प्रकृष्टप्रकाशश्चन्द्र..
सत्यज्ञानादिवाक्यानामखण्डार्थत्वसाधकानुमाने दृष्टान्ते साध्यवैकल्योपपादनम्
श्रीमज्जयतीर्थटीका
तदेतदसत् । दृष्टान्तस्य साध्यविकलत्वादित्याशयवानाद्यदृष्टान्तं तावद्दूषयति
मूलं
प्रकृष्टप्रकाशश्चन्द्र इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम् ।
इत्यादिषु लक्षणवाक्येषु । स्थितानां पदानामभिधेयानीति शेषः । इतिशब्दो हेतौ । न तत्साम्यम् । सत्यज्ञानाऽदिवाक्यानामिति शेषः । न तद्दृष्टान्तेनैषामखण्डार्थतासाधनं युक्तमिति यावत् ।
इदमुक्तं भवति । लक्षणा हि वाच्यार्थासम्भवे समाश्रीयमाणा गङ्गायां घोष सत्यादिवाक्येषु दृष्टा । एवमेवाऽश्रयणेऽतिप्रसङ्गात् । प्रकृते च प्रकृष्टाऽदिपदाभिधेयानि प्रकृष्टत्वाऽदिविशेषणानि चन्द्रादौ प्रमाणसिद्धानि । अतोऽनुपपत्त्यभावान्नैषां लक्षणया चन्द्रादिस्वरूपमात्रपरत्वं युक्तम् । लक्षणानाश्रयणे चोक्तपर्यायत्वादिदोषप्रसङ्गः । तथा च दृष्टान्तस्य साध्यविकलत्वान्नानेन सत्यज्ञानादिवाक्यानां लक्षणया ब्रह्मस्वरूपमात्रपरत्व-सिद्धिः इति ।
द्वैतद्युमणि:
।। तावद्दूषयतीति ।। यद्यप्यखण्डार्थत्वमप्रसिद्धमित्यप्रसिद्धविशेषणतैव वक्तव्या तथापि सत्यज्ञानादिवाक्यतात्पर्यविषयीभूतप्रमा सांसर्गिकविषयिताशून्येति प्रथम-साध्यनिष्कर्षेऽपि द्वितीयसाध्यस्य स्वघटितवाक्यजन्यत्वस्वनिरूपितवृत्तिग्रहाधीनोपस्थिति-विषयभिन्नाविषयकत्वैतदुभयसम्बन्धेन प्रातिपदिकस्यैव साध्यतया निष्कर्षकरणे प्रकृष्ट-प्रकाशादिवाक्यजप्रमात्वेन दृष्टान्तीकरणेऽप्रसिद्धविशेषणता न घटते । अतः साध्यवैकल्यमेव मूलेऽभिहितमिति ध्येयम् । यद्वा यद्यल्लक्षणवाक्यं तत्तत्स्वरूपमात्रपरम् । इदं च ब्रह्मलक्षण-वाक्यमतो ब्रह्मस्वरूपमात्रपरमिति रीत्या सामान्यव्याप्तिमूलकानुमितिरुद्देश्या । ब्रह्मस्वरूप-मात्रपरत्वरूपाखण्डार्थकत्वमेव प्रकृतसाध्यतयाऽभिमतम् । सामान्यव्याप्तिमूलकानुमितौ तु न साध्यसाधनयोर्व्याप्तिग्रहोऽपेक्षितः । किन्तु प्रकृतसाधनसजातीयेषु तत्कालोपस्थितसाधनेषु यावत्सु प्रकृतसाध्यसजातीयसाध्यनिरूपितव्याप्तिज्ञानं प्रकृतसाधनस्य पक्षसत्त्वज्ञानं चा-प्रसिद्धस्यैव साध्यस्यानुमापकसामग्रीति सैवापेक्षिता । तत्र प्रकृतसाध्याप्रसिद्धेर्दोषत्वायोगा-त्सामान्यव्याप्तिदूषणार्थमेवास्य ग्रन्थस्य प्रवृत्तिरित्यदोषः । दृष्टान्तस्य साध्यविकल-त्वादित्यस्य सजातीयसाध्यहेत्वोर्व्याप्तिग्रहस्थलत्वेनाभिमतेषु सर्वस्थलेषु साध्याभावा-त्सामान्यव्याप्त्यभावादित्यर्थ इति न तद्विरोध इति ध्येयम् । एतेन प्रतिज्ञाविरोधरूपतया प्रथमप्राप्तसाध्याप्रसिद्धिं विहाय चरमप्राप्तदृष्टान्तदोषोद्भावनमयुक्तमिति परास्तम् ।
वाच्यार्थानुपपत्त्या वा तात्पर्यानुपपत्त्या वा लक्षणा लोके दृष्टा । प्रकृते च न प्रथमकल्प इत्याशयेनाह ।। लक्षणा हीत्यादिना ।। लक्षणाऽनाश्रयण इति ।। किन्तु मुख्यवृत्त्यैव पदद्वयस्य चन्द्रस्वरूपमात्रबोधकत्व इति शेषः ।