मिथ्याभूतं..

पररीत्या आत्मनः परविषयप्रकाशत्वाभावसमर्थनम्

श्रीमज्जयतीर्थटीका

मा मूदात्मप्रकाशः स्वविषयः । परविषयस्तु भविष्यति । न च पराभावो दोषः । मिथ्याभूतस्य परस्याङ्गीकृतत्वात् । न चैवं सति तद्विषयत्वस्यापि मिथ्यात्वप्रसङ्गो दोषः । इष्टत्वात् । अतो मिथ्यारूपस्य परविषयत्वस्य सद्भावाद्भवेदात्मा प्रकाश इत्यत आह–

मूलं

मिथ्याभूतं परविषयत्वञ्चानिर्वचनीयनिरासादेव निरस्तम्

व्याख्यातप्रायमेतत् । मुक्तात्मन्यनैकान्त्यतादवस्थ्यञ्च द्रष्टव्यम् ।

ननु शुक्तिरजताद्यभावेऽपि परमार्थत एव विज्ञानं तद्विषयमस्ति । तथा पराभावेऽपि परविषयत्वं सत्यमेव कस्मान्न स्यात् । स्यात्तत् । न त्वेवं परोऽङ्गीकुरुते । तेन परोपाधिकानां मिथ्यात्वस्याङ्गीकृतत्वात् । पररीत्या चेदमनैकान्त्यव्युत्पादनम् ।

द्वैतद्युमणि:

।। मिथ्यात्वप्रसङ्ग इति ।। मिथ्योपाधिकस्य मिथ्यात्वाङ्गीकारादिति भावः ।। मुक्तात्मनीति ।। निवृत्ताविद्ये तस्मिन् अविद्यासम्बन्धाधीनपरोपाधिकसविषयकत्वस्य कथमप्यभावेनाप्रकाशत्वप्राप्त्या जडत्वप्राप्तेरिति भावः । ननु निवृत्ताविद्यात्वादेव जडत्व-रूपधर्मस्याप्यप्रसक्त्या कथं मन्मतरीत्या व्यभिचारः । भवन्मते तु तत्र जडत्वप्रसक्तिरेव नास्तीति चेन्न । एवं तर्हि निवृत्तविद्यत्वादिति हेतुकरणस्यैव तवायुक्ततापत्तेः । तद्धर्मस्यापि तत्र वक्तुमशक्यत्वात् । इदानीं व्यवहारप्रामाण्यानुरोधाद्बद्धपुरुषकल्पिततादृशधर्मस्वीकारे सविषयकत्वाभावादिव्यवहारप्रामाण्यानुरोधात्तादृशसविषयकत्वाभावस्यावर्जनीयतया तेन जडत्वापादनेन व्यभिचारापादनात् । शिष्टव्युत्पादनाय स्वरीत्या शङ्कते ।। नन्विति ।।