न च जगत्प्रत्यक्षस्यापटुत्वे..

जगत्प्रत्यक्षस्यापटुत्वशङ्का तत्परिहारश्च

श्रीमज्जयतीर्थटीका

नन्वेवमेव तर्हि जगत्प्रत्यक्षस्यापटुत्वे यद्यपि नानुमानागमौ तस्य बाधकौ तथापि तेनाबाधितौ विश्वमिथ्यात्वं निश्चेष्यत इति चेत् । तत्किमस्य चन्द्रप्रादेशत्वादि-विषयवत् प्रतिभासतोऽपटुता कल्प्यते । उत प्रमाणान्तरेण । नाद्यः । सत्यस्तम्भो भवत्येवेति निश्चायकतयैवावभासनात् । तदिदमुक्तं प्राक् प्रत्यक्षसिद्धमिति । सिद्धं निश्चितम् । द्वितीयं निराचष्टे

मूलं

न च जगत्प्रत्यक्षस्यापटुत्वे किञ्चिन्मानम् ।

जगत्प्रत्यक्षस्य वियदादेरात्मभेदस्य च सत्यताग्राहिप्रत्यक्षस्य ।

द्वैतद्युमणि:

जगत्प्रत्यक्षस्यापि नभोनैल्यादिप्रत्यक्षस्येवापटुन एवोत्पत्तिरित्यभिमानेन शङ्कते ।। नन्वेवमेवेति ।। अपटुत्वे अप्रामाण्यज्ञानास्कन्दितत्वे । पूर्वमेव सतीति शेषः ।। बाधकाविति ।। अप्रामाण्यज्ञानस्य पूर्वमेव सिद्धत्वान्नानयोस्तज्ज्ञापकत्वरूपबाधकत्वमिति भावः।। प्रतिभासत इति ।। अप्रामाण्यज्ञानास्कन्दितत्वेनोत्पत्त्यनुभवेनेत्यर्थः ।। आत्मभेदस्य चेति ।। आत्मनां परस्परमीश्वराच्च भेदोऽन्यत्रोक्तरीत्या प्रत्यक्षविषयः सत्यत्वेनैव भासत इति भावः ।

यत्तु ‘ईश्वरादिभेदो न प्रत्यक्षः । योग्यानुपलब्धिविरहात् । ‘यद्यहं सर्वज्ञत्वादि-गुणविशिष्टेश्वराभिन्नः स्यां तद्गुणवत्त्वेनानुभूतः स्याम्’ इत्याद्यापादनं न सङ्गच्छते । विद्यमानस्यापि सार्वज्ञ्यस्याऽवरणादिनाऽभिभवसम्भवेनापत्त्ययोगात्’ इति । तत्तुच्छम् । उक्तरीत्या निर्मूलशङ्कायाः घटादिस्थलेऽपि कस्यचित्सम्भवेन तत्रापि योग्यानुपलब्ध्य-सम्भवप्राप्त्या घटपटभेदतदभावप्रत्यक्षादेरप्यभावप्रसङ्गात् । अहमिदानीं नित्याभिव्यक्तसार्व-ज्ञ्याश्रयाभिन्नः स्यामिदानीं तथोपलब्धः स्याम् एवं इदानीमनुभूयमानदुःखाश्रयाभिन्नः स्यां इदानीं तादृशदुःखवत्त्वेनानुभूतः स्यामित्याद्यापादनसम्भवाच्च । इदानीमभिव्यक्तेऽनभि-व्यक्तत्वशङ्काया व्याहतत्वेनानुदयाच्च ।

यत्तु भेदधिक्कारादौ ‘सर्वस्यापि भेदप्रत्ययस्य कारणानिरूपणात् अविद्यामात्रमूलत्वा-द्भ्रमत्वम्’ इत्युक्तम् । तत्तु भेदादिनिराकरणयुक्तीनामिव जात्युत्तरत्वात् सत्त्वावगाहिप्रत्यक्ष-बाधाच्चाकिञ्चित्करम् ।