीवन्तीत्यस्य चैत्राभिन्ना भवन्तीत्यर्थः स्फुरति लोके । किन्तु तदधीनसुखवन्त इत्येव ।

किञ्च श्रोत्रियस्येत्यादेर्ब्रह्मानन्दाभेदतात्पर्ये तथैव वक्तव्यम् । न तु भेदगर्भसाम्यम् । विरुद्धत्वात् । किञ्च ‘स एको ब्रह्मण आनन्दः’ इति सर्वोत्कृष्टतयोक्तब्रह्मानन्दस्यापि ‘स एकः’ इति परिच्छिन्नत्वकथनादुत्तरत्र ‘यतो वाचो निवर्तन्ते’ इति अपरिमितत्वोक्तिविरोधः । मन्मते च चतुर्मुखस्यैव ‘ब्रह्मणः’ इत्यनेनोक्तत्वेन भगवदानन्दस्य तदधिकतयाऽपरिच्छिन्न-त्वोक्त्योक्तमीमांसालाभस्य कथनासङ्गतेः ।

किञ्च चरमोक्तानन्दापेक्षयाऽपकर्षाभावरूपसाम्यस्य मुक्तानन्देन कथनमात्रेण तदपेक्ष-याऽपकृष्टेभ्यः पूर्वोक्तानन्देभ्योऽपकृष्टत्वाभावलक्षणसाम्यस्य स्वत एव लब्धत्वेन तल्लाभार्थं प्रतिवाक्यं ‘श्रोत्रियस्य चाकमहतस्य’ इत्यस्य वैयर्थ्यं दुर्वारम् ।

।। ‘युवा स्यात्’ इत्यादिश्रुतीनां स्वाभिमतार्थविवरणम्’ ।।

अस्मन्मते तु संसारिणः संसारिणो मुक्तान्मुक्तस्यानन्दतारतम्यस्य ब्रह्मानन्दे परिच्छिन्नत्वाभावसिद्ध्यर्थमवश्यं बोधनीयत्वेन तत्सार्थक्यात् ।

नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम् ।

 गुणैः सर्वैः शतगुणा मोदन्ते इति हि श्रुतिः’ ।।

इति पाद्मे मुक्तानामानन्दोपलक्षितसर्वगुणैस्तारतम्ये ‘इति हि श्रुतिः’ इति प्रसिद्धतैत्तिरीयवाक्यस्य प्रमाणीकृतत्वाच्च न भवदुक्तः श्रुत्यर्थ उपपन्नः । मुक्तानां कामसत्वेऽपि तन्मात्रेण विषयसिद्ध्या कामकृतोपद्रवाभावेनाकामहतत्वोक्तिरपि ममैव युक्ता । त्वन्मते च जीवन्मुक्तेच्छाया विषयविसंवादस्यापि सत्वेन, वृजिनानुभवकाले तत्कृतदुःख-स्याप्यवर्जनीयतया संसारिवत्कामहत्यभावमात्रेण तस्य निरर्थकत्वमेव । तदुक्तं तैत्तिरीयभाष्योदाहृतपाद्मे

कामः सङ्कल्प आनन्दो मुक्तानां तारतम्यतः ।

 स्वरूपभूतास्ते सर्वे निर्देषगुणरूपकाः’ ।। इति ।

तथा तत्रैवोदहृतप्रमाणान्तरेऽप्युक्तम् -

यस्य श्रुतिफलं पूर्णं स श्र्रोत्रिय उदाहतः ।

 स हि मुक्तोऽकामहतः स हि कामैर्न हन्यते’ ।। इति

।। मोक्षधर्मवाक्यैर्मुक्तौ तारतम्यसमर्थनम् ।।

एवं मोक्षस्य स्वरूपानन्दाविर्भावपरमात्मसायुज्यादिरूपतारतम्ये मोक्षधर्मवाक्यमपि प्रमाणम् । तथा हि तत्र शुकं प्रति जनकवाक्यम् -

गुरोस्तव प्रसादेन प्रादुर्भूतं महामुने ।

ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ।।

अधिकं तव विज्ञानमधिका च गतिस्तव ।

अधिकं च तवैश्वर्यं तच्च त्वं नावबुद्ध्यसे ।।

बाल्याद्वा संशयाद्वाऽपि भयाद्वाऽप्यविमोक्षजात् ।

उत्पन्नेऽपि च विज्ञाने नाधिगच्छसि तां गतिम् ।।

व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः ।

विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ।।

भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः ।

व्यवसायादृते ब्रह्म नासादयति तत्परम्’ ।। इति ।

अत्राधिकं तव विज्ञानम्’ इति साधनीभूतज्ञानस्याधिक्यमुक्त्वा ‘अधिका च गातिः’ इति तत्प्राप्यानन्दविशेषाविर्भावश्वेतद्वीपादिलोकगतभागविशेषगमनादिरूपमुक्तेस्तत्फलभूताया आधिक्यमुच्यते ।

नन्वेतदयुक्तम् । शुकस्य तदा गतिसत्वे ‘त्वं नावबुद्ध्यसे’ इत्यस्य बाधितत्वप्रसङ्गात् । गतिसामर्थ्यपरत्वे व्यवसायेनेत्यादेरसङ्गत्यापत्तेः । तत्र परं ब्रह्म पूर्वं नाऽऽसादितवानसि । इदानीं तु मदुपदेशेनाऽऽसादितवानसीत्युच्यते । पूर्वं गतेरज्ञानं तस्याभिधाय इदानीं ब्रह्मज्ञानकथनस्य सङ्गत्यप्रतीतेः । विमुच्य हृदयग्रन्थीनित्यस्यानुपपत्तिश्च । विद्यमानसामर्थ्याज्ञानस्य पूर्वं विद्यमानस्य हृदयग्रन्थ्यनुवृत्तिसम्पादकत्वाभावात् । पूर्वं सामर्थ्यस्यानुपदिष्टत्वेन ब्रह्मस्वरूपस्यैवोपष्टित्वेन मद्विधैः छिन्नसंशय इत्यनेन गतौ छिन्नसंशयत्वकथनासङ्गतिप्रसङ्गश्च ।

अतोऽधिकं तव विज्ञानम्’ इत्यादेरयमर्थः । तवोपासनं मदुपासनादधिकम् । अत एव तत्फलभूता गतिरन्तरिक्षादिगमनमणिमाद्यैश्वर्यं चाधिकम् । तथापि त्वं तां मदुपदेशात्पूर्वं नाधिगतवानसि । इदानीं मदुपदेशादासादयति अधिगतवानसि । ततः कर्मासाध्यत्वादिना सूचितां मुक्तिं प्राप्स्यसीत्यादिरीत्याऽर्थ इति चेन्न ।

जनकः शुकं रुद्रावतारं प्रति लोकरीत्यैव वसिष्ठो रामं प्रतीवोपदेशं कृत्वा तत्कृतस्वकीयाभिमानाभावबोधनाय त्वत्स्वरूपज्ञानं मम वर्तत इति व्यञ्जयन् लोकरीत्यैव वदति ‘तेनासि विदितो मम’ इति । मत्स्वरूपज्ञानं तव कीदृशमित्याकांक्षायां ‘अधिकं तव विज्ञानम्’ इत्यादि ऐश्वार्यं मुक्तौ स्वावरसर्वदेवनियामकत्वम् । एतत्सर्वं भाविदृष्ट्या ज्ञातमित्याशयः । तर्हि मया कुतो न ज्ञायत इति लोकरीतिमनुरुध्य प्राप्ततच्छङ्कापरिहाराय लोकानुसारेणैवोच्यते ।। तच्चेत्यादि ।। तज्ज्ञानविषयीभूतं भाविनमेतत्सर्वं नावबुद्ध्यसे इत्यर्थः । मम ज्ञानस्योत्पन्नत्वात्त्वत्तो मम को विशेषः ? ज्ञानस्य सत्वादिदानीं कुतस्ता-दृशगत्यनवाप्तिः ? इत्याशङ्कां चापनुदन्नुक्तार्थे हेतुमाह ।। बाल्यादित्यादि ।। बाल्यादे-स्तादृशभाविपदार्थज्ञानानुकूलसाधनानुष्ठानाभावादिद्वारोक्तज्ञानाभावे हेतुत्वम् । अत एव तव श्रवणादिना विज्ञाने जातेऽपि तीव्रसाधनाभावादिदानीं नाधिगच्छसि ।

यद्वा तच्चेत्यस्य मम त्वत्स्वरूपविषयकज्ञानं वर्तत एत्येतत्त्वं नावबुद्ध्यसे इत्येतल्लोक-दृष्ट्योच्यते । तर्हि ममोत्पन्नज्ञानत्वात्कुतस्तादृशगतेरिदानीमप्राप्तिरिति शङ्कायां बाल्यसंशया-विमोक्षादिभयादिप्रयुक्तश्रवणाद्यावृत्तेः स्वयोग्याया इदानीमप्यपरिपूर्तेरित्याह ।। बाल्यादीत्यादि ।। तर्हि कदा तत्प्राप्तिरित्यत आह ।। व्यवसायेनेति ।। चोऽप्यर्थे । उत्पन्नविज्ञानोऽपि भवान् स्थिरबुद्धिः मम मोक्षो भवत्येवेति निश्चलबुद्धिः अचञ्चलः सन् शुद्धेन यथावस्थितार्थ-विषयकेण व्यवसायेन मद्विधैः छिन्नसंशयः श्रवणाद्यावृत्त्या यदा छिन्नसंशयः सन् हृदयग्रन्थीन् कामक्रोधादीन् विमुच्य मयोक्तां गतिमासादयति आसादयिष्यति । वर्तमानसामीप्याभिप्रायेण तत्प्राप्तेर्निश्चितत्वबोधनाय वा लटः प्रयोगः ।

यद्वा व्यवसायेन शुद्धेनेत्यादेः परमात्माऽपरोक्ष्ये निश्चितप्रामाण्यकपरोक्षज्ञानवानित्यर्थः । तस्य विमुच्येत्यत्रान्वयः । ‘भिद्यते हृदयग्रन्थिः’ इत्याद्याथर्वणश्रुतेः । दृष्टे तस्मिन्नित्यस्य पारोक्ष्येण निश्चिते अपरोक्षेण निश्चिते इत्यर्थद्वयस्यापि सम्भवादत्रोपयोगः । ब्रह्मज्ञानमात्रस्य मोक्षकारणत्वस्य तमेवं विद्वानित्यादौ श्रवणात्किं व्यवसायेनेत्यत आह ।। व्यवसायादृते इति ।। यस्माद्व्यवसायादृते परं ब्रह्म नासादयति कोऽप्यत इत्यर्थः । अन्वयव्यतिरेकबलात्तस्या-वश्यकत्वमिति भावः । एवमुक्तरीत्या व्याख्याने कस्या अप्यसङ्गतेरभावात् परेषामेव दोषः ।

उपासनाया ज्ञानरूपत्वस्य स्वमतेऽभावेन विज्ञानपदेनोपासनाग्रहणायोगः । उत्तरत्र गतिग्रहणानुपपत्तिः । तच्छब्देन पूर्वप्रक्रान्तगत्यभेदस्यैव बोधनादित्यादिकं परोक्तार्थेऽनु-सन्धेयम् । न चोपाध्यवच्छिन्नस्यैव लोकान्तरगमनमप्रामाणिकम् । शरीराभावे तदनुपपत्तिश्चेति वाच्यम् ।

कामस्य यत्राप्ताः कामास्तत्र मामामृतं कृधि’ ।

इत्यादिना श्वेतद्वीपादिलोकान्तरे मुक्तिश्रवणात् । ‘कामनाविषयीभूता आनन्दा यद्ब्रह्मसुखेऽन्तर्भवन्ति तत्र तदभिन्नतया माममृतं कुर्वित्यर्थस्तु पूर्वं ब्रह्माभेदस्य सिद्धत्वेना-प्रार्थनीयत्वादुक्तरीत्या बाधितत्वादनुपादेयः । मुक्तस्य शरीरादिमत्वं समर्थितम् । तद्वाक्यानां स्वार्थात्प्रच्यावनमन्यत्रापाकृतम् ।

।। साधनतारतम्यादपि मुक्तौ तारतम्यसमर्थनपूर्वकं हरेर्मुक्तामुक्तनियामकत्वोपसंहारः ।।

एवं साधनतारतम्यादपि साध्यतारतम्यमनुसन्धेयम् । न चोन्नताननुन्नतदण्ड-जातघटयोर्व्यभिचारः । तत्तत्फलोद्देशेन प्रेक्षावद्भिस्तारतम्येनानुष्ठीयमानसाधनानां फलतार-तम्याव्यभिचारित्वेन तन्निवेशेन हेतोः परिष्करणीयत्वात् । एवमीश्वरानन्दे मुक्तानन्दाधिक्यं तन्नियामकानन्दत्वेनानुमेयम् । न च जडभरतनियामकरहूगणानन्दे व्यभिचारः। अनन्द एव नियामकत्वस्य निवेशनात् । ‘तस्य चैतस्यैवानन्दस्य’ इत्यादिश्रुतिसिद्धत्वात् । साधनतारतम्यं’ च ‘वृद्धिह्रासभाक्त्वामन्तर्भावादुभयसामञ्जस्यादेवम्’ इति सूत्रेण तत्राचार्योदाहृतस्फुटप्रमाणैश्च सिद्धम् ।

साधनतारतम्यलिङ्गकानुमानं च

साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।

 ब्रह्मादयः क्रमेणैव यथाऽनन्दश्रुतौ श्रुताः’ ।।

इति ब्रह्माण्डवाक्यसिद्धम् । मुक्ताऽनन्दतारतम्ये आचार्यैरत्रोदाहृतप्रमाणानां सर्वैरवग-तत्वाद्ग्रन्थगौरवभयाच्च नात्रोदाहरणं कृतमित्यवधेयम् ।

अत्र परेण ‘ब्रह्मादीनां वृद्धिह्रासभावत्वं न्यूनाधिकत्वं अन्तर्भावान्न्यूनाधिकसाधन- फलान्तरर्भावादेवं सत्येव साध्यसाधनयोरुभयोस्तुल्यत्वेन मासञ्जस्यात्’ इति पराभिमतसूत्रार्थ इत्युक्तम् । तत्तु भाष्यटीकादिविमर्शिनोऽशुद्धत्वेनातिरोहितम् । एवं ‘साधनस्य’ इत्युदाहृत-वाक्यं त्यक्तमित्याकांक्षाशान्तये ‘ब्रह्माण्डे’ इति न्यायामृते स्थितेऽपि अशुद्धपुस्त-कावलोकनेन औतसिद्धौ ‘‘ब्रह्मानन्दः’’ श्त्येव लिखितम् । ब्रह्मानन्देन तु ‘ब्रह्मानन्द’ इति प्रतीकं धृत्वा ‘अयं च दशप्रकरणान्तर्गतप्रकरणविशेषः’ इत्यर्थ उक्तः । तत्तु मन्मतग्रन्थेषु तन्नामकप्रकरणस्यालीकत्वाद्धौत्यमात्रमूलकमित्युपेक्षणीयम् ।

तस्मात्परमतस्यात्यन्ताशुद्धत्वाद्धरेर्मुक्तामुक्तनियामकत्वे मुक्तानां परस्परानन्दतारतम्ये च न काऽप्यनुपपत्तिरिति स्थितम् ।