एकजीववादपक्षे..

बहुजीववादादेकजीववादस्य विशेषसमर्थनम्

एकजीववादपक्षे

श्रीमज्जयतीर्थटीका

ननु तर्हि तत्तत्सुखदुःखादीनां तत्प्रयोजककर्मणां च प्रतिनियतत्वे बहुजीववादादस्य को विशेष इति चेदुच्यते । अविद्यैव जीवोपाधिर्न त्वन्तःकरणम् । एवं ये बहुजीववादिनस्तेषामन्तः करणानामेव प्रतिजीवं भिन्नत्वाज्जीवत्वम् । तत्र प्रत्यविद्याजन्मनि जगन्त्यपि प्रतिजीवं भिन्नानीति चेत् ईश्वरमायोपादानमम्बरादिकं सर्वजीवसाधारणम् । दुःखादिमात्रं स्वस्वाविद्योपादानकमित्यन्ये । ईश्वराश्रिता माया । नानापुरुष-सम्बन्ध्यविद्योपादानकमम्बरादि । एकस्य मुक्तौ तदविद्याघटितोपादानकजगतो नाशेन जगदन्तरमेवोत्पद्यते । एकतन्तुनाशेन पटनाशे सत्युर्वरिततन्तुभिः पटान्तरवदित्यादिप्रकाराः सिद्धान्तकोशादिग्रन्थेषु दर्शिताः । यदा त्वेकैवाविद्या तदुपाधिकजीव एक एव । तत्र ब्रह्मजीवयोः बिम्बप्रतिबिम्बभावाभ्युपगमेन बिम्बब्रह्मणि सर्वज्ञत्वसर्वेश्वरत्वादिकमुपादायैका व्यवस्था । तत्रापि वक्ष्यमाणरीतिरूह्या ।।

अविद्यैकैव । तदुपहितचेतनो जीवः । न तु बिम्बप्रतिबिम्बभावादिस्वीकारेण जीवेश्वरादिव्यस्थेत्यपरः कल्पः । स चैकं शरीरमधितिष्ठति । अन्ये सर्वेऽपि निर्जीवा एव । स्वप्नदृष्टशरीरवत् । ईश्वरोऽपि जगत्कर्तृत्वादिना तत्कल्पित एव । तदनुवादिन्यो जीवकर्तृत्व-निषेधेनेश्वरकर्तृत्वावेदकश्रुतय इत्येकः पक्षः । अस्य पक्षस्यात्यन्तमनुभवविरुद्धत्वा-देकाविद्यापरिणामानि नानामनांसि । गृहाकाशस्यैव घटाद्यवच्छिन्नत्ववत् । अविद्योपहितस्यैव तत्तन्मनोऽवच्छिन्नतया तत्तच्छरीरमात्राभिमानितया जीवाभासत्वम् । न तदघिष्ठेयानि तानि शरीराणि । न तु निर्जीवानि । ते च जीवाभासाः मनोरूपागन्तुकोपाधिभेदात्पर-स्परमत्यन्तभिन्नाः । परस्परसुखदुःखानुसन्धानरहिताः मनः परिणामभूतसुखादिकं स्वय-मेवानुभवन्ति । परन्तु स्वोपाधिभूताविद्यापरिणतनानामनोवच्छिन्नस्तदधिष्ठितसर्वशरीरा-भिमानी सर्वसुखाद्यनुसन्धाता समष्टिरूप एको जीवः हिरण्यगर्भरूपः स्वीक्रियते । बहुजीववादे तु नैवमित्ययमेव विशेषः । एकस्य महागृहावच्छिन्नाकाशस्य तदन्तर्गतघट-शरावाद्यवच्छिन्नत्ववत् तस्योक्तसमष्टिरूपत्वं सङ्गच्छते । तस्यैव जगत्कल्पकत्वम् । तस्मिन् कल्पान्ते सुप्ते जगतो विलयः । तस्मिन् संस्कारात्मना स्थितप्रारब्धकर्मादिवशादुत्थिते पुनर्जगदुत्पत्तिः । जीवकर्तृत्वनिषेधकश्रुतीनामविद्योपहितकर्तृत्वनिषेधपरत्वाभावेन विरोधा-भावात् ।

 

 

द्वैतद्युमणि:

न चैवमेतत्पक्षेऽपिद्याविम्बरूपेश्वराभावेन जीवस्य सर्वज्ञानत्वसर्वेश्वरत्वादिधर्माणामनु-भवविरुद्धत्वेन तद्बोधकश्रुतीनां निर्विषयकत्वापत्तिरिति वाच्यम् । समष्ट्यभिमानिनो हिरण्यगर्भस्य स्वकल्पितसर्वत्वस्वकल्पितत्वादिविशिष्टाभेदोपासनया लब्धर्सवज्ञत्वादिशालित्वेन श्रुतीनां तत्परत्वात् । मनोऽवच्छिन्नजीवाभासानां तदननुभवस्तु अन्तः । करणकृत-भेदसद्भावात् । हिरण्यगर्भस्येश्वकल्पकत्वं तु स्वप्ने नियामकराजकल्पकत्ववदुपपद्यते ।

नन्वैतन्मते नित्यमुक्तत्वावेदकश्रुतीनां निर्विषयत्वापत्तिः ब्रह्मण एव संसाराभ्युपगमादिति चेन्न । तस्य मिथ्यात्वेन वस्तुतो ब्रह्मण्यभावेन नित्यमुक्तत्वश्रुत्युपपत्तेः । न हि मरौ कल्पितोदकेन वास्तवशुष्कता निहन्यते । न चाविद्यैकत्वनानास्वेऽवलम्ब्य कुत एकवादबहुवादयोर्विशेष उच्यते ? अविद्याया एकत्वमेवास्तु । तत्परिणामभूतमनांसि भिन्नान्येव । तत्तदुपाधिका जीवा इति मतद्वयेऽप्यभ्युपगम्यताम् । परन्तु ‘यन्मनोऽवच्छेदेन तत्वज्ञानमुत्पद्यते स मुच्यते अन्यस्तु संसरतीति बहुजीवाङ्गीकारवादः । समष्ट्यभिमानिनो वाऽन्यस्य वा तत्वज्ञानोत्पत्त्यनन्तरं युगपत्सर्वैमुच्यते न किञ्चिदवशिष्यत इत्येक-जीववादः’इत्येव विशेष इति कुतो नोच्यते इति वाच्यम् । अविद्यापरिणत-मनोऽवच्छिन्नचेतनस्याविद्योपहितचेतनकार्यतया तत्कल्पितस्य तदाश्रितस्याविद्याश्रयत्वा-भावस्य प्रागेवाविद्याश्रयनिरूपणपूर्वपक्षावसरेऽभि-हितत्वेन तस्मिन्नविद्यावृत्तिप्रसक्त्ययोगात् एकस्या एवाविद्याया अन्येषां संसारदशायां निवृत्त्ययोगात् तन्मनोऽवच्छेदेनोक्तयुक्त्या वृत्तित्वाभावेन तन्मनोऽवच्छेदेनाविद्यासम्बन्धाभावो मुक्तत्वमित्यस्य वक्तुमाक्यत्वाच्चोक्तरीतेरेव सम्यक्त्वादिति ।

एवं चानेकशरीरैकजीववादस्योक्तरीत्या कथञ्चित्सम्भवदुक्तिकत्वेनैव मूलकारैस्तदेवा-नूदितम् । तन्निष्ठानां इति बहुवचनान्तप्रयोगान्मूलकृतामिदमेवाभिप्रेतमिति ज्ञायते । तदनुसारेणेह टीकायां तस्यैवोपन्यासः ।। तदेवेति ।। ब्रह्मैवेत्यर्थः । उत्पन्नायां सिद्धायामित्यर्थः । यत्किञ्चिच्छरीरावच्छेदेनेत्यर्थः ।। किञ्चिदिति ।। एकस्यामविद्यायां नष्टायां तदुपादानकत्वात् सर्वप्रपञ्चस्य नाशे न किञ्चिदवशिष्यत इत्यर्थः । नन्विदमयुक्तम् । पुराणादौ शुकवामदेवादीनां मुक्तिश्रवणात्तेषां मुक्तत्वेऽपीदानीं जगतः सत्वादित्यत आह ।। शुकेति ।। अर्थवादा एवेति ।। ब्रह्मज्ञानस्तुतिपरा एव न स्वार्थपरा इत्यर्थः । तथा चैतत्कालपर्यन्तं कस्यापि मुक्तत्वाभावान्न काऽप्यनुपपत्तिरिति भावः ।

एकजीवमतावलम्बनेऽपि प्रकृतमुक्तत्वानुमाने किमायातमित्यत उक्तरीत्या विपक्षे बाधकतर्कानुत्थितिरेवेत्याह ।। अत इत्यादिना ।। तत्वत इति ।। परमार्थत इत्यर्थः । इदं च भास्करमतमनुरुध्य । कल्पनया आरोपितानादिभेदवत्तया । इदं मायामतमनुरुध्य । एकजीवमात्रमङ्गीकृत्य तस्य मोक्षाद्यनङ्गीकारे तन्निष्ठानामित्युक्तबाधकासङ्गतेस्तदुपयुक्ता-ननुवादान्न्यूनतेत्याशङ्क्य ‘एकजीववादपक्षे’ इति पक्षपदेन तत्सिद्धान्तस्फोरणेनैव तल्लाभान्न न्यूनतेत्याशयेन तत्सिद्धमुख्यप्रमेयमनुवदति ।। तेषामिति ।। इत्यङ्गीकार्यमिति ।। इत्येतत्प्रमेयमिति शेषः । कश्चित्पुरुषः गौडपादसङ्कराद्यन्यतमः ।। न त्विति ।। स्वातिरिक्तस्याभेदज्ञानिनोऽसत्वात् उपदेशकेन विना ज्ञानस्यानुत्पत्तेः । अन्यथाऽऽगमानामेव वैयर्थ्यापत्तेः ।। प्रागुक्तदोषेति ।। ‘भेदप्रत्ययो निवर्तते अन्तःकरणोपादानकत्वात् क्रोधादिवत्’ इत्यनुमातव्यम् । तत्र ध्वंसप्रतियोगित्वसाधने वृत्तिज्ञाननाशाङ्गीकारात् सिद्धसाधनता । युगपन्नाशसाधनेऽतीतानां भाविक्षणे नाशाभावाद्बाधः । दृष्टान्ते साध्यवैकल्यम् । तद्विषयकान्तः करणवृत्तीनां नाशेऽपि भेदस्वरूपसत्वानपायादर्थान्तराच्च निवृत्तिपदेन बाध एव विवक्षणीयः । भेदप्रत्यये बाध्यत्वसाधने क्रोधादौ दृष्टान्ते साध्यवैकल्यम् । तस्यादृष्टान्तत्वे व्यभिचारश्च । उक्तानुमितेरप्यन्तःकरणोपादानकत्वेन तत्र साध्याभावे व्यभिचारः । साध्यसत्वे च भेदज्ञानस्याबाधित्वापत्तिरूपप्रागुक्तदोष-दूषितत्वादित्यर्थः ।

।। सम्भावनापक्ष इति ।। क्रोधादीनां नाशरूपनिवृतिवत् भेदप्रत्ययस्यापि भ्रमान्तर-दृष्टान्तेन बाधः सम्भाव्यत इत्यर्थः ।। प्रमाणस्येति ।। सम्भावनामात्रस्यासाधकत्वादित्यर्थः ।। मोक्षश्रुतिरिति ।। ‘ज्ञाते द्वैतं न विद्यते, तरति शोकमात्मवित्’ इत्यादिरूपश्रुतिरित्यर्थः ।। शुकवामदेवादीति ।। अर्थवादस्यापीति ।। भावप्रधाननिर्देशः । भवितृप्राधान्ये वेदे तादृशार्थवादानां तत्पक्षे सम्भवादित्यर्थः ।