न सोऽयं देवदत्त इत्याद्युपमा च..
सोऽयं देवदत्त इत्यादिवाक्ये वाच्यार्थानुपपत्त्यभावसमर्थनेन लक्षणानिराकरणम्
न सोऽयं देवदत्त इत्याद्युपमा च
श्रीमज्जयतीर्थटीका
मैवम् । न हि स इत्यस्य देशकालसम्बन्धमात्रमर्थः । किं नाम तस्या-तीतत्वमपि । तथाऽनुभवात् । एवञ्च स इत्यस्य तद्देशकालसम्बन्धोऽभूदित्यर्थः स्यात् । अयमित्यस्यापि न कालादिसम्बन्धमात्रमर्थः । किन्तु तस्य वर्तमानता च । न चैवं सति पक्षत्रयेऽपि काचिदनुपपत्तिरस्ति यद्भयाल्लक्षणाऽश्रयणं स्यात् । तदिदमुक्तमनित्येति । उपलक्षणञ्चैतत् । वर्तमानेत्यपि ज्ञेयम् ।
नन्वत एवानुपपत्तिरित्युक्तम् । मैवम् । भावानवबोधात् । अविरुद्धविशेषणानामेव वाच्यतयाऽनेनोक्तत्वात् । न ह्यतीतदेशादिसम्बन्धस्येदानीं सत्त्वे विरोधोऽस्ति । प्रध्वंसो हि तथोच्यते । तथाऽयमिति प्रागभावः । एतेन अन्यतरलक्षणाऽश्रयणं स्वयूथ्यानां निरस्तम् ।
विशिष्टैक्ये विशेषणैक्यं स्यादिति चेन्न । धूमवदग्निमतोरैक्येऽपि धूमाग्न्योर्भेददर्शनात् । तयोरैक्यमेव नास्तीति चेत् । तर्हि दृष्टान्ताभावात्सुतरां विशेषणैक्याऽपादनानुपपत्तिः । तथाऽपि किमत्र तत्वम् । श्रोतृबुभुत्सानुसारेण त्रयमपीति ब्रूमः । कुत एतदिति चेत् । अनित्यदेशकालसम्बन्धित्वस्येति तद्देशकालादिविशिष्ट इति वचनात्पक्षद्वयाङ्गीकारो ज्ञायते । अनुस्मृतेश्चेत्यादिना तृतीयाङ्गीकारोऽपि । तर्हि देशकालसम्बन्धित्वस्येति कथम् । उपलक्षणमित्यदोषः ।
ननु प्रकृष्टप्रकाशश्चन्द्र इत्यनेनैव ग्रन्थेनायमपि दृष्टान्तो दूषितो भविष्यति । न्यायसाम्यात् । तत्किमनेन ग्रन्थेन । मैवम् । एतदनुपपत्तिपरिहारेण सार्थक्यादिति ।
द्वैतद्युमणि:
।। वर्तमानता चेति ।। अत्रापि तथैवानुभवादिति हेतुः स्फुट इति नोक्तः ।। वर्तमानेत्यपीति ।। मूले वर्तमानदेशकालसम्बन्धित्वमप्युपलक्षणया ग्राह्यमित्यर्थः । अन्यथाऽयमित्येतदंशान्वयानुपपत्तेरपरिहारान्मूलस्य न्यूनता स्यादिति भावः ।। नन्वत एवेति ।। विशेषणीभूततदेतद्देशकालयोरनित्यत्ववर्तमानत्वोक्त्या तादृशविशेषणयोरेकस्मिन्नेककाला-वच्छेदेनावर्तमानत्वरूपविरोधलाभादेवेत्यर्थः । अनेन मूलेन ।। अतीतेति ।। तादृशपद-तात्पर्यविषयीभूतस्येत्यर्थः । उक्तं विवृणोति ।। प्रध्वंसो हीति ।। सर्वाभिः प्रतीतिभिः प्रायः स्वकालीनधर्मावगाहनस्यैत्सर्गिकत्वात् स इत्यस्य तद्देशकालसम्बन्धध्वंसवानित्यर्थ इति भावः ।। प्रागभाव इति ।। स इत्यनेन पूर्वकालेऽतीतत्वविवक्षां विहाय पूर्वकालसम्बन्ध-मात्रबोधनपक्ष एतद्देशकालप्रागभावावच्छिन्नोऽयमित्यस्यार्थ इति भावः ।। अन्यतर-लक्षणेति ।। पदद्वयमध्येऽन्यतरपदस्य स्वबोध्यदेशकालाघटितं पदार्थान्तरान्वययोग्यतावच्छेदकं यद्रूपं तद्विशिष्टलक्षणेत्यर्थः । सर्वनाम्नामपि बुद्धिस्थवाचित्वात्तादृशधर्मान्तरस्येदमादिपद-प्रयोगहेतुतया बुद्धिस्थत्वाभावात्तद्विशिष्टबोधो लक्षणयैवेति भावः । नन्विदंपदप्रयोगकाले तादृशधर्मान्तरं वक्तृबुद्धिस्थं न वा । आद्ये तदवच्छिन्नस्येदमादिपदशक्त्यैव बोधन-सम्भवाल्लक्षणाश्रयणं व्यर्थम् । द्वितीये तदवच्छिन्ने वक्तृतात्पर्याभावेन तादृशधर्मघटिते वक्तृतात्पर्यविषयत्वानुपपत्तिरिति । मैवम् । वक्ता हि विवक्षितधर्मं विविच्य वक्तुमशक्तो भवति । तन्मात्रबोधकशब्दाभावात् । अतस्तदुपस्थितिप्रयोजकदेशकालादिसम्बन्धबोधं प्रथमत इच्छन् तद्घटितधर्मावच्छिन्नं बोधयितुं प्रयुङ्क्ते इति तत्कालीनेदमादिपदानि तत्रैव शक्तानि । वृत्त्या पदात्तदनुपस्थितौ शाब्दबोधे भानायोगात् तादृशधर्मावच्छिन्ने लक्षणाया युक्तत्वात् । स्वयूथ्यानां रामानुजीयानां ।। निरस्तमिति ।। वक्ष्यमाणरीत्या देशकाल-घटितोक्तमुख्यार्थकत्वस्यैव पदद्वयेऽपि सम्भवादिति भावः । ननु तादृशध्वंसविशिष्टस्यै-तत्कालादिविशिष्टेनोपहितयोरपि तादात्म्यं बोधयितुं न शक्यत इति तस्याखण्डार्थत्वमेवेति शङ्कते ।। विशिष्टेति ।। विशिष्टपदेन विशिष्टोपहितयोर्द्वयोरपि पररीत्या ग्रहणं कार्यम् । अन्यथा न्यूनत्वापातात् । उपहितस्य विशेष्येण भिन्नाभिन्नस्य विशिष्टवदप्रामाणिकत्वमेव स्वमत इति सूचनाय न स्वशब्देन ग्रहणं कृतमिति ध्येयम् ।
।। धूमवदित्यादि ।। ननु सिद्धान्ते अनित्यविशेषणस्थले विशेषणसम्बन्धेन विशेष्यस्यैव विशिष्टशब्दवाच्यः परिणामविशेषो जायते । स च विशेष्येण भिन्नाभिन्नः । तथा च धूम-विशिष्टो धूमतत्सम्बन्धहेतुको वह्न्यहेतुकः परिणामः । वह्निविशिष्टोऽपि धूमाहेतुको वह्निहेतुकः परिणामः । तावत्यन्तभिन्नावेव । अतः कथं तयोरैक्यमुक्तमिति चेत् ।
अत्र केचित् ‘यतो धूमवान् वह्निमानिति पदाभ्यां धूमविशिष्टवह्निविशिष्टाभिधा-खण्डपरिणामौ नोच्येते । तथात्वे खण्डयोर्धूमवह्न्याद्यघटितस्वरूपत्वेन शाब्दबोधे धूमवह्न्योरस्फुरणप्रसङ्गात् ।किन्तु वह्निधूमसम्बन्धवान्विशेष्य एव । रूपद्वयेन तयोरैक्यं युज्यते । न च वह्निसम्बन्धधूमा इति ज्ञानादस्य धूमवानिति ज्ञानस्य वैलक्षण्यानुपपत्तिः विषयवैलक्षण्याभावादिति वाच्यम् । विषयतावैलक्षण्यादेव वैलक्षण्योपपत्तेः । धूमप्रकारक-पर्वतादिविशेष्यकसंशयादेरपि तावतैव निवृत्तेः । बाह्यार्थभङ्गनिरासस्य तु रीत्यन्तरेणैव कर्तव्यत्वात् । नन्वेवं मत्वर्थीयप्रत्ययान्तेनाखण्डविशिष्टस्याबोधने शिखी नष्टः स्वर्गी ध्वस्त इत्यादौ का गतिः । विशेष्ये नाशायोगात् । विशेषण एव तत्सम्बन्ध एव वा ध्वंस-प्रतियोगितादात्म्यं प्रतीयत इति न सत् । विशेष्यीभूतशिखिस्वर्गिणोरेव शिखिस्वर्गिपदेनोप-स्थितत्वेन तद्विशेषणतयोपस्थितशिखादावन्वये निराकांक्षत्वात् । शिखादौ तत्प्रतीतिश्च शाब्दबोधोत्तरकालीना मानसी । अतः कथं विशिष्टस्य धूमवदादिपदेनाबोधनमिति चेत् । सत्यम् । न वयं धूमवदादिशब्दैः सर्वथा विशिष्टं न बोध्यत इति ब्रूमः । किन्तु धूमतत्सम्बन्धतदाश्रयसहितमेव प्रतीयत इति । तथा च शक्तिविशेषस्यैय विषयितारूपत्वस्य पूर्वमुक्तत्वाद्विशिष्टव्यवहारानुकूलैका शक्तिस्तदंशरूपा चन्या । तथा च धूमवद्रूपाश्रयस्य समभिव्याहृतवह्न्याश्रयस्य चाभेदो भासते । तत्पदप्रतिभासमानविशिष्टयोस्तु तादृशाश्रय-तादात्म्यापन्नतयैव स्फुरणम् । न विशिष्टद्वयस्य तादात्म्यं भासते ।
यत्र क्वचिद्विशिष्ट एवेतरान्वयतात्पर्यं तत्र तादृशाश्रयतादात्म्यापन्नत्वेन भासमानविशिष्ट एवेतरान्वयः । धूमाश्रयवह्न्याश्रययोरभेदभाने तत्पदोपस्थापितविशिष्टयोराश्रयांश एव तादात्म्यभानम् । विशिष्टस्येतरान्वयस्थले चाश्रयस्यैव विशिष्टे तादात्म्येन भानम् । फलव्यापारयोः पृथग्धात्वर्थत्वमते कर्तृकर्माख्यातसमभिव्याहार इव । यथा स्वर्गी ध्वस्त इत्यादौ विशिष्टान्वयस्थले विशेषणस्यापि सत्ता तदन्वयकालेऽर्थात्प्रतीयते तां विहाय विशष्टसत्त्वायोगात् तात्पर्यसत्त्वे स्वविशेष्यान्वयिन्यन्वयः । सोऽपि यथातात्पर्यं प्रतीयते । न तु विशिष्टान्वयस्थले स्वविशेष्यस्य यादृशोऽन्वयस्तादृश एवेति नियमः नापि विशेषणस्य स्वविशेष्यान्वयिन्यन्वय एवेति नियमश्च । बीजाभावात् । अतिप्रसङ्गस्य चोक्तरीतिमात्रेण वारणसम्भवात् । दण्डी प्रेषानन्वाहेत्यादौ दण्डादौ प्रेषोच्चारणे चैत्रवत्कर्तृत्वेनान्वयायोगाच्च ।
अत एव स्वविशेष्यस्येतरस्मिन्यादृशोऽन्वयस्तादृशान्वयिन एव विशेषणत्वमिति वदन्तः परास्ताः । दण्डस्योक्तस्थले विशेषणत्वानुपपत्तेः । तस्य प्रेषोच्चारयितृत्वायोगात् । दण्ड उपाधिर्न विशेषणमिति चेन्न । उपाधिविशेषणयोरुपहितविशिष्टयोश्चातिरिक्तत्वे माना-भावात् । न चैवं सति धूमाश्रयवह्न्याश्रययोरैक्यस्यैव भानाङ्गीकारे विशिष्टैक्ये विशेषण-योरैक्यमिति परोक्तनियमस्य नेदं व्यभिचारस्थलोदाहरणं युक्तमिति वाच्यम् । सोऽयं देवदत्त इत्यत्रापि तत्कालध्वंसरूपविशेषणसम्बन्धेन जायमानविशिष्टस्य प्रागभावरूनविशेषण-सम्बन्धपरिणतविशिष्टेन सहाभेदबोधकताया अस्माभिरनङ्गीकारात्तदाश्रयमात्राभेदबोधकत्व-स्यैवाङ्गीकारात्तत्पक्ष एव तेन विशेषणैक्यमापादितं स्यात् । तस्य चोक्तस्थले व्यभिचार इत्याशयेन तत्प्रदर्शनसम्भवात्’ इत्याहुः ।
वस्तुतस्तु एकस्मिन्वस्तुनि चैकविशेषणसम्बन्धेनैकविशिष्टपरिणामवदनेकविशेषण-सम्बन्धैरप्येकविशिष्टमेव परिणमते । अनेकद्रव्यैरेकगृहादिरूपविशिष्टोत्पत्तिदर्शनात् । पूर्वमेकविशेषणसम्बन्धेनैकविशिष्टोत्पत्त्यनन्तरं विशेषणान्तरस्य सम्बन्धे तु तादृशविशिष्ट एव विशेषणसम्बन्धप्राप्त्या पूर्वविशिष्टस्यैव विशिष्टान्तरात्मना परिणामः । अत एव दण्ड्येवेदानीं कुण्डली जातः दण्डी सन् कुण्डली जात इति दण्डिरूपविशिष्टस्यैव कुण्डलात्मना परिणामावगाहिप्रत्ययः सङ्गच्छते । तर्हि चैत्रः कुण्डली जात इति शुद्धतादात्म्यावगाहि- प्रत्ययः कथमिति न वाच्यम् । शुद्धे सम्बन्धद्वारेणेव कुण्डलरूपविशेषणस्य दण्डिरूप-विशिष्टसम्बन्धाच्छुद्धविशिष्टोभयतादात्म्यापन्नतयैव विशिष्टान्तरपरिणामसम्भवात् । तथा च तद्देशकालसम्बन्धध्वंसैतत्कालसम्बन्धाभ्यामेतत्कालप्रागभावतद्देशकाल१प्रागभावाभ्यां तथा धूमाग्निभ्यां चैकविशिष्टोत्पत्तिसम्भवादेकस्यैव धूमविशिष्टत्ववह्निविशिष्टत्वरूपाभ्यामैक्यस्यै-तद्वाक्येन बोधनसम्भवात् तत्र परोक्तनियमस्य व्यभिचारप्रदर्शनं युक्तमेव ।
न च धूमविशिष्टे धूमानङ्गीकारात्कथं धूमवत्पदेन तादृशविशिष्टस्य धूमघटितरूपेण स्फुरणमिति वाच्यम् । प्रमितधर्माणां विशेष्यद्वारैव तत्राङ्गीकारावश्यकतायाः प्रागेवा-वेदितत्वादिति । अत्र धूमवदग्निमद्ग्रहणेन अकारणकार्यद्रव्येत्यादिहेतोर्व्यभिचारोऽपि सूचितः । युगपद्विशेषणद्वयाधीनविशिष्टरूपद्रव्यबोधकव्याप्तितात्पर्यकवाक्ये त्वदुक्तहेतोः सत्त्वात् व्याप्तिपरत्वेनाखण्डार्थपरत्वाभावाद्व्यभिचार इति ।। आपादनानुपपत्तिरिति ।। ययोर्विशिष्ट-योरैक्यं तद्घटकयोर्विशेषणयोरैक्यमित्यत्र दृष्टान्ताभावादिति भावः ।
ननु माऽस्तु तथा व्याप्तिः तथापि यादृशशब्दाभिलाप्यविशिष्टं यादृशशब्दाभिलाप्य-विशिष्टाभिन्नं तादृशशब्दाभिलाप्यविशेषणं तादृशशब्दाभिलाप्यविशेषणाभिन्नमिति नियमः सम्भवति । वह्निमान्पर्वतः अग्निमान्पर्वत इति वाक्यद्वयमुपादायोपपादनसम्भवात् । तथा च तथैव व्याप्त्येदमापाद्यत इति चेन्न । अप्रयोजकत्वात् । किञ्च मृच्छब्दाभिलाप्यघट-शब्दाभिलाप्ययोर्नीलशब्दाभिलाप्यघटशब्दाभिलाप्यविशिष्टयोरैक्येऽपि मृत्त्वघटत्वनीलत्वादी-नामैक्याभावाद्व्यभिचारः । न च नीलत्वमृत्त्वोपहितानामेव तत्र तादात्म्यं स्वीक्रियत इति वाच्यम् । तद्धर्मविशिष्टपदतद्धर्मोपहितपदतद्धर्मावच्छिन्नपदानामेकार्थत्वेनोपहितयोः स्वीक्रियते विशिष्टयोर्न स्वीक्रियत इत्यस्य विप्रतिषिद्धत्वात् ।
कुत एतदिति चेन्न । यत्र यत्रोपहितोऽयमिति व्यवहारस्तत्र तद्धर्मविशिष्टोऽयमिति व्यवहारः, यत्र विशिष्टनाशादिप्रत्यक्षं तत्रोपहितस्यापि नाशादिप्रत्यक्षम्, उपहितस्य या सामग्री विशेष्ये विशेषणसम्बन्धरूपा विशिष्टस्यापि सैवेति कारणभेदानिरूपणात्फलभेदा-निरूपणात्परस्पराविषयकप्रतीतिविषयत्वादिभेदकधर्माभावाच्च विशिष्टातिरिक्तस्य विशेष्येण भिन्नाभिन्नस्य परिणामविशेषस्याङ्गीकारे मानाभावात् । न च ‘दण्डी प्रमेय इत्यत्र दण्डविशिष्ट उद्देश्यः, दण्डी भुङ्क्त इत्यत्र दण्डोपहित एवोद्देश्यो न दण्डविशिष्टः’ इत्यादि-प्रतीतिव्यवहारयोः प्रामाण्यनिर्वाहाय विशिष्टोपहितयोर्भेद आवश्यक इति वाच्यम् । तादृश-प्रतीतिव्यवहारयोरेतदविषयकत्वात् । तथा हि । प्रमेयत्वे विधेये दण्डविशिष्ट उद्देश्य इत्यत्र विधेयभूतप्रमेयत्ववत्त्वेन भासमानदण्डाश्रयः प्रमेयत्वं प्रत्युद्देश्य इति प्रतीयते । भोजने विधेये दण्डोपहित उद्धेश्य इत्यत्र भोजनाश्रयत्वेनाप्रतीयमानभोजनसमानकालीनत्वेन भासमानो दण्डाश्रय उद्देश्यो न तु भोजनाश्रयत्वेन भासमानदण्डाश्रय इति । तथा च तत्तत्प्रतीति-निरूपितविधेयताश्रयधर्मवत्त्वेन भासमानत्वाभासमानत्वयोरेव दण्डांशे विषयीकरणादे-तत्प्रतीतिभ्यां कथमुपहितविशिष्टयोर्भेदसिद्धिः । अन्यथा ‘सोऽस्तीत्यत्र तत्तोपलक्षितश्चैत्रो विषयः नेदन्त्वोपलक्षितः, अयं काञ्च्यामभूदित्यत्र इदन्त्वोपलक्षितश्चैत्रो विषयः न तत्तोपलक्षितः, चैत्रोऽस्तीत्यत्र शुद्धश्चैत्र उद्देश्यो नेदन्त्वोपलक्षितो नापि तत्तोपलक्षितः’ इत्यादिप्रतीतिव्यवहाराभ्यां तत्तेदन्त्वोपलक्षितयोः परस्परं शुद्धेन च भेदस्य प्रसक्त्या सोऽयं देवदत्त इत्यादौ तत्त्वमसीत्यादौ च तत्तेदन्त्वोपलक्षितयोस्तत्त्वंपदोपलक्षितयोस्तत्त्वंपदोप-लक्षितजीवत्वेशत्वोपलक्षितचेतनयोश्चाभेदस्य प्रातीतिकत्वप्राप्त्या तद्बोधकत्वेन वाक्य-प्रामाण्योपपादनासम्भवापत्तेः । उक्तयोर्भेदेऽपि स्वरूपमात्रबोधो जायते तेन प्रामाण्योपपत्ति-रित्यङ्गीकारे तत्त्वंपदादीनां विशिष्टोपहितार्थकत्वेऽपि तथैव वक्तुं शक्यत्वेन तत्पक्षपरित्याग-स्योन्मत्तचेष्टितत्वापातात् । यदि चेदन्त्वोपलक्षित उद्देश्य इत्यत्र विधेयभूतकाञ्चीसत्त्वाधि-करणत्वेन तत्समानकालत्वेन चाभासमान इदन्त्वाश्रयत्वेन भासमानश्चैत्र उद्देश्यो नत्वे-तादृशेदन्त्वेन भासमानश्चैत्रः तत्त्वेन भासमानश्चैत्रो वेति तादृशप्रतीतिव्यवहाराभ्यां विषयी-क्रियते । तेनोक्तरीत्योपलक्षितयोर्भेदसिद्धिरिति ब्रूषे तर्हि तथैव विशिष्टोपहितयोर्भेदासिद्धि-रुक्तैव । न चोक्तव्यवहारादिना तदसिद्धावपि दण्डविशिष्टोद्देश्यकदण्डोपहितोद्देश्यकदण्डोप-लक्षितोद्देश्यकानां दण्डी द्रव्यवानिति ज्ञानानां विषयवैलक्षण्यं विना परस्परवैलक्षण्यायोगात् विशिष्टोपहितोपलक्षितानां परस्परं वैलक्षण्यसिद्धिरप्रत्यूहैवेति वाच्यम् । उद्देश्यतावच्छेदकी-भूतदण्डे विधेयीभूतद्रव्याश्रयत्वभानतदभानसहिततत्समानकालीनत्वादिसम्बन्धान्तरभानेनै-तदुभयसाहित्यविशिष्टधर्मितावच्छेदकत्वमात्रेणैव वैलक्षण्यस्य सम्भवात् । त्वद्रीत्यापि तादृश-विधेयाश्रयत्वादिभानस्य तादृशोद्देश्यतावच्छेदकीभूतदण्डादावावश्यकत्वात् । अन्यथा दण्डिनं द्रव्यवत्त्वेन जानामीत्येवानुव्यवसायस्य प्रतीतित्रयस्थलेऽप्यङ्गीकारापत्त्या प्रतीतित्रयाणां वैलक्षण्यस्यैवासिद्धिप्रसङ्गात् । दण्डविशिष्टविशेष्यकद्रव्यवत्त्वग्रहोत्तरं १दण्डो द्रव्यवान्न वेति संशयानुत्पत्तिः दण्डोपहितधर्मिकतादृशग्रहोत्तरं च २दण्डे द्रव्यवत्त्वसंशयोत्पत्तिरिति वैलक्षण्याभावापत्तेः । दण्डांशे विधेयाभानस्योभयत्रापि तौल्यात् । एतेन परमतोपन्यास-प्रस्तावे प्रदर्शिता विशिष्टोपहितभेदसाधिका युक्तिरप्यपास्ता । उक्तरीत्यैव तत्रापि निर्वाहात् ।
यत्तूपलक्षणतयोपात्तस्य शाब्दबोधे भानं नास्ति । किन्तु तदुपस्थापितधर्मान्तरस्य वा तदुपस्थापितस्वरूपमात्रस्य वेति । तदसत् । पदवृत्त्याऽनुपस्थापितस्य शाब्दबोधे भाने पटशब्देन समवायेनोपस्थितगगनादीनामपि तात्पर्यवशाच्छाब्दबोधे भानप्रसङ्गात् । तदव-गाहिशाब्दोत्तरं मानस एव स । वक्तुस्तु तावद्बोधपर्यन्तमिच्छासत्त्वेऽपि न तस्य शाब्दत्वम् । अन्यथा धूमोऽस्ति इति वक्तृतात्पर्यविषयीभूतवह्न्यनुमितेरपि शाब्दत्वापत्तेः । स्वरूपमात्रोपलक्षकत्वं त्वश्रद्धेयमेव । स्वरूपमात्रावगाहिबोधस्योपलक्षणया धर्मान्तरोपादान-स्थलेऽनुभवविरुद्धत्वात् । विवेचयिष्यते चेदमुपरिष्टात् । तद्विधेयकबोधे तत्समकालिकत्व-तत्प्रयोजकत्वमात्रेणाभासमानेष्वपि उद्देश्यतावच्छेदकेषु विशेषणत्वव्यवहारो यथा तिलकी कर्म कुर्वीत धनवान्सुखीत्यादौ तिलकधनादीनाम् । तदभिप्रायेण तिलकादिविशिष्टो-द्देश्यकस्थलमिति व्यवह्रियते । कदाचित्तिलकादौ कर्मकरणरूपविधेयाश्रयत्वाभानं तत्समान-कालीनत्वभानमात्रमभिप्रेत्य ‘न तिलकविशिष्ट उद्देश्यः, किन्तूपहित उद्देश्यः’ इति व्यवह्रियते । विशिष्टादिव्यवहाराणां तात्पर्यानुसारेण नानार्थबोधने सामर्थ्यात् । क्वचित्तत्पद-शक्यकोटावप्रविष्टस्तच्छक्तेरितरव्यावृत्तिनिर्वाहकोऽप्युपाधिरुच्यते । यथा धेनुपदप्रयोगे गोत्वं, पङ्कजपदसमुदायशक्तेरनङ्गीकारे पङ्कजपदप्रयोगे पद्मत्वम् । क्वचिन्नीलाविषयकत्वतात्पर्येण नीलोपलक्षितस्य ज्ञानमिति, नीलस्य ज्ञानसमकालिकत्वतात्पर्येण नीलविशिष्टस्येदं ज्ञानं नीलोपहितस्येदं ज्ञानं न नीलोपलक्षितस्य ज्ञानमिति । तथा च विशिष्टादिव्यवहाराणां तात्पर्यानुसारेणैकवस्तुनो बोधकत्वान्न तदन्यथानुपपत्त्या तयोर्भेदसिद्धिः अन्यथा पूर्वोक्त-व्यवहारबलात्तिलकी कर्म कुर्वीतेत्यादिवाक्यानां विशिष्टोद्देश्यकत्वतदभावौ स्यातामिति दिक् ।
तस्माद्दण्डपुरुषसंयोग इति ज्ञानात् दण्डीति प्रत्ययवैलक्षण्यार्थमङ्गीक्रियमाणविशिष्टा-विषयकस्य तत्प्रत्ययविलक्षणोपहितविषयकप्रत्ययरूपसाधकस्याभावात्तयोर्भेदानङ्गीकारे बाधकाभावाच्चोपहितविशिष्टभेदाङ्गीकारो निर्युक्तिक एवेति त्वदुक्तनियमस्य नीलो घट इत्यादौ व्यभिचारो दुर्वार एव ।
अत्रेदमपि बोध्यम् । मृत्त्वघटत्वोपहितयोस्तादात्म्यमिवेहापि ध्वंसरूपतत्तेदन्तोपहितयोः प्रागभावरूपेदन्तातत्तोपहितयोस्तादात्म्यमेव बुद्ध्यताम् । अविरुद्धोपाधिद्वयोपहितयो-स्तादात्म्याभावे मृत्त्वघटत्वोपहितादीनामपि तथात्वापतेन तादात्म्यसंसर्गकबोधस्थलस्यैवा-प्रसिद्धिप्रसङ्गः । तत्रापि मृत्त्वघटत्वोपलक्षितैक्यबोधने सोऽयमित्यादेरिवाखण्डार्थकत्वप्राप्त्या हेतावकारणकार्यद्रव्येत्यादेर्वैयर्थ्यम् । उपाधिभेदादुपहितभेदे तुल्यन्यायेनोपलक्षितभेदस्यापि प्राप्त्या तयोरैक्यस्यापि बोधनायोगः । कार्यकारणादीनामुपहितानामप्यभेदः स्वीक्रियतेऽन्यत्र नेत्यत्र मानाभावः । समानाधिकरणव्यवहृतिगोचरत्वस्य दण्डी कुण्डलीत्यादावपि सत्त्वात् । अविरुद्धोपाधिद्वयोपहितयोस्तादात्म्याङ्गीकारे सोऽयं देवदत्त इत्यत्राप्यस्मदुक्ततत्तेदन्त्वयोर-विरुद्धत्वात्तदुपहितयोस्तादात्म्यसम्भवादखण्डार्थत्वायोगः । जीवत्वेशत्वयोरेककाले एकस्मिन्नेव चेतनेऽङ्गीकृतत्वाद्भवता विरोधो वक्तुं न शक्य इति तत्राप्युपहिताभेद एव बोध्यताम् । किञ्च
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
इति श्रुतिबलादविद्यान्तःकरणरूपकारणकार्योपाध्युपहितयोर्विशिष्टयोर्वा जीवेश्वरत्वप्राप्त्या कारणोपहितस्य कार्योपहितं प्रति कारणत्वसम्भवादीशजीवयोस्तादात्म्यस्यैव सम्भवाद-खण्डार्थकत्वायोगः । अन्यथाऽविद्यावृत्तिप्रतिबिम्बितचिद्रूपसाक्षिणोऽविद्योपहितजीव-तादात्म्याज्जीवस्य द्रष्टृत्वोक्त्यसङ्गत्यापत्तेः । अत एव जीवेश्वरयोः कार्यकारणभावा-पन्नत्वादकारणकार्येत्याद्युक्तहेतोरसिद्धिः । एवं तदेतद्रूपमित्यद्रव्यपरवाक्येनाप्यखण्डार्थ-बोधोदयादखण्डार्थकबोधकत्वे नोक्तहेतुः प्रयोजकः । किन्त्वसम्भवत्तादात्म्यकत्वे सति समानाधिकृतत्वमात्रमिति तदेव वक्तव्यम् । एवं सामानाधिकरण्यस्य चतुर्धा विभागोऽप्य-युक्तः । इदं रजतमित्यादावपि तादात्म्यबोधस्यैवाङ्गीकृतत्वात् । यश्चोरः स स्थाणुरित्यत्रापि चोरपदस्य चोरत्वेन ज्ञानविषय इत्यर्थस्याङ्गीकृतत्वेन तत्रापि तादात्म्यस्यैव बोधितत्वात् । अवान्तरभेदविवक्षायां प्रयोजनविशेषानुपलम्भादिति ।
तटस्थः शङ्कते ।। तथापीति ।। त्रयमपीति ।। एतद्देशकालवैशिष्ट्यस्य पुरोवर्तिपिण्डे प्रत्यक्षसिद्धत्वेऽपि तद्देशकालसम्बन्धध्वंसविशिष्टे एतद्देशकालवैशिष्ट्यप्रकारकसन्देहेन तद्बुभुत्सायामाद्यपक्षः प्रवर्तते । एतत्कालादिप्रागभावविशिष्टे तद्देशकालादिवैशिष्ट्यसन्देहा-हितबुभुत्सायां द्वितीयपक्षः प्रवर्तते । प्रथमकल्पे ‘स देवदत्तः अयम्’ इत्युद्देश्यविधेयभावः । द्वितीयपक्षे ‘अयं देवदत्तः सः’ इत्युद्देश्यविधेयभावः । तात्पर्यानुसारेण योजनाग्रह-सम्भवात् । शाब्दबोधः सर्वपक्षेऽप्यभेदान्वयावगाही । परन्तु प्रथमद्वितीयपक्षयोस्तदनन्तर-मेकविशिष्टेऽपरवैशिष्ट्यावगाहिमानसबोधः श्रोतुरिष्टो जायते । तन्निर्वाहकतयैव वाक्य-सार्थक्यम् । तृतीयपक्षे वक्ष्यमाणे शाब्द एव श्रोत्रभिमतो भवतीति ज्ञेयम् । पक्षत्रयेऽपि विशिष्टवैशिष्ट्यावगाही बोधो विशेषणयोः समकालिकत्वमवगाहते । अत एकविशिष्टेऽ-परवैशिष्ट्यस्य विशिष्टद्वयैक्यस्य च सिद्धिः ।
नन्वाद्यपक्षो न युक्तः । तद्देशकालसम्बन्धध्वंसस्य पुरोवर्तिपिण्डे निश्चयाभावे धर्मितावच्छेदकविशिष्टधर्मिनिर्णयाभावेन तदवच्छिन्नधर्मि कैतद्देशकालवैशिष्ट्यप्रकारकसन्देहा-योगेन बुभुत्सानुपपत्तिः । तस्य निश्चितत्वे तदवच्छिन्ने एतद्देशकालसम्बन्धस्यापि निश्चित-त्वेन बुभुत्सायोगः । पुरोवर्तिनः सन्निकृष्टत्वात् । अन्यथा तं प्रत्युपदेशकस्यायमिति निर्देशायोगः । न च पुरोवर्तिपिण्डत्वं धर्मितावच्छेदकत्वेनानवगाह्य जायमानो यस्तद्देशकाल-सम्बन्धध्वंसवत्त्वमात्रधर्मितावच्छेदककसंशयस्तद्बलादेव बुभुत्साऽस्त्विति वाच्यम् । तस्य धर्मितावच्छेदकसामानाधिकरण्यमात्रेणैतद्देशकालसम्बन्धाभावावगाहित्वे सोऽयं देवदत्त इति पिण्डविशेषबोधकवाक्यस्य तदनिवर्तकता । अवच्छेदकावच्छेदेन तदभावावगाही संशयस्तु न घटते । स्वस्मिन्नेवैतद्देशकालसम्बन्धस्य निश्चितत्वादिति चेन्न । यत्र श्रोत्रा स्वसन्निकृष्ट-देवदत्तः पूर्वानुभूतस्तद्देशकालसम्बन्धध्वंसवत्तया ज्ञातः पृच्छ्यते स देवदत्तः क्वास्तीति तं प्रति स्वसन्निहितं देवदत्तं बोधयति स देवदत्तोऽयमिति तत्रोक्तप्रथमकल्पसम्भवात् । तृतीयपक्षे चायंपदस्योक्तप्रागभावावच्छिन्नार्थकत्वे तस्मिन् स इति पदार्थभूततद्देशकाल-सम्बन्धविशिष्टाभेदः प्रतीयते । तत्पदस्योक्तध्वंसावच्छिन्नार्थकत्वे तु अयं पदार्थभूतै-तद्देशकालसम्बन्धविशिष्टाभेदः प्रतीयते । विशेषणयोरविरुद्धत्वादुक्तविशिष्टद्वयैक्योपपत्तिः ।
ननु तत्पदस्योक्तध्वंसावच्छिन्नार्थकत्वे इदंपदस्यैतद्देशकालविशिष्टार्थकत्वपक्षे यथा तत्तावच्छिन्नोद्देश्यकेदंपदार्थविधेयकबोधः श्रोतृबुभुत्सानुसारेण स्वीक्रियते तथेदंत्वावच्छिन्नो-द्देश्यकतत्पदार्थविधेयकबोधोऽपि सम्भवति । श्रोतृबुभुत्सायास्तथैव सम्भवात् । एवमय-मित्यस्य प्रागभावघटितार्थकत्वे तत्पदस्य यथाश्रुतार्थकत्वपक्षेऽप्यनयैव दिशा बोधद्वयम् । एवं विशिष्टैक्यबुभुत्सापि एवं क्रमेण द्विधा सम्भवति । तत्पक्षेप्युक्तोद्देश्यविधेयभावव्यत्या-सात्पक्षषट्कमिति वक्तव्यम् । त्रयमिति कथमुक्तमिति चेन्न । तद्देशकालध्वंसैतद्देशकाल-सम्बन्धैतदुभववैशिष्ट्यविषयकत्वेन तथैतद्देशकालप्रागभावतद्देशकालसम्बन्धैतदुभयवैशिष्ट्य-विषयकत्वेन बोधद्वयं द्वयमेकीकृत्याद्यद्वितीयपक्षयोरुक्तिः । पदद्वयस्य निषेधप्रधानत्वे उद्देश्यविधेयभावव्यत्यासेन बोधद्वयम् । तथैव श्रोतृबुभुत्सानुसारेण सम्भवति चेत् । अन्यतरपदस्य निषेधप्रधान्यविवक्षायां चोद्देश्यभावव्यत्यासेन श्रोतृबुभुत्सानुसारेण चत्वारो बोधाः सम्भवन्ति । एवं चैतच्छट्कमपि तत्पदार्थेदंपदार्थविशिष्टद्वयैक्यविषयकत्वेनैकीकृत्य त्रयमपीति पक्षत्रयत्वेनोक्तिः । प्रमेयवैलक्षण्याभावादुक्तावान्तरवैलक्षण्यं नादृतमित्यवधेयम् ।
इदमाचार्याभिप्रेतं न वेति शङ्कां परिहरति ।। अनित्येति ।। देशकालयोरनित्यत्वकथनेन तद्ध्वंसमादायेदंत्वसमानकालिकत्वं सम्पाद्यैकविशिष्टेऽपरवैशिष्ट्यं सम्पाद्यमित्युक्तं भवति । तद्देशकालादिविशिष्ट इति तत्पदस्य देशकालसम्बन्धप्राधान्येनार्थमभिप्रेत्य तद्विशिष्ट इतीदं-पदार्थे तद्वैशिष्ट्यकथनात्तदनुसारेणायमित्यस्य प्रागभावघटितार्थकत्वमभ्युपेत्यैकविशिष्टेऽपर-वैशिष्ट्यमुपपाद्यमित्युक्तं भवतीति द्वितीयपक्षलाभः । अनुस्मृतेरिति सूत्रेण पूर्वापरकाल-सम्बन्धविशिष्टयोरैक्ये प्रत्यभिज्ञायाः प्रमाणीकृतत्वात् तस्यास्तत्तेदन्ताविशिष्टयोरैक्याव-गाहितासिद्धौ तदभिलापकवाक्यस्यापि तद्बोधकत्वमवश्यमङ्गीकरणीयम् । अभिज्ञाऽभिलप-नयोः समानविषयकत्वात् । तथा च तत्सूत्रेण तृतीयपक्षो लभ्यत इति भावः ।
आदिपदेन तत्सूत्रसम्बन्धिभाष्यादिग्रहणम् । तेन परैः ‘पूर्वानुभूतस्य स्मृत्यनुपपत्त्याऽऽ-त्मनः क्षणिकत्वं नास्ति’ इति तत्सूत्रस्य व्याख्यातत्वात्कथमेतत्तृतीयपक्षज्ञापकतयोदाह्रियत इति शङ्काऽपास्ता । प्रत्यभिज्ञापरत्वेनाचार्यैर्भाष्ये व्याख्यातत्वात्तस्यैवादरणीयत्वात् । परोक्तस्यापव्याख्यानत्वात् । उत्तरोत्तरविज्ञानरूपाऽत्मनि पूर्वपूर्वविज्ञानवृत्तिवासनासङ्क्रमेण तैः स्मृतेरुपपादितत्वात्तदन्यथानुपपत्त्याऽऽत्मनः स्थिरत्वासिद्धेः । स्मृतेरिव सौगतमते प्रत्यक्षकार्यप्रवृत्त्यादीनां परामर्शादिकार्यानुमित्यादीनामप्यनुपपत्तेरात्मनः क्षणिकत्वपक्षे सत्त्वेन स्मृतिमात्रग्रहणे न्यूनत्वापत्तेश्च । सोऽहं तदेवेदमिति प्रत्यभिज्ञायाः साक्षात्स्वविषयस्थिरत्व-ग्राहिकाया आत्मनि घटादौ च स्थिरत्वसाधकतया तत्परत्वेन सूत्रव्याख्यानं विहायाऽत्म-मात्रक्षणिकत्वनिरासकतयोक्तस्मृत्यन्यथाऽनुपपत्तिरूपहेतुपरत्वेन व्याख्यानस्यासङ्गतत्वाच्च ।। देशकालेति ।। तद्देशकालेत्याद्यप्यत्र ग्राह्यम् ।। कथमिति ।। आभ्यां पक्षद्वयस्यैवाभि-मतत्वलाभात्तृतीयपक्षस्याङ्गीकारो न युक्त इत्याशयः ।। उपलक्षणमिति ।। अन्यत्रोक्तत्वा-च्छिष्यैरेव ज्ञातुं शक्यमित्याशयेन कण्ठतोऽनुक्तम् । तदप्युपलक्षणतया ग्राह्यमेवेति भावः ।
ननु सोऽयमित्यत्राभेदान्वयबोधस्यैवावश्यवक्तव्यत्वात्तृतीयपक्षः स्वत एव सिद्धः । तद्देशकालादिविशिष्ट इति प्रथमान्तनिर्देशेन मूलेनेतरपक्षद्वयवज्ज्ञापितोऽपि । किं ज्ञापकान्तरान्वेषणेनोपलक्षणत्वोक्त्या च । सत्यम् । वाक्येन साक्षाज्जायमानबोध एव परमतात्पर्यमित्यस्यैव तृतीयपक्षत्वेन तत्र ज्ञापकान्तरान्वेषणौचित्यात् । कैर्विशेषणैर्विशिष्ट इति प्रश्न इत्युक्त्या विशेषणसम्बन्धबोधमात्रे तात्पर्यावगमात्, उद्देश्यांशं विहाय तद्देश-कालादिविशिष्ट इत्येतावन्मात्रेणैक्यपक्षस्य स्फुटमज्ञापितत्वाच्च स्फुटज्ञापकान्तरमुपलक्षणया गृहीतमित्यदोषः ।
वस्तुतस्तु तद्देशकालसम्बन्धध्वंसैतद्देशकालसम्बन्धयोरेककालावच्छिन्नसामानाधिकरण्य-मित्याद्यः पक्षः । एतद्देशकालसम्बन्धप्रागभावतद्देशकालयोरेककालावच्छिन्नसामानाधिकरण्यं वाक्यार्थ इति द्वितीयः पक्षः । तद्देशकालसम्बन्धैतद्देशकालसम्बन्धाऽश्रयव्यक्त्यैक्यमिति तृतीयपक्षः । प्रथमद्वितीयपक्षयोरुक्तार्थलाभाय तदिदंपदयोरन्यतरस्य निषेधप्राधान्य-मभ्युपेत्यैकविशिष्टेऽपरवैशिष्ट्यावगाही बोधो वाक्याज्जायते । तत्पक्षद्वये च क्रमादनित्य-देशकालेति तद्देशकालादिविशिष्ट इति च ज्ञापके भवतः । प्रथमानिर्देशेन विशिष्टद्वया-भेदान्वयबोधद्वारैवायमर्थः पर्यवस्यतीति सूचितम् । तृतीयपक्षे तु तद्देशकालैतद्देशकाल-सम्बन्धाऽश्रययोरभेदबोधस्तदेतद्देशकालयोर्धर्मिविशेषणतापन्नयोः परस्परं समानकालिकत्वा-नवगाही केवलं धर्म्यंशे तत्प्रकारकोऽभिलषितः । तेनैव कालद्वयसम्बद्ध्येकवस्तुरूप-स्थिरपदार्थसिद्धेः । पूर्वोक्तपक्षद्वये कालद्वयसम्बन्धस्यैकत्राविषयीकृतत्वेन वस्तुस्थिरत्वा-साधकत्वात् तृतीयपक्षाभ्युपगम आवश्यकः । ध्वंसप्रागभावयोः प्रतियोगिसामानाधिकरण्यं विनाऽनुपपत्तिरित्यनुसन्धानेनानन्तरं तत्सिद्ध्यङ्गीकारे चानुमानान्तरत्वापत्त्या प्रत्याभिज्ञा-प्रत्यक्षस्य क्षणिकत्वानुमानबाधनायोपन्यासायोगप्रसङ्गाच्च ।
इत्थञ्चात्र नोक्तमूलयोर्ज्ञापकत्वम् । सम्बन्धित्वस्येति सम्बन्धस्यैव प्राधान्येन ग्रहणात् । तद्देशकालादिविशिष्ट इति विशिष्टपदस्वारस्येन विशिष्टैक्यबोधस्योक्तत्वात् । तस्य च तृतीय-पक्षे बाधितत्वात् । अत उक्तसूत्रभाष्यरूपज्ञापकान्तरमनुसृतं मूलस्योपलक्षकत्वञ्चोक्तमिति ।
न चैवंरीत्या ग्रन्थाशयवर्णनमयुक्तम् । पूर्वशङ्कितपक्षत्रयस्यैवात्राभ्युपगतत्वप्रतीतेः । पूर्वत्र च विशिष्टैक्यपक्षस्यैव शङ्कितत्वादिति वाच्यम् । तत्ताविशिष्ट इदन्तावैशिष्ट्यावगाहित्व-मिदन्ताविशिष्टे तत्तावैशिष्ट्यावगाहित्वं तदिदंपदार्थैक्यावगाहित्वमित्येतावदंशमात्रमुपादायात्र पक्षत्रयाङ्गीकारोक्तेः सङ्गतेः । अन्यथा तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यादेरेव पूर्वं शङ्काग्रन्थ उक्तत्वेन पूर्वकल्पद्वये च ध्वंसादिकमादाय तदुपपादनस्याप्यसङ्गतत्वापत्तेः । विशिष्टैक्ये विशेषणैक्यमित्यादिग्रन्थस्तु पूर्वकल्पद्वये विशिष्टद्वयैक्यस्यैव साक्षाद्वाक्येन बोधितत्वात्तदभिप्रायकः । अतो न तद्विरोधोऽपि ।
नन्वथापि तृतीयपक्षो न युक्तः । तद्देशकालसम्बन्धवान् देवदत्त एतद्देशकालसम्बन्ध-वानित्याकारस्य धर्मितावच्छेदकीभूतप्रकारतावच्छेदकीभूतदेशकालसम्बन्धयोः समान-कालीनत्वानवगाहिनोऽपि बोधस्याङ्गीकर्तुमयोगात् । विरुद्धविशेषणयोरेकधर्मिण्यवगाहिनोऽ-नाहार्यबोधस्यानुदयात् । अन्यथा भाविपाकाधीनरागतात्पर्येण श्यामघटो रक्त इति प्रतीति-प्रयोगयोः प्रामाण्यापत्तेरिति चेन्न । भावाभावादिरूपाणां सामान्यत एकाधिकरणावृत्तित्व-रूपविरोधवत्त्वेन गृह्यमाणानां परस्परसामानाधिकरण्यावगाह्यनाहार्यबोधानुदयेऽपि एककाला-वच्छिन्नैकाधिकरणवृत्तित्वाभावरूपविरुद्धत्वेन गृह्यमाणानां तादृशैककालीनत्वमविषयीकृत्य सामानाधिकरण्यावगाही बोधो जायत एव। श्यामत्वरक्तत्वयोः समानकालिकत्वानवगाहि-प्रतीतिप्रयोगाविष्टावेव । अन्यथा ‘स्नातानुलिप्तः’ ‘पीतप्रतिबद्धवत्साम्’ इत्यादेरप्रामाण्य-प्रसङ्गात् । तादृशक्रियाद्वयतदनुकूलकृत्योः समकालिकत्वाभावात् ।
यत्तु ‘सर्वत्र विशिष्टवैशिष्ट्यावगाहिबोधजनने पदानां शक्तेरुक्तरीत्योपलक्षणविधया बोधजनकत्वाङ्गीकारे मुख्यार्थत्याग एव’ इति । तदसत् । घटो द्रव्यं शुक्लो नित्यश्चः, भूतलं घटवत् इत्यादीनां घटत्वभूतलत्वादीनामुपलक्षणया बोधजनकवाक्यानां शतशो विद्यमानत्वेन सर्वत्रामुख्यार्थकत्वमङ्गीकृत्य त्वदभ्युपगतरीत्यङ्गीकारे मानाभावात् । विशिष्टवैशिष्ट्या-वगाहिबोधादेस्तात्पर्याधीनत्वात् । अन्यथा वैपरीत्यस्यैव प्राप्तेर्विनिगमकाभावात् । प्रायो विशिष्टवैशिष्ट्यबोधतात्पर्येण लौकिकानां व्यवहारात्तदनुसारेण वेदेऽप्युत्सर्गतस्तथात्व-कल्पनम् । न तु पदशक्तिबलादिति ।
यत्तु ‘उक्तरीत्या तत्ताया ध्वंसरूपत्वाङ्गीकारेऽनुभवविरोधः’ । तावताऽपि तद्देशकाल-सम्बन्धवानयमित्यत्रागतिः इति । तदसत् । पूर्वकालध्वंसादिविशिष्टे इतरवैशिष्ट्य-बुभुत्सानिवृत्त्यर्थं तद्वाक्यप्रवृत्तिकाले वक्तृतात्पर्यानुसारात्तादृशबोधस्यैवानुभवसिद्धतया तत्रानुभवविरोधोक्त्यसङ्गतेः । तद्देशकालसम्बन्धवानिति वाक्यस्य च तृतीयपक्षरीत्या बोधकत्वसम्भवात् तत्रोक्तरीतेरनाश्रयणात् । तद्वाक्यस्योक्तरीत्या विशिष्टवैशिष्ट्यावगाहि-धीपरत्वे त्वन्मतेऽपि तद्वाक्यमप्रमाणमेव । प्रत्युत तवैवानुभवविरोधः । सोऽयं देवदत्त इति वाक्यश्रवणानन्तरं शुद्धस्वरूपं जानामीत्यननुभवात् । तं देवदत्तमिमं जानामीत्येव सर्वानु-भवात् ।
किञ्च प्रत्यभिज्ञाभिलापरूपस्य सोऽयमिति वाक्यस्य स्वरूपमात्रबोधकत्वे ‘स एवायं गकारः’ इति प्रत्यभिज्ञाभिलापकवाक्यस्यापि तथात्वे तदभिलाप्यप्रत्यभिज्ञाया अपि गकार-स्वरूपमात्रविषयकत्वप्राप्त्या पूर्वापरप्रतीतिविषयगकाराभेदासिद्ध्या वर्णनित्यत्वासिद्धिप्रसङ्गः । व्यवहारे भट्टमतानुयायिनस्तवेष्टापत्तेः कर्तुमशक्यत्वात् ।
न च सोऽयं देवदत्त इत्यत्रोक्तरीत्या पूर्वापरत्वोपलक्षितगकारयोर्भेदभ्रमव्युदासद्वारा तदैक्यं सिद्ध्यतीति वाच्यम् । उक्तनिश्चयस्य कथञ्चिद्भेदग्रहप्रतिबन्धकत्वाङ्गीकारेऽपि तत्प्रमायां स्वरूपैक्यस्याविषयत्वेन तादृशप्रमाणबलात्तत्सिद्ध्युक्तेरयोगात् । अन्यथा शुक्तौ रङ्गभ्रमवन्तं प्रति केनचिद्भ्रान्तेन पुरुषान्तरेण तदिदं रजतमित्युक्तौ तत्राप्तत्वभ्रमवतो रजतत्वस्य रङ्गभेदव्याप्यताग्रहोद्बुद्धसंस्काराद्यन्यतरवतः पुरुषस्य रङ्गभ्रमनिवृत्तेरनुभव-सिद्धत्वात् । त्वन्मते च तस्य बोधस्य स्वरूपमात्रावगाहित्वात्तस्य चोक्तरीत्या रजतभेद-ग्रहरङ्गत्वादिभ्रमनिवर्तकत्वाच्च रजतस्य शुक्तिस्वरूपत्वस्य तद्बलात्सिद्ध्यापत्तेः । न च तज्ज्ञानं न प्रमेति वाच्यम् । शुक्तिस्वरूपस्यैव तत्र विषयतया तदप्रामाण्ये बीजाभावात् । न च तत्र प्रातिभासिकरजतस्वरूपमेव विषय इति वाच्यम् । तथात्वे रजतस्य प्रातिभासिकत्वेन रङ्गभ्रमहेत्वज्ञानविषयतानवच्छेदकत्वेनानधिष्ठानत्वेन तज्ज्ञानस्योक्ताविद्यानिवर्तकत्वाभावेन शुक्तौ रङ्गतादात्म्यभ्रमानिवृत्तिप्रसङ्गात् । रजतस्वरूपमात्रज्ञानेन शुक्तौ रङ्गभ्रमनिवृत्त्यङ्गीकारे शुक्तिरजतस्वरूपैक्यमपि सिद्ध्येत् । अन्यथा पूर्वापरगकारैक्यमपि न सिद्ध्येदविशेषात् ।
ननु न भेदभ्रमनिवर्तकत्वमात्रमुक्तप्रत्यभिज्ञायाः स्वीक्रियते । किन्तु पूर्वापरवर्ण-स्वरूपैक्यमपि तस्याः विषयः । न च तथात्वे स्वरूपमात्रावगाहित्वानुपपत्तिः । ऐक्यस्य स्वरूपमात्रत्वेन तदनुपपत्त्यभावात् इति चेन्न । गकारस्वरूपमात्रस्य नैयायिकैरभ्युपगतत्वेन तैः सह मीमांसकानां विवादाभावप्रसङ्गात् । एतेन
‘भेदो भिन्नश्चातिरेकोऽतिरिक्तो भेदो भिन्नः संविदः स्वप्रकाशाः ।
इत्यादीनां विद्यते नार्थभेदः श्रुत्यन्तानामप्यखण्डस्तथार्थः’ ।।
इति संक्षेपशारीरकोक्तिरप्यपास्ता । भेद इत्यनेन तन्मात्रस्य भिन्न इत्यनेन तदाश्रयस्य च प्रतीत्याऽर्थवैलक्षण्यस्यानुभवसिद्धत्वात् । भेदावृत्तित्वग्रहप्रतिबन्धकत्वाप्रतिबन्धकत्वादि-वैलक्षण्यस्य चानुभवसिद्धत्वाच्च भेदभिन्नपदयोः समानार्थकत्वे क्तप्रत्ययस्य स्वार्थिकत्वा-पत्तेश्चेति ।। न्यायसाम्यादिति ।। वाच्यार्थानुपपत्त्यभावरूपन्यायसाम्यादित्यर्थः ।। एतदनु-पपत्तीति ।। पूर्वशङ्काग्रन्थोक्तानुपपत्तीत्यर्थः ।