तदज्ञाननिवृत्तिश्च तेन भवति

आत्मज्ञानाभावे बाधकोक्तिः

श्रीमज्जयतीर्थटीका

आत्मज्ञानाभावे किं बाधकमित्यत आह

मूलं

तदज्ञाननिवृत्तिश्च तेन भवति

नेत्यनुवर्तते । अतिप्रसङ्गसमुच्चये चशब्दः । यदा वेदान्तजनितविज्ञानमात्मज्ञानं न स्यात् । तदा आत्मज्ञाननिवृत्तिस्तेन न स्यात् । तज्ज्ञानेनैव तदज्ञाननिवृत्तिदर्शनात् । तथा च वेदान्तानां वैयर्थ्यं स्यात् ।

द्वैतद्युमणि:

।। अतिप्रसङ्गसमुच्चय इति ।। १पूर्वमूलेऽनुवर्तमानमेतन्मूले च भवतीत्ये-तत्स्यादित्येतत्समानार्थकमव्ययम् । तथा च पूर्वातिप्रसङ्गेनास्यातिप्रसङ्गस्य समुच्चये चशब्द इत्यर्थः ।