‘नासतो दृष्टत्वात्’..

विश्वमिथ्यात्वसाधकाभिमतानुमानागमयोरागमविशेषविरोधसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं सामान्यतोऽनुमानागमयोरागमविरोधमभिधाय विशेषतोऽपि तं दर्शयति

मूलं

नासतो दृष्टत्वात्’ ‘नाभाव उपलब्धेः’ ‘वैधर्म्याच्च न स्वप्नादिवत्’

इत्यादिभगवद्वचनेनापि निरस्ताः ।

आदिपदेन पृथगुपदेशादित्यादिकमात्मभेदप्रतिपादकं सूत्रं गृह्मते । यद्यपि प्रागुदाहृतानि भगवद्वचनान्येव तथापि विशेषतो विरोधित्वं निर्णायकत्वेन प्राबल्यं वा सूचयितुं भगवद्वचनेनापीत्युक्तम् । निरस्ताः प्रपञ्चमिथ्यात्वादिपरा अनुमानागमा इति शेषः । तद्वादिन इति वा ।

द्वैतद्युमणि:

।। सूत्रं गृह्यत इति ।। अन्यथा विमता आत्मानः परमात्मनो न भिद्यन्ते इत्यनुमानस्य विशेषत आगमविरोधो न दर्शितः स्यादिति भावः ।

यत्त्वत्र केनचिदर्वाचीनेन प्रलपितम् ।

ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।

एक आत्मा परब्रह्मभावो मुक्तिरितीत्यपि ।।

एवमादिविरुद्धानि वचनान्यथ युक्तयः ।

प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ।।

वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।

इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।। इति व्यासस्मृतिः ।

इति परोदाहृतपद्यजातमपि न प्रामाणिकम् । प्रसिद्धव्यासस्मृतावनुपलम्भात् । अन्य-स्मृतेर्व्याख्यातृभिः क्वाप्यनुदाहृतत्वाच्च ।

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरतम् ।

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ।।

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।।

इति भगवद्गीदावचनं तु न विरुद्धम् । असत्यमित्यस्य न सत्यं यस्मिन्निति व्युत्पत्त्या निस्तत्त्वपरत्वात्तस्य च शून्यवाद एवोपपत्तेः । ‘भावाः क्षणक्षयिण एव निरात्मकाश्च’ इति तदभ्युपगमात् । अत एव निरीश्वरत्वमपि तत्रोक्तम् । बहुव्रीहेस्तत्पुरुषो बलीयानिति न वाच्यम् । प्रसिद्धानुवादेऽस्याविनिगमकत्वात् । अन्यथा परस्परसम्भूतत्वाद्यभिमानासङ्गतेरिति ।

तत्प्रलापमात्रम् । अन्यानुदाहृतत्वप्रसिद्धग्रन्थानुपलम्भमात्रस्य परमप्रसिद्धग्रन्थकारो-दाहृतवाक्यानुपादेयत्वबीजत्वे जीवेशावाभासे नेति श्रुतेरपि त्वद्भाष्यकारमात्रोदाहृतत्वा-त्प्रसिद्धोपनिषत्स्वनुपलम्भाच्चानुपादेयताऽपत्तेः । गीतोदाहरणपूर्वकं शङ्कातद्व्याख्यानादिकस्य च पूर्वमेव कृतत्वात्तव पौनरुक्त्यम् । अस्माभिस्तु प्रायेण प्रागेव तन्निराकृतम् । प्रसिद्धत्व-न्मतानुवादपक्षे सामसिकलाघवस्यापि सम्भवेन तस्य विनिगमकत्वात् । एकजीववादे त्वन्मतेऽपीश्वराभावेनात एवेत्युपष्टम्भासङ्गतिश्च । दृष्टिसृष्टिपक्षे त्वन्मतेऽप्यपरस्परसम्भूत-त्वाभिमानासङ्गतेश्चेत्यलम् ।

एतेन मिथ्यात्वानुमाने न्यायामृतोक्तानां स्वबाधकाभिमताबाध्यदोषप्रयुक्तभानत्व-प्रतिभासमात्रशरीरत्वादीनामुपाधिताऽपि सिद्ध्यति । उपाधीनां बाधोन्नीतत्वात् । बाधेन पक्षे साध्यसन्देहप्रतिबन्धेनोपाधेः पक्षान्तर्भावेण साध्यव्यापकत्वसन्देहानवकाशेन बाधबलनिश्चित-साध्यव्यापकताकत्वमेवोपाधौ बाधोन्नीतत्वम् । एवं दृग्दृश्ययोस्तादात्म्यरूपाऽध्यासिक-सम्बन्धरूपविषयताया निरस्तत्वेनाऽकाराख्यविषयतयैवोपपत्तेश्च दर्शितत्वेन मिथ्यात्वाभावे दृश्यत्वं न स्यादित्यनुकूलतर्कानुत्थित्या बाधानवतारदशायामपि पक्षेतरत्वतुल्यानामप्येषा-मुपाधित्वं सिद्ध्यति । प्रतिभासमात्रशरीरत्वं च निःस्वरूपत्वं वा कालासम्बद्धत्वं वाऽर्थ-क्रियाशून्यत्वं वेति न कोऽपि दोषः ।

एवं प्रत्यक्षादिबाधोपपादनेनैव ‘घटादयः स्वानुगतप्रतिभासे वस्तुनि कल्पिताः विभक्त-त्वात् यथा सर्पमालादिकं स्वानुगतप्रतिभासे रज्ज्वादाविदमंशे विभज्यते । एवं ब्रह्मण्यनु-गच्छति घटादिकं विभज्यते । सन् घटः सन् पट इति स्वानुगतप्रतिभासे स्वतादात्म्येन स्वरूपतो भानयोग्ये स्वतादात्म्यविषयतानिरूपितानवच्छिन्नप्रकारतावतीति यावत् । सप्तम्या व्यापकत्वमर्थः । व्यापकतानिरूपकत्वं च तादात्म्येन । तथा च यद्यदुक्तप्रकारताविशिष्टं तत्तत्र कल्पितमित्यर्थः । कल्पितत्वं च ज्ञाननिवर्त्यत्वं स्वाभाववति ज्ञेयत्वं वा । तथा चोक्तप्रकारताव्यापकत्वं स्वनिवर्तकधीविषयताकत्वमुक्तप्रकारताव्यापकस्वात्यन्ताभावकत्वं वा पर्यवसितम् । उक्तप्रकारतासामानाधिकरण्यमात्रनिवेशे पटादेः स्वतादात्म्यभ्रमविषयघटत्वादौ कल्पितत्वमादायार्थान्तरं स्यात् । अतो व्यापकत्वमुक्तम् । स्वमते हि पटादेरुक्तभ्रमे नारोपि-तत्वम्। किन्तु तत्तादात्म्यस्यैवेति तन्निवर्तकधीविषयत्वमेव घटत्वादेः । न तु पटादि-निवर्तकधीविषयत्वमिति स्वानभिमतं तत् । परानभिमतमपि परस्य तार्किकादेरन्यथाख्याति- स्वीकारेण पटादिनिवर्तकत्वस्य घटत्वादिज्ञानेऽनङ्गीकारादुभयवाद्यसम्मतसिद्ध्या अर्थान्तरं स्यात् । व्यापकतानिवेशे तु तादृशप्रकारतायाः सद्रूपेऽपि सत्त्वात् तस्य १स्वनिवर्तकधी-विषयत्वसिद्ध्या मदिष्टसिद्धिः। न च स्वमते बाधः । घटत्वादेर्व्यावहारिकघटादिनिवर्तक-बुद्ध्यविषयत्वादिति वाच्यम् । जातिमात्रस्य सद्रूपत्वाङ्गीकारात् । तादृशप्रकारतावति द्रव्य-गुणादावेव निवर्तकधीविषयत्वाभावाद्बाधवारणाय विभक्तत्वहेतुमति रज्वारोपितमालादौ व्यभिचारवारणाय चाऽनवच्छिन्नत्वं प्रकारतायां निवेशितम् । प्रतियोगिताविषयत्वादीना-मनवच्छिन्नप्रकारतास्वीकारे तु पूर्वोक्तरीत्या पटादौ बाधवारणायोक्तमालादौ व्यभिचार-वारणाय च निरूपितान्तस्थले स्वतादात्म्यसामानाधिकरण्यमेवानवच्छिन्नप्रकारतायां देयम् । तथा च प्रतियोगित्वादेर्घटादौ विशेषणतासम्बन्धेनैव सत्त्वान्न व्यभिचारः । १एवञ्च सामानाधिकरण्यमपि व्यापकतास्थाने वक्तुं शक्यम् । द्वितीयसाध्ये तु न प्रकारताया-मनवच्छिन्नत्वं २देयम् । ३द्रव्यादौ जातौ च सर्वत्र स्वाभावस्य सिषाधयिषितत्वात् । विभक्तत्वं चात्मावृत्तिप्रतियोगितासम्बन्धेन भेदोऽत्यन्ताभावो वा पूर्वोक्त एवानुसन्धेयः ।

एवं घटादिकं सद्रूपे कल्पितं प्रत्येकं तदनुविद्धतया प्रतीयमानत्वात् सद्रूपे कल्पितत्वं च सद्रूपनिष्ठस्वनिवर्तकधीविषयताकत्वम् । तदनुविद्धतया सद्रूपतादात्म्येन प्रतीयमानत्वादित्यत्र प्रत्येकमित्यस्यान्वयः । तथा च घटादीनां सर्वेषां सत्तादात्म्येन प्रतीयमानत्वात् घटादिकं सर्वं सद्रूपविषयकज्ञाननिवर्त्यमित्यर्थः । तादृशप्रतीयमानत्वं च तद्योग्यतारूपं ग्राह्यम् । तच्च सदवृत्तित्वविशिष्टभेदप्रतियोगित्वम् ।

एवं अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात् अंश्यंतरवत्’ इत्यादीनि मिथ्यात्वे सामान्यानुमानानि विशेषानुमानानि च निरस्तानि । प्रत्यक्षागमादिबाधाद-प्रयोजकत्वाच्च ।

किञ्च गवादिनिवर्तकधीविषयत्वं गोत्वजात्यादौ नास्तीति बाधवारणाय गोत्वादिजातीनां सत्ताजातिस्वरूपत्वमेव सत्ता च ब्रह्मैवेति अङ्गीकृत्य न बाध इति परिहृतम् । तदयुक्तम् । घटादावपि सत्तासत्त्वेन गोत्वापत्त्या घटस्यापि गोपदवाच्यत्वापत्तेः । न च वाच्यत्वं नाम तत्पदनिष्ठशक्तिनिरूपकत्वम् । शक्तिनिरूपकत्वं च तत्तद्गोव्यक्तिष्वेव स्वीक्रियते । अतो न दोष इति वाच्यम् । तादृशशक्यतां प्रति सत्ताया घटादिसाधारणाया अतिप्रसक्ततया अवच्छेदकत्वायोगात्तत्तन्निष्ठतद्व्यक्तित्वानामेवावच्छेदकत्वेन शक्यतानन्त्यात्तन्निरूपक-शक्त्यानन्त्यान्नानार्थत्वापत्तेः ।

ननु सर्वासु गोव्यक्तिष्वेकैव शक्यताऽखण्डा स्वीक्रियते । एवं गोपदेष्वप्येकैव शक्तिः । तयोरवच्छिन्नत्वे मानाभावान्नान्यूनानतिरिक्तानुमतधर्मापेक्षा । नापि नानार्थत्वमिति चेन्न । सर्वगोव्यक्तिष्वखण्डायाः शक्यताया अङ्गीकारावश्यकत्वे तस्या गोत्वरूपताया अङ्गीकर्तुं शक्यत्वेन तदनङ्गीकारायोगात् । न च गोत्वादिजातेः किञ्चिदनिरूपितत्वेन शक्यतायाश्च किञ्चिन्निरूपितत्वेन कथं शक्यतैव गोत्वमिति वाच्यम् । ‘अस्मिन्देशे अस्मिन्काले गौः सती’ इति प्रतीतिबलात्सत्ताजातेरपि किञ्चिन्निरूपितत्वसिद्ध्या जातेः किञ्चिदनिरूपि-तत्वायोगात् । न च तत्प्रतीतौ सत्ताजातिर्न प्रतीयते किन्त्वाधेयत्वमेव भासत इति वाच्यम् । एतदन्यादृशस्य घटादौ सत्ताजात्यवगाहिप्रत्ययस्याभावेन सत्ताजातेरेव घटादावसिद्धि-प्रसङ्गात् । न च सन् घट इत्येतावन्मात्रप्रतीतिरेव तत्साधिकेति युक्तम् । तत्र स्वनिरूपकं विहायाधेयतामात्रस्य भानाभ्युपगमसम्भवात् । न च निरूपकानवगाहिनि प्रत्यये निरूप्यं न भासत इत्यतिरिक्तधर्मभानमिति वाच्यम् । चैत्रस्य पितेत्ययं पितेति च प्रतीतिबलात्पितृ-त्वादिजातीनामपि सिद्धिप्रसङ्गात् । अभावः सन्नित्यादिप्रत्ययादभावादावपि सत्ताङ्गीकार-प्रसङ्गाच्च । न च सर्वस्य सद्रूपे कल्पितत्ववादिनामभावादेरपि कल्पितत्वात् ब्रह्मरूप-सत्ताजातिरिष्टैवेति वाच्यम् । सत्ता सतीति प्रत्ययबलात्सत्ताया अपि सत्ताजातिमत्त्वं स्यात् । न चेष्टापत्तिः । सत्ताया अपि सद्रूपे कल्पितत्वापत्तेः । न चोपहितरूपेण सत्ताया अपि कल्पितत्वाभ्युगमान्नेदमनिष्टापादनमिति वाच्यम् । तर्ह्युपहितरूपापन्नायास्तस्याः कल्पितत्वेन घटनिवर्तकज्ञानविषयत्वायोगाद्बाध एव । किञ्चेयं गौरियं गोपदशक्येति सामानाधिकरण्य-प्रत्ययाविशेषात्सम्बन्धभेदकल्पने मानाभावाच्च शक्यताशक्ततारूपाणामखण्डधर्माणां गोगोपदतादात्म्यस्यावर्जनीयतया तेषां गोगोपदनिवर्तकज्ञानाविषयत्वाद्बाध एव । न च तेषु नानवच्छिन्नप्रकारताभ्युपेयत इति वाच्यम् । सत्तावदखण्डानुगतधर्मत्वादेव तथाऽभ्युप-गमसम्भवात् । अन्यथा सत्ताया अपि तन्न स्यात् । शब्दनिष्ठानां तारत्वमन्द्रत्वादीनां रूप-निष्ठानां शुक्लतरत्वादीनां रसनिष्ठमधुरत्वावान्तरवैजात्यानां च अयमस्मात्तारः अयमस्मा-च्छुक्लतरः अयं मधुरस्ततो मधुरतरोऽयमिति प्रत्ययबलादवधिनिरूप्यत्वस्य नव्यनैयायि-कैर्वर्णानित्यत्वविचारेऽभिहितत्वेन जातेः किञ्चिन्निरूपितत्वेऽपि बाधकाभावाच्च । अपि च कार्याव्यवहितपूर्ववृत्तितावच्छेदकधर्मः कारणत्वमिति पक्षे दण्डत्वादिरूपाखण्डधर्मस्यैव कारणत्वमुपहितरूपेण स्वरूपतोऽवच्छेदकत्वं चेत्यभ्युपगतत्वेन शक्यताया एव स्वरूपतोऽ-वच्छेदकत्वं तादृशशक्यतात्वेनावच्छेद्यत्वमिति रीतेः सम्भवेन शक्यताया अनवच्छिन्नाया अखण्डायाः स्वीकारे बीजाभावाच्च ।

ननु शक्यता नाखण्डा गोव्यक्तिषु स्वीक्रियते येन तदभ्युपगमस्य जात्यभ्युपगम-रूपत्वस्यैव बलात्प्राप्त्याऽस्माकं बाधानिस्तारः स्यात् । किन्तु भवदभिमता यावत्यो गोव्यक्तयस्तावद्व्यक्तिविषयकधीजनकतारूपा शक्तिरेकैव गोपदे स्वीक्रियते । तन्निरूपिता कार्यता एकैवाखण्डा गोबोधेषु । तयोश्च किञ्चिदवच्छिन्नत्वे मानाभावान्न कोऽपि धर्म-स्तदीयाखण्डावच्छेदकताश्रयः । गोपदनिष्ठतादृशशक्तिनिरूपकबोधविषयत्वमेव गोषु शक्यत्वं नाम । नातोऽन्यदधिकम् । विषयता त्वाश्रयभेदेन भिन्नैवेति नास्या गोत्वतुल्यता । शक्तिग्रहनिष्ठकारणत्वमप्येकमेव । ‘सद्रूपविशिष्टतद्व्यक्तिशक्तं गौरिति पदम्’ इत्याकारेषु शक्तिज्ञानेष्वेकस्या एवानवच्छिन्नायाः कारणतायाः ‘सद्रूपविशिष्टतद्व्यक्तिः’ इति बोधं प्रति स्वीकारात् । पराभिमतगोत्वजात्याश्रयत्वेनाभिमतव्यक्तीनां तद्व्यक्तिशब्देन कारणकार्य-कोट्योर्निवेशः । अत एव घटव्यक्तिं तद्व्यक्तित्वेनावगाहमानादुक्ताकारशक्तिज्ञानान्न गो-व्यक्तीनां शाब्दबोधः । तत्र तस्य कारणत्वास्वीकारात् । न च तथाप्येकां गोव्यक्ति-मवगाहमानाच्छक्तिग्रहादन्यगोव्यक्तिशाब्दधीः स्यादिति वाच्यम् । इष्टत्वात् । गोत्वादि-जातिस्वीकारेऽपि गोत्वेनैकगोविषयकशक्तिज्ञानाद्गोव्यक्त्यन्तरशाब्दबोधस्य मीमांसकैः स्वीकारात् ।

ननु कारणत्वादेरखण्डस्य स्वीकारेऽप्यनुगतैकधर्मं विना अन्वयव्यतिरेकग्रहणायोगेन तद्ग्रहणायोगाद्गोत्वादिकमवश्यमभ्युपेयमिति चेन्न । तृणारणिमणिभ्यः प्रत्येकं वह्न्युत्पत्त्या तृणत्वाद्यवच्छिन्नस्य व्यतिरेकाग्रहेऽपि उपस्थितकतिपयव्यक्तिभिः कार्योत्पत्तिदर्शनमात्रेण प्रथमतस्तासु कारणताग्रहस्तदनन्तरं तत्सदृशव्यक्त्यन्तरेष्विव सर्वत्राप्यनुगतधर्मावच्छिन्नान्वय- व्यतिरेकग्रहं विनापि कारणताग्रहसम्भवेनानुगतधर्मस्वीकारवैयर्थ्यात् ।

यत्तु ‘कारणत्वादेरवच्छिन्नत्वेनैवानुभवबलात्तद्भानावश्यकत्वेऽन्यूनातिरिक्तवृत्तेरेव तथात्वा- त्तादृशगोत्वादिसिद्धिः’ इति । तन्न । धूमो वह्निव्याप्य इत्याद्यनुभवे धूमत्वादौ व्याप्यता-वच्छेदकत्वाभानस्य दीधितिकाराद्युक्तत्वेन तद्वदेव दण्डो घटकारणमित्याद्यनुभवे दण्डत्वादे-र्घटकारणतावच्छेदकत्वभानानङ्गीकारात् ।

यदपि ‘व्यक्तीनां जातिव्यञ्जकत्वात् सत्तादिरूपजातिव्यञ्जकतावच्छेदकतया गोत्वादि-जात्यभ्युपगमः’ इति तदप्यसत् । जातिनिष्ठलौकिकविषयतासम्बन्धेन प्रत्यक्षं प्रति स्वविषय-समवेतत्वसम्बन्धेन प्रत्यक्षस्य काणरत्वाज्जातिप्रत्यक्षप्रयोजकसम्बन्धघटकताया व्यञ्जकता-रूपत्वाद्वा सास्नावच्छिन्नचक्षुः संयोगवत्समवायादेर्गोत्वाभ्युपगमपक्षेऽपि कारणत्वावश्यक-तयोक्तसम्बन्धघटकतारूपव्यञ्जकत्वस्याङ्गीकाराद्वा तदवच्छेदककोटौ गोत्वादेरनिविष्टत्वाद् घटकतयापि गोत्वादिजातिसिद्धेरभावादिति चेन्न ।

गोपदेषु तज्ज्ञानेषु कारणताया अखण्डायास्तज्जन्यबोधे कार्यतायाश्चाखण्डाया अभ्युप-गमे पूर्वरीत्या तासामेव जातिरूपत्वापत्त्या गवादिष्वपि किञ्चिन्निरूपितकारणता-कार्यत्वादीनामखण्डानामावश्यकत्वे तासामेव जातिरूपत्वापत्त्या तदनभ्युपगमवचनस्य रिक्तत्वात् । गोत्वादिजातीनां तत्तदवच्छिन्नकारणताकार्यतादीनां च पृथगङ्गीकारे ह्यस्माकं गौरवम् । कार्यत्वादीनां गवादिस्वरूपभूतानामङ्गीकारे गोत्वादीनामेव पूर्वोपदर्शितरीत्या कारणत्वादिरूपत्वाङ्गीकारे च गौरवायोगात् । कारणत्वादीनां जातिरूपत्वाभावेऽपि त्वदनु-माने बाधस्योपपादितत्वाच्च । अपि च तत्पदजन्यबोधविषयत्वस्यैव तच्छक्यत्वे घटमानयेत्यादिवाक्यजन्यबोधस्य घटपदानयनादिपदजन्यतया तद्विषयत्वाद्घटपदवाच्यत्व-मानयनस्यापि स्यात् । तत्पदप्रयोज्यविषयतावत्त्वं तत्पदशक्यत्वं चेत्प्रयोज्यत्वस्य जन्यता-वच्छेदकत्वातिरिक्तस्य दुर्निरूपतयाऽवच्छेदकतायाश्च जन्यतां प्रति त्वयेदानीमेवानङ्गीकृतत्वात् । अस्मिन् वाक्ये एतत्पदसत्त्वादस्य विषयत्वमिति प्रतीतिसिद्धस्वरूपसम्बन्धविशेषत्वाङ्गीकारे गङ्गापदप्रयोज्यविषयताशालिनस्तीरस्य तत्पदवाच्यत्वापत्तिः । किञ्च पटो घटपदशक्य इति भ्राम्यतः घटपदात्पटादिबोधो जायते । एवं घटे शक्तिग्रहात् घटादिबोधो जायते । अतः सद्रूपविशिष्टतत्तद्व्यक्तिबोधसाधारणी कार्यतोक्तशक्तिज्ञानसाधारणी च कारणता चाभ्युपेया । अन्यथा तादृशबोधस्याऽकस्मिकत्वापत्तेः । तथा च घटपटयोरविशेषात्पटादेरपि घटपद-वाच्यतापत्तिः । न च पटो घटपदशक्य इति शक्तिज्ञानतज्जन्यशाब्दबोधयोः प्रमितत्वात्तयोः कार्यकारणभावादिसत्त्वेऽपि यथा पटस्य घटपदशक्यत्वं यया रीत्या वार्यते तयैव मन्मतेऽ-प्यस्त्विति वाच्यम् । मन्मते शक्यतावच्छेदकत्वेनाभ्युपगतघटत्वजातेः पटेऽभावेन पटे घटपदशक्तिज्ञानस्य भ्रमतया तेनार्थसिद्धेरभावेन पटे घटपदशक्यतापादनं न सम्भवति । त्वन्मते च घटपदप्रयोज्यविषयतादेरेव शक्यत्वरूपतया तस्योक्तरीत्या पटे बाधाभावेन शक्तिज्ञानस्य भ्रमत्वे बीजाभावात् । न च मन्मतेऽपि गोघटादिनिष्ठा शक्यताऽखण्डा । सा पटे बाधिताऽस्त्विति वाच्यम् । त्वया ‘न चानुगतमेकमवच्छेदकं विना तावद्व्यक्तिनिष्ठा कथमेका शक्यतेति वाच्यम् । तावद्व्यक्तिधीजननानुकूला शक्तिर्गोपदे स्वीक्रियते’ इत्यादिना शङ्कासमाधानग्रन्थेनाखण्डशक्यतापक्षस्य त्यक्तत्वात् । मयाऽनुपदमेव दूषितत्वाच्च ।

न च पटो घटपदशक्य इत्यादिषु भ्रमेषु प्रमावृत्तिकारणतापेक्षया विलक्षणैवाखण्डा कारणता स्वीक्रियते । तज्जन्यबोधेष्वेवाखण्डा कार्यता च । इत्थं च प्रमामात्रनिष्ठकारणता-निरूपितकार्यताशालिबोधीयविषयताया एव घटपदशक्यतारूपत्वान्नास्माकं पटे घटपद-शक्यत्वमिति वाच्यम् । एवमपि घटपटोभयविषयकशाब्दबोधमादाय पटेऽतिप्रसङ्गानुद्धारात् । अपि च जातिमात्रं त्वया न परित्यक्तम् । एकस्या महासत्तायाः स्वीकारात् । किन्तु लाघवदृष्ट्या गोत्वादिकमेव । तत्र गोत्वावच्छिन्नविशेष्यकगोपदशक्तिज्ञानगोत्वप्रकारक-शाब्दयोस्तत्त्वेन कारणताकार्यते द्वे एव गोत्वादिजातिस्वीकारपक्षे । तत्र तु भ्रमस्थले कारणताकार्यते द्वे प्रमास्थले द्वे इति चतुष्टयमिति कुतो लाघवम् । न च त्वन्मते कारणताकार्यताघटकतया गोत्वशाब्दत्वरूपजातिद्वयस्वीकाराच्चतुष्टयमवर्जनीयमिति वाच्यम् । एवमपि त्वत्पक्षे लाघवानवकाश एव । वस्तुतो घटपटपदशक्तिज्ञानाधीनशाब्दस्थलानुरोधात् घटत्वपटत्वाद्येकैका जातयः कारणताकार्यते द्वे इति तत्तत्स्थले पदार्थत्रयं सर्वस्थलानु-रोधाच्छाब्दत्वजातिरेका । त्वन्मते तु प्रतिस्थलं पूर्वोक्तरीत्या चतुष्टयमिति मन्मत एव लाघवम् । कारणताकार्यतयोः स्वावच्छेदकधर्मरूपताभ्युपगमे तु सुतरां लाघवम् । अपि च घटपदस्य यदा पटे शक्तिभ्रमस्तदा तत्पदात्पटबोध एव । न स्तम्भबोधः । यदा स्तम्भे शक्तिग्रहस्तदा तद्बोध एवेत्यनुभवानुरोधात्तादृशशक्तिज्ञानशाब्दबोधस्थलेषु अखण्डाः कारणताकार्यताव्यक्तयो बह्व्य एव एकैकघटपदपटपदानुरोधेन स्वीकर्तव्या इति त्वदभ्युप-गतस्यैवातिहेयत्वम् । तत्रापि सर्वभ्रमसाधारणैककार्यकारणभावाङ्गीकारे घटे गोपदशक्ति-ज्ञानात्पटबोधापत्तिः । कथञ्चित्तद्वारणार्थमाग्रहे गोपदवाच्यनानार्थस्थलेऽप्येतत्कारणताकार्य-तयोरेव प्राप्त्या गोपदादीनां नानार्थकत्वोच्छेदः । घटपदाविशेषात् । अपि च गोत्वादि-जात्यभावे तत्तत्कार्यकारणयोरन्वयव्यतिरेकग्रहानुपपत्तिः ।

यदत्रोक्तं ‘तृणादौ वह्निकारणताग्रहस्थल इवोपपत्तिः’ इति । तदसत् । यस्मात्तत्र कतिपयतृणादिभिः पुनः पुनः कार्योत्पत्तिं दृष्टवतोऽनुमानेनैव लाघवसहकृतेनाजनकव्यक्ति-व्यावर्तकजात्यवच्छिन्नेषु कारणताग्रहादपूर्वव्यक्तौ तज्जातीयत्वेन कारणत्वानुमानात्प्रवर्तते । तव सत्तातिरिक्तजात्यपलापिनः कथम् । सत्ताया व्यभिचारित्वात् । एवमेव प्रवृत्त्यङ्गीकारे वह्न्यर्थिनो घटेऽपि प्रवृत्त्यापत्तेः । किञ्च सत्ताया एव गोत्वघटत्वादिपदैरभिलाप्य-नानाजात्यात्मकत्वे घटव्यक्तौ पटत्वादिसंशयादेरनुपपत्तिः । सत्त्वस्य गृहीतत्वात् । न च घटव्यक्तिभेदकोटिक एवायं संशय इति वाच्यम् । इतरघटव्यक्तिभेदकूटवत्त्वेन गृह्यमाणघट-व्यक्तौ सत्त्वेन गृह्यमाणायामुक्तसंशयस्यानुभवसिद्धत्वात् । सन्नयं घटो न वेति संशय-स्याहार्यत्वापत्तिश्चेत्यादि बहुतरमूहनीयम् ।

यदपि कल्पान्तरमुक्तम् । अथ वा ‘तावद्व्यक्तीनां यावन्ति सद्रूपेण सह तादात्म्यानि तावदन्यतमत्वविशिष्टसम्बन्धेन सद्रूपविशिष्टं गौरिति व्यवहारविषयः । तेन सम्बन्धेन च सद्रूपं तत्तत्कारणतावच्छेदकम् । न च गौरवाद्दुर्ज्ञेयत्वाच्चोक्तान्यतमत्वस्य तथात्वासम्भवा-द्गोत्वादेः कल्पनमेव युक्तमिति वाच्यम् । अखण्डस्यान्यतमत्वस्य स्वरूपत एव निवेशेनोक्त-दोषाभावात् । क्लृप्तेनैव तेन निर्वाहे गोत्वादिपल्पनस्यायुक्तत्वात् । न चैवं गोव्यक्ती-नामन्यतमत्वेनैव गवादेः कारणत्वादिकमास्ताम् । किं सद्रूपस्य तत्कल्पनयेति वाच्यम् । गोत्वादिजातिस्वीकारेऽप्यन्यतमत्वस्य कारणतावच्छेदकत्वस्य वारणाय तस्यावाभ्यामन्यथा-सिद्धिनिरूपकत्वस्वीकारात् । अत एव सद्रूपास्वीकर्तृबौद्धैरुक्तान्यतमत्वस्यापोहनामकस्य गवादिपदवाच्यत्वादिकं स्वीक्रियते’ इति ।

तदप्ययुक्तम् । यतो यद्यप्यत्र न पूर्वकल्पोक्तदोषाणामवकाशस्तथापि घटे गोत्वसंशयस्य धर्मितावच्छेदकातिरिक्तप्रकारकोटिकत्वस्यानुभवसिद्धस्यापलापापत्तिः । न ह्येतत्संशयस्य समवायेन घटवति संयोगेन घटसंशयस्येव संसर्गमात्रकृतवैलक्षण्यानुभवो लोकानाम् । अपि चान्यतमत्वादीनामखण्डत्वेऽपि प्रतियोग्यनालिङ्गिततयाऽभावप्रत्यक्षाभावेन स्वरूपतो भाना-योगात्स्वरूपतो भासमाने गोत्वे कारणतावच्छेदकत्वम् । लाघवात् । अन्यतमत्वस्य त्वन्यथासिद्धिनिरूपकतावच्छेदकत्वमिति ममाभ्युपगमो गोत्वादेरन्यतमत्वातिरिक्तस्य स्वीकारोऽपि । तस्य स्वरूपतो भानाभ्युपगमे तु तत्तद्गवान्यतमत्वादीनामेव कारणता-वच्छेदकत्वसम्भवात्कुतस्त्वदुक्तसम्बन्धेन सद्रूपस्य कारणतावच्छेदकत्वम् । संसर्गांशेऽन्यत-मत्वस्य स्वरूपतो भानं न प्रकारांश इत्यत्र नियामकानुपलम्भात् ।

ननु स्वरूपसम्बन्धसंसर्गकस्थले स्वरूपत्वस्याननुगतत्वात्स्वरूपत्वस्य संसर्गतावच्छेद-कत्वानुपपत्त्या तत्तदन्यतमत्वमेव स्वरूपतः संसर्गतावच्छेदकमित्यस्ति नियामकम् । न च सत्त्वमेव स्वरूपपदार्थतावच्छेदकमस्त्विति वाच्यम् । तथात्वे सत्स्वरूपमिति वाक्यस्य घटः कलश इति वाक्यस्येवाबोधकत्वापत्तेरिति चेन्न । तर्हि स्वरूपमित्याकारानुगतप्रतीतिनिर्वाहाय तादृशान्यतमत्वरूपस्वरूपत्वस्य स्वरूपतः प्रकारता प्राप्तैव । न च तद्व्यक्तित्वेनैवान्यतमत्वं भासतामिति वाच्यम् । संसर्गकोटौ तथैव सम्भवात् । वस्तुतः काले स्वरूपसम्बन्धेन कालत्वावगाहिन्योरत्र कालत्वमिदानीं कालत्वमिति प्रतीत्योः संसर्गतावच्छेदककृतवैलक्षण्यं वाच्यम् । प्रकारविशेष्ययोः तत्स्वरूपभूतसंसर्गस्य च साम्यात् । तच्चान्यतमत्वादतिरिक्तं भावरूपमेव प्रत्येकं प्रत्येकं भासत इत्यवश्यमुपेयमित्यन्यतमत्वस्य ससंर्गतावच्छेदकत्व-मप्रामाणिकमेव । अभावत्वरूपाभावस्यापि प्राचीनैः स्वरूपतो भानस्याभ्युपगतत्वाच्च । एवं यावत्यः सद्व्यक्तयस्तत्तदन्यतमत्वस्यैव सन् घट इत्यादिषु भानाभ्युपगमेनैव सर्वनिर्वाहे सद्रूपे जातेरप्यसिद्धिश्च । न च अन्यतमत्वस्य स्वरूपतो भाने तस्य प्रतियोग्यविषयकप्रत्यक्ष-विषयत्वाद्भावत्वमनुगतत्वाज्जातित्वमिति बलादागतमिति वाच्यम् । गवादिनिष्ठतत्तदन्यत-मत्वस्यापि तथैव जातित्वप्राप्त्या गोत्वादिजात्यनङ्गीकारस्य व्याहतत्वापत्तेरित्यलम् ।

यदपि स्वसम्मतार्थे संवादाय हरिकारिकोदाहरणं

सम्बन्धभेदात्सत्तैव भिद्यमाना गवादिषु ।

जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।।

सा जातिः सा महासत्ता तामाहुस्त्वतलादयः । इति ।।

तदप्यकिञ्चित्करम् । पूर्वोक्तदोषकवलितार्थे हरिकारिकाया अनादरणीयत्वात् । अन्यथा शाब्दिकोक्तशब्दार्थयोरैक्यपक्षस्याप्यङ्गीकर्तव्यतापातात् ।

यदपि हरिकारिकायां ‘सम्बन्धभेदादित्यस्य तत्तद्गवादिव्यक्त्युपहितत्वरूपस्य तावद्व्यक्ति-तादात्म्यानामन्यतमत्वविशिष्टरूपस्य वा सम्बन्धस्य भेदादित्यर्थः । त्वतलादय इत्यस्य गोत्वघटत्वबन्धुतेत्यादौ १त्वतलादिप्रत्ययार्थ इत्यर्थः । सदन्या प्रकारकधीप्रकारतैव स्वरूप-तस्त्वादिशक्यतावच्छेदिका । अतो न निर्धर्मितावच्छेदककबोधापत्तिः । न च प्रकृत्यर्थोप-लक्षितसद्रूपस्य सर्वत्र सत्त्वादश्वे गोत्वमित्यादिव्यवहारापत्तिरिति वाच्यम् । प्रकृत्यर्थविशिष्ट-सत्ताया एवान्वयात्’ इति । तन्न । गोव्यक्तिद्वये ‘अनयोर्गोत्वम्’ इत्यादिव्यवहारानुपपत्तेः । त्वन्मते तत्तद्व्यक्तेरेव प्रकृत्यर्थतयाऽनुगतेतरव्यावर्तकरूपान्तराभावेन २तद्व्यक्तिद्व्यक्तिद्वय-वृत्तित्वविशिष्टसत्त्वस्य कुत्राप्यभावादिति दिक् । तस्माद्गोत्वादिजातिस्वीकारावश्यकत्वे पूर्वोक्तबाध एव ।

ननु मास्तु गोत्वादीनां विवरणरीत्या सद्रूपत्वम् । किन्त्वविद्याशक्त्यात्मिका एव ताः । न च तादृशाविद्यायाः घटाद्यवच्छिन्नचिद्विषयकत्वे घटादिधीकाले तन्निवृत्त्यापत्तिः । ब्रह्मविषयकत्वे घटत्वपटत्वादिनानाजात्यसम्भवः । न ह्येकपुरुषं प्रति भासमाना मूलाविद्या नानेति सिद्धान्त इति वाच्यम् । अनन्तानां निर्विषयकाणां विक्षेपनामिकानां मूलाविद्या-शक्तीनामङ्गीकारात् । आवरणशक्तीनामेव सविषयकत्वात् । तथा च घटव्यक्तिभिरवच्छिन्ना जलाहरणाद्यनुकूलशक्तिर्घटत्वम् । एवं पटत्वमपि । तादृशघटत्वाद्यवच्छिन्नचिति घटादयः कल्पिताः । यथा पूर्णानन्दरूपेऽधिष्ठाने जायमाने प्रपञ्चस्य सद्रूपं साधारणाधारस्तथा गवाद्यवयवो गोत्वादिजातिश्चासाधारणाधार इति तत्रापि गवादयः कल्पिताः । तथा च ‘स्वानुगतप्रतिभासे वस्तुनि कल्पिताः’इत्यस्य तत्तादात्म्यापन्ना इत्यर्थकत्वान्न बाधः । ‘सद्रूपे कल्पिताः’ इति ब्रह्मसिद्धिकारोक्तसाध्यस्यैव स्वनिवर्तकज्ञानविषयसद्रूपका इत्यर्थ-कत्वस्वीकारान्न पूर्वोक्तार्थविरोध इति चेन्न । घटत्वादीनामविद्याशक्तित्वे मानाभावात् । घटत्वादितादात्म्यस्य घटे सिद्धत्वेन सिद्धसाधनमर्थान्तरता वा स्यात् । न चाधिष्ठाना-ध्यासिकतादात्म्यवृत्तिवैजात्यपुरस्कारेण तादात्म्यस्य साध्यतावच्छेदकसम्बन्धत्वाङ्गीकारान्न सिद्धसाधनमिति वाच्यम् । भ्रमेऽलीकभानवादिनो मम तादृशतादात्म्यस्यैवाप्रसिद्ध्या तेन सम्बन्धेन साधनायोगात् । तत्सम्बन्धघटितव्याप्त्यादेरयोगात् । ब्रह्मसिद्धिकारोक्तसाध्येऽपि परिच्छिन्नत्वस्य भवदभिमतहेतुवाक्यार्थभूतस्य व्यभिचारादयः । एवमंशित्वहेतोर्बाधोपाध्या-दयोऽनुसन्धेयाः । उत्तरमूलवाक्यानुरोधादाह ।। तदादिन इति वेति ।। (१मायावादिमतानि निरस्तानीत्यर्थः) प्रमेयबहुत्वादेव बहुत्वम् ।