एवं प्रधानस्य परमात्मनो.

वाचारम्भणमित्यादेः प्रकृतोपयोगसमर्थनम्

श्रीमज्जयतीर्थटीका

तथाऽपि न प्रकृतोपयोगं पश्याम इत्यत आह ।

मूलं

एवं प्रधानस्य परमात्मनो ज्ञानादप्रधानं ज्ञातमिव भवति ।

अनेन यत्, प्राधान्यात् ब्रह्मज्ञानेनाप्रधानस्य जगतो ज्ञानं भवतीति प्रागभिप्रेतम् । तत्र दृष्टान्तप्रदर्शनपरमेवेदं वाक्यम् । न तु मृत्पिण्डादिदृष्टान्तव्युत्पादनाय मृदादिव्यतिरेकेण मृण्मयाद्यसत्वपरमित्यतो न मृत्पिण्डादिदृष्टान्तस्य परोक्तार्थे तात्पर्यमित्युक्तं भवति । यथोक्तम् ।

प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ।

विद्वानित्युच्यते सद्भिरेवं नित्यपरमात्मवित्’ ।। इति ।

ननु यदि कारणव्यतिरेकेण कार्यासत्त्वमत्र च विवक्षितं स्यात्तदा ‘सदेव सोम्येदमग्र आसीत् तत्तेजोऽसृजत सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ इत्यादिना यदादौ ब्रह्ममात्रा-वस्थानं तस्मादेव जगतः सृष्टिस्तदायतनत्वमित्याद्युक्तम्, तदसङ्गतं स्यात् । तद्धि जगतो ब्रह्मविवर्तत्वोपपादनेन कार्यस्य पृथगसत्वपरं भवतीत्यत आह ।

मूलं

प्राधान्यज्ञापनार्थमेव सृष्ट्यादिकथनम् ।

स्यादिदं सृष्ट्यादिकथनमस्मन्मतेऽसङ्गतम् । यदि ब्रह्मविवर्तादिपरं स्यात् । च चैवं किं तु यद्वाचारम्भणदृष्टान्तेन प्राधान्याद्ब्रह्मज्ञानेनाप्रधानप्रपञ्चज्ञानमुक्तम् । तत्र कथं जगदपेक्षया ब्रह्मणः प्राधान्यमित्यपेक्षायां जगन्निमित्तकारणत्वादिना तज्ज्ञापनार्थमेवेति कथमसङ्गतिः ।

द्वैतद्युमणि:

।। तदायतनत्वमिति ।। तदन्यतादात्म्येनाप्रतीयमानत्वमित्यर्थः । आदिपदेन सत्प्रतिष्ठितत्वस्य ग्रहणम् ।। ब्रह्मविवर्तत्वमिति ।। तत्सत्तान्यूनसत्ताकतत्तादात्म्यापन्नत्वमेव तद्विवर्तत्वम् ।। वाचारम्भणदृष्टान्तेनेति ।। तथा च यथेतिपदं वाचारम्भणवाक्यादपि प्रागावर्तनीयम् । ‘तेन तद्विज्ञातं स्यात् इति’ अन्तेऽनुषञ्जनीयम् । वाचारम्भणं विकारोऽतो प्रधानं मृत्तिकेत्यादि नाम नित्यं धार्यत्वेन नित्यत्वात्प्रधानं तेन संस्कृतेन ज्ञातेन तत्सर्वं प्राकृतं विज्ञातं ज्ञातफलं भवति यथा, एवं सोम्य स आदेशो भवतीत्यर्थः, इत्यन्यत्रोक्तयोजनास्मारिता भवति ।