एवमेव हेत्वादिष्वपि विकल्पो निराकरणीयः
पूर्वोक्तप्रतिज्ञादोषनिरासस्य हेत्वादिदोषनिरासे अतिदेशः
श्रीमज्जयतीर्थटीका
एवमर्निवचनीयासिद्ध्या साध्यभेदविषयविकल्पनियासेनापसिद्धान्तादि-प्रतिज्ञादोषनिराकरणं कृतम् । एतमेव न्यायं हेत्वादिदोषनिरासे अतिदिशति ।
मूलं
एवमेव हेत्वादिष्वपि विकल्पो निराकरणीयः
अत्र हेतुशब्देन तदर्थो मुक्तत्वमुच्यते । आदिपदेन दृष्टान्तगते मुक्तत्वभिन्नत्वे गृह्येते । विषयसप्तमी चेयम् । किमनिर्वचनीयं मुक्तत्वं हेतूक्रियते उत पारमार्थिकम् । आद्ये वाद्यसिद्धिः । द्वितीये प्रतिवाद्यसिद्धिः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।
इति तेनाङ्गीकृतत्वात् । एवं दृष्टान्तेऽपि मुक्तत्वभिन्नत्वे यद्यनिर्वचनीये विवक्षिते तदा वादिनं प्रति दृष्टान्तस्य साधनादिविकलता । यदा पारमार्थिके तदा प्रतिवादिनं प्रति तथा । तत्साधने पुनः दृष्टान्तानुसरणेऽनवस्थेति । आसतामेते विकल्पदोषाः । विकल्प एवायं पुरोवदनिर्वचनीयासिद्ध्या निराकरणीय इति ।
नन्वत्राधिकाशङ्काभावात्किमतिदेशेन । उदाहरणभेदेनातिदेशे त्वपर्यवसानं स्यात् । सत्यम् । तथाप्येकत्रोक्तो न्यायोऽन्यत्रानुसन्धेय इति मन्दान्व्युत्पादयितुमतिदेश इत्यदोषः ।
द्वैतद्युमणि:
पचम्यन्तप्रकृतिलिङ्गवचनस्यैव हेतुपदार्थतया तत्र विकल्पानवसरादाह ।। हेतुपदेनेति ।। मन्दानिति ।। अन्यथा पूर्वमनिर्वचनीयासिद्ध्या भेदे विकल्पानुपपत्तेरुक्तत्वेन विशिष्योक्त्या अन्यत्रेदं दूषणं न घटत इति मन्दानां शङ्का स्यादित्यर्थः ।