मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..
मिथ्याशब्दस्यासद्वाचित्वसमर्थनम्
मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..
श्रीमज्जयतीर्थटीका
ननु व्याकरणाभिधानादिप्रमाणाभावाद्वादिसमयमात्रस्यातिप्रसङ्गेनानिश्चायकत्वादनिर्वच-नीयस्य यदि न मिथ्याशब्दो वाचकस्तर्हि तद्वाच्यं वाच्यम् । सत्यम् । असदिति ब्रूमः । एवं तर्हि निरर्थक इति प्राप्तम् । न ह्यसदस्तीति सम्भवति । व्याघातात् । निरर्थकत्वे च पदत्वव्याघात इति चेन्मैवम् । अत्यन्ताभावप्रतियोगित्वलक्षणस्यासत्त्वस्य विद्यमानत्वात् । न हि मिथ्येत्यस्य शशविषाणादिकमर्थः । तथा सति शशविषाणं मिथ्येति न स्यात् । किन्नाम तन्नास्तीति । तथा च मिथ्यैव रजतमित्यस्य नास्ति रजतं रजतात्यन्ता-भावोस्तीत्यर्थः । स्वयमसतः कथं प्रतियोगित्वमिति चेत् । किमिह कथम् । न हि प्रतियोगित्वं रूपादिवद्धर्मिसत्तासापेक्षम् । अभावज्ञानोपयोगिज्ञानविषयतामात्रस्य प्रतियोगि-त्वात् । असतोऽपि प्रतीतिमुपपादयिष्यामः ।
द्वैतद्युमणि:
।। यावतेति ।। यस्मादित्यर्थः । नन्वयं घट इतिवदिदमनिर्वचनीयमिति प्रत्यक्षाभावात्कथमनिर्वचनीयार्थे प्रत्यक्षस्य प्रामाण्यमित्यत आह ।। बाधकेति ।। अनुवादा-दिति ।। अभिलापादित्यर्थः । अभिलापकशब्दजन्यबोधसमानविषयकत्वमभिलप्यमानप्रत्यय-स्येति नियमात् । मिथ्यापदार्थस्य रजतान्वितत्वेन शाब्दबोधे भानात् अनूद्यमानप्रत्यय-स्याप्यनिर्वचनीयविषयकत्वमिति भावः । ननु शाब्दबोधस्य मिथ्यात्वविषयकत्वात्कथं तदभिलाप्यबाधकप्रत्ययस्यानिर्वचनीयत्वविषयकत्वमित्यत आह ।। यावदुक्तं भवतीति ।। अनिर्वचनीयमितिपदेन यादृशविशिष्टस्वरूपं अस्मदभिमतं बोध्यते तदेव मिथ्यापदेन बोध्यते । तथैव लोकानुभवादित्यभिमानः ।
ननु अग्निर्माणवक इति वाक्यप्रयोक्तरि तद्वाक्येन यथाश्रुतेन जायमानबोधसमानविषयक-ज्ञानस्यादर्शनात्प्रकृते तादृशवाक्यप्रयोगमात्रेण तस्य तज्ज्ञानं कथं कल्प्यत इत्यत आह ।। न चाप्रतीतमिति ।। अनूद्यते स्वकीयप्रतिपत्तिविषयतया प्रतिपाद्यते । आप्तेन यथार्थवक्त्रा । अयं भावः । यदि रजतं मिथ्येत्येव शब्दस्तेन प्रयुज्येत तदा तथा ज्ञानरहितोऽपि व्यपदेशमात्रं करोतीति वक्तुं शक्यते । न चैवम् । किं तु रजतं मम मिथ्यैवाभादिति मिथ्यात्वविशिष्टरजतविषयिणीं स्वप्रतीतिमेव शब्देन बोधयति । वाक्यप्रयोगकारणीभूतं च ज्ञानं बाधकप्रत्ययविषयकानुव्यवसायो वा गुरुमतवद्बाधकज्ञानमेव वा रजतं मिथ्या जानामीत्याकारम् । नोभयथाऽपि काचित्क्षतिरिति ।
ननु स्वकीयबाधकज्ञानस्य रजतविषयकमिथ्यात्वप्रकारकत्वमाप्तेन यदुक्तं तत्तथाऽस्तु । तथापि तत्प्रत्ययस्य भ्रान्तित्वेन रजतानिर्वचनीयत्वं न सेत्स्यतीत्यत आह ।। न चेति ।। बाधकप्रत्ययत्वमेव भ्रान्तित्वाभावे हेतुं सूचयति बाधकपदेन । अस्य भ्रान्तित्वे एत-द्विरुद्धार्थावगाहिनः पूर्वप्रत्ययस्यैतद्बाधकत्वापत्त्या अस्य बाध्यत्वमेव स्यान्न बाधकत्वमिति भावः । ननु प्रत्यक्षप्रमाणोपन्यासप्रस्तावे एतत्कथनमयुक्तम् । अस्य शुक्तित्वादिरूपलिङ्ग-वाक्यादिजन्यत्वादित्यत आह ।। नापीति ।। लोके घटादेरनुमितिशाब्दबोधानन्तरं घटो मे प्रत्यभादिति न परीक्षकादिव्यवहारः । किं तु तर्कित इत्यादिरूप एव । प्रत्यक्षानन्तरमेव घटः प्रत्यभादिति व्यवहारः । अत उक्तवाक्यं तज्ज्ञानं प्रत्यक्षत्वेनैव बोधयतीति लिङ्गादि-जन्यत्वाङ्गीकारे तद्विरोध इति भावः । अत एवोक्तबाधकप्रतीतेर्लिङ्गजन्यत्वाभावे हेत्वन्तरोपन्यासायासनिरासाय जन्यतया बाधकप्रतीत्यनुमापकं मिथ्यैव रजतमित्येतावन्मात्र-वाक्यं विहाय बाधकप्रत्ययं प्रत्यक्षत्वेनावगाहमानेनानुव्यवसायेन वाक्यार्थज्ञानमुद्रया जन्यं बाधकप्रत्ययस्य प्रत्यक्षत्वेनैव शब्दविधया बोधकं वाक्यमुपात्तम् ।
ननु केवलसन्निकर्षादिदशायां बाधकप्रत्ययस्यानुत्पन्नत्वाच्छुक्तित्वादिव्यावर्तकधर्मदर्शनोत्तर मेवोत्पन्नत्वात्कथं तस्य प्रत्यक्षत्वमिति चेन्न । शुक्तित्वादिसाक्षात्कारस्य रजतहेत्वज्ञान-निवृत्तावेवोपक्षीणत्वेनाज्ञाननिवृत्त्या रजते निवृत्ते चक्षुःसन्निकर्षेणैव रजताभावज्ञानाभ्युप-गमात् । अत्र रजते मिथ्यात्वं रजततादात्म्यवच्छुक्तिनिष्ठनिरवच्छिन्नवृत्तिकाभावप्रतियोगि-त्वम् । रजततादात्म्यं शुक्त्यंशे पूर्वानुभवजनितसंस्काराद्भासते । औतमते उपनीतभाना-भावेऽपि तदंशे स्मृत्यात्मकमेव बाधकज्ञानम् । सुरभि चन्दनमिति ज्ञानस्यापि सौरभांशे स्मृत्यात्मकत्वस्य चन्दनांशे साक्षात्कारत्वस्य स्वीकारात् । प्रतियोगिभूतरजतांशेऽपि स्मरणात्मकमभावांशे शुक्त्यंशे निरवच्छिन्नत्वांशे चाक्षुषमेव । अत इदं प्रत्यक्षात्मकमिति ज्ञेयम् । यद्यप्यभावः परमते षष्ठप्रमाणरूपानुपलब्धिप्रमाणगम्यस्तथाप्यभावस्य प्रत्यक्षतामत-माश्रित्यैवं शङ्केति औतचन्द्रिकायामुक्तम् । अतो नापसिद्धान्तः ।
यद्वा ।। बाधकप्रत्ययसमनन्तरमिति ।। मिथ्यैवेति ।। नेदं रजतमिति बाधकप्रत्ययस्येदं रजतं मिथ्येत्याकारकत्वं परेषां यद्यप्यसम्मतं तथापि बाधकप्रत्ययोत्तरं द्वित्रक्षणानन्तरं मिथ्यैव रजतं प्रत्यभादिति वाक्यं भ्रान्त्युत्थितः प्रयुङ्क्ते । तद्वाक्यं मिथ्यात्ववद्रजतं पूर्वज्ञानविषयीभूतमिति बोधं जनयति । एवकारेण रजते मिथ्यात्वायोगो व्यवच्छिद्यते । तथा च तद्वाक्यप्रयोगहेतुभूतं तत्समानविषयकं ज्ञानं तस्यापेक्षितम् । तत्र रजते भ्रमात्मक-ज्ञानविषयत्वावगाह्यनुव्यवसायाधीनसंस्कारेण पूर्वतनभ्रमरूपज्ञानविषयत्वं भासते । रजते मिथ्यात्वोपनायकमन्यन्नास्तीति बाधकप्रत्यय एव मिथ्यात्वविषयकतया तदुपनायकोऽवश्यं वाच्य इत्युक्तानुवादबलाद्बाधकप्रत्ययस्य मिथ्यात्वविषयकत्वमवश्यं वाच्यमिति नेदं रजतमिति प्रत्यक्षमेव तस्मिन्मिथ्यात्वे प्रमाणम् । तस्य मिथ्यात्वावगाहित्वादिकं तूक्तरीत्यैवेति भावः ।
ननु तादृशवाक्यप्रयोक्ता न स्ववाक्याधीनबोधसमानविषयकज्ञानेन वाक्यं प्रयुङ्क्ते । किंतु एकपदार्थनिष्ठप्रकारतानिरूपितापरपदार्थनिष्ठविशेष्यताशालिबोधत्वेन स्ववाक्यसाध्यबोध इष्टसाधनतां गृहीत्वा तत्साधनतया विप्रलिप्सयैव । तथा च प्रकृतवाक्यप्रयोगनिर्वाहाय न बाधकज्ञानस्य मिथ्यात्वविषयकत्वं कल्पनीयमित्यत आह ।। न चेति ।। आप्तेन अविप्रलम्भकेन । तस्य तत्त्वं प्रमाणान्तरसिद्धमिति भावः । नन्वस्तु बाधकप्रत्ययस्य मिथ्यात्वविषयकत्वम् । तस्यापि भ्रमत्वान्नानिर्वचनीयसिद्धिरित्यत आह ।। न च बाधकेति ।। अन्यथाविज्ञातस्य सम्यग्विज्ञानस्यैव बाधत्वादिति भावः । ननु प्रत्यक्षम-निर्वचनीये प्रतिज्ञायैतदुपन्यासो न युक्तस्तस्यानुमित्यादिरूपत्वादित्यत आह ।। नापि लिङ्गादीति ।। तथा चानुमितित्वादिव्यापकलिङ्गादिजन्यत्वाभावान्नानुमितित्वादिकमिति भावः । लिङ्गाद्यननुसन्धानदशायामुत्पत्तेरनुभवसिद्धत्वान्न तज्जन्यत्वमिति हृदयम् ।। अनुमीयत इति ।। पूर्ववाक्यानां पूर्वोक्तरीत्या प्रथमव्याख्याने उक्तप्रत्ययः शाब्दबोधविषयो भवति यद्यपि तथाप्याप्तवाक्येनानिर्वचनीयविषयकत्वेन बोध्यमानत्वलिङ्गादपि तद्वाक्यानु-पूर्व्यश्राविणा प्रत्ययस्यानिर्वचनीयविषयकत्वमनुमीयत इत्याशयेनैवमुक्तिः । पूर्ववाक्यानां द्वितीयव्याख्याने तु न कोऽपि क्लेश इति ध्येयम् ।
अनुकृष्टस्य न मानमित्यस्याभिप्रायमनुवदन्नेवाशङ्कते ।। नन्विति ।। एवं तर्हीति ।। वाच्यमसदित्यस्य नास्तीत्यत्रैव पर्यवसानादित्यर्थः ।। पदत्वव्याघात इति ।। अर्थवद-धातुरप्रत्ययः प्रातिपदिकमित्यनेन प्रातिपदिकसञ्ज्ञासिद्धावेव स्वाद्युत्पत्त्या पदत्वं वाच्यम् । तथाचार्थवत्त्वाभावे पदत्वमेव न स्यादित्यर्थः ।। असत्त्वस्य विद्यमानत्वादिति ।। तथा च मिथ्यापदं तद्बोधकमेवेति भावः । शशविषाणादीनां तत्पदेन बोधत्कथमुक्तार्थकत्वमित्यत आह ।। न हीति ।। शशविषाणादीनां तत्समभिव्याहृतपदादिना बोध्यत्वेऽपि न शशविषाणत्वादिना तद्बोध्यत्वमित्यर्थः । विपक्षे बाधकमाह ।। तथा सतीति ।। तर्हि शशविषाणादिपदसमभिव्याहृतमिथ्यापदेन किं प्रतीयत इत्यत आह ।। किं नामेति ।। तथा च प्रकृतेऽनुवादकवाक्यस्य कीदृशोर्थः पर्यवसन्न इत्यत आह ।। तथा चेति ।। प्रतियोगिप्राधान्यविवक्षयाह ।। नास्ति रजतमिति ।। अभावप्राधान्यविवक्षयाह ।। रजतात्यन्ताभाव इति ।।
ननु अत्यन्ताभावप्रतियोगित्वार्थकत्वे समभिव्याहृतरजतपदार्थे निपातार्थत्वेन तस्याश्रय-तयाऽन्वये रजतमत्यन्ताभावप्रतियोगीत्यर्थो लभ्यते । अत्यन्ताभावविशेष्यकबोधस्तु कथम् । समभिव्याहृतरजतादिपदार्थस्याधेयतया व्युत्पत्तिवैचित्र्येण १प्रतियोगित्वेऽन्यथाभ्युपगमेऽपि प्रतियोगित्वविशेष्यकबोध एव स्यान्नाभावविशेष्यकः । तस्य वाच्यतावच्छेदककोटिनिविष्ट-त्वात् । किं चासत्तुच्छालीकमिथ्यापदानि पर्यायाणीत्यविवादम् । तेषामप्यत्यन्ताभाव-प्रतियोग्यर्थत्वे तत्पर्यायस्य मिथ्यापदस्यात्यन्ताभाव प्रतियोगित्वार्थकत्वानुपपत्तिः । तेषा-मप्यत्यन्ताभावप्रतियोगित्वार्थकत्वे शशविषाणमलीकमिति सामानाधिकरण्यानुपपत्तिः । मिथ्येत्यस्याव्ययतया तत्र भेदान्वयेप्यत्र तत्रेव भेदान्वयायोगात् । अभेदान्वयस्य बाधित-त्वात् । शशविषाणे शशविषाणस्य वा मिथ्या अलीकमित्यादिव्यवहारापातश्च । षष्ठीसप्तम्यर्थ-भूतसम्बन्धाधेयत्वयोरुक्तमिथ्यालीकशब्दार्थे सम्भवात् । न च मिथ्यालीकादिशब्दानाम-त्यन्ताभावप्रतियोग्येवार्थः । समभिव्याहृतशशविषाणादिपदार्थानामभेदेनैवान्वयित्वमिति वाच्यम् । वाच्यार्थासत्त्वशङ्कायां तस्यैव सत्त्वे वक्तव्ये ‘अत्यन्ताभावप्रतियोगित्वलक्षणस्या-सत्त्वस्य सत्त्वात्’ इत्यनेन वाच्यस्य २तस्य सत्त्वोक्तिवैयर्थ्यप्रसङ्गात् । न च तदपि विशेषण-तया वाच्यमिति वाच्यम् । सिद्धान्ते विशेषणे वृत्तिनिमित्तताङ्गीकारेण शक्तेरनङ्गीकृत- त्वादिति चेन्न ।
तद्विषयिताशालिबोधजनकत्वं यत्स्वाभाविकं तदेव पदे शक्तिरित्युच्यते । सा च शक्ति-र्ज्ञातैवोपयुज्यते । तादृशविषयितानिरूपकाणि सर्वाणि शक्यान्येव । अत एवान्वयेऽपि शक्तिरिति सिद्धान्तः । अशक्यस्य शाब्दबोधे भानाङ्गीकारे प्रवृत्तिनिमित्तवदन्वयस्यापि तथैव भानसम्भवेन योग्येतरान्विते शक्त्यङ्गीकारवैयर्थ्यप्रसङ्गात् । परन्तु शाब्दबोधानुकूलशक्तिज्ञानं ‘घटत्वविशिष्टो घटपदशक्यः’ इत्याकारम् । न तु ‘घटत्वघटौ घटपदशक्यौ’ इत्याकारम् । अतः शाब्दबोधानुकूलज्ञानविषयीभूतशक्त्यंशेऽविशेष्यत्वात्तत्राशक्यत्वव्यवहारः । एवञ्च तादृश प्रतियोगित्वांशे विशेषणतया वाच्यत्वसत्त्वादुक्तटीका सङ्गतैव । न च मिथ्यादिपदानामुक्त-प्रतियोग्यर्थकत्वे ‘मिथ्यापदवाच्यं नास्ति’ इति प्रतीतिप्रसङ्गः । ‘वाच्यसामान्यं नास्ति’ इति प्रतीतेस्तादृशप्रतियोगित्वरूपवाच्यसत्त्वेव बाधितत्वात् । अत एव तादृशप्रतियोगित्व-रूपवाच्यस्य सत्त्वमुक्तम् । ‘विशेष्यतया वाच्यं नास्ति’ इति प्रतीतिस्त्विष्टैव । न चासतः कथं वाच्यत्वमिति वाच्यम् । विषयितानिरूपकत्वरूपोक्तवाच्यत्वस्य तत्र सत्त्वे बाधका-भावात् । अर्थवत्सूत्रेऽपि शक्तिमत्त्वरूपार्थवत्त्वमेव विवक्षितम् । न तु सद्विशेष्यकबोध-जनकत्वम् । तथात्वेऽलीकादिपदानां पदत्वव्याघातप्रसङ्गात् । मिथ्यापदस्य तु प्रतियोगी अभावश्च पृथगेवार्थ इत्यङ्गीकृत्य प्रतियोगिनि समभिव्याहृतपदार्थस्याभेदेनान्वयमङ्गीकृत्या-भावप्राधान्येन बोधः मिथ्याशब्दस्थलेऽनुभवादेव स्वीक्रियते । मिथ्यालीकशब्दयोः पर्याय-त्वोक्तिस्त्वनतिभिन्नार्थत्वात् । यद्यभावप्रधानकबोधः पाश्चात्य एव १दर्शित इत्युच्यते तदा न कोपि दोषः ।
मायावादिनस्तु ‘असतो निरुपाख्यत्वं शब्दशक्त्यविषयत्वम्’ इति वदन्तोऽसतः शक्त्यगोचरतामाहुः । तन्न । अलीकादिपदानां तेषामपदत्वापत्तेः । न च तान्यनिर्वचनीय-वाचीनीति वाच्यम् । ‘शशविषाणमलीकम्’ इति वाक्यस्य सर्वमते प्रमाणस्यापलापापत्तिः । न च तद्वाक्यं विकल्पजनकमेवेति न बोधकत्वघटितप्रामाण्यं मत्सम्मतमिति वाच्यम् । २पदार्थसम्बन्धज्ञानरहितपुरुषे विकल्पस्याप्यनुत्पत्त्या तदर्थमप्यलीकपदस्यासति शक्तिग्रह-स्यावश्यकत्वात् । अनिर्वचनीये शक्तिज्ञानेनासद्भानाङ्गीकारे घटे शक्तिज्ञानेन पटभान-प्रसङ्गात् । अन्यदधिकमुत्तरत्र निराकरिष्यते । असत्प्रतीतिमनङ्गीकुर्वतां नैयायिकादीनां अलीकादिपदानां पदत्वव्याघातः स्फुट एव । कथञ्चित्सदर्थकत्वकल्पना अनुभवविरुद्धे-त्युपरम्यते । स्वयमसत इति ।। सर्वैरपि रूपैरसत इत्यर्थः । तेन शङ्ककस्य मते सतोऽपि व्यवृत्तिरूपेणासत्त्वात्तस्य प्रतियोगित्वाङ्गीकारात्कथमेतदिति चोद्यानवकाशः ।। किमिह कथं का कथन्तेत्यर्थः ।। धर्मिसत्तासापेक्षमिति ।। तथात्वे स्वप्रागभावध्वंसकालेऽसतां घटादीनां प्रतियोगित्वेन भानाभावप्रसङ्गादिति भावः ।
ननु घटादीनां ध्वंसप्रागवकालेऽसत्त्वेऽपि पूर्वोत्तरकालयोः सत्त्वादेव प्रतियोगित्वोपपत्तिः। न च कालान्तसत्त्वं नेदानीमुपयुज्यत इति वाच्यम् । प्रतियोगिताया अपि घटसमान-कालिकत्वाभ्युपगमात् । न हि प्रतीतिकाले प्रतियोगिता सत्त्वेनावभासते । येन प्रतियोगिनं विना सत्त्वं स्यात् । इदानीं घटो ध्वस्त इत्यादौ एतत्कालीनत्वस्य ध्वंस एव भानात् । प्रागभावादिप्रतीतौ भानमात्रेण प्रतीतिकाले सत्ताभ्युपगमे घटस्यापि प्रतीतिकाले सत्त्वं स्यात् । असतस्तु सर्वथा कालासम्बद्धस्य कथं प्रतियोगित्वोपपत्तिः । परिणामवादरुचीनां तु न कोऽपि दोषः । तस्यैव पूर्वं परतश्च कारणात्मना सत्त्वाभ्युपगमात् । एवं च प्रागभावादि-प्रतियोगित्वदृष्टान्तेन नासतः प्रतियोगित्वं वक्तुं शक्यमित्यत आह ।। अभावज्ञानेति ।। यद्वा प्रतियोगित्वं स्वरूपसम्बन्धविशेषोऽभावविरहात्मकत्वं वा । नोभयथाप्यसतस्तत्सम्भवति । तस्य स्वरूपाभावात् । असदभावस्य केवलान्वयित्वेन तदभावाप्रत्ययादित्यत आह ।। अभावज्ञानेति ।। अधिकरणज्ञानस्यापि कारणत्वात्तत्रातिव्याप्तिपरिहाराय विशेषेति । विशेषेतिपाठाभावपक्षेप्युक्तप्रयोजनानुरोधात् ग्राह्यमेव । अधिकरणीयविषयताभिन्नत्वस्य तदर्थत्वात् । न चाधिकरणत्वस्य केवलान्वयितया तद्विषयताभिन्नत्वं विषयतायां दुर्घटमिति वाच्यम् । अभावविषयताघटितधर्मावच्छिन्नकार्यतानिरूपितकारणतावच्छेदिका या आधेयत्व-संसर्गावच्छिन्नप्रकारत्वाप्रयोजकविषयता तस्या एव प्रतियोगितापदार्थत्वात् । न चैवं घटत्वा-भावव्याप्यपटत्ववानिति परामर्शेन घटत्वाभाववानित्यनुमित्युत्पत्त्या तादृशघटत्वाभाव-विषयताघटितधर्मावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकीभूतविषयत्वादिक-मादाय पटत्वे अभावोपनीतभानं प्रत्यभावज्ञानस्य हेतुतयाऽभावे चातिव्याप्तिः । लौकिक-प्रत्यक्षनिष्ठत्वस्य कार्यतायां निवेशे चातीन्द्रियाभावप्रतियोगिन्यव्याप्तिरिति वाच्यम् । नञुल्लेख प्रयोजकीभूता याऽभावप्रतीतिनिरूपितविलक्षणविषयता तन्निरूपिताधेयत्वसंबन्धाच्छिन्न-प्रकारत्वान्यप्रकारताप्रयोजकविषयताया एव प्रतियोगितात्वात् । सा चाभावनिष्ठनिषेधत्व-रूपधर्मावच्छिन्नाभावनिष्ठमुख्यविशेष्यता प्रतियोग्यधिकरणनिष्ठप्रकारतानिरूपिता नञुल्लेख-प्रयोजिका । उक्तानुमित्युपनीतभानविषयतायां तूक्तप्रयोज्यत्वं नास्ति । अभावादिशब्दो-ल्लेखकप्रतीतावभावस्य विधित्वरूपरूपान्तरेण भानात् । अत एवोक्तं तत्त्वसङ्ख्यानटीकायां ‘स्वरूपेण हि भावाभावौ विधिनिषेधात्मानौ । रूपान्तरेण तु निषेधविधिरूपौ । तत्रापातजायां संविदि स्वरूपमेवावभासते । द्वितीयादिप्रतीतौ रूपान्तरम् । तथा हि प्रतीतिः । घटोऽस्ति, स न शुक्लः । नास्ति घटः, अस्त्यत्र घटाभाव इति’ इति । अतीन्द्रियाभावप्रतियोगिन्यपि नञ्पदाधीनशाब्दप्रतीतीयाभावविषयतानिरूपितोक्तप्रकारता-प्रयोजकीभूता या प्रतियोगिवाचकपदशक्तिज्ञानीयप्रतियोगिविषयता तस्या एव प्रतियोगिता-रूपत्वान्न तस्या अप्यसङ्ग्रहः । प्रयोजकत्वं च स्वरूपसम्बन्धविशेषः । एतज्ज्ञानेऽस्य विषयत्वादभावांशे अस्य प्रकारत्वमिति प्रतीतिसिद्धः ।
यद्वोक्तप्रकारतासमानाधिकरणविषयतैव प्रतियोगितास्तु । तस्याः स्वरूपपरिचयायैवा-भावज्ञानोपयोगिज्ञानीयत्वमुक्तम् । प्रतियोगिनोऽभावांशे तस्या एव संसर्गत्वं स्वीक्रियते । यदि चाभेदस्य संसर्गतानङ्गीकर्तृनये नीलो घट इत्यादिबुद्धौ नीलादीनां सम्बन्धानवच्छिन्न-विशेषणतावत्प्रतियोगिनोऽभावांशे संसर्गानवच्छिन्नैव प्रकारता स्वीक्रियते तदा तस्याः संसर्गत्वं मास्त्वेव । परन्तु प्रतियोगिपदप्रवृत्तिनिमित्तत्वमेव । प्रतियोगितायाः स्वरूपसम्बन्धत्वाङ्गी-कारेऽपि प्रतियोगिस्वरूपभूतविषयत्वाभिन्नत्वेन प्रतियोगितायाः विषयतारूपत्वं दुष्परिहरमेव । परन्तु प्रतियोगितास्वरूपाखण्डधर्मान्तरकल्पनमधिकम् । यद्यपि मन्मतेऽपि तादृशविषयतायां प्रतियोगितात्वरूपधर्माङ्गीकारे न काचित्क्षतिस्तथापि प्रयोजनाभावादेव तदभावः ।
अप्रामाणिकप्रतियोगिकात्यन्ताभावनियमवादिनस्तु यत्र भूतले घटस्य सर्वथा न सम्बन्धस्तद्भूतले घटो नास्तीत्यादिवाक्यं तद्भूतलवृत्तित्वविशिष्टघटप्रतियोगिकात्यन्ताभावं बोधयति ‘न त्वेतद्भूतले घटाभावः’ इति तदा तद्वाक्याभिलाप्यं प्रत्यक्षमपि तादृशाकारमेव । भूतलवृत्तित्वस्य तज्ज्ञानेऽभावांशेऽभानेऽपि क्षतिविरहात् । प्रत्यक्षस्थले घटस्मरणोत्तरं भूतल-वृत्तित्वेन घटस्य भानानन्तरं विशिष्टस्यासत एवाभावांशे भानम् । न च कारणीभूतज्ञानस्या-नाहार्यत्वे तादृशज्ञानविषयप्रतियोगिकनिषेधभानानुपपत्तिः । एतन्मते तादृशज्ञानस्यात्रैव विरोधित्वात् । अन्यथा भूतले घट इति वाक्यादिना निश्चितवतोऽपि तादृशाभावबुद्धि-प्रसङ्गात् । कारणीभूतज्ञानस्याऽहार्यत्वे तत्र बाधग्रहापेक्षा तत्रापि कारणतया पुनराहार्य-ग्रहान्तरापेक्षेत्यनवस्थैवेति वाच्यम् । ‘भूतलवृत्तिर्घटः’ इति रूपस्य कारणीभूतज्ञानस्य तत्र सत्त्वानवगाहितया प्रबिन्धकत्वाभावात् । सत्त्वावगाहिधिय एव प्रतिबन्धकत्वात्प्रतिबध्य-त्वाच्च । तस्याऽहार्यत्वाभावेन बाधग्रहान्तरानपेक्षकतया अनवस्थाया अभावाच्च ।
ननु सत्त्वानवगाहिज्ञानं भ्रमः प्रमा वा । प्रमैवेति ब्रूमः । न च तदभाववति तत्प्रकारकस्य कथं प्रमात्वमुच्यत इति वाच्यम् । स्वनिश्चिताभावकप्रतिवादिवाक्यार्थं ज्ञात्वा अनुवादकस्य भ्रान्तत्वेन प्रेक्षावद्व्यवहृत्यगोचरतया तत्र सत्त्वावगाहितया विधिरूपत्वेन व्यवह्रियमाणज्ञानस्यैव १भ्रमत्वाङ्गीकारात् । अत एवोक्तमाचार्यैः । ‘असतः सत्त्वेन प्रतीतिः सतोऽसत्त्वेन प्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वात्’ इति । न चानुवादस्थलेऽनुवाद-कर्तृज्ञानस्याऽहार्यभ्रमत्वात्तस्य स्वबुद्धिपूर्वं जातत्वात्तमादाय न तस्य भ्रान्तत्वव्यवहार-गोचरतेति वाच्यम् । बुद्धिपूर्वं स्वाङ्गविकृतिकर्तरि विकृताङ्ग इति व्यवहारगोचरत्वाद्बुद्धि-पूर्वकभ्रमसम्पादकत्वे सुतरां भ्रान्तव्यवहारगोचरत्वस्य दुर्वारत्वात् । निर्दोषत्वेन प्रमितेषु योग्यादिष्वनुवादकत्वदर्शनेन तन्निष्ठज्ञानस्य दोषाजन्यत्वेन भ्रमत्वानुपपत्तेः ।
अत एव तत्र तज्ज्ञानप्रयोजकेच्छाया एव दोषत्वमिति निरस्तम् । भ्रमस्य तत्कारण-दोषस्य च तत्र तत्र भ्रान्तत्वादिव्यवहाररूपप्रमाणं विना कल्पकाभावात् । अन्यथा तत्पुरुष-निष्ठतत्कालीनानन्तवायुसंयोगादिव्यक्तीनां समानाधिकरणतया दोषविधया कारणत्वस्य कल्पनाया विनिगमनाविरहादापत्तिरिति गौरवापत्तेः । न च तज्ज्ञानजनकत्वेन क्लृप्तेच्छाया एव दोषत्वं कल्प्यते । न तु वायुसंयोगस्य । तस्य जनकत्वस्याक्लृप्तत्वादिति वाच्यम् । इच्छाया दोषविधया विलक्षणकारणताया अक्लृप्ततया विनिगमकाभावस्य दृढत्वात् । तज्ज्ञानकारणत्वेन क्लृप्ततत्क्षणतददृष्टतत्सन्निकर्षानादाय विनिगमकाभावस्य दुर्वारत्वाच्च । दोषाजन्यत्वेऽपि तस्य भ्रमत्वाङ्गीकारे तत्पारिभाषिकं स्यात् ।
न च प्रमात्वमपि कथं अर्थाव्यवस्थापकत्वादिति वाच्यम् । सत्त्वावगाहिप्रमाया एवार्थ-निश्चायकत्वेन सत्त्वानवगाहितयाऽर्थाव्यवस्थापकत्वेऽपि भ्रमभिन्नत्वमात्रेण परेषां निर्विकल्प-कस्येव प्रमात्वोपपत्तेः । न च ‘यथार्थज्ञानं प्रमा’ इति तल्लक्षणात् । अस्य चायथार्थत्वात्कथं प्रमात्वम् । भ्रमभिन्नत्वमात्रेण प्रमात्वोपचारेऽपि संशयविपर्ययप्रमातिरिक्तज्ञानाङ्गीकार-प्राप्त्याऽपसिद्धान्तः स्यादिति वाच्यम् । यथार्थत्वं प्रमायां नासदविषयकत्वरूपम् । ‘शशविषाणमसत्’ इति प्रमायामव्याप्तेः । किन्तु भ्रमभिन्नत्वमेव । विभाजकवाक्यस्थ-प्रमादिपदस्यापि तत्परत्वेनापसिद्धान्ताभावात् । न च सत्त्वासत्त्वान्यतरावगाहित्वस्य प्रतीतौ नित्यत्वेन तदौदासीन्येन प्रतीत्यनुपपत्या कथमस्याः प्रतीतेः सम्भव इति वाच्यम् । प्रामाण्यस्वतस्त्वस्येव तस्यौत्सर्गिकतया तस्मिन्नसत्त्वग्रहसामग्य्राः कार्यकालवृत्तितया विरोधित्वाङ्गीकारेण द्वितीयक्षण एव निषेधप्रतियोगित्वरूपासत्त्वबुद्ध्युत्पत्त्योक्तज्ञानाधि-करणक्षणस्य सत्त्वग्रहसामग्य्रनधिकरणत्वात् । न च सत्त्वग्रहाभावेऽपि उक्तज्ञानोत्पत्तिक्षण एव तत्रासत्त्वभानापत्तिः । तस्य सत्त्ववत् ज्ञानोत्पादकसामग्रीमात्रग्राह्यत्वाभावेनासत्त्वग्राहकसामग्रीं विना प्रथमतस्तद्ग्रहायोगात् । न चोक्तज्ञानस्य भ्रमत्वाभावे आरोपकारणत्ववचनं योगि-प्रश्नकारणीभूतसंशयस्याऽहार्यत्ववचनं च प्राचां विरुद्ध्यते । तस्य भ्रमविशेषत्वादिति वाच्यम् । सत्त्वानवगाहित्वेन विपरीतज्ञानाप्रतिबध्यतया च तदुक्तिसङ्गतेः ।
न च ‘शशशृृङ्गे सत्त्वं नास्ति’ इति धीः शशशृृङ्गे सत्त्वज्ञानपूर्विकैव वाच्या । एवं ‘घटे असत्त्वं नास्ति’ इति धीर्घटेऽसत्त्वज्ञानपूर्वकैव वाच्या । तथा च तादृशनिषेधज्ञानवतां भ्रान्त-व्यवहारगोचरत्वापत्तिः । असतः शशविषाणादेः सत्त्वेन सतो घटादेरसत्त्वेन च प्रतीतेः सत्त्वात् । तत्र भासमानसत्त्वांशेऽपि सत्त्वावगाहित्वमिति भ्रमत्वपरिष्कारे ‘शुक्तिरजतसत्त्वे सत्त्वं नास्ति’ इति ज्ञानकारणीभूतज्ञानमादाय पूर्वोक्त एव दोषः । तत्र भासमानसत्त्वेऽपि सत्त्वान्तरावगाहित्वं निवेश्य परिष्कारे तत्र तत्र सत्त्वनिषेधज्ञानकारणीभूतज्ञानमादायोक्त-दोषवारणायोत्तरत्रापि तथा तथा परिष्कारावश्यकत्वे भ्रमेऽनवस्थितविषयताकल्पनापत्ति-स्तद्घटितभ्रमत्वस्य दुर्ग्रहत्वापत्तिश्चेति वाच्यम् । यतो घटादौ यत्र सत्त्वं भासते तत्र सत्त्वं स्वांशे स्वरूपतो भासते । तदेव ज्ञानं घटांशे सत्त्वांशे चासत्त्वावगाहिनीं धियं विरुणद्धि । घटस्य सत्त्वं तत्सत्त्वस्यापि सत्त्वं तस्यापि सत्त्वमित्यादिनानाविधव्यवहारं जनयति च । एवं ‘शशविषाणमसत्’ इति प्रत्ययेऽप्यसत्त्वे सत्त्वं प्रतीयत एव । ज्ञानसामान्यसामग्य्राः सत्त्वाव-गाहिताया अपवादाभावे नियतत्वात् । तत्र भासमानसत्त्वे स्वयमेव सत्त्वं स्वरूपतो भासते । अतस्तत्र नासत्त्वसंशयाद्यापत्तिः । घटाभावस्य स्वात्मकघटाभावाधारत्वज्ञानमात्रस्य ‘घटा-भावे घटाभावः’ ‘घटाभाववृत्तिघटभावे घटो नास्ति’ इत्यादिव्यवहारनिर्वाहकत्ववत् त्रिकाल-बाध्यत्वसामान्याभावरूपसत्त्वस्य स्वांशेऽवगाहिज्ञानस्य सत्त्वे सत्त्वं तत्सत्त्वे सत्त्वमित्यादि-व्यवहारनिर्वाहकत्वमुपपन्नम् । एवं यथा द्रव्यादिषट्कान्योन्याभावस्याभावत्वरूपतामते ‘घटो नास्ति घटाभावः’ इत्यादिप्रत्ययेषु अभावे भासमानं षट्कान्योन्याभाव१रूपभावत्वं स्वरूपत एव भासत इत्यभ्युपेयते । अन्यथा तादृशान्योन्याभाववत्त्वेन भाने तच्छरीरे पुनरभावत्वस्य निविष्टतयाऽनवस्थितविषयताप्रसङ्गादभावत्वेनाभावस्य दुर्ग्रहत्वापत्तेश्च । तथा बाध्यत्वाभाव-रूपसत्त्वस्य स्वांशे स्वरूपतो भानमविरुद्धम् । इत्थञ्च भ्रमलक्षणेऽपि ‘असतः सत्त्वाव-गाहित्वम्’ इत्यत्रानवच्छिन्नस्वविषयतानिरूपितसत्त्वविषयतानिरूपितासन्निष्ठविषयतायाः ‘सतो असत्त्वेनावगाहित्वम्’ इत्यनेन स्वरूपतः स्वविषयतानिरूपितसत्त्वविषयतानिरूपिता याऽसत्त्वविषयता तद्रूपप्रकारतानिरूपितसन्निष्ठविषयतायाश्च निवेशः । न च ‘इदं रजतम्’ इति भ्रमस्थानेऽसद्रजते भासमानसत्त्वस्याप्यसत्त्वेन तस्य निःस्वरूपत्वेन कथं स्वांशे स्वरूपतो भानमिति वाच्यम् । शुक्त्याद्यधिष्ठसत्त्वभासकसामग्य्राः सत्त्वेन तत्संसर्गमात्रस्य भ्रमे रजतादावारोपिततत्त्वाङ्गीकारेण सत्त्वस्यासत्त्वाभावात् । यद्वा रजताद्यसत्त्वेऽपि भ्रम-सामग्रीबलाद्रजतमित्यादिव्यवहारनिर्वाहिका विषयिता भ्रमे स्वीक्रियते यथा तथा तद्बलादेव रजतं सत् तत्सत्वं सदित्यादिव्यवहारनिर्वाहिका विषयिता प्रमायामिव स्वीक्रियते । भ्रमलक्षणेऽपि सैव निविष्टेति न काप्यनुपपत्तिः । अधिकमुत्तरत्र वक्ष्यते ।
एवं च ‘शुक्तिरजते सत्त्वं नास्ति’ ‘घटेऽसत्त्वं नास्ति’ इति निषेधकारणीभूतोक्त-प्रतियोग्यारोपरूपज्ञाने निरवच्छिन्नसत्त्वविषयत्वास्वीकारान्न तस्य भ्रमत्वापत्तिः । तज्ज्ञानस्य तादृशविषयत्वाभावे नियामकन्तु तादृशविषयिताशालिबुद्धिं प्रति तद्वस्तुनिषेधबोधक-सामग्य्रादीनां यथासम्भवं प्रतिबन्धकत्वं पूर्वोक्तमेवोह्यं सूक्ष्मदर्शिभिरिति दिक् ।
एवञ्च ‘भूतले न घटः’ इत्यत्र प्रथमप्रत्यक्षे शाब्दे च सर्वत्र ‘भूतलवृत्तिघटप्रतियोगिकोऽ-त्यन्ताभावः’ इत्येवाकारः । अनन्तरञ्च ‘घटाभाववद्भूतलम्’ इति द्वितीयं ज्ञानम् । तत्र घटादिपदानां भूतलवृत्तिघटादौ लक्षणाया निरूढायाः स्वीकारात् ‘भूतलवृत्तिघटाभाव-वद्भूतलम्’ इति शाब्दाकारः । प्रत्यक्षं ‘भूतलवृत्तिघटाभाववद्भूतलम्’ इत्याकारकमेव । ‘भूतले घटो नास्ति’ इत्यादौ भूतलवृत्तिघटस्य भूतलाधिकरणकघटकर्तृकसत्ताया वा अभाव एव प्रथमं ज्ञायते । ‘अस्त्यत्र घटाभावः’ इत्यत्र तु घटतत्कर्तृकसत्तयोरत्यन्ताभेदात् तादृश-घटाभावत्वेन बोध्यते ।
यत्र भूतले घट उत्पत्स्यते नष्टो वा तत्र भूतले घटो नास्तीति प्रतीतिः प्रात्यक्षिकी भूतलसंसृष्टघटप्रतियोगिकं ध्वंसं प्रागभावं तत्संसर्गप्रतियोगिकं ध्वंसं प्रागभावञ्चावगाहते । संसर्गप्रागभावे ध्वंसे वा संसृष्टप्रतियोगिकत्वं स्वीक्रियते । विशिष्टस्योत्पत्तिनाशाङ्गीकारपक्षे तत्प्रतियोगिकप्रागभावध्वंसयोरावश्यकतया पृथक् तत्स्वीकारे गौरवात् । नीलोपहितघटयो-स्तादात्म्यार्थं भेदाभेदस्वीकारनये नीलप्रतियोगिकभेद एव नीलोपहितप्रतियोगिकत्ववदुक्तस्थले स्वीकारे बाधकाभावाच्च । इत्थञ्च ‘अत्र भूतले न घटः’ इत्यत्र भूतलसंसृष्टत्वविशिष्टघट-प्रतियोगिकप्रागभावध्वंसयोर्भानेऽपि न क्षतिः ।
‘भूतले घटो नास्ति’ इत्यादौ तु भूतलाधिकरणकघटवृत्तिसत्तायाः संसर्गरूपाया ध्वंसः प्रागभावो वा भासते । आख्यातार्थस्य नञर्थप्रकारतावच्छेदकतया भानाभ्युपगमे तु तादृशास्तित्वविशिष्टघटस्यैव तौ भासेते ।
‘इदानीमेतद्भूतले घटो नास्ति’ इत्यत्र तु एतत्कालावच्छिन्नैतद्भूतलसंसृष्टत्वविशिष्ट-घटस्यासत्त्वेनाप्रामाणिकप्रतियोगिकात्यन्ताभाव एव भासते । एतन्मते च नञुल्लेखप्रयोजक-विशेष्यतानिरूपितप्रकारताप्रयोजकविषयत्वं तत्समानाधिकरणविषयत्वमात्रं वा प्रतियोगिता । न त्वाधेयतासंसर्गावच्छिन्नप्रकारत्वाप्रयोजकत्वादिकं देयम् । अधिकरणस्य प्रथमप्रतीताव-भावांशे भानानङ्गीकारेण तत्रातिव्याप्तेरभावात् । नियमेन ‘घटाभाववद्भूतलम्’ इति द्वितीयप्रतीत्यङ्गीकारेण तदधिकरणे तादृशसंशयानुदयादिकं सर्वमुपपद्यते ।
केचित्तु ‘भूतले घटो नास्ति’ ‘भूतले न घटः’ इत्यादिप्रत्यक्षशाब्दबोधादिकं पूर्वमतोक्त-रीत्यैव । परन्तु कारणीभूतज्ञानन्तु ‘भूतले घटोऽस्ति’ ‘भूतले घटः’ इत्याकारकमारोपरूपं नापेक्ष्यते । मूलकृट्टीकाकृच्छरणैस्तत्कारणतायाः कुत्राप्यनुक्तत्वान्निर्युक्तिकत्वाच्च । क्वचि-ट्टिप्पण्यादौ तदुक्तिर्मतान्तरानुसारेणानिर्भरेणैव । विशृृङ्खलघटभूतलाद्युपस्थित्यैव ‘भूतल-वृत्तिघटप्रतियोगिकाभावः’ इति ‘भूतलाधिकरणकघटकर्तृकसत्ताभावः’ इत्याद्याकारकज्ञानं जायते । तावताऽप्यप्रामाणिकस्य विशिष्टस्याभावांशे भानादभावस्याप्रामाणिक प्रतियोगि-कत्वोपपत्तिः ।
नन्वेवं तर्ह्यभावज्ञान एवाप्रामाणिकभानेन कारणीभूतज्ञानेऽभानेन कथमत्रोक्तं प्रतियोगित्वलक्षणं तत्र सम्भवतीति चेन्न । निषेधत्वावगाहिज्ञाने तदतिरिक्तधर्मान्तर-भानस्यानुभवविरुद्धत्वेनाभावांशे नञुल्लेखप्रतीतौ सत्त्वादेरभानेन तत्र सत्त्वाधिकरणविशेष-वृत्तित्वादिसन्देहानुत्पत्तेरनुभवसिद्धाया निर्वाहाय तद्द्वितीयक्षणे सत्त्वाद्यवगाहिप्रतीत्यन्तरं नियमेनाङ्गीकर्तव्यम् । तथा च ‘भूतले घटो नास्ति’ इति ज्ञानोत्तरं नियमेन ज्ञानस्य ‘भूतलवृत्तिघटाभाववद्भूतलम्’ इत्याकारकस्य द्वितीयस्याभावज्ञानस्याभावज्ञानपदेन धर्तव्य-तया तदुपयुक्तं यत् ‘भूतले घटो नास्ति’ इति ज्ञानं तद्विषयताया विशिष्टाप्रामाणिके सत्त्वात्तत्र लक्षणोपपत्तिः । ‘अभावज्ञानोपयोगिज्ञानविषयत्वम्’ इत्यत्राभावज्ञानोपयोगीत्येतत् द्वितीयज्ञानोपयोगिप्रथमज्ञानस्य परिचायकम् । तथा च नञुल्लेखप्रयोजकविषयत्वमेव प्रतियोगित्वम् । तत्र पूर्वज्ञानीयां नञुल्लेखप्रयोजकीभूतनिषेधत्वविषयतानिरूपितामभाव-विषयतामादायातिव्याप्तिवारणाय तद्भिन्नत्वार्थकं अभावनिष्ठविशेष्यतानिरूपितप्रकारतारूप-त्वार्थकं वा विशेषपदमपि सार्थकम् । तादृशविषयतारूपप्रतियोगितायाः ‘संसर्गत्वं वा प्रतियोगिपदप्रवृत्तिनिमित्तत्वं वेति सर्वाऽपि पूर्वोक्तरीतिरनुसन्धेया । एतेन प्राचां प्रामाणिके-ष्वपि घटादिषु शास्त्रे बहुशः प्रतियोगित्वव्यवहारोऽपि निर्व्यलीकः । ‘भूतले घटो नास्ति’ इति प्राथमिकज्ञानजनकस्य ‘घटः’ इति विशृृङ्खलज्ञानस्य विषयतारूपामुख्यप्रतियोगिता-मादाय भ्रातृसुते सुतत्वव्यवहारस्येवामुख्यस्य तादृशव्यवहारस्य सम्भवात् भूतलादौ तादृशव्यवहारस्य वारणाय विशेषपदं तदन्यत्वाद्यर्थकम् । न च भूतलादौ गौणव्यवहारकरणे बीजाभाव इति वाच्यम् । तदिच्छाया एव नियामकत्वात् । आरोपे सतीति न्यायेनोक्त-शङ्काया एवायोगाच्च ।
एवञ्च ‘शुक्तिरजते सत्त्वं नास्ति’ ‘घटे असत्त्वं नास्ति’ इति ज्ञानोत्पत्तये ‘शुक्तिरजते सत्त्वम्’ ‘घटे असत्त्वम्’ इति ज्ञानस्य पूर्वमनपेक्षणात् न तज्ज्ञानवतो भ्रान्तत्वमस्माक-मापद्यते । निषेधांशेऽप्रकारतया सतोऽसत्त्वावगाहित्वस्यासतः सत्त्वावगाहित्वस्यैव भ्रान्तित्व-रूपत्वात् ।
न च भूतलघटादीनां विशृृङ्खलज्ञानेन भूतलवृत्तित्वविशिष्टघटत्वावच्छिन्नप्रतियोगिताका-भावबुद्धिः कथमुपपद्यताम् । प्रतीयोगितावच्छेदकविशिष्टप्रतियोगिज्ञानरूपकारणाभावात् । अन्यथा ‘वह्निर्महानसीयश्च’ इति विशृृङ्खलज्ञानोत्तरं ‘महानसीयवह्निर्नास्ति’ इति घटनिर्विकल्पकोत्तरं ‘घटो नास्ति’ इति धियश्चापत्तेरिति वाच्यम् ।
वक्ष्यमाणरीत्या प्रतियोगितावच्छेदकत्वादिप्रक्रियाया अप्रामाणिकतयोक्तनियमासिद्धेः । ‘वह्निर्न महानसीयः’ इति निश्चयवतामपि ‘महानसीयवह्निर्नास्त्येव’ इत्यादिप्रतीतेरपलपितु-मशक्यतयाऽभावबुद्धौ प्रतियोग्यंशे साक्षात्परम्परया भासमानधर्मपुरस्कारेण प्रतियोगि-ज्ञानस्यानावश्यकत्वम् । ‘वह्निर्महानसीयश्च’ इति विशृृङ्खलज्ञानोत्तरमसंसर्गाग्रहवतां ‘वह्नि-र्महानसीयः’ इति ज्ञानोदयद्वारा ‘महानसीयवह्निर्नास्ति’ इति बुद्धिर्जायते तृतीयक्षण इति त्वया स्वीक्रियते । तत्र द्वितीयक्षण एव ‘महानसीयवह्निर्नास्ति’ इति बुद्धिर्जायत इति मया स्वीक्रियते । क्षणविलम्बस्य शपथनिर्णेयत्वात्तादृशज्ञानान्तराकल्पनाप्रयुक्तलाघवाच्च । यत्र तु ‘महानसीयवह्निः’ इति विशृृङ्खलज्ञानोत्तरं १‘महानसीयवह्निः’ इति ज्ञानसम्भवेऽपि अनुभवसिद्धाया ‘महानसीयवह्निर्नास्ति’ इति बुद्ध्यनुत्पत्तेरुपपत्तिर्यद्बलेन भवतोपपाद्यते मयाऽपि तेनैवोपपाद्यते । अनयैव रीत्या घटनिर्विकल्पकोत्तरं घटो नास्तीति बुद्ध्यापत्तिरपि निरस्ता । सिद्धान्ते निर्विकल्पकाभावाच्चेत्याहुः ।
ननु ‘शशविषाणं नास्ति’ इति प्रतीत्याऽसत्प्रतियोगिकाभाववत् ‘अत्र भूतले घटो नास्ति’ इति प्रतीत्या प्रामाणिकघटप्रतियोगिकोऽभावः भूतलवृत्तित्वेन प्रतीयत इति कुतो न स्वीक्रियते । तत्र तत्र विद्यमानटीकावाक्यानि अप्रामाणिकप्रतियोगिकत्वनियमवत्प्रतीय-मानानि कथञ्चित् योजयितुं शक्यानीति न तद्विरोधोऽपि । न चात्यन्ताभावपदेनाभावे आत्यन्तिकत्वं प्रतीयते । आत्यन्तिकत्वञ्च देशकालपरिच्छेदराहित्यमेव । ततश्चात्यन्ता-भावस्य सत्प्रतियोगिकत्वेऽभावस्य प्रतियोगिना सह विरोधात्प्रतियोग्यधिकरणदेशावृत्तित्व-प्राप्त्या देशपरिच्छेदस्य प्राप्त्या आत्यन्तिकत्वं भज्यत इति असत्प्रतियोगिकत्वनियमः स्वीक्रियत इति वाच्यम् । दोषवत्स्वपि जीवेषु भगवतीवाप्रामाणिकदोषात्यन्ताभावसत्त्वेन निर्दोषत्वलक्षणस्यातिव्याप्तिमाशङ्क्य ‘प्रतियोग्यारोपे यत्प्रधानं तेनापि साकमभावस्य विरोधात्’ इत्यादिग्रन्थेनाप्रामाणिकप्रतियोगिकस्याप्यभावस्य देशपरिच्छेदमङ्गीकृत्यैव वंश-पल्ल्याचार्यैरतिव्याप्तेः परिहृतत्वेन आचार्यैरपि ‘प्राक्प्रध्वंससदात्वेन’ इति ‘पूर्वापरसदात्वेन’ इति चात्यन्ताभावस्य कालावधिराहित्यमात्रस्योक्तत्वेन देशपरिच्छेदराहित्यस्याऽत्यन्तिक-पदार्थत्वाभावेन तन्निर्वाहायासत्प्रतियोगिकत्वनियमाङ्गीकारायोगात् । युक्त्यन्तरस्याभावादिति चेन्न । यतो अभावानां स्वप्रतियोगिविरोधस्तावत्सम्मतः । स च नैकाधिकरणावृत्तित्वरूपः । प्रागभावध्वंसयोरभावात् । किन्त्वेककालावृत्तित्वम् । इत्थञ्चात्यन्ताभावस्यापि तदेव स्वीकर्तव्यम् । वैषम्ये बीजाभावात् ।
तथा च प्रयोगः । अत्यन्ताभावः स्वनिष्ठनञुल्लेखप्रयोजकविषयतानिरूपितप्रकारताश्रय-विशिष्टाधिकरणकालावृत्तिरभावत्वात् । प्रागभावादिवदिति । अत्यन्ताभावत्वञ्च सार्व-कालिकाभावत्वम् । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्या । एवञ्च तादृश-रूपावच्छिन्नपक्षे तादृशप्रकारतारूपप्रतियोगिताश्रयाधिकरणकालावृत्तित्वसिद्धौ तादृशविशिष्ट-रूपप्रतियोगिनः कालासम्बद्धत्वमेव सिद्ध्यतीति सर्वात्यन्ताभावानामप्रामाणिकप्रतियोगिकत्व नियमः सिद्ध्यति । घटात्यन्ताभावः पटात्यन्ताभावो नेति नञुल्लेखप्रयोजकभेदत्वरूपधर्मा-वच्छिन्नविशेष्यतानिरूपितप्रकारताश्रयीभूतपटात्यन्ताभावरूपविशिष्टरूपप्रतियोग्यधिकरणकालवृत्तित्वमादाय बाधस्य तद्रीत्यैव दृष्टान्ते साध्यवैकल्यस्य चापत्तिवारणाय नास्तीत्युल्लेखप्रयोजकविषयतेत्येव निवेशः । सा च भेदत्वातिरिक्तेन प्रागभावत्वादिविलक्षणेन परमते संसर्गाभावत्व-पदव्यवह्रियमाणेन धर्मेणैवावच्छिन्ना भवतीति न तादृशभेदत्वावच्छिन्नविषयतामादायोक्तदोषः। न च हेतोरप्रयोजकता । अभावत्वसाम्ये प्रमाणं विनात्यन्ताभावविशेषस्य निरुक्तप्रतियोगिना दैशिकविरोधस्यान्ययोः शशविषाणाद्यत्यन्ताभावानाञ्च कालिकविरोधस्य कल्पने गौरव-रूपतर्कस्यैव बाधकत्वात् ।
अपि चात्यन्ताभावस्य देशिकविरोधस्यावश्यकत्वे प्रतियोग्यधिकरणकाले प्रतियोग्यधि-करणदेशावृत्तित्वस्यैकस्यैव सामयिकात्यन्ताभावस्य स्वीकरणेनैव घटोत्पत्तेः पूर्वं परतश्च घटो नास्तीत्यादिप्रतीतिप्रामाण्याद्युपपत्तौ ध्वंसप्रागभावाङ्गीकारस्यैव निर्बीजत्वापातः । न च ‘अत्र घटो भविष्यति’ ‘अत्र घटो ध्वस्तः’ इति प्रतीतिबलात्तदुभयाङ्गीकारः । ‘एतद्देशवृत्तित्व-विशिष्टघट एतदुत्तरकालसम्बन्धी’ इति भविष्यतीति प्रत्ययेनावगाहनात् । अत्र घटो ध्वस्त इति प्रत्ययेन तु ‘एतद्भूतलवृत्तिघट एतदुत्तरकालासम्बन्धी’ इत्यवगाहनात् । न चोत्तर-त्वादिकमपि प्रागभावध्वंसानङ्गीकारे र्निवक्तुमशक्यम् । पूर्वत्वोत्तरत्वयोरखण्डयोः काले स्वतो विद्यमानयोः किञ्चिन्निरूपितयोः सैद्धान्तिकशिरोमणिभिर्यादवाचार्यैस्तत्वसङ्ख्यानटिप्पण्या-मुक्तत्वेन तयोः प्रागभावध्वंसाघटितत्वात् । न चोत्पन्नस्य पुनरुत्पत्त्यादिपरिहाराय प्राग-भावाङ्गीकार इति वाच्यम् । उत्पत्तिर्हि तत्क्षणपूर्वक्षणासम्बद्धस्य क्षणसम्बन्धः । तत्र सामग्री क्षणसम्बन्धमात्रस्य निर्वाहिका । न तु तत्पूर्वक्षणासम्बन्धस्यापि सामग्री । पूर्वमपि स्वतो विद्यमानस्य सामग्रीनियम्यत्वाभावात् । एवञ्च दण्डादिरूपा घटसामग्री घटस्य क्षणसम्बन्ध-मापादयेत् । न तु विशिष्टक्षणसम्बन्धरूपोत्पत्तिमपीति कुतः प्रागभावाङ्गीकारः ।
न च तद्घटध्वंसोत्तरं तद्दण्डादिघटितसामग्रीबलात्तद्घटस्य क्षणसम्बन्धापत्तिवारणाय तत्प्रागभावस्य कारणत्वमावश्यकम् इति प्रागभावसिद्धिरिति वाच्यम् । प्रागभावस्वीकारेऽपि तद्दण्डादिरूपसामग्रीबलात्क्षणचतुष्टयानन्तरमुत्पत्स्यमानघटस्येदानीमेवापत्तिपरिहाराय तत्क्षणस्य तत्क्रियाया वा कस्य चिदननुगतस्य कारणस्यावश्यं सामग्रीकोटिनिविष्टतया तद्बलादेवोक्तापत्तिवारणेन प्रागभावासिद्धिः । न च त्यज्यतां प्रागभावो ध्वंसोऽपि । सामयिकाभाव एव स्वीक्रियतां प्रामाणिकप्रतियोगिकः । किमर्थं प्रागभावादीनां पृथक्सिद्ध्यर्थमप्रामाणिकप्रतियोगिकत्वाङ्गीकारोऽतिलाघवादिति वाच्यम् । सिद्धान्तिना तु मैवं वक्तुं शक्यम् । अपसिद्धान्तादिप्रसङ्गात् । तटस्थशङ्कायास्त्विदमुत्तरम् । लाघवमात्रं नार्थव्यवस्थापकम् । तथात्वे एकस्मिन्नेव गुणे रूपत्वरसत्वादिकं परिकल्प्य रूपत्वेन चक्षुर्ग्राह्यत्वं रसत्वेन रसनाग्राह्यत्वं कल्पनीयं स्यात् । लाघवात् । अपि च जगत्येकमेव नीलादिकं स्यात् । लाघवात् । व्यक्तिनाशे पाके वा तत्सम्बन्धापगमस्य वक्तुं शक्यत्वात् । तथा च सर्वव्यवस्थोच्छेदप्रसङ्गः । ‘कामाच्च नानुमानापेक्षा’ इति सूत्रविरोधश्च स्यात् । अतः
प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः ।।
इति पुरुषोत्तमतन्त्रवचनानुसारेण प्रमाणानां परस्परविप्रतिपत्तौ सत्यां लाघवरूपतर्कादिकं अन्यतरसहकारीभूयार्थव्यवस्थापकम् । प्रकृते च
पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते ।
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।।
इति आचार्योदाहृतभगवत्कृततत्वविवेकवाक्यादिना प्रसिद्धवायुपुराणस्थशाण्डिल्य-तत्वगतवाक्यादिना तत्सहकृतेन ‘नष्टो घटः’ ‘भविष्यति घटः’ इति प्रत्यक्षेण च प्रागभाव-प्रध्वंसात्यन्ताभावानां पृथक्प्रमितानां लाघवमात्रेण नापलापः कर्तुं शक्यः ।
एतेन भेदवदत्यन्ताभावादीनामपि धर्मिस्वरूपत्वं परिकल्प्य सप्रतियोगिकत्वादिव्यवस्था सर्वा वोढुं शक्येति व्यर्थमन्योन्याभावमात्रस्य धर्मिस्वरूपत्वपरिकल्पनमिति कस्यचिद्दूषणम्, एवं दीधितिकारीयं प्रागभावखण्डनञ्चेत्येवमादीन्यपहस्तितानि । अस्माभिः केवलयुक्त्या कस्याप्यर्थस्यानङ्गीकारात् । पूर्वोदाहृततत्वविवेकवायुपुराणवाक्यादिना भेदमात्रस्य वस्तु-स्वरूपत्वावेदकेन
भेदस्तु सर्ववस्तूनां स्वरूपं नैजमव्ययम् ।
इत्यादिना तैत्तिरीयभाष्याद्युदाहृतप्रमाणेन सिद्धार्थे उक्तचोद्यानवकाशात् ।
यस्तूक्तवचनेष्वेव विप्रतिपद्यते तं प्रत्येतत्साधनोपायाभावेऽपि अस्मदङ्गीकारस्योक्त-प्रमाणमूलकस्य क्षत्यभावात् । अन्यथा बौद्धं प्रति तदसिद्धप्रमाणभावेन वेदेन सन्ध्यावन्दन-यज्ञादिकर्तव्यतायाः साधयितुमशक्यत्वात् स्वमतेऽपि तत्परित्यागप्रसङ्गात् । भेदग्रहेऽ-न्योन्याऽश्रयादिपरिहारस्तु धर्मिस्वरूपत्वनिर्भरं विनाऽपि ‘धर्मित्वप्रतियोगित्वतद्भेदा युगपत्’ इत्यनुव्याख्यानसुधायां समयपादे नैयायिकमतप्रदर्शनेन किञ्चेत्यादिना विष्णुतत्वनिर्णयटीका-याञ्च टीकाकारैः प्रदर्शित इति नाद्वैतवादिभिः सह विचारे तन्निर्भरस्योपयोगः । तथा च प्रागभावादीनां त्रयाणामपि प्रतियोगिना सह कालिक एव विरोध उतात्यन्ताभावविशेषस्य दैशिक एवेत्यत्र स्फुटनिर्णायकविशेषप्रमाणाभावाल्लाघवादिसहकृतानुमानाद्यवसर इति ।
अपि च स्वरसतो यादृशशब्दात् यादृशबोधो जायते तदभिलाप्यप्रत्ययस्याप्युत्सर्गत-स्तदाकारत्वं नियतम् । एवञ्च भूतले घटो नास्तीत्यत्र भूतलाधिकरणकसत्तावद्घटाभावो बोध्यत इति तदभिलाप्यप्रतीतेस्तादृशविशिष्टघटप्रतियोगिकाभावो विषयो वाच्यः । यत्र भूतले घटः प्रसिद्धस्तद्घटितविशिष्टप्रतियोगिकः प्रागभावो ध्वंसो वा भवति । न चैवं सति शुद्ध-प्रतियोगिकप्रागभावध्वंसौ न सिद्ध्येतामिति वाच्यम् । यत्र घटस्तत्संसर्गश्चो१भावप्युत्पन्नौ नष्टौ वा तत्र ‘घटस्तत्संसर्गश्च उत्पत्स्यते, भविष्यति, घटस्तत्संसर्गश्च नष्टः’ इत्यादिप्रत्ययान्तरानु-रोधेन २सिद्धविशेषणविशेष्यप्रतियोगिकप्रागभावध्वंसानामेव विशिष्टप्रतियोगिकत्वेन भानमङ्गी-क्रियत इति तस्य शुद्धप्रतियोगिकत्वसिद्धिः । वस्तुतस्तु चैत्रो रूपीति चैत्रत्वविशिष्टे रूपाव-गाहिप्रतीत्यैव शुद्धेऽपि रूपित्वं सिद्ध्यति । अन्यथा शुद्धस्यारूपित्वं स्यात् । एवं विशिष्टे प्रतियोगित्वावगाहिप्रतीत्या शुद्धेऽपि प्रतियोगित्वं विषयीक्रियत एव ।
यद्वा माऽस्तु तद्धर्मविशिष्टे प्रतियोगित्वावगाहित्वम् । तद्धर्मोपलक्षित एव तदवगाहित्व-मस्तु । यत्र विशेष्यांशे तदा भासमानभावप्रतियोगित्वं बाधितं तत्र विशिष्टे तत्र विशेषणी-भूतघटभूतलसंसर्गे वा प्रतियोगित्वं भासते । यत्र भूतले घटः सर्वथा नास्ति तत्र घटो नास्तीति प्रतीतिर्जायते । तत्र तद्भूतलवृत्तिघटस्यासतः प्रतियोगित्वेन भानमिति अत्यन्ता-भावस्य सर्वस्याप्यसत्प्रतियोगिकत्वं सिद्धम् । न च यत्र ‘घटाभाववद्भूतलम्’ इति प्रतीति-र्जायते तत्रैतद्भूतलासंसृष्टस्यैव घटस्य प्रतियोगितया भानात्सत्प्रतियोगिकाभावोऽपि स्वीक्रियतामिति वाच्यम् । यत्रोक्तप्रतीतिः प्रात्यक्षिकी तदा तस्या ‘अत्र भूतले घटो नास्ति’ इति प्राथमिकप्रतीतेरावश्यकतया तत्रोक्तरीत्याऽसत एव प्रतियोगितया भाना-त्तद्विषयीभूतार्थावगाहिन्या द्वितीयप्रतीतेरप्यसत्प्रतियोगिकाभावविषयकत्वावश्यकत्वे घटादि-पदस्याभिलापकवाक्यस्थस्य भूतलवृत्तिघटादौ लक्षणाऽऽश्रयणीया । यत्र ‘घटाभाववदिदम्’ इत्यानुमानिकः प्रत्ययः शाब्दो वा तत्राधिकरणे ‘अत्र घटो नास्ति’ इति प्रत्ययस्य कदा-चित्कस्यचिदपि दुरपह्नवतयोक्तानुमानिकाद्यभावप्रत्ययस्यापि तद्विषयत्वमिति रीत्योपपत्तेः ।
न च ‘भूतले घटो नास्ति’ इति वाक्यात् ‘घटाभावो भूतलाधिकरणकसत्ताश्रयः’ ‘भूतलवृत्तिघटाभावः सत्ताश्रयः’ इति वा बोधः स्वीक्रियत इति तदभिलाप्यप्रतीतेरपि तत्समानविषयकतया घटप्रतियोगिकत्वावगाहितया नासत्प्रतियोगिकत्वसिद्धिरिति वाच्यम् । नञो नियतत्वेन तदुपस्थाप्ये आख्याताद्यर्थस्यान्वयायोगादुक्तरीत्या बोधस्य वक्तुमशक्य-त्वात् । अन्यथा ‘भूतलवृत्तिघटाभावो दृश्यो भवति’ इत्याद्यर्थे उक्तवाक्यप्रयोगवत् ‘भूतले घटो न दृश्यो भवति’ इति ‘भूतले घटो न प्रमेयः’ इत्यादिप्रयोगस्य प्रसङ्गः । ‘भूतले घटौ न स्तः’ ‘भूतले घटा न सन्ति’ इत्यादौ आख्यातस्य द्विवचनबहुवचनानुपपत्तेश्च । अभाव-स्यैकत्वेन द्वित्वाद्यनुपपत्तेः । न हि तत्र अभावद्वयं त्रयं वा बोध्यते । तथात्वाङ्गीकारे एकद्विघटाधिकरणे तादृशप्रत्ययानुदयापत्तेः । न च तर्हि ‘घटकर्तृकसत्ताभावो भूतलवृत्तिः’ इति वा ‘भूतलवृत्त्यभावीयप्रतियोगी घटः सत्ताश्रयः’ इति वा बोधः स्वीक्रियताम् । तावताऽपि प्रामाणिकप्रतियोगिकत्वाक्षतेरिति वाच्यम् । आद्यकल्पे भूतलपदोत्तरं सप्तम्यनु-पपत्तेः । तस्याः धात्वर्थनिरूपिताधिकरणार्थकत्व एवानुशिष्टत्वात् । अतः सत्तायामेवा-न्वयस्य वक्तव्यतया भूतलाधिकरणकघटकर्तृकसत्ताभावबोध एवाङ्गीकार्य इति सिद्धम-प्रामाणिकप्रतियोगिकाभावविषयत्वम् । द्वितीयकल्पस्त्वयुक्त एव । तथात्वे ‘सर्वत्र शशविषाणं नास्ति’ इति १वाक्यादस्याप्रामाण्यप्रसङ्गात् । शशविषाणे सत्ताया बाधितत्वात् । नैयायिक-मतेऽपि ‘भूतले गगनं नास्ति’ इति वाक्यस्याप्रामाण्यप्रसङ्गात् । ‘ह्रदवृत्त्यभावप्रतियोगी वह्निः पर्वतवृत्तिः’ इति बोधतात्पर्येण ‘ह्रदे पर्वते वह्निर्नास्ति’ इति प्रयोगप्रसङ्गाच्च । तस्मादुक्त-रीत्यैव बोधो युक्तः ।
किञ्च ‘भूतले घटोऽस्ति किम्’ इति पृष्टे ‘न’ इत्युत्तरयति । तत्र किं पदातिरिक्त-प्रश्नभागार्थान्वितार्थबोधकत्वस्योत्तरवाक्ये क्लृप्ततया तद्वाक्यबोध्यविशिष्टप्रतियोगिकाभाव-बोधस्य तद्वाक्ये क्लृप्तत्वादन्यत्रापि तथैव बोध आवश्यकः । ‘नेदं चैत्रस्य’ इत्यादौ चैत्र-सम्बन्धविशिष्टेदंपदार्थस्य असत्त्वेन तदभावो बोध्यते । न च षष्ठ्यर्थचैत्रसम्बन्धाभाव एवेदमर्थे प्रत्याय्यताम् । घटो नास्तीत्यादाविवात्र बाधकाभावात् । तथा च प्रामाणिक-प्रतियोगिकाभावसिद्धिरिति वाच्यम् । चैत्रसम्बन्धार्थकसर्वनामतत्पदघटितेन ‘तदत्र नास्ति’ इति वाक्येन बोध्याभावातिरिक्तप्रामाणिकप्रतियोगिकाभावान्तरस्य तद्वाक्येन बोधने गौरवेणोक्तरीत्याऽसत्प्रतियोगिकाभावविषयकबोधजनकत्वस्यैवाङ्गीकारात् । एवं ‘चैत्रो न पचति’ इत्यस्यात्यन्ताभावबोधकत्वेऽप्येषैव गतिरूह्या ।
नन्वेवं पूर्वोक्तयुक्तिभिः ‘घटः पटो न भवति’ इत्यनेनापि पटकर्तृकभवनाश्रयघटाभाव-बोधोत्पत्त्यापत्त्या तस्य घटस्याप्रामाणिकतयोक्तवाक्यस्यात्यन्ताभावबोधकत्वमेव स्यात् । न भेदबोधकत्वम् । तथा च ‘नान्योन्याभावता पृथक्’ इति तत्वविवेकमूलव्याख्यावसरे भावशब्दस्य कर्तृघञन्तत्वमभ्युपेत्यान्योन्यं न भवतीति व्युत्पत्त्या ‘अन्योन्याभावशब्देन भेदवान् बोध्यते । तदुत्तरभावप्रत्ययेन पुनरन्योन्याभावो बोध्यते’ इति टीकाकृद्व्याख्यानं विरुद्ध्येतेति चेन्न । यतो ‘घटः पटो न भवति’ इत्यत्र नञर्थे भेदे पटस्य प्रतियोगितया-न्वयः । तस्य च भवनरूपासाधारणधर्मे अभेदेनान्वयः । सर्वत्र नामार्थयोरभेदान्वयनये ‘घटो न पटः’ इत्यत्र भेदवल्लाक्षणिकनञर्थस्य इतरपदार्थे अभेदान्वयस्याङ्गीकृतत्वेन प्रकृते नञर्थस्य भेदस्य भवने अभेदान्वये क्षतिविरहात् । तथा च पटभेदात्मकासाधारणधर्माश्रयो घट इति बोधः । घटस्वरूपभेदस्य घटासाधारणत्वमनपवादम् ।
यद्वा भवनं स्वरूपसत्ता १घटभेदस्वरूपा घटनिष्ठा भवतीति न दोषः । अथवा ‘घटः पटो न भवति’ इत्यत्र पटस्यैव स्वरूपसत्तारूपभवने आश्रयतयाऽन्वयः । तथा च ‘पटकर्तृकभवनाश्रयभिन्नो घटः’ इति बोधः आख्यातस्याश्रयरूपकर्त्रर्थकत्वपक्षे आख्यातार्थप्रतियोगिकभेदावगाही जायते ।
अथ वाऽस्मिन्नेव पक्षे पटस्य धात्वर्थभवनान्विताख्यातार्थाश्रये अभेदेनान्वयः । तथा च ‘पटरूपभवनकर्तृभेदवान् घटः’ इति बोधो जायते ।
अथ वा पटान्वितधात्वर्थभवनरूपसत्ताया नञर्थाभावरूपभेदे तस्याख्यातार्थे कर्तरि आश्रयरूपे तस्य घटे अन्वयः । ‘न कलञ्जं भक्षयेत्’ इत्यादौ ‘कलञ्जभक्षणाभावविषयकं कार्यम्’ इति बोधाभ्युपगन्तॄणां गुरूणां मत इव धात्वर्थाख्यातार्थयोरन्तरा नञर्थभाना-भ्युपगमसम्भवात् । ‘नामूढस्येतरोत्पत्तेः’ ‘नानुपमृद्य प्रादुर्भावात्’ इत्यादौ पञ्चमीप्रकृति-प्रतियोगिकाभावस्य पञ्चम्यर्थान्वयस्याभियुक्तैरङ्गीकृतत्वाच्च । एतत्कल्पे पटकर्तृकसत्ताभाव-स्तद्भेदरूप एव भवतीति सर्वपक्षेष्वपि भेदबोधकतानिर्वाहः ।
ननु कुत एवमाश्रीयते । पटकर्तृकसत्तावद्घटनिषेधः किं न स्यात् ‘भूतले घटो नास्ति’ इत्यादाविवेति चेन्न । तत्र घटकर्तृकसत्ताभावस्य भूतले बोधने भूतल इति सप्तम्यनुपपत्तेर्नञर्थे आख्यातार्थान्वये पूर्वोक्तानुपपत्तेरिव उक्तरीत्या बोधाङ्गीकारे प्रथमाद्यनुपपत्तेरभावात् । न च ‘घटः पटो भवति किम्’ इति पृष्टे ‘न’ इति ब्रूते । तत्र पटकर्तृकभवनविशिष्टघटनिषेध-बोधकत्वं तद्वाक्यस्य पूर्वं भवदुक्तरीत्यैव तवावश्यकम् । एवं ‘घटे पटतादात्म्यं नास्ति’ इत्यभिलापानुरोधात् तादृशप्रतीतेर्घटनिष्ठपटतादात्म्याभावविषयकत्वस्य क्लृप्तत्वात्तदनुसारेण ‘घटः पटो न भवति’ इति प्रतीतेरपि ‘नेदं चैत्रस्य’ इत्यादावुक्तरीत्या घटनिष्ठपटतादात्म्या-भावविषयकत्वमेव वाच्यमिति कुतोऽस्याः भेदविषयकत्वप्रत्याशेति वाच्यम् । ‘घटः पटात्पृथक्’ इति शब्दाभिलाप्यप्रतीतेर्निषेधविषयकत्वेनानुभवसिद्धाया अत्यन्ताभावविलक्षण-भेदविषयकत्वमावश्यकम् । एवं ‘घट एवायम्’ इत्येतावन्मात्राकारप्रत्ययस्यापि स्वरूप-भेदरूपविलक्षणविषयकत्वं दुरपह्नवम् । ‘घटः पटो न’ इत्यत्रापि ‘नास्ति’ इत्यादिप्रत्यये भासमानानुयोगिताविलक्षणभेदत्वादिरूपानुयोगिताविशिष्टविषयकत्वमनुभवसिद्धम् । न चाभिलापकवाक्ये ‘भवति’ इत्यस्याध्याह्रियमाणत्वात्पटभवनविशिष्टघटरूपासत एवात्यन्ता-भावरूपनिषेधप्रतियोगित्वेन भानं तत्रेति वाच्यम् । सार्वजनीनानुभवविरोधात् ।
प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ।।
इति कारिकयाऽभियुक्तैः ‘घटः पटो न’ इत्यादावुत्तरपदरूपपटपदार्थान्वितस्वार्थरूप-भेदबोधकत्वेन नञः पर्युदाससंज्ञकत्वोक्त्या अत्र क्रियाध्याहारं विनैव बोधस्योक्तत्वात् । प्रसज्यप्रतिषेधात्मकसंसर्गाभावबोधस्थले क्रियाया आवश्यकत्वोक्त्या तत्राश्रुतक्रियाध्याहार-स्यावश्यकत्वात् । ‘अघटं भूतलम्’ ‘निर्मक्षिकम्’ इत्यादौ क्रियां विनाऽत्यन्ताभावबोधकत्वं तादृशसमासविधायकशास्त्रबलादेव सिद्ध्यति । तत्रासत्प्रतियोगिकाभावभाननिर्वाहः पूर्वोक्त-रीत्या लक्षणया बोध्यः । एवञ्चोक्तप्रतीतिभिर्भेदस्यापि क्लृप्तत्वेन ‘घटः पटो न भवति’ इति वाक्यस्य तदभिलाप्यप्रत्ययस्य च तद्विषयकत्वकल्पने गौरवाभावात् । ‘घटः पटो न’ इति वाक्यजन्यबोधस्य यत्कार्यं मध्ये ज्ञानान्तरं विना ‘घटः पटात्पृथक्’ इति व्यवहारादि तज्जनकत्वादिना ‘घटः पटो न भवति’ इति वाक्यजन्यबोधस्य तत्समानविषयकत्वस्य निष्प्रत्यूहतयोक्तरीत्याऽन्योन्याभावबोधकत्वं निराबाधमिति युक्तैव तत्वविवेकटीका । ‘घटः पटो भवति किम्’ इत्युत्तरवाक्यस्थनञ्पदसमभिव्याहृतेन पटभवनविशिष्टघटनिषेधो बोध्यतां नाम क्वचित् । न ह्येतावताऽनन्तरमुक्तयुक्त्या सिद्धमुक्तवाक्यस्यान्योन्याभावविषयकत्वं हीयते । ‘घटे पटतादात्म्यं नास्ति’ इत्यस्माद्घटवृत्तिपटतादात्म्यरूपासत्प्रतियोगिकात्यन्ता-भावस्य बोधः । तल्लिङ्गकभेदानुमितेर्मानसज्ञानस्य वोत्पत्त्यैव ‘घटः पटात्पृथक्’ इति व्यवहारादिकार्यमङ्गीक्रियते । तादात्म्याभावस्य भेदव्याप्यताग्रहरहितानां तदनुदयादिति सर्वमनवद्यम् ।
केचित्तु प्रामाणिकप्रतियोगिकस्यात्यन्ताभावस्याङ्गीकारे तद्वद्भेदस्यैव तदत्यन्ताभाव-रूपताया नैयायिकैरङ्गीकृतत्वेन प्रकृतयोर्भेदे मानाभावेन च तत्रैव पर्यवसानादव्याप्य-वृत्त्यत्यन्ताभावस्य सिद्धान्तेऽनङ्गीकारात् सोऽत्यन्ताभावो भेद एव । शुद्धात्यन्ताभावस्तु केवलान्वयी अप्रामाणिकप्रतियोगिक एवेति शुद्धात्यन्ताभावस्याप्रामाणिकप्रतियोगिकत्व-नियमस्य न काचित्क्षतिः । अत्यन्ताभावस्य शुद्धत्वन्तु यादृशयादृशप्रतियोगिकात्यन्ता-भावत्वविशिष्टाधिकरणं यद्यत् तत्तत्स्वरूपभूतभेदनिष्ठात्यन्ताभावत्वनिरूपिका या या तादृश-तादृशप्रतियोगिता तत्तदन्यप्रतियोगितानिरूपकात्यन्ताभावत्ववत्त्वम् । यादृशी घटात्यन्ता-भावीयघटनिष्ठप्रतियोगिता तन्निरूपकात्यन्ताभावत्वविशिष्टाधिकरणानि घटवद्भिन्नानि नानाधिकरणानि तत्तदात्मकभेदास्तु तत्तत्स्वरूपभूतघटवद्भेदाः तन्निष्ठात्यन्ताभावत्वं घटात्यन्ताभावत्वं, प्रामाणिकप्रतियोगिकात्यन्ताभावस्य भेदरूपताया उपपादितत्वात् । तन्निरूपिकाः या याः प्रतियोगिताः प्रामाणिकघटादिनिष्ठा एव । तत्तदन्या शशविषाणादि-रूपाऽसन्निष्ठा भवति । तस्या यादृशपदेनोपादानासम्भवात् । तथा हि, शशविषाणादिनिष्ठ-प्रतियोगिता यादृशी चेत् तन्निरूपकात्यन्ताभावत्वविशिष्टाधिकरणं यद्यत् भूतलादिकं तत्तदात्मकभेदास्तु पदार्थान्तरप्रतियोगिकभेदाः । तन्निष्ठं यदत्यन्ताभावत्वं १शशविषाणा-भावत्वं २तस्य धर्मिस्वरूपत्वाभावेन तदात्मकभेदरूपत्वाभावात् । किन्तूक्तरीत्या घटात्यन्ता-भावत्वमेव । तन्निरूपकत्वं न शशविषाणादिनिष्ठप्रतियोगिताया इति । अत्र यद्यदधिकरण-मिति वीप्सानादरे शशविषाणनिष्ठप्रतियोगिताऽपि तादृशी भवत्येव । शशविषाणाभावस्य स्वस्मिन्नपि सत्त्वात् शशविषाणनिष्ठप्रतियोगिताकात्यन्ताभावत्वविशिष्टाधिकरणं शशविषाणा-भावोऽपि । तदात्मको भेदस्तन्निष्ठघटभेदः । तन्निष्ठमत्यन्ताभावत्वं शशविषाणात्यन्ता-भावत्वम् । तन्निरूपकत्वात् । अतस्तदादरः । यादृशप्रतियोगिताकाभावाधिकरणमित्येतावता पूर्तावत्यन्ताभावत्वाश्रयेत्युक्तिरन्यात्यन्ताभावप्रतियोगिना यादृशपदेनोपादेयेति सूचनाय । न त्वतिप्रसङ्गपरिहारायेति ज्ञातव्यम् ।
यद्वा व्यतिरेकिभिन्नत्वमेव शुद्धत्वम् । तत्तद्धर्मिस्वरूपभेदात्मकानां प्रामाणिक-प्रतियोगिकात्यन्ताभावानां व्यतिरेकित्वात्तेन तद्वारणम् ।
एतेन ‘भेदान्यत्वं चेच्छुद्धत्वं तदा शशविषाणात्यन्ताभावादीनामपि स्वनिष्ठघटभेद-स्वरूपत्वादसङ्ग्रह एव । स्वाश्रयस्वरूपभेदात्मकान्यत्वमित्युक्तावपि स एव दोषः । शश-विषाणाभावादीनामपि स्वाश्रयत्वेन स्वाश्रयस्वरूपभेदात्मकत्वात्’ इति परास्तम् । उक्त-निर्वचनद्वयेऽपि दोषाभावात् । न च घटत्वात्यन्ताभावस्य पटात्मकभेदस्वरूपत्वे पटस्वरूप-स्वाधिकरणात्मकत्वापत्त्याऽत्यन्ताभावस्याधिकरणस्वरूपत्वखण्डकसुधातत्वसङ्ख्यानटीकादिविरोधः । तत्राभावत्वेनैव रूपेण प्रस्तुततया शुद्धात्यन्ताभावघटतत्संसर्गध्वंसप्रागभावादिपरत्वात् ।
ननु व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकरूपात्यन्ताभावादीनां तदवच्छिन्नभेदा-प्रसिद्ध्या तदनात्मकानां केवलान्वयिनां शुद्धात्यन्ताभावत्ववतां प्रामाणिकप्रतियोगिका-नामसत्प्रतियोगिकत्वाभावाद्व्यभिचारः । न च तेन सम्बन्धेन तद्वद्भेदोऽपि तदत्यन्ताभावरूपः केवलान्वयीति नोक्तशुद्धत्वं तस्येति वाच्यम् । प्रतीतिबलात्तद्वद्रूपासत्प्रतियोगिकभेदाङ्गी-कारेऽपि तद्वान्नेत्यप्रतीतेरसद्विशेषे तद्वद्भेदानङ्गीकारादिति चेन्न । सम्बन्धस्य प्रतियोगिता-वच्छेदकत्वादेरग्रे खण्डनीयतया तस्य संयोगप्रतियोगित्वविशिष्टरूपप्रतियोगिकत्वस्यैव स्वीकारेण तस्यासत्त्वेन व्यभिचारविरहात् ।
न चाकाशे ‘इह पक्षी, नेह पक्षी’ इति प्रतीतिसिद्धप्रामाणिकप्रतियोगिकाभावो व्याप्य-वृत्त्यभावानङ्गीकारे अंशव्यवस्थया विद्यमानस्तदंशात्मकभेदस्वरूपो न वाच्यः। तदंशे अंशान्तरप्रतियोगिकभेदाभावात् । अतोऽतिरिक्त एवेति शुद्धत्वप्राप्त्या व्यभिचार इति वाच्यम् । तदंशे विद्यमानपक्षिसंयोगनिष्ठयादृशप्रतियोगिता घटात्मकभेदस्वरूपात्यन्ताभावनिरूपिका सैवांशान्तरनिष्ठभेदानात्मकाभावनिरूपिकेति तत्तदन्यप्रतियोगितानिरूपकत्वाभावात्प्रतियोग्यधि करणांशावृत्तित्वेन व्यतिरेकित्वाच्च तत्र शुद्धत्वाभावात् । तत्रत्याभावस्यांशभेदस्थानीय-तद्विशेषात्मकत्वाङ्गीकारान्निरुक्तौ भेदविशेषयोरुभयोरपि निवेश्यतया वा दोषाभावात्’ इत्याहुः।
अथ सर्वेषामत्यन्ताभावानां केवलान्वयितया समनियतत्वेनैक्यापत्तिः । निर्दोषत्वादेः भगवल्लक्षणत्वानुपपत्तिः । जीवादावतिव्याप्तेः । घटाधिकरणेऽपि भूतले घटो नास्ति इति वाक्यस्य प्रामाण्यञ्च स्यात् । घटवति भूतले घटाभावो नास्ति इति वाक्यं प्रमाणञ्च न स्यात् । सत्त्वासत्त्वयोः परस्परविरहात्मकत्वाद्युक्तिरपि न सङ्गच्छेत इति चेन्न ।
समनियतत्वेऽप्यैक्यसाधकप्रमाणं विना लाघवमात्रेणैक्यसिद्धेरयोगात् । अन्यथाऽभि-धेयत्वज्ञेयत्वादीनां पञ्चाशद्वर्णाव्याकृताकाशादीनां देशकालसमनियतानामप्यैक्यं स्यात् । तेषां भावत्वान्नैवमिति चेत्तर्ह्यभावत्वादेवैषामपि भेदोऽस्तु । तेषां कत्वादिरूपविलक्षणधर्मेणानु-भूयमानानां ‘ककारो मया श्रुतो न गकारः’ इति भेदोपलम्भान्नैवमिति चेत्तर्हि ‘शशविषाणं नास्ति’ इति वाक्यं श्रुत्वा ततः कञ्चित्कालं विलम्ब्य ‘नरविषाणं नास्ति’ इति श्रुतवता ‘पूर्वं शशविषाणाभावः श्रुतो न नरविषाणाभावः’ ‘इदानीमयं श्रुतो न सः’ इत्यादिरूपेण भेदोपलम्भात्तत्तज्ज्ञानकार्यीभूतसंशयादिप्रतिबन्धादीनां वैलक्षण्यानुभवाच्च स्ववृत्तितत्त-त्प्रतियोगिकत्वरूपविलक्षणधर्मशालिनामभावानामपि भेदोऽस्तु ।
नापि निर्दोषत्वस्य भगवल्लक्षणत्वानुपपत्तिः । स्ववृत्तिदोषाभाववत्त्वस्य भगवल्लक्षण-त्वाभ्युपगमात् । अत एव मन्दारमञ्जर्यां ‘स्वप्रागभावाप्रतियोगित्वमनादित्वम्’ इति परिष्कृतम् । ननु स्वशब्दस्य समभिव्याहृतपरत्वेनेश्वरलक्षणवाक्यस्थस्वशब्देनेश्वरस्य बोधनेऽ-पीश्वरवृत्तिदोषाभावस्यैव लक्षणत्वप्राप्त्या तस्य जीवेऽतिव्याप्तिर्दुर्वारैवेति चेन्न । मन्दार-मञ्जर्युक्तलक्षणस्याप्येवमेव प्रत्याख्यानप्रसङ्गात् । तत्रापि स्वशब्देनानादेर्बोधनेऽप्यनादि-प्रतियोगिकप्रागभावप्रतियोगित्वाभावस्य वाऽनादिनिष्ठं यत्प्रागभावप्रतियोगित्वं तदभावस्य वा लक्षणत्वेन प्राप्ततया तस्य सादिष्वतिव्याप्तेर्दुर्वारत्वात् । ‘स्वप्रागभावप्रतियोगित्वाभाववदिदम्’ इति वाक्यजन्यप्रमाविषयीभूतं यद्विशिष्टं तस्य तादात्म्येन लक्षणत्वं तद्वाक्याभिप्रेतमिति चेदत्रापि ‘स्ववृत्तिदोषाभाववानयम्’ इति वाक्यजन्यप्रमाविषयीभूतविशिष्टस्यैव तादात्म्येन लक्षणत्वाभ्युपगमान्नोक्तदोषः । न च दोषाभाववदिति वाक्यस्योभयाभावादिबोधकत्व-स्यापिसम्भवेन तादृशप्रमाविषयविशिष्टो जीवोऽपि भवतीति वाच्यम् । दोषत्वावच्छिन्न-प्रकारकग्रहविरोधित्वेन प्रमाया विशेषणीयत्वात् । उभयाभावादिग्रहस्याविरोधित्वात् । ‘अत्र दोषो नास्ति’ इति प्रमाव्यवहितोत्तरक्षणोत्पन्ना या ‘दोषाभाववानयम्’ इति वाक्यभि-लाप्यप्रमा तद्विषयीभूतविशिष्टस्यलक्षणत्वे तात्पर्याद्वा न कश्चिद्दोषः ।
अनादित्वलक्षणमप्येवमेव परिष्कर्तव्यम् । अन्यथोक्तोभयाभावप्रमामादायासङ्गतेः ।
केचित्तु ‘दोषो नास्ति’ इति प्रमीयाभावनिष्ठविशेष्यतानिरूपितप्रतियोगितासंसर्गा-वच्छिन्नप्रकारतानिरूपिताऽधेयतासंसर्गावच्छिन्नप्रकारतावत्त्वमेव निर्दोषत्वमभिप्रेतम् । ‘ईश्वरे दोषो नास्ति’ इति प्रमीयतादृशप्रकारतामादायेश्वरे लक्षणसमन्वयः । प्रतियोगितया भासमान-दोषसम्बन्धवत्तया भासमानस्य तादृशसंसृष्टरूपेणासत्त्वेऽपि शुद्धस्याप्यग्रे भानस्य व्यवस्थाप-नीयतया तस्यापि भानाभ्युपगमात् । तदनङ्गीकारे तु तादृशप्रकारतानिर्वाहकविषयताश्रयत्वमेव लक्षणमस्तु । पूर्वमीश्वरोपस्थितिं विनोत्तरज्ञाने तादृशप्रकारतायाः प्रतियोगिसंसृष्टतया भासमानेऽसत्यनिर्वाहात् । प्रतीतिबलादेव पूर्वोपस्थितीयेश्वरविषयतायास्तादृशप्रकारता-प्रयोजकत्वाभ्युपगमात् । ‘जीवे दोषो नास्ति’ इति धियः प्रमात्वाभावादेव तत्रोक्तरीत्या लक्षणागमनात् । एवमनादि१लक्षणत्वस्यापि स्वनिष्ठं यत्प्रागभावप्रतियोगित्वं तदभाव इत्यर्थ-कत्वे उक्तरीत्यैव परिष्कारः । स्वस्य यः प्रागभाव इत्यादिरीत्यार्थकरणे तु तादृशाभाव-विषयतानिरूपितप्रतियोगिता संसर्गावच्छिन्नप्रकारतानिरूपितप्रागभावप्रकारतानिरूपित-प्रकारतातत्प्रयोजकविषयताश्रयत्वमिति रीत्या परिष्कर्तव्यम् । प्रतियोगिकोटौ भासमानस्य सर्वस्यासत्त्वात्कथं प्रकारता प्रागभावीया भवतीत्याशङ्का तु तच्छब्दोल्लेखादिप्रयोजकत्वमेव तथात्वमित्यग्रे वक्ष्यमाणदिशा वारणीया । एवमन्यत्रापि द्रष्टव्यमित्याहुः ।
एवं नापि घटवति भूतले ‘अत्र घटो नास्ति’ इति वाक्यस्य प्रामाण्यम् । तद्वाक्येन तद्भूतल संसृष्टघटप्रतियोगिकात्यन्ताभावबोधस्य व्यवस्थापितत्वेन घटाधिकरणसंसृष्टघटप्रतियोगिक-त्वस्य तद्वाक्येनात्यन्ताभावे बोधनीयस्य बाधितत्वात् । नापि ‘घटाभाववदिदम्’ इति वाक्यस्य प्रामाण्यापादनं युक्तम् । उभयाभावादिबोधतात्पर्यकतादृशवाक्यप्रामाण्यस्य त्वयाङ्गीकृतत्वेन ममापीष्टत्वात् । सामान्याभावबोधतात्पर्यस्थले समभिव्याहृताधिकरणसंसृष्टघटादौ लाक्षणिकत्वस्य घटादिपदानां पूर्वमुक्तत्वात्तादृशवाक्यस्याप्युक्तरीत्या बाधितार्थकत्वात् ।
‘निरनिष्टो निरवद्यः’ इत्यादिवाक्यानां जीवविषयकतया प्रामाण्यं स्यादित्यप्यनेनैव निरस्तम् । तद्वाक्यस्य जीवविषयकत्वे जीववृत्तिदोषाभाववत्त्वस्यैव जीवे बोधकताया एव बलादापत्या तस्य बाधितत्वात् ।
न च ‘निरनिष्ट इत्यादिवाक्यबोध्यो योऽभावस्तद्वान् जीवः’ इति वाक्यस्य प्रामाण्यं स्यात् । तद्वाक्यबोध्यस्येश्वरवृत्तिदोषप्रतियोगिकाभावस्य जीवेऽपि सत्त्वात् इति वाच्यम् । तस्य केवलान्वयित्ववादिनामिष्टत्वात् । अन्यथा केवलान्वयित्वोक्तेरेवासङ्गतिप्रसङ्गात् । एवं घटवति भूतले ‘घटाभावो नास्ति’ इति वाक्यमपि प्रमाणं भवत्येव । घटपदस्य तद्भूतल-संसृष्टघटपरतया ‘अत्र घटाभावः’ इत्यप्रमाणवाक्यानुसारेण क्लृप्ततया ‘अत्र घटाभावो नास्ति’ इति वाक्येनापि ‘एतद्भूतलसंसृष्टो य एतद्भूतलसंसृष्टघटप्रतियोगिकोऽभावस्तदत्यन्ताभावः’ इति बोधो जायते । स च प्रमैव । यत्र भूतले घटोऽस्ति तद्भूतलसंसृष्टघटप्रतियोगिकात्यन्ता-भावस्यासत्त्वेनैतद्भूतलसंसृष्टस्य तस्य सुतरामसत्त्वेन तत्प्रतियोगिकात्यन्ताभावस्य तद्बोध-विषयस्य सत्त्वात् । भूतलान्तरसंसृष्टघटप्रतियोगिकात्यन्ताभावरूपकेवलान्वयिवस्तुबोधक-तत्पदघटितम् ‘अत्र स नास्ति’ इति वाक्यमप्रमाणेव । एतद्भूतलवृत्तित्वविशिष्टतदभावव्यक्तेः सत्त्वेन तदत्यन्ताभावस्य बाधितत्वात् ।
एवं भावाभावयोः परस्परविरहात्मकत्वोक्तिरपि मतान्तररीत्या । स्वमते तु ‘अत्र घटो नास्ति’ इति प्रतीत्युत्तरं यद्घटाभाववदिति यथार्थज्ञानं तद्विषयीभूतं यद्विशिष्टं तद्व्याप्यत्वं घटाभावस्य घटविरहरूपत्वम् । एवम् ‘अत्र घटाभावो नास्ति’ इत्यादिरीत्या घटस्य घटा-भावविरहरूपत्वम् । व्याप्यता च नञुल्लेख्यस्वप्रमोत्तरप्रमाविषयतया बोध्या । अतो न तस्य केवलान्वयित्वेऽपि व्याप्यताभङ्गः । एवं क्रमेण तत्पारिभाषिकमेव । यद्वा स्वप्रधानकारोप-विषयप्रतियोगिकत्वमभावस्य भावविरहात्मकत्वम् । स्वविषयताप्रयोज्यप्रतियोगिता-संसर्गावच्छिन्नप्रकारतानिरूपितप्रमीयविषयताश्रयत्वं पर्यवसितमभावे । भावे तु तादृश-प्रतियोगिप्रकारताप्रयोजकविषयताऽश्रयत्वमिति रीत्या पारिभाषिकम् । प्रागभावादिस्थले प्रतियोगिनः सत्त्वादेव प्रतियोगिविषयता अभावप्रमीयप्रतियोगिप्रकारता प्रयोजिका । अत्यन्ताभावस्थले तु सत्यभूतप्रधानविषयतैव केचिदित्युक्तमतरीत्या प्रयोजिका । तत्र घटत्वरूपसामान्यधर्मावच्छिन्नविषयता प्रयोजिका चेत् सामान्यप्रधानकोऽभावः सामान्या-भावपदव्यवहार्यः । विशेषधर्मावच्छिन्नप्रधानकस्तु विशेषाभावो भवतीति तद्व्यवस्थापि घटते । ‘शशे विषाणं नास्ति’ इति प्रतीतिसिद्धोऽभावो विषाणप्रधानकः । ‘सर्वत्र शशविषाणं नास्ति’ इति प्रतीतिसिद्धोऽभावः शशविषाणप्रधानक एव । असतोऽपि तादृशविषय-ताश्रयत्वरूपं प्रकृताभिमतप्रधानत्वं युक्तम् । भावाभावयोरुक्तविरहात्मकत्वं भावाभावबोधक- वाक्यप्रामाण्यादौ कथञ्चिदुपयुज्यत इति तदुक्तिरपि सार्थकैव । एवमन्यदपि ऊह्यमित्यलं विस्तरेण ।
वंशपल्लीस्थाचार्यास्तु निर्दोषत्वं दोषारोपपूर्वकप्रतीतिविषयाभाववत्त्वमिति परिष्कृत्य प्रतियोग्यारोपे यत्प्रधानं तेनापि साकमसत्तियोगिकाभावस्यापि विरोधमङ्गीकृत्य जीवेऽति-व्याप्तिं परिहृतवन्तः । तेषां मते सर्वेषामत्यन्ताभावानामसत्प्रतियोगिकत्वाविशेषेऽपि ‘घटवति भूतले घटो नास्ति’ ‘घटाभाववदिदम्’ इति वाक्याप्रामाण्यादिव्यवस्थाबलात् सत्प्रधानकोऽ-भावो व्यतिरेकी प्रधानभूतसद्विरोधी । असत्प्रधानकस्तु केवलान्वयी । तरङ्गिण्युक्तसत्त्वा-सत्त्वयोः परस्परविरहात्मकत्वपरिष्कारोऽप्येतन्मतरीत्या निर्वाह्यः । एवमप्रामाणिक-प्रतियोगिकाभावनियमे एवमन्येऽपि क्षुद्रोपद्रवाः सूक्ष्ममतिभिः परिहरणीया इत्यलमिति वदन्ति ।
सत्यनाथश्रीचरणाः पुनरभिनवताण्डवादौ प्रामाणिकप्रतियोगिकमप्यत्यन्ताभावं सिद्धान्ते व्यवस्थापयन्तस्तन्नियमं तत्यजुः । तन्मते सर्वाऽपि व्यवस्था सुलभैव । व्यवस्थपन-प्रकारस्तत्कृतग्रन्थ एवानुसन्धेयः । ग्रन्थगौरवभयान्नेह प्रपञ्च्यत इति ।
नन्वसतो ज्ञानाविषयत्वात्कथमुक्तरूपमपि प्रतियोगित्वं तस्येत्यत आह ।। असतोऽ-पीति ।। उपपादयिष्याम इति ।। असतः प्रतीतिं विनेत्यत्रेत्यर्थः ।