बलवद्दृष्ट्यबाधे..

प्रत्यक्षाभासस्यापि तर्कबाध्यत्वाभावसमर्थनम्

श्रीमज्जयतीर्थटीका

ननु यदा वस्तुतोऽनन्ने प्रत्यक्षेणान्नबुद्धिर्जायते । तदास्त्येवोक्ततर्केण बाधः परित्यागदर्शनात् । तत्कथमेतदित्यत आह ।

मूलं

बलवद्दृष्ट्यबाधे ।

पूर्वेणान्वयः । यदा परित्यागः तदा बलवदनन्नत्वदृष्ट्यान्नत्वदृष्टेर्बाधे सत्येव । न तु केवलतर्केण । अन्यथाऽन्यत्रापि तत्प्रसङ्गादिति ।