मूर्तं सदिति ..

नासदासीदिति श्रुत्युक्तसदसद्वैलक्षण्यं मूर्तामूर्तवैलक्षण्यमेवेति श्रुत्या समर्थनम्

श्रीमज्जयतीर्थटीका

यदि तर्हि प्रतीतोऽर्थोऽनुपपन्नः कोऽर्थोऽस्य ब्रह्मतमसोस्सदसद्वैलक्षण्यस्येत्यतः श्रुत्यन्तरेण तं दर्शयति

मूलं

मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते ।

मूर्तामूर्तेतरद्ब्रह्म न सत्तन्नासदुच्यते ।। इति पैङ्गिश्रुतिः ।

ब्रह्मेत्युपलक्षणम् । प्रकृत्याख्यं तमोपीति ज्ञातव्यम् ।

द्वैतद्युमणि:

।। प्रतीतोऽर्थ इति।। लोकप्रसिद्ध्यादिना झडिति प्रतीत इत्यर्थः । श्रुतौ न सत्तन्नासदुच्यते इति, नासदासीदित्यादावर्थतः

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ।

न सन्न चासन् भगवान् साक्षात्सदसतः परः ।।

इत्यादिषु पुराणवाक्येषु शब्दमर्यादया चोच्यते इत्यर्थः । एतच्छ्रुत्या श्रुतिविशेषमुपादाय ‘एतच्छ्रुत्या एवमुच्यते’ इत्यनुक्तत्वाद्बाधकं विना सङ्कोचे सत्यं ज्ञानमित्यादावपि सत्यपदस्य कालविशेषसत्त्वार्थकत्वापत्याऽतिप्रसङ्गेनैतच्छ्रुतेर्ब्रह्मणि सदसद्वैलक्षण्यबोधकवाक्यसामान्य-विषयकत्वे आवश्यके नासदासीदित्यादिवाक्यविषयकत्वमावश्यकम् । न च उच्यते इतिपदस्वारस्याद्वचनवृत्त्या सदसद्वैलक्षण्यप्रतिपादकवाक्यगतिरेवोच्यतेऽनया श्रुत्येति वाच्यम् । श्रौतार्थापत्तिबललब्धार्थस्यापि ब्रह्मसत्त्वविरोधितयोक्तश्रुतेरेतद्वाक्यगत्यप्रदर्शकत्वे ब्रह्मसत्त्व-विरोध्येतच्छ्रुत्यतिविरोधापरिहारकतयाऽकृतार्थत्वप्रसङ्गेनैतद्विषयकत्वस्याप्यावश्यकत्वात् । उच्यत इत्यस्य प्रतिपाद्यत इत्येतावन्मात्रार्थत्वेन बहुशः प्रयोगदर्शनेन तदस्वारस्यस्याप्य-भावात् । एवं च नासदासीदितिवाक्यस्थसदसत्पदयोर्ब्रह्मानुरोधेन मूर्तामूर्तपरत्वावश्यकत्वे तद्वाक्यप्रतिपाद्यतमस्यप्ययमेवार्थः श्रुत्यभिप्रेतः । अन्यथा सकृदुक्तशब्दस्यार्थद्वयकल्पने गौरवात् । अतस्तमोऽप्येतच्छ्रुत्या ब्रह्मपदेनोपलक्ष्यते । तुल्यन्यायादित्याशयेनाह ।। ब्रह्मेत्युपलक्षणमिति ।। प्रकृत्याख्यमिति ।। भौतिकतमोव्यावृत्त्यर्थमिदम् । तदपि नासदासीदितिश्रुतौ न सती नासती मायेत्यादिस्मृतौ च तथोच्यत इत्यर्थः ।