भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे..

भेदाद्यनुभवस्य भ्रान्तित्वनिरासः

श्रीमज्जयतीर्थटीका

ननु विमतो भेदभेदिवैलक्षण्यादिप्रत्ययो भ्रमः । भेदादिप्रत्ययत्वात् । अब्रह्म-ज्ञानत्वाच्च । चन्द्रभेदादिप्रत्ययवदित्यादियुक्त्या प्रत्यक्षादिजन्यस्य भेदाद्यनुभवस्य भ्रान्तित्वेन कथं तद्विरोधादभेदविषयवाक्यानामन्यार्थत्वमुच्यते ? यद्यपीश्वरस्यावरणमज्ञानं नास्ति तथापि विक्षेपसद्भावात्तदीयं भेदादिप्रत्यक्षं भ्रम एव । आगमस्यापि भेदानुवादित्वात्ततो जायमानं भेदादिसद्भावज्ञानं भ्रान्तिरुपपद्यत एवेति । तत्राह ।

मूलं

भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे त्वपलापयुक्तेर्नितरां भ्रान्तित्वाद्भेदाद्यनुभवस्याभ्रान्तित्वमेव भवति ।

यदि भेदाद्यनुभवत्वादिति हेतुना विप्रतिपन्नभेदाद्यनुभवस्य भ्रान्तित्वमङ्गी-क्रियते । तदा भेदाद्यनुभवो भ्रान्तिरिति युक्तिजानुभवस्य नितरां भ्रान्तित्वं स्यात्तस्यापि भेदाद्यनुभवत्वात् । अन्यथा भेदानुभवत्वादिति हेतोस्तेनैवानैकान्त्यप्रसङ्गात् । न हि भेदानुभवो भ्रम इत्ययं न भेदानुभव इति युक्तं विकल्परूपत्वात् । न ह्यसङ्कीर्णस्व-रूपज्ञानत्वातिरिक्तं भेदानुभवस्य शृृङ्गमस्ति । अस्त्वयमपि युक्तिजानुभवो भ्रमः किं नश्छिन्नं निर्विकल्पकं ब्रह्मैव तत्वमित्यङ्गीकारादिति चेन्न । तथा सति विप्रतिपन्न-भेदाद्यनुभवस्याभ्रान्तित्वप्राप्तेः । तदेषोभयतः पाशारज्जुः । युक्तिजानुभवस्याभ्रान्तित्वे नैकान्त्येन भ्रान्तित्वे वाधितत्वेन विप्रतिपन्नस्य भ्रान्तित्वसाधनासामर्थ्यात् ।

ननु भ्रान्तित्वे कथं तारतम्यं येन नितरामित्युक्तम् । सत्यम् । तथाऽपि स्वपरसम्मत्या निश्चितं तत्र भ्रान्तित्वमिति सूच्यते अनयोक्त्येत्यदोषः ।

ननु यक्तिजानुभवस्य भ्रान्तित्वेऽपि कुतो विप्रतिपन्नभेदाद्यनुभवस्याभ्रान्तित्वमित्यत आह ।

मूलं

परस्परविरुद्धयोरन्यतरनिषेधस्यान्यरविधिनान्तरीयकत्वात् ।

विरुद्धयोरिति निर्धारेणे सप्तमी । त्र्यादिष्वेकनिषेधे निश्चितेऽन्यतरैकविधिप्रति-पत्तिर्नास्तीति द्विवचनम् । नान्तरीयकत्वात् व्याप्तत्वात् । विप्रतिपन्नभेदाद्यनुभवयाथार्थ्यं तदपलापयुक्त्यनुभवयाथार्थ्यं च खलु परस्परविरुद्धे तत्र युक्त्यनुभवयाथार्थ्यप्रतिषेधे भेदाद्यनु-भवयाथार्थ्यं बलात्सिद्ध्यति । परस्परविरुद्धयोर्मध्येऽन्यतरनिषेधस्यान्यतरविधिव्याप्ततया सर्वत्र दर्शनादिति ।

ननु कथमत्र प्रयोक्तव्यम् ? भेदाद्यनुभवो यथार्थः । युक्त्यनुभवस्यायथार्थत्वादिति चेन्न । व्याप्त्यभावात् । तदपलापेति विशेषणेऽपि युक्तिग्रहणवैयर्थ्यात् । तदपनयनेऽपि वैयधिकरण्यानिस्तारात् । मैवम् । भेदाद्यनुभवो यथार्थः तद्विरुद्धप्रत्ययस्यायथार्थत्वादिति प्रयोगात् ।

न च व्यधिकरणत्वं दोषः । तद्धि पक्षधर्मताविघटनाद्व्याप्तिविघटनाद्वाऽतिप्रसङ्गाद्वा दोषः स्यात् । नाद्यः । पक्षधर्मताया अनावश्यकत्वात् । स्वयमसिद्धं कथं साधयतीति चेत् न ब्रूमोऽसिद्धम् । किन्तु पक्ष एव । तत्रासत्कथं तत्र साधयेदिति चेत् अथ तत्र सत्कथं तत्रापरं साधयेत् दर्शनादिति चेत्समम् । दृश्यते हि चक्रभ्रमदर्शनात् कुलालासत्यनुमानम् । तत्र तावान्प्रदेशः पक्ष इति चेत् किमेवं लौकिकी प्रतीतिरुत पक्षधर्मतावश्यम्भावादित्थं कल्प्यते ? नाद्यः । अप्रसिद्धेः । न द्वितीयः । परस्पराश्रयप्रसङ्गात् ।

किञ्च रसाद्रूपानुमाने यादृशी पक्षधर्मता न तादृशी धूमादग्न्यनुमाने । तत्र यथा यथादर्शनं व्यवस्था तथा क्वचित्पक्षधर्मता क्वचिन्नेति व्यवस्था किं नाश्रियते ? न द्वितीयः । चक्रभ्रमादौ वैयधिकरण्येऽपि व्याप्तिदर्शनात् ।

किञ्च धूमादग्न्यनुमाने यदि समानाधिकरणयोर्व्याप्तिस्तदा धूमदर्शनान्नियमेन तदर्वाग्भागेऽग्न्यर्थिनः प्रवृत्तिर्न स्यात् । अथ तत्रापि य ऊर्ध्वभागे धूमवान् सोऽर्वाग्भागेऽग्नि-मानिति व्याप्तिरिति चेन्न । स्वतो व्यधिकरणयोर्वाचोभङ्ग्यैव सामानाधिकरण्येऽनुमान-व्यवहारस्य काल्पनिकत्वप्रसङ्गात् । समानदेशकालयोर्व्याप्तिदर्शनेऽपि भिन्नकालयोरपि यथा व्याप्तिर्दर्शनबलाद्ग्राह्या तथा भिन्नाधिकरणयोरपीति को दोषः ? तृतीयस्तु दर्शनादर्शन-निरसनीय इति संङ्ग्रहः ।

ननु कतकरजोवद्वेणुसङ्घर्षणजाग्निवच्च भेदाद्यनुभवमाभासीकृत्य युक्तिः स्वयमाभासी-भविष्यतीति चेन्न । वैषम्यात् । न हि कतकरजःप्रभृतीनां सत्ववद्युक्तेः प्रमात्वं किञ्चित्कालमस्तीति ।

द्वैतद्युमणि:

।। भेदादिप्रत्ययत्वादिति ।। भेदभेदकधर्मदिप्रकारकप्रत्ययत्वादित्यर्थः । न चैवमननुगमः । किञ्चिद्धर्मावच्छिन्ननिरूपितप्रतिबन्धकतावच्छेदकप्रकारताश्रयत्वस्य विवक्षि-तत्वात् । निष्प्रकारकब्रह्मज्ञाने जगज्ज्ञानप्रतिबन्धकतावच्छेदकविषयताश्रये व्यभिचारवारणाय प्रकारतात्वेन निवेशः । न च प्रकारताश्रयत्वादित्यस्यैव सम्यक्त्वादितरांशवैयर्थ्यम् । स्वावच्छेदकप्रकारतासम्बन्धेन प्रतिबन्धकतावत्वे तात्पर्यात् । भेदादीत्यनेन धर्मविशेषनिर्भरा-भावसूचनात् प्रकारताश्रयत्वमात्ररूपे हेतौ वा तात्पर्यमस्तु । सर्वप्रत्ययानां पक्षत्वाभावेऽपि चन्द्रान्तरादिविषयकप्रत्ययान्तरस्य भ्रमत्वमात्रेण चन्द्रान्तरादीनां मिथ्यात्वस्य सिद्धत्वान्न सर्वप्रत्ययानां पक्षता । अतो लक्षणवाक्यजन्यस्य सोऽयमित्यादिवाक्यजन्यस्य चाखण्डार्थ-विषयकबोधस्य पक्षघटकत्वात्तत्रासिद्धिरिति शङ्कानवकाशः ।

न चैवं सामानाधिकरण्यमात्रेण साध्यसिद्धेरुद्देश्यत्वे किञ्चिज्ज्ञानस्य शुक्तिरजतादि-विषयकस्य भ्रमत्वमात्रेण साध्यपर्यवसानादर्थान्तरमिति वाच्यम् । सप्रकारकज्ञानत्वावच्छेदेनैव साध्यसिद्धेरुद्देश्यत्वेनार्थान्तराभावात् । भ्रान्तित्वं बाध्यार्थविषयकत्वमनुगतम् । अतस्तद-भाववति तत्प्रकारकत्वादिघटितस्याननुगतत्वेऽपि नांशेबाधादिप्रसक्तिः । ब्रह्मणोऽपि विशिष्टरूपेण मिथ्यात्वात् सप्रकारकब्रह्मज्ञानस्य पक्षत्वेऽपि न बाधप्रसक्तिः । अत्र कल्पे विशिष्टज्ञानसामान्यस्य पक्षत्वे तद्विषयीभूतानां विशिष्टस्वरूपेणैव मिथ्यात्वं स्यात् । न केवलब्रह्मस्वरूपेऽपि । ब्रह्मस्वरूपमात्रविषयकज्ञानस्य वोक्तलक्षणवाक्यादिजन्यतत्स्वरूप-मात्रज्ञानस्य वा याथार्थ्यानिवारणात् ।

ननु विधिनिषेधाववधूय प्रतीत्ययोगात् ब्रह्मणः सर्वप्रत्ययवेद्यत्वसिद्धान्तभङ्गप्रसङ्गाच्च सद्रूपं चन्द्रादिस्वरूपेषु भासत एवेति वाच्यम् । उक्तनियमस्य तादृशसिद्धान्तस्य च सप्रकारकज्ञानमात्रविषयत्वाभ्युपगमात् । अन्यथा तद्वाक्यानामखण्डार्थत्वभङ्गप्रसङ्गादित्यतो ब्रह्मान्यविषयकज्ञानत्वावच्छेदेन ब्रह्मान्यविषयकज्ञानत्वहेतुनोक्तसाध्यं साधनीयमित्याशयेन हेत्वन्तरमाह ।। अब्रह्मेति ।। नञ् ब्रह्मपदेनैव समस्तम् । अतः सन् घट इत्यादिप्रकारकज्ञानेषु नासिद्धिः । उक्तज्ञानेषु ब्रह्मांशघटादीनां सत्तासंसर्गादीनां भानात् । व्यासज्यवृत्तिधर्मावच्छिन्नभेदस्य स्वस्मिन्ननङ्गीकारान्न ब्रह्मणोऽपि ब्रह्मान्यत्वेनानवच्छिन्न-तदवगाहिज्ञाने व्यभिचारः ।

यद्वा आनन्दत्वावच्छिन्नभिन्नत्वं ब्रह्मान्यत्वम् । तादृशजातेस्तद्वृत्त्युपहितचिद्रूप एव स्वीकारादुपहितवृत्तेः केवलेऽपि तदसमसत्ताकस्य सत्वान्न ब्रह्मणि तदवच्छिन्नभेदसत्वमिति भावः ।

यद्वा भेदादिप्रत्ययत्वादित्यादिपदेन तदाश्रयादयो गृह्यन्ते । न तु वैलक्षण्यरूपभेद-कधर्मोऽपि । आश्रयग्रहणेन तत्र भेदप्रकारकत्वं लभ्यते । तथा च भेदप्रकारकत्वादित्यर्थः । सर्वप्रत्ययेषु तादृशहेतुर्वर्तत एवेति भावः । व्यक्तीभविष्यति चैतदनुपदमेव ।

।। विक्षेपसद्भावादिति ।। अतदाभासशक्तेरेव विक्षेपपदार्थत्वादिति भावः । नन्वागम-जन्यभेदादिज्ञानस्य भ्रमत्वे आगमस्याप्रामाण्यापत्तिरित्यत आह ।। आगमस्येति ।। परमतात्पर्यविषयीभूतबोधस्य भ्रमत्व एव वाक्याप्रामण्यम् । प्रकृते चानुवादकवाक्यानां निषेधकवाक्यैकवाक्यतापन्नतया प्रमात्मकबोधजनकत्वमेव । अवान्तरवाक्यजन्यबोधस्य भ्रमत्वं न तस्याप्रमाण्यापादकम् । अन्यथाऽतिप्रसङ्गदिति भावः । भ्रान्तिरुपपद्यत इति ।। भ्रान्तिरपि नाप्रामाण्यापादिका भवतीत्यर्थः । कथंयुक्तिजानुभवे प्रकृतहेतुर्नास्तीत्येतदयुक्त-मित्यत आह ।। विकल्परुपत्वादिति ।। विकल्पः किञ्चिद्व्यवच्छेदको धर्मः स निरूप्यते विषयीक्रियते इति व्युत्पत्त्या किञ्चिद्व्यवच्छेदकधर्मप्रकारकज्ञानत्वादित्यर्थः ।

तावता भेदादिप्रत्ययत्वं कथं तत्रेत्यत आह ।। न हीति ।। असङ्कीर्णस्वरूप-ज्ञानत्वातिरिक्तं स्वेन विषयीक्रियमाणधर्मविशिष्टस्य तद्धर्मशून्याद्व्यावृत्तिग्रहसम्पादकसप्रकार-कज्ञानत्वादतिरिक्तं पक्षीभूतभेदानुभवे विद्यमानं युक्तिजानुभवावर्तमानं शृृङ्गं पशोः पशु-विशेषाद्व्यावृत्तशृृङ्गसदृशं किञ्चिद्धेतुभूतमस्तीत्यर्थः । प्रमेयत्वादिप्रकारकज्ञानमप्यप्रमेय-विलक्षणमिदमिति ज्ञानसम्पादकं भवतीति सप्रकारकज्ञानसामान्यमसङ्कीर्णस्वरूपविषयकं भवति न तु स्वरूपमात्रविषयकं ज्ञानमित्याशयेन वा व्यतिरेकिधर्मसामान्यप्रकारक- ज्ञानस्योक्तासङ्कीर्णवस्तुज्ञानरूपत्वेन बाहुलिकत्वेन सप्रकारकत्वप्ररिचायकतया वा तथोक्ति-सम्भवः । पूर्वेक्तरीत्याऽऽदिपदार्थाननुगमादिपरिहाराय पूर्वोक्तरीत्यैव हेतोः परिष्करणीय-त्वात्तस्य युक्तिजानुभवेऽप्यक्षतत्वमिति भावः ।

भेदादिप्रत्ययत्वादिति हेतोः यद्वेति द्वितीयव्याख्यानपक्षे विकल्परूपत्वादित्यस्य विशिष्टविशेषविषयकज्ञानत्वादित्येवार्थः । तावता कथं तस्य भेदानुभवत्वमित्यत आह ।। असङ्कीर्णेति ।। यत्किञ्चितादात्म्यज्ञानप्रतिबन्धकीभूतस्वरूपज्ञानत्वातिरिक्तेत्यर्थः । भेदानुभवस्य शृृङ्गमिति ।। भेदानुभवत्वज्ञापकधर्म इति पर्यवसितोऽर्थः । अयमाशयः । घटः पटाद्भिन्न इत्युल्लिख्यमानज्ञानस्यापि पटतादत्म्यकबोधानुत्पादसम्पादकत्वादेव भेदे प्रकारत्वं तस्याभ्युपेयते । भेदादिशब्दस्य लक्षणयाऽन्यत्रापि प्रयोगसम्भवेन तन्मात्रेण भेदप्रकार-कत्वासिद्धेः । इत्थं च दण्डीत्यादिविशिष्टज्ञानानामपि दण्डंशे दण्डाभावादिपदार्थभेदस्य दण्डिनि दण्डाभाववद्भेदस्य भानमावश्यकम् । तत्तादात्म्यादिग्रहं प्रति विरोधिताया अनुल्लेखेऽप्यनुभवसिद्धत्वात् । तन्निर्वाहाय सप्रकारकज्ञाने स्वसामग्य्रा प्रकारीभूतधर्मे यद्यद्भेदः पूर्वमनुभूतः तत्तद्भेदो विशेष्ये तद्धर्मावच्छिन्नभिन्नभेदश्च भासत इत्यवश्यमभ्युपेयम् । सर्वस्या अपि कल्पनाया अनुभवानुसारित्वात् । अन्यथा भेदप्रकारकत्वरूपहेतोः घटाद्यनु-भवेऽसिद्ध्यापत्तेः । न च भेदप्रकारकानुभवमात्रस्य पक्षतेति युक्तम् । भेदीत्यादिपदविरोघात् । अब्रह्मज्ञानत्वरूपद्विव्तीयहेतोर्घटादिज्ञानेषु निश्चितो वा सन्दिग्धो वा व्यभिचारः स्यात् । तथा चोक्तनुमितिरूपविशिष्टानुभवस्यापि भेदप्रकारकत्वं दुर्वारमिति तत्र हेतुसत्वमिति ।।

नन्वनुमितेर्भ्रमत्वे तद्विषयीभूतस्य सत्यत्वानुपपत्तिरित्यत्रेष्टापत्तिमाह ।। निर्विकल्पकमिति ।। विर्धर्मकतया स्वरूपमात्रावगाहिनिर्विकल्पकप्रतीतिविषयीभूतमित्यर्थः । तादृशज्ञानं तु प्रमैवेति भावः ।

।। अनैकान्त्येनेति ।। ननु तस्यापि पक्षकोटिनिविष्टत्वेन तत्र साध्याभावे अंशे बाध एव वक्तव्यः । न व्यभिचारः । न चांशे बाधभिया तस्य पक्षबहिर्भावस्य कर्तव्यत्वात्तत्र व्यभिचारोद्भावनं सङ्गतमिति वाच्यम् । प्रकृतानुमानोपन्यासात् प्राक् उक्तानुमितेरनुपस्थित्या तस्य पूर्वं बहिर्भावायोगात् । उपस्थितेरङ्गीकारे तत्र व्यभिचारोपस्थितेरावश्यकतया तद्वारकविशेषणदानस्यावश्यप्राप्तत्वेन व्यभिचारकथनासङ्गतिरेवेति चेत् ।

अत्र केचित् । भेदानुभवसामान्यं यदि भ्रान्तिः स्यात् युक्तिजन्यानुभवस्यापि भ्रमत्वं स्यात् । अन्यथा त्वद्धेतोर्वस्तुतोऽनैकान्त्येन दुष्टत्वापत्तेः । अतो युक्तिजानुभवस्य भ्रमत्वाद्भेदानुभवो न भ्रान्तिरिति परकीयानुमाने प्रतिकूलतर्कपराहतिप्रदर्शकताया एवोक्तग्रन्थस्याभ्युपगतत्वेनानैकान्त्योद्भावनपरत्वाभावात् । अत एवोक्तं ‘उभयतः पाशा रज्जुः’ इति । तन्न । उक्तग्रन्थस्य तर्कबाधपरत्वे कथमत्र प्रयोक्तव्यमित्युत्तरग्रन्थासङ्गतेः । किन्तु प्रबलप्रमाणबाधपरत्वमेव । अन्यथा मूले स्यादित्याद्युक्तिः स्यात् । इत्यभिप्रेत्य वक्ष्यमाणानुमानहेतोर्मतद्वयसिद्धत्वबोधनाय तदनङ्गीकारे बाधकतर्को वस्तुतोऽनैकान्त्या-पादनरूपः टीकायामुक्तः । बाधप्रदर्शनपरत्वादेव मूले ‘अभ्रान्तित्वमेव भवति’ इत्युक्तमिति समाधानं युक्तम् । तद्धटनार्थमेव परस्परविरुद्धयोरित्युत्तरमूलं प्रवृत्तम् । तत्र व्याप्तिप्रदर्शनमात्रं कृतम् । पक्षधर्मता तु नोक्ता । तत्र यथाकथञ्चित् पक्षधर्मताया हेतौ वक्तुं शक्यत्वेन स्फुटत्वान्नोक्तेति न न्यूनतेति समाधानं न चारु । उपपादनसापेक्षपक्षधर्मतामप्रदर्श्य सर्वलोकावगतव्याप्त्युपपादनस्यैव निर्बीजत्वापत्तेः । अतस्तन्मूलस्य पक्षधर्मताया नावश्य-कत्वमिति सूचनमेवाभिप्रेतमित्याशयेन टीकाकारैस्तदनावश्यकत्वं वर्णितमित्यवधेयम् ।

कर्तृत्वाद्यर्थकषष्ठीत्वस्य प्रकृतेऽनुपयोगाच्चाह ।। निर्घारण इति ।। लोके निर्धारणे सप्तम्या एव बहुलप्रयोगात् सप्तमीत्वमेवोक्तम् ।। त्र्यादिष्विति ।। परस्परविरहव्याप्तत्वरूप-विरोधशालिनां स्तम्भत्वघटत्वपटत्वादीनां मध्य एकाभावस्य सत्वेऽपि तदाश्रयाधिकरणे विशेषत एकस्यैव सिद्ध्यभावाद्द्विवचनप्रयोगः । तेन परस्परविरहव्यापकत्वरूपस्य वा परस्परविरहात्मकत्वरूपस्य वा विरोधस्य व्याप्तिशरीरे निवेशलाभान्न कश्चित् क्षुद्रोपद्रवः ।

नन्विदमनुपपन्नम् ? घटादौ भेदाद्यनुभवप्रामाण्ययुक्तिजानुभवप्रामाण्यैतद्द्वयस्याप्य-भावेनपरस्परविरहव्यापकत्वस्य चाभावात् युक्तिजानभवप्रामाण्यस्यैव भवन्मतेऽलीकत्वेन तस्योभयरूपविरुद्धत्वस्य वक्तुमशक्यत्वाच्चेति चेन्न । भेदानुभवयाथार्थ्यस्य भेदे बाधितत्वा-भावगर्भत्वाद्युक्तिजानुभवयाथार्थ्यस्य भेदे बाधितत्वगर्भत्वेन तयोर्भावाभावरूपत्वेन विरोधा-त्तद्धटितमूर्तिकत्वादुभयोः परस्परविरुद्धत्वस्योपचारेण व्यवहारः । शशविषाणतदभावयोरन्यत-रस्यासत्वेऽपि उभयाधिकरणत्वस्यैकस्मिन्नपि कालेऽनङ्गीकारेण विरुद्धत्वव्यवहारवद्युक्तिजानु-भवयाथार्थ्यस्यासत्वेऽपि तथा व्यवहारोपपत्तेः ।

।। तद्विरुद्धप्रत्ययस्येति ।। ‘यस्मिन् यद्धर्मप्रकारकं यज्ज्ञानं तस्मिन् तदभावप्रकारकं च यज्ज्ञानं तयोरन्यतरस्यायथार्थत्वे अन्यतरस्य याथार्थ्यम्’ इत्युदाहरणम् । ‘उक्तभेदसत्वा-सत्वानुभवयोरन्यतरात्मकं भेदासत्वावगाहियुक्तिजन्यं ज्ञानं भ्रमः’ इत्युपनयः । ‘तस्माद्भेदानुभवो यथार्थः’ इति निगमनं पञ्चावयवानामकांक्षितत्वे द्रष्टव्यम् । भेदानुभवो नाम तत्राबाधितत्वरूपसत्वावगाह्यनुभवः । स एव पक्षत्वेनाभिमतः । असत्वावगाह्यनुभवस्य भ्रमत्वस्य परसिद्धतया तत्र भ्रमत्वस्य साधने सिद्धसाधनप्रसङ्गात् । साध्यीभूतभ्रमत्वं च बाधितभेदेऽबाधितत्वावगाहित्वरूपम् । तद्विषयिण्यनुमितिर्भेदे बाधितत्वावगाहिनीति तयोः परस्परविद्धविषयकत्वं द्रष्टव्यम् ।

।। व्यधिकरणासिद्धेरदोषत्वसमर्थनम् ।।

शङ्कितव्यधिकरणासिद्धेः परिहारे यद्यपि भ्रमप्रकारविरुद्धप्रकारकत्वादित्यादिरीत्या हेतुपरि-ष्कारेणापि कर्तुं शक्यते । तथाऽपि श्ष्यिणां वस्तुस्थितिप्रदर्शनार्थमुक्तरीत्याऽऽचार्या-भिप्रायमुत्सृज्य तस्यादोषत्वं ‘आश्रयव्याश्रयासिद्धी’ इत्याद्यनुव्याख्यानं ‘आश्रयासिद्धि-र्व्यधिकरणासिद्धिर्न दूषणम्’ इत्यादिप्रमाणलक्षणं च मनसि निधाय व्युत्पादयति ।। न चेत्यादिना ।। अतिप्रसङ्गादिति ।। पर्वतस्थले धूमेन ह्रदे वह्विप्रमानुमित्यापत्त्यादि-रूपातिप्रसङ्गादित्यर्थः ।। अनावश्यकत्वादिति ।। यस्मिन् साध्यधर्मविधेयकानुमितिर्जायते तद्धर्मिणि हेतुसत्वज्ञानं नावश्यकम् । किन्तु समुचितदेशवृत्तित्वज्ञानमेव कारणामित्यर्थंः । एतच्चोत्तरत्रानुपदं विवेचयिष्यते ।।

पक्षधर्मतानावश्यकत्वोक्त्याऽसिद्धेर्दोषत्वमेव नेति भ्रान्त्या शङ्कते ।। स्वयमसिद्धमिति ।। स्वाभिप्रायंव्यनक्ति ।। न ब्रूम इति ।। असिद्धमिति ।। सर्वथाऽसत् सर्वथा चाज्ञातं चेत्यर्थः । पक्ष एवेति ।। नियमो व्यवच्छिद्यत इति शेषः । पर्वतादावविद्यमानधूमादेर्वन्ह्या-द्यसाधकत्वात् कथं तत्रासतः तस्मिन् साध्यसाधकत्वं इत्याशयेन शङ्कते ।। तत्रेति ।। पर्वतवृत्तितृणप्रमेयत्वादिधर्माणामपि साधकत्वादर्शनात्तत्र विद्यमानस्यापि साधकत्वं न स्यादिति भावः । तत्राविद्यमानवस्तुविषयकज्ञानं न कारणं किन्तु वस्तुविशेषज्ञानम् । अनुभवानुसारेण कारणत्वस्य कल्पनादित्याशयेनाह ।। दर्शनादिति ।। सममिति ।। तदवृत्तिपदार्थमध्येऽप्येवमेवेत्यर्थः ।। चकभ्रमेति ।। भ्रमविशिष्टचक्रस्येति वा चक्रवृत्तित्व-विष्टभ्रमेर्वा दर्शनादित्यर्थः । वायूपघाताद्यधीनभ्रमिविजातीया अनुभवसिद्धा भ्रमिरेवा ग्राह्या ।। कुलालासत्तीति ।। कुलालविधेयकतत्समीपदेशोद्देश्यकानुमितिर्दृष्टेति भावः। कुलालपदं च तादृशभ्रम्यनुकूलकृतिमत्परं बोध्यम् ।।

।। तावान् देश इति ।। हेतुसाध्योभयाधिकरणीभूतगृहगतभागविशेष एव पक्ष इत्यर्थः । लौकिकी प्रतीतिः उक्तभागत्वावच्छिन्नोद्देश्यताकत्वेनानुमित्यवगाहिनी तादृशभागत्वावच्छि-न्नविशेष्यताकत्वेन परामर्शावगाहिनी लोकानामनुव्यवसायरूपा प्रतीतिरित्यर्थः ।। असिद्धे-रिति ।। यद्व्यवहारो यादृशज्ञानजनकः तद्व्यवहारकारणतया तादृशी प्रतीतिरनुमीयते । लोकास्तु भ्रमिविशिष्टचक्रमात्रं तद्भागे दृष्ट्वा कुलालस्य तत्रासन्निकर्षेण प्रत्यक्षाभावे सति एतद्भागनिकटभागे कुलालो वर्तत इत्युक्त्वा ‘कुत एतत्’ इति केनचित्पृष्टा ‘अत्र चक्रं भ्रमति पश्य’ इत्येव व्यवहरन्ति । न त्वियं शाला कुलालवती भ्रमिविशिष्टचक्रवत्वादिति व्यवहरन्ति । शालायां कुलालो वर्तते इति निश्चयदशायामेव भागाविशेषे तत्सन्देहदशाया-मेवोक्तव्यवहारस्यानुभूतिभूलकस्य प्रवृत्तेः । तथा च तत्र विभिन्नधर्मावच्छिन्नधर्मिणोरेव हेतुसाध्यबोधव्यवहारान्यथानुपपत्त्या तादृश एवानुव्यवसायः सिद्ध्यतीति तद्विषयीभूतानु-मितिपरामर्शयोरपि विभिन्नधर्मावच्छिन्नधर्मिद्वयविषयकत्वस्यैव सत्वात् एकधर्मिविषय-कत्वस्यासिद्धेरित्यर्थः ।

इदं तु चक्रस्य हेतुतया व्यवहारस्थलमभ्युपेत्योक्तम् । यदा तु ‘अत्र चक्रं भ्रमति ततस्तत्समीपे कुलालो वर्तते’ इति व्यवहरन्ति तदा भ्रमिरूपलिङ्गस्य भागविशेषवृत्तित्व-विशिष्टचके्र ज्ञानात् भागाविशेषे कुलालविधेयकानुमितिः । तत्र हेतुसाध्ययोः प्रदेशविशेष-मादायापि न सामानाधिकरण्यप्रसक्तिः । तत्राप्यवह्रियमाणायाश्चक्रे कुलालदेशनिकट-वृत्तित्वानुमितेर्भ्रमिरूपलिङ्गेन स्वीकारे, अनुभवानारूढहेतुसाध्योभयाधिकरणभागामात्रोप-स्थितिं परिकल्प्य विशिष्टचक्रेण कुलालानुमितिरेव जायत इति स्वीकारे च प्रामाणिक-परित्यागाप्रामाणिककल्पने स्याताम् । न ह्येतादृशव्यवहाराणामुक्तानुमितिबोधने पारिभाषिक-त्वस्वीकारबीजं किञ्चिदस्ति । व्याप्त्यनुपपत्त्यादीनामग्रह एव परिहरिष्यमाणत्वेन तादृश-बाधकाभावात् ।

उक्तस्थलेऽनुभवे विवदमानं प्रति प्रकारान्तरेण समाधानं वक्तुमाह ।। किञ्चेति ।। रसाद्रूपानुमान इति ।। रसलिङ्गकरूपानुमितिजनकतावच्छेदकविषयताश्रयत्वरूपप्रयोजकत्वं पक्षधर्मतान्वयि सप्तन्यर्थो ज्ञेयः ।। किं नाश्रियत इति ।। अयं समुदितार्थंः । एकस्य यादृशकार्यजनकत्वं यादृशविशेषाक्रान्तस्य सर्वत्र तादृशविशेषाक्रान्तस्यैव तादृशकार्यजन-कत्वमिति नियमः स्वीक्रियते न वा ? आद्ये रूपाधिकरणवृत्तित्वं रसस्यांशभेदं विनैव तदवच्छिन्नदेशावच्छिन्नं समवायसम्बन्धावच्छिन्नं च वृत्तित्वमुपलब्धम् । धूमस्य वन्ह्यधि-करणवृत्तित्वं संयुक्तत्वं शिखरावच्छेदेनोपलब्धम् । तथा चैतदनुसारेण तत्र वा तदनुसारेणात्र वा अदृष्टपक्षदर्ज्ञताज्ञानस्य कारणत्वाभावापत्त्या प्रामाणिकतत्तदनुगुणलिङ्गोपस्थितिं कल्पयित्वैव साध्यानुमितेरुपपादनोपपत्तेः । न च मूलानवच्छिन्नधूमेन वन्ह्यनुमितेरदर्शनात् मूलवृत्तित्वज्ञानमेव कारणमिति वाच्यम् । तावताऽपि रसादिस्थलसाम्यानुपपादनात् । मूर्तद्रव्याणामेकदेशावच्छिन्नवृत्तित्वस्य सुतरामसम्भवाच्च ।

किञ्च पर्वतस्य मूलभोगेऽपि यत्र धूमसम्बन्धः प्रत्यक्षः तत्रैव वह्निसम्बन्धसत्वे तत्प्रत्यक्षापत्तेरनुमितिवैयर्थ्यापत्तिश्च । तत्प्रत्यक्षेण वह्निदेशावच्छिन्नधूमसंयोगः कल्प्यते चेत् वह्निज्ञानोत्तरं मूलभागे धूमानुमित्यापत्तेः । न च तत्सम्भवति । अप्रामाणिकत्वात् । मूले धूमसंयोगनाशदशायामपि परिदृश्यमानभागे धूमसम्बन्धस्य किञ्चित्काले सत्वसम्भवेन तत्काले वन्ह्यधिकरणभागे धूमसम्बन्धासिद्धेश्च ।

न च कालाघटिततयैव तत्सिद्धिरिति वाच्यम् । विच्छिन्नमूलभागस्य धूमस्य पर्वतशिखरे दर्शनेनापि तत्पूर्वकाले पर्वताधोभागे वह्निसिद्धेरवारणात् विच्छिन्नमूलत्वाभावादिदर्शनस्य वैयर्थ्यात् । तत्काले वन्ह्यर्थिप्रवृत्तिसिद्ध्यर्थं तात्कालिकतया वह्निप्रतीतिरावश्यिकीति चेत् धूमस्य वन्ह्यधिकरणभागसम्बन्धस्यापि तात्कालिकतया सिद्धौ तदघटितधूमसम्बन्धेन तत्कालवृत्तित्वसिद्धिः । लाघवादिना विशेषविमर्शदशायां तु तात्कालिकवह्निं विना यादृशविशेषणोपेतधूमस्यानुपपत्तिस्तादृशविशेषणेपेतधूमप्रतिसन्धानं प्रयोजकमिति न सर्वत्र तदपेक्षा युक्ता ।

न द्वितीयः । तादृशनियमस्य त्यक्तत्वादत्रापि चक्रभ्रमणरूपहेतुज्ञानस्यैव चक्रनिकट-योग्यदेशे कुलालविधेयकानुमितिं प्रति, एवमधोदेशविशेष्यकनदीपूरज्ञानस्यैव योग्योर्ध्वदे-शोद्देश्यकवृष्टिविधेयकानुमितिं प्रति, एवमेतत्काले कृत्तिकोदयज्ञानस्योत्तरयोग्यकालविधेय-कानुमितिं प्रति जनकत्वाङ्गीकारे बाधकाभावात् किमर्थमनुमानान्तरसाम्यानुरोधेनोद्देश्य-विशेष्यकहेतुज्ञानस्य पूर्वं निर्वाहार्थमेव हेतुसाध्यविपरिणामादिना तद्विषयकज्ञानस्या प्रामाणिकस्य साध्ये कल्पनयेति ।।

।। समानाधिकरणयोर्व्याप्तिरिति ।। धूमो यस्मिन् भागे वर्तते तद्भागवृत्तितयैव वह्नेः व्यापकताग्रह इत्यर्थः ।। अथेति य इत्यादि ।। तथा चैकाधिकरणवृत्तित्वमात्रं व्याप्तिघटकं नैकावच्छेदकरूपभागघटितमित्यर्थः ।। स्वतो व्यधिकरणयोरिति ।। भागद्वय एव पृथग्वर्तमानयोः परस्पराभावसमानाधिकरणयोरित्यर्थः ।। वाचोभङ्ग्येति ।। यथायथमुदाहरणेन यथाकथञ्चिदेकाधिकरणसम्बन्धबोधन इत्यर्थः । यत्किञ्चिदेकस्थूलाधिकरणसम्बन्धित्वमात्रेण हेतुसाध्ययोः सामानाधिकरण्यमस्तीत्यभ्युपगम इति यावत् ।। काल्पनिकत्वप्रसङ्गादिति ।। हेतुसाध्ययोर्वैयधिकरण्यादिदं नानुमानमिति व्यवहारस्य निर्बीजत्वापत्तेरित्यर्थः । फलवृत्तिरसस्य पटवृत्तिरूपस्यापि य आकाशः महाकालो वा रसवत्फलवान् सः स्वसम्बद्ध-फलवृत्तिरसकः, रूपवत्पटवान् सः स्वसम्बद्धपटवृत्तिरूपको वेति उदाहरणप्रयोगसम्भ-वेनैकाधिकरणग्रहसम्भवात् , प्रकृतनदीपूरादेरपि भूतलादिरूपैकधर्मिणमादाय यथायथं सामानाधिकरण्यस्य वक्तुं शक्यत्वाच्च सामानाधिकरण्यवैयधिकरण्यकथाया एवोच्छेदापत्तेः । व्याप्तिज्ञानवेलायां यत्र हेतुदर्शनं तद्भाग एव साध्यदर्शनं तु धूमस्थलेऽपि नास्तीति भावः ।

निदर्शनान्तरेणाप्युक्तमर्थं सम्भावयति ।। समानेति ।। भिन्नकालयोः धूमधूम-प्रागाभावतद्ध्वंसयोः ।। तृतीयस्त्विति ।। पर्वतस्थधूमेन ह्रदे वह्निप्रमोत्पत्त्यादिरूपातिप्रसङ्ग इत्यर्थः ।। दर्शनादर्शनेति ।। यस्मिन् यल्लिङ्गज्ञानस्य नियमेन यत्र साध्यानुमिति-जनकत्वमनुभवसिद्धं तत्र तथैव तस्य हेतुत्वं नान्यथेति व्यवस्थाश्रयणान्नकोऽपि दोष इति भावः । ननूक्तव्यवस्थाया एव किं नियामकम् ? निर्निबन्धनायाः स्वीकारे व्याप्त्याद्यङ्गीकारस्यैव वैयर्थ्यापत्तेरित्यत आह ।। सङ्ग्रह इति ।। शिष्याणां पूर्वोपपादनेनैव सुज्ञानमिति सङ्क्षेपः क्रियते न विस्तृतिरिति भावः ।

तथाहि । व्याप्तिशरीरे हेतुसाध्ययोर्यादृशाधिकरणयोर्निवेशः तादृशाधिकरणे हेतुमत्ताज्ञानं तादृशाधिकरणे साध्यविधेकानुमितौ हेतुः । साध्यसाधनतत्सम्बन्धभेदेन व्याप्तीनां परामर्शानु-मितिकार्यकारणभावानां च भिन्नत्वात् । अन्यथा संयोगेन वह्नेः समवायेन धूमाधिकरणे सिद्ध्यादिप्रसङ्गात् । ततश्च यद्देशकालवृत्ति यद्धेतोः यद्देशकालवृत्ति यत्साध्यं विना याऽनुपपत्तिः सा तत्साध्यनिरूपिता तद्भेतुनिष्ठा तत्तद्देशकालघटिता व्याप्तिः । तदर्थश्च धूमवन्ह्यादिस्थले धूमवद्भागार्वाग्भागविशेषनिष्ठाभावाप्रतियोगिवह्निकत्वम् । भागविशेषश्च भागान्तरव्यावृत्ततयाऽनुभवसिद्धतया निविष्टः । विशिष्य वक्तुमशक्यत्वादेव तदपन्हवेऽनुकूल-त्वादेर्विशिष्य वक्तुमशक्यत्वात् गात्यादिनिर्वचनानुपपत्तिप्रसङ्गात् । चक्रभ्रमिस्थले च भ्रमविशेषाधिकरणचक्रवद्देशविशेषनिष्ठाभावाप्रतियोगिपुरुषकत्वम् । भूतलविशेष्यकघटप्रकार-कज्ञाननिष्ठयाथार्थ्ये भूतलविशेष्यकघटाभावज्ञाननिष्ठायथार्थ्येन सह व्याप्तिश्च स्वाश्रयसमान-विशेष्यकस्वघटकधर्मविरुद्धधर्मप्रकारकज्ञानवृत्त्यभावाप्रतियोग्ययाथार्थ्यकत्वम् । नदीपूरादिस्थले नदीपूरवद्देशोर्ध्वदेशविशेषनिष्ठाभावाप्रतियोगिवृष्टिकत्वम् । इत्यादिक्रमेण व्याप्तिर्निर्वाच्या । बहुव्रीह्यर्थघटकसम्बन्धश्चाविवक्षित एव । यथा नैयायिकनये गुणकर्मान्यत्वविशिष्टहेतुकस्थले हेतोः साक्षात्सम्बन्धेन हेतुविशेषणतापन्नहेतुतावच्छेदकस्य स्वावच्छिन्नाधिकरणतारूपपरम्परया धर्मिपारतन्त्र्येणाधिकरणांशे व्याप्तिशरीरे निवेशः । कारणीभूतपक्षधर्मताज्ञानमपि हेतोः साक्षात्सम्बन्धेन हेतुतावच्छेदकस्य परम्परयाऽवगाह्येवानुमितिहेतुः । उपलक्षितहेताव-वच्छेदकस्थले हेतोः साक्षात्सम्बन्धेन हेतुतावच्छेदकस्य हेतावेव निवेशः । तादृशव्याप्त्यवगा-हिपक्षधर्मताज्ञानमपि तादृशमेवानुमितिहेतुः । अन्यथा विशिष्टस्य व्याप्तिमवगाह्य तादृशहेतु-तावच्छेकोपलक्षितहेतोः गुणेऽवगाहिनः प्रमात्मकपरामर्शाद्गुणो द्रव्यत्ववानिति भ्रमात्मकानु-मित्यापत्तिः । न हि सल्लिङ्गपरामर्शकार्यतावच्छेदिका भ्रमत्वघटकविषयता भवति ।

एवं ‘साध्यतावच्छेदकसम्बन्धघटितोभयाभावकल्पे वह्निसाध्यकस्थले संयोगसम्बन्ध-सामान्ये यत्किञ्चिद्धूमाधिकणणानुयोगिकत्वतादृशप्रतियोगितावच्छेदकावच्छिन्नत्वोभयाभावो निविष्टः । स्वाश्रयसंयोगरूपपरम्परासम्बन्धेन लौहित्ये साध्ये तत्स्फटिकत्वे हेतौ समावाया-वच्छिन्नाश्रयत्वसामान्ये तादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वतत्स्फटिकसंयोग-प्रतियोग्यनुयोगिकत्वोभयाभावो निविष्टः । एवमुक्तपरम्परासम्बन्धेन हेतुस्थले वृत्त्यनियामक-सम्बन्धस्याधिकरणतानवच्छेदकत्वात्सम्बन्धानुयोगितातिरिक्ततत्सम्बन्धावच्छिन्नसम्बन्धितायां मानाभावात् स्वसमवायिप्रतियोगिकसंयोगानुयोगिनिष्ठाभावाप्रतियोगित्वं साध्ये निवेश्यम्’ इत्यादिप्रकारः सिद्धान्तलक्षणटिप्पण्यां गदाधरप्रभृतिभिर्दर्शितः । तथा तद्रीतेरेव प्रकृतेऽनुसरणे किमलौकिकम् ?

न च तत्रोर्ध्वदेशः पक्षः स्वाश्रयोर्ध्वभागत्वसम्बन्धेन नदीपूरो हेतुः । अथवा नदीपूराधि-काणीभूताधोदेश एव पक्षे स्वाश्रयदेशाधोभागत्वसम्बन्धेन वृष्टिरेव साध्येति हेतुसाध्ययौरै-काधिकरण्यनिर्वाह इति वाच्यम् । उक्तपरम्परासम्बन्धस्य वृत्त्यनियामकतयाऽघिकरणता-प्रतियोगितयोरनवच्छेदकतयोक्तपरम्परायाः संसर्गत्वे मानाभावेन तत्सम्बन्धघटितव्याप्ते-रुक्तरीत्यैव वक्तव्यतया साध्याधिकरणविशेष्यकहेतुमत्ताज्ञानस्य कारणत्वायोगात् । न च तत्र वृष्ट्यधिकरणदेशाधोदेशत्वमेव साध्यं नदीपूराश्रयदेशोर्ध्वदेशत्वं वा तादृशस्थले हेतुरस्तु । तादृशानुमितेरुभयक्लृप्ततया तत्सामग्य्रा उभयसिद्धतया तयैवोक्तव्यवहारसम्भवेऽधोदेशधर्मिक-नदीपूरप्रकारकज्ञानस्योर्ध्वदेशोद्देश्यकवृष्ट्यनुमितिजनकत्वे मानाभाव इति वाच्यम् । विनिगमकाभावेनोक्तसामाग््रयैव व्यवहारनिर्वाहसम्भवे तादृशसामाग्य्रैवमस्त्विति वक्तुं शक्यत्वेन तादृशसामग्य्रा उभयसिद्धत्वस्यैवाभावात् । धूमाधिकरणतालिङ्गकानुमितिसामग्य्रा धूमानु-मानस्यान्यथासिद्धेर्वक्तुं शक्यत्वेन बहुविप्लवापत्तेश्च । कालविशेषभेदेनोभयसामग्रीभ्यामप्यनु- मितिजननमनुभवसिद्धमिति सामग्रीद्वयमपि स्वीक्रियते चेत् प्रकृतेऽपि किं ततो विशेषं पश्यसीत्यन्यत्र विस्तरः । यदत्र पूर्वग्रन्थमारभ्यैतद्ग्रन्थपर्यन्तटीकोपरि केनचित्प्रलपितं नवीनेन ‘‘यत्तु

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

 सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ ।।

यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

 तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ ।।

इति वचनैर्मुक्तेश्वरयोर्भेदगर्भसाम्योक्तेर्भेदस्य मुक्तिकालीनत्वावगमात् पारमार्थिकत्वमिति तदपि मन्दम् । समान एको धर्मो येषां तेषां भावः साधर्म्यमिति व्युत्पत्त्यादरे भेदाप्रतीतेः । समानजातीयेत्यादौ समानशब्दस्यैकस्मिन्नपि प्रयोगबाहुल्यात् । ‘निरञ्जनः परमं साम्यमुपैति’ इत्युक्त्यैव निरञ्जनत्वादिना साम्यत्वस्यैव वाच्यत्वाच्च । ‘परेऽव्यये सर्व एकीभवन्ति । ब्रह्म वेद ब्रह्मैव भवति । मद्भावायोपपद्यते ।

‘...मद्भावमापन्नस्ततोऽसौ परमात्मना ।

 भवत्यभेदो भेदश्च तत्राज्ञानकृतो भवेत् ।।

 विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

 आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ?’

इति श्रुतिस्मृतिशतानुरोधादुक्तार्थस्यैव ग्राह्यत्वात् । न चैतानि वाक्यानि सादृश्यादि-गौणार्थपरतया नेयानि । स्वारस्यहानिहेत्वभावात् । स्वतः प्रामाण्ये प्रमाणान्तरानुसरण- वैफल्यात् । पौरुषेयं हि वाक्यं दार्ढ्याय संवादान्तरमपेक्षते । न निर्णीततात्पर्यको निर्देष आगत इति । ननु भेदमिथ्यात्वानुमानादिकं प्रमाणं न वा ? आद्ये मिथ्यात्वादेस्तात्वि-कत्वापत्तिः । द्वितीये भेदतात्विकत्वापत्तिरिति चेन्न । भेदमिथ्यात्वानुमानादेरनिर्वाच्य-भेदबोधकत्वेन तात्विकप्रामाण्यशून्यत्वेन भेदसत्वापादकाभावात् । मिथ्यामिथ्यात्वेन तदापादनं च प्रागेव निरस्तम् ।

यत्तु ‘मेदप्रत्ययो यथार्थः भेदमिथ्यात्वप्रत्ययायथार्थत्वात् । न चात्र हेतुसाध्ययो-वैयधिकरण्यम् । एतद्धि पक्षधर्मताविघटनाद्व्याप्तिविघटनादतिप्रसङ्गाद्वा दोषः स्यात् ? नाद्यः । पक्षधर्ममताया अनावश्यकत्वात् । स्वयमसिद्धं कथं साधयतीति चेत् न ब्रूमोऽसिद्धं किन्तु पक्ष एव । तत्रासत् कथं तत्साधयतीति चेत् तत्र सत् कथं तत्रापरं साधयेत् ? दर्शनादिति चेत् समम् । दृश्यते हि चक्रभ्रमात् कुलालासत्त्यनुमानम् । तत्र तावान् प्रदेशः पक्ष इति चेत् किमेवं लैकिकी प्रतीतिः उत पक्षधर्मतावश्यम्भावादित्थं कल्प्यते ? नाद्यः । असिद्धेः । न द्वितीयः । परस्पराश्रयप्रसङ्गात् ।

किञ्च रसाद्रूपानुमाने यादृशीपक्षधर्मता न तादृशी धूमादग्न्यनुमाने । तत्र यथा यथादर्शनं व्यवस्था तथा क्वचित् पक्षधर्मता क्वचिन्नेति किं नाश्रियते ? न द्वितीयः । चक्रभ्रमादौ वैयधिकरण्येऽपि व्याप्तिदर्शनात् ।

किञ्च धूमादग्न्यनुमाने यदि स्वसमानाधिकारणयोरेव व्याप्तिस्तदा धूमदर्शनात् तदर्वाग्भागे वन्ह्यर्थिनः प्रवृत्तिर्न स्यात् । अथ तत्रापि य ऊध्वेभागे धूमवान् सोऽर्वाग्भागे वह्निमानिति व्याप्तिरिति चेन्न । स्वतो व्यधिकरणयोर्वाचोभङ्ग्यैव सामानाधिकरण्येऽनुमानव्यवहारस्य काल्पनिकत्वप्रसङ्गात् । समानकालयोर्व्याप्तिदर्शनेऽपि भिन्नकालयोरपि यथा व्याप्तिर्दर्शना-बलाद्ग्राह्या तथा भिन्नाधिकरणयोरपीति को विशेषः ? तृतीयस्तु दर्शनादर्शननिरसनीय इति संक्षेपः’ इति ।

तन्न । उक्तप्रत्ययस्यायथार्थत्वं मिथ्यात्वं च नात्यन्तासत्वं किन्त्वनिर्वाच्यत्वम् । न च तावता भेदप्रत्ययस्य पारमार्थिकभेदवियत्वसिद्धिः । भेदमिथ्यात्वयोर्द्वयोरे वानिर्वाच्यत्वोप-पत्तेरसकृदावेदितत्वादिति ।

किञ्च व्यधिकरणस्य हेतोर्न साध्यगमकत्वम् । वैयधिकरण्यस्य व्याप्तिभञ्जकत्वात् ।

तथा हि । व्याप्तिस्तावदविनाभावो व्यापकसामानाधिकरण्यं वा स्यात् । नोभयमपि साध्यशून्यदेशवृत्तेः हेतोः सम्भवति । स्यादेतत् । यदि तावन्मात्रं व्याप्तिः न । साध्याभावव्यापकाभावप्रतियोगित्वमपि । एवं च कुलालासत्त्यभावे चक्रभ्रम्यभावात् व्यधिकरणचक्रभ्रम्यभावो कुलालासत्त्यभावप्रयोज्य इति चक्रभ्रमेः कुलालासत्तिव्याप्यत्वं नानुपपन्नम् । एवमधोदेशे नदीपूराभावः ऊर्ध्वदेशस्थवृष्ट्यभावप्रयोज्य इति व्यधिकरणस्यापि नदीपूरस्योर्ध्वदेशस्थवृष्ट्यनुमानरूपत्वमिति चेन्न । कुलालासत्त्यादेः कारणतावच्छेद-कादिभिन्नस्य चक्रभ्रम्याद्यभावप्रयोजकाभावस्य प्रतियोगित्वे मानाभावात् ।

ननु कुलालासत्तिः कुलालकृत्युपादानकत्वं उपादानतासम्बन्धेन कृतिपर्यवसितम् । तदभावश्च चक्रभ्रम्यभावप्रयोजकः । नोदनाख्यः कुलालसंयोगो वा कुलालसत्तिः । एवं च तदभावयोः कारणाभावतया चक्रभ्रम्यभावप्रयोजकत्वं सम्भवतीति चेन्न । एवं तर्हि तादृश-कुलालासत्तिचक्रभ्रम्योर्वैयधिकरण्याभावेन व्यधिकररयोर्व्याप्तावदृष्टान्तत्वात् । न च चक्रभ्रमदर्शनाच्चक्रसमीपे कुलालोऽस्तीत्यनुमितिः सर्वानुभवसिद्धा । सा कथमुपपद्यत इति वाच्यम् । कुलालवद्देशनिष्ठसामीप्यप्रतियोगित्वशून्ये चक्रे भ्रमावृत्तित्वदर्शनादेव तत्सम्भवात् । न चैवमपि कुलालोद्देश्यकचक्रसमीपवृत्तित्वबोधकानुमित्यनुपपत्तिर्दुर्वारैवेति वाच्यम् । स्वाश्रयदेशनिष्ठसामीप्यप्रतियोगित्वव्याप्यत्वस्य सामान्यतो विशेषतो वा ग्रहदशायां तदुपपत्तेः । अन्यथा कल्पनागौरवात् । किञ्चेत्यादिकमप्ययुक्तम् । अविच्छिन्नमूलस्यैव धूमस्य वह्निगमकत्वेन वह्निसमानदेशत्वानपायात् । प्रपञ्चितञ्चैतत्प्रमाणतत्वविवेके’’ इति ।

तदयुक्तम् । औतश्रुतीनामखण्डार्थपरत्वेन तवैव तच्छ्रुतिस्वारस्यहानिसत्वात् । उपजीव्यप्रत्यक्षादिविरोधस्य पूर्वं प्रदर्शितत्वेन श्रुतीनामद्वैते प्रामाण्यायोगेन गौणार्थाङ्गीकारस्य यजमानप्रस्तरवाक्यादाविव न्यायप्राप्तत्वात् । अपौरुषेये स्मृतिसंवादादेस्तत्तात्पर्यार्थ-निर्णयार्थमेवानुसर्त व्यत्वेन पुराणादिसंवादानपेक्षणोक्तेरशुद्धत्वाच्च । अन्यथा मीमांसाना-रम्भापत्तेः । आगमानां स्वव्याहत्यादिनाऽद्वैते तात्पर्याभावस्य पूर्वमुपपादितत्वात् । टीका-व्याख्यावसर एव साधर्म्यपदेन भेदप्रतीतेरुपपादितत्वेन तत्पदस्यैक्यार्थकत्वकथनस्या-युक्तत्वाच्च । ‘तस्य च मिथ्यात्वेऽबाध्यत्वमेव सत्यं स्यात्’ इति मूलव्याख्यापरटीका-व्याख्यावसर एव मिथ्यात्वस्य मिथ्यात्वे वस्तुसत्यताव्यवस्थापनप्रकारस्य व्युत्पादितत्वा-देकस्मिन् भावाभावयोरुभयोर्मिथ्यात्वासम्भवस्य दर्शितत्वादनिर्वाच्यत्वरूपतृतीयप्रकारस्य निरस्तत्वेन तदवष्टम्भमूलस्य त्वदीयेतरप्रलापस्याप्ययुक्तत्वाच्च ।

यदपि हेतुसाध्ययोर्वैयधिकरण्ये व्याप्तिभङ्गादिकं प्रलपितं तट्टीकाव्याख्यानेनैव समूलघातं घातितमिति न पुनरन्यद्वक्तव्यमस्ति । वृष्ट्यभावकुलालासत्त्यभावयोः नदीपूराभावचक्रभ्रमा-भावप्रयोजकत्वं युक्तमेव । वृष्टिकुलालासत्त्योः नदीपूरचक्रभ्रमौ प्रति परम्परया हेतुत्वेन तदभावयोः कारणाभावरूपतया प्रयोजकत्वसम्भवात् । परन्त्वेतद्दूषणादिकं सर्वमनुक्तो-पालम्भरूपत्वादनुपादेयमेव । त्वदीयप्रमाणतत्वविवेकनिरासावसरे त्वत्कृतप्रपञ्चहानिर्भ-विष्यति । क्वचित् सन्दर्भाशुद्ध्यादिकं स्फुटत्वान्नोच्यत इत्यलम् ।

।। नन्विति ।। भेदानुभवो भ्रान्तिरित्यनुमितेः भेदानुभवत्वेन स्वविषयकत्व-स्याप्यङ्गीकारात् स्वस्मिन् भ्रान्तित्वव्यवस्थापूर्वकमेवेतरानुभवानां सा भ्रमत्वं व्यवस्थापयति । स्वस्मिन् व्यावहारिकप्रामाण्यस्य तद्विनाऽनुपपत्तेः । न च तावन्मात्रेण भेदानुभवस्य पारमार्थिकार्थावगाहित्वरूपप्रमात्वं सिद्ध्यति । स्वाप्नगजाभावज्ञानस्य भ्रमत्वेऽपि गजज्ञान-प्रमात्वादर्शनादिति शङ्काग्रन्थभावः । व्यावहारिकप्रामाण्यं नाम यदि व्यवहारकालनिष्ठप्रामाण्यं तदा व्यवहारातिरिक्तकाले नास्तीत्युक्तं स्यात् । तदयुक्तम् । सर्वथा बाध्यत्व-शून्यार्थविषयकत्वस्यैव प्रामाण्यरूपत्वेनान्यादृशस्य शुक्तिरजतादिज्ञानसाधारण्येन प्रामाण्य-रूपत्वाभावेन तादृशप्रामाण्यस्य कालविशेषमात्र एव ज्ञाने स्वीकारे एकस्यैव तस्तुनो बाध्यत्वं सर्वथा बाध्यत्वाभावश्चेत्यस्य बाधितत्वात् । स्वाप्नगजाद्युदाहरणं त्वन्यत्र निराकृत-मित्याशयेनाह ।। वैषम्यादिति ।। युक्तेः युक्तिजानुभवस्य ।