अनिर्वचनीयासिद्धेश्च
अनिर्वचनीयलक्षणानुपपत्त्या अनिर्वचनीयनिराकरणम्
श्रीमज्जयतीर्थटीका
अथ वा अनिर्वचनीयं साधकप्रमाणाभावेन बाधकसद्भावेन च निराकृत्य लक्षणानुपपत्त्यापि निराकरोति ।
मूलं
अनिर्वचनीयासिद्धेश्च
अनिर्वचनीयमित्यनिर्वचनीयलक्षणम् तस्यासिद्धेश्च न च भेदे विकल्पो युज्यत इति सम्बन्धः । तथा हि, न तावन्निर्वचनानर्हत्वमनिर्वचनीयत्वम् । मूकीभावप्रसङ्गेना-सम्भवित्वात् । नापि सत्त्वासत्त्वाभ्यां निर्वक्तुमशक्यत्वलक्षणम् । प्रत्येकं सदसतोर-निर्वचनीयतापातात् । समुच्चितस्य तथात्वे सतोऽसतश्च सदसदात्मकत्वाभावेन तत्प्रसङ्गा-निवारणात् । सत्त्वेन निर्वक्तुमशक्यत्वे सत्यसत्त्वेन निर्वक्तुमशक्यत्वमिति चेन्न । सदसदात्मकतावत्प्रतिषेधसमुच्चयस्यापि विरुद्धत्वेनासम्भवित्वात् । अनिर्वचनीयवादिनो विरोधोऽसिद्ध इति चेन्न । अनिर्वचनीयसिद्धौ विरोधासिद्धिः । ततो लक्षणसिद्ध्या अनिर्वचनीयसिद्धिरिति परस्पराश्रयप्रसङ्गात् ।
द्वैतद्युमणि:
।। अथ वेति ।। व्याख्यानान्तरज्ञापकं स्वयमेव वक्ष्यति । नन्वेतत्पक्षे उक्त-पञ्चम्यर्थहेतुत्वं क्वान्वेति । पूर्वोक्तार्थस्य हेत्वाकाङ्क्षाविधुरत्वादित्यतश्चाह ।। न च भेद इति ।। अनिर्वचनीयतापातादिति ।। तथा च प्रत्येकं तयोरतिव्याप्तिरित्यर्थः । १यद्वा समुच्चितस्य सामानाधिकरण्यापन्नसत्त्वासत्त्वाभावद्वयस्य तथात्वे लक्षणत्वे इति नार्थः । उत्तरदूषणा-सङ्गतिप्रसङ्गात् । किन्तु समुच्चितस्य परस्परसामानाधिकरण्यापन्नस्य सत्त्वस्यासत्त्वस्य च तथात्वे अनिर्वचनीयलक्षणीभूताभावप्रतियोगित्वे इत्यर्थः । सत्त्वविशिष्टासत्त्वाभावादेर्लक्षणत्व इति यावत् ।। तत्प्रसङ्गेति ।। अतिव्याप्त्यसम्भवेत्यर्थः । असत्प्रतियोगिकाभावाङ्गीकारेऽति-व्याप्तिः । अन्यथा प्रतियोग्यप्रसिद्ध्याऽसम्भव इति भावः । पूर्वभागः प्रतियोग्यप्रसिद्धि-मूलकोऽभयोपपादक इति ज्ञेयम् ।। सत्त्वेनेत्यादि ।। सत्त्वाभाववत्त्वे सत्यसत्त्वाभाववत्त्व-मित्येवार्थः । निर्वक्तुमशक्यत्वमित्युक्तिस्तु
प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् ।
गाहते तदनिर्वाच्यमाहुर्वेदान्तवेदिनः ।।
इति तदुक्तिसूचनाय ।। विरुद्धत्वेनेति ।। असत्त्वाभावरूपसत्त्वेन सह सत्त्वाभावस्य विरुद्धत्वेनेत्यर्थः ।। विरोधोऽसिद्ध इति ।। तन्मते असत्त्वाभावस्य सत्त्वरूपत्वानङ्गीकारा-दिति भावः । निरुपाख्यत्वरूपासत्त्वाभावसाधने असतः ख्यायमानत्वात् तत्साधनेप्य-निर्वचनीयासिद्ध्यापत्त्याऽस्मदभिमतासत्त्वाभाव एव साधनीयः । तथा च विरोधो दुर्वार एवेत्याशयेनाह ।। अनिर्वचनीयेत्यादिना ।।