न चानिर्वचनीये किञ्चिन्मानम्..

अनिर्वचनीयस्य प्रत्यक्षसिद्धत्वशङ्का मिथ्याशब्दवाच्यत्वशङ्का च

न चानिर्वचनीये किञ्चिन्मानम्..

श्रीमज्जयतीर्थटीका

कथमनिर्वचनीयार्थे प्रमाणाभावः । यावता प्रत्यक्षं शुक्तिरजतादेरनिर्वचनीयता-मावेदयदस्ति । बाधकज्ञानसमनन्तरं मिथ्यैव रजतं प्रत्यभादित्यनुवादात् । यावदुक्तं भवत्यनिर्वचनीयमिति तावदुक्तं मिथ्येति । न चाप्रतीतमाप्तेनानूद्यते । न च बाधकप्रत्ययो भ्रान्तिः । नापि लिङ्गादिजन्य इति ।