अनुमानस्य चाप्रसिद्धविशेषणः पक्षः..
केवलव्यतिरेकिणि अप्रसिद्धविशेषणत्वस्य दूषणत्वसमर्थनम्
अनुमानस्य चाप्रसिद्धविशेषणः पक्षः
श्रीमज्जयतीर्थटीका
न च वाच्यं केवलव्यतिरेकिणो नाप्रसिद्धविशेषणत्वं दूषणमिति । तथा सत्यन्यत्रासम्भवेन तत्कथाया एव वृथात्वापातात् । दूषणत्वोपयुक्तप्रकारानिरासे च केवलव्यतिरेकितामात्रस्यानुपयोगित्वात् । व्यतिरेकव्याप्तिस्तत्र ग्रहीष्यत इति चेन्न । प्रतियोगिप्रतीतिमन्तरेण व्यतिरेकस्यापि प्रत्येतुमशक्यत्वात् । एवं सति केवलव्यतिरेकिभङ्गः स्यादिति चेन्न । सामान्यप्रसिद्ध्या तत्प्रवृत्तिसम्भवात् । तदभावे तद्भङ्गस्येष्टत्वात् ।
द्वैतद्युमणि:
चाशब्दस्य प्रत्यक्षसमुच्चायकत्वे तत्र पक्षाद्यभावात्तत्पक्षस्याप्रसिद्धविशेषणत्व-कथनमसङ्गतमित्यत आह ।। चशब्द इति ।। तथा चानुमानस्य पक्षोऽप्रसिद्धविशेषणश्चेति योजनोक्ता भवति । समुच्चितानि प्रत्यक्षनिराकरणानुमाननिराकरणागमनिराकरणानि विशेषा-भावकूटविधया न चानिर्वचनीये किञ्चिन्मानमित्युक्तमानसामान्यनिराकरणे हेतवो भवन्तीति तेषां परस्परसमुच्चयकथनं युक्तमिति भावः । पक्षपदस्य साध्यधर्मविशिष्टधर्मिपरतया अप्रसिद्धं विशेषणं यस्येति बैहुव्रीहिविग्रहघटकयत्पदार्थत्वस्यापि तस्यैव प्राप्त्या यस्य विशेषणमित्युक्तौ विशिष्टसम्बन्धिविशेषणमित्युक्तं स्यात् । विशिष्टविशेषणत्वं च विशेष्यविशेषणत्वे सति विशेषणविशेषणत्वम् । तदयुक्तम् । आत्माश्रयप्रसङ्गेन प्रमाणं विना स्ववृत्तित्वनिर्वाह्यस्य स्वस्मिन् स्वविशेषणत्वस्य वक्तुमशक्यत्वादित्याशयेन शङ्कते ।। नन्विति।। पक्षत्वे पक्षपद-बोध्यत्वे । पक्षपदस्य सपुत्रस्य गमनमित्यादिवाक्यघटकसपुत्रेत्यादिप्रातिपदिकवद्विशिष्ट-विषयकबोधजनन एव सामर्थ्य इत्यर्थः । सर्वसम्मतत्वाभिप्रायेणैवं निर्देशः । न तु तत्र विवादसूचनाय । धर्मिमात्रशक्तत्वे वह्न्यनुमितौ हृदः पक्ष इति अमुख्यार्थकप्रयोगोऽपि प्रामाणिकः स्यात् । हेत्वाभासस्याप्यमुख्यया वृत्त्या हेतुपदव्यवहार्यत्ववत्पक्षाभासस्यापि तस्यामुख्यया वृत्त्या पक्षपदव्यवहार्यत्वमेव । इत्थं च निश्चिते इति शेषो वा । अनुक्तस्यापि स्वरविशेषव्यंग्यत्वं वा । धर्मशास्त्रस्य प्रामाण्ये इदमित्थमेवेत्यादाविवेति बोध्यम् ।। सत्यमिति ।। पक्षपदस्य मुख्यवृत्त्या विशिष्टविषयकबोधजननसामर्थ्यं वर्तत इत्येतत्सत्य-मित्यर्थः । तर्हि कथमस्योपपत्तिरित्यत आह ।। पक्षपदेनेति ।। तदेकदेश इति शक्यसम्बन्ध-प्रदर्शनाय ।। अदोष इति ।। नैयायिकमते विशिष्टसत्ताभावाभावात्मकविशिष्टसत्तायां गुण-वृत्तित्वसत्त्वेऽपि गुणे विशिष्टाभावो नास्तीति वाक्यस्य कथमपि प्रामाण्याभावेन तन्निर्वाहाय नञ्पदस्यानुयोगितारूपाभावत्वविशिष्टविषयकबोधजनकत्वमेव । न तु कदापि तदुपलक्षित-बोधजनकत्वम् । तेन तद्वाक्येन नियमेन विशिष्टसत्ताभावाभावत्वावच्छिन्नगुणनिरूपिताधेयता प्रत्याय्यते । सा च बाधितेति तद्वाक्यस्याप्रमाण्यमेव । नैवं प्रकृते । किं तु लक्षणया विशेष्यमात्रबोधकत्वस्यापि विद्यमानत्वादुक्तनिर्देशप्रामाण्यं युक्तमेवेति भावः । विशेषणोप-लक्षितान्वयस्य वैयर्थ्यादेकदेशलक्षणैवाश्रिता ।
ननु कथमिदं विशिष्टे विशेषणासत्त्वमभ्युपगम्य समाधानम् । विशिष्टं विशेषणविशेष्यो-भयोपादानकं वा विशेष्यमात्रोपादानकं वा विशेषणतत्सम्बन्धनिमित्तकं वा द्रव्यान्तरमिति ते मतम् । तत्र विशेषणसत्त्वे कथमात्माश्रयः । किं च कपालसंयुक्ततृणादेस्तदुपादानकघटेऽपि प्रतीत्या तत्र तत्सत्त्ववत् विशेष्यीभूतचैत्रादिवृत्तेर्दंडस्य विशिष्टसत्त्वमावश्यकम् । किं च रूपविशिष्टचैत्रे रूपाभावे तादृशविशिष्टस्यारूपिद्रव्यत्वेन चाक्षुषत्वानुपपत्तिः । क्रिया-विशिष्टस्य क्रियाभावे तस्योत्तरदेशसंयोगाभावात्तत्र प्रतीत्यनुपपत्तिः गगनादिवत् स्थिरत्वा-पत्तिश्च । प्रमेयत्वविशिष्टस्याप्रमेयत्वे तस्यासत्त्वापत्तिः । घटाभावविशिष्टस्य घटाभावराहित्ये घटवत्त्वं स्यात् । भावाभावान्यतरवत्त्वनियमात् । दण्डविशिष्टे दण्डानङ्गीकारे दण्डी न दण्डीति दण्डिनि दण्डो नास्तीति प्रतीत्यापत्तिश्च । तस्मादिदमयुक्तमिति चेन्न ।
विशिष्टं नाम न विशेष्यादत्यन्तभिन्नम् । किं तु भिन्नाभिन्नं सविशेषाभिन्नं च । तत्र भिन्नाभिन्नस्थले विशेष्यवृत्तिधर्माः सर्वेऽपि विशिष्टाख्ये परिणामविशेषे प्रमया प्रतीयन्त एवेति तत्र विशेष्यवृत्तिधर्मा रूपादयः सन्त्येवेति न केऽपि पूर्वोक्तदोषाः । परं तु विशेष्ये अप्रतीय-माना अपि केचिदुत्पत्तिनाशादयो धर्माः प्रतीतिबलादङ्गीक्रियन्ते । तदर्थमेव भेदाङ्गीकारः सर्वसम्मत एव । परं तु युक्त्यन्तरमनुरुद्ध्य नैयायिकवैलक्षण्येन विशेषाङ्गीकारवादिभिरपि विशिष्टान्वयस्थले विशेष्यस्य समभिव्याहृतपदार्थे यादृशोऽन्वयः तत्र विशेषणस्याप्यन्वयः तादृश एव प्रतीयत इत्यवश्यमभ्युपेयम् । विशेषणे तादृशान्वयस्य बाधग्रहदशायां विशिष्टान्वयस्यानुभवविरुद्धत्वात् । भूमौ दृढतरं किञ्चिदंशेन निखातदण्डगृहीतृपुरुषे दण्डीति विशिष्टावगाहिप्रत्ययकालेऽपि दण्डस्य चलनाभावदशायां पुरुषमात्रचलने दण्ड्ययं चलति दण्डविशिष्टो न चलतीति दण्डी सन्न चलतीति व्यवहारात् । तत्र दण्डकर्तृकचलनकालीन-तदाश्रयकर्तृकचलननिषेधेन तद्वाक्यसामञ्जस्याच्च । अन्यथा दण्डविशिष्टचलनप्रतीत्या तन्निराकरणवाक्यस्याप्रामाण्यं स्यात् । तद्विशिष्टे तन्नास्तीति वाक्यस्याप्ययमेवाभिप्रायः । विशेषणस्य स्वविशिष्टविशेष्यवृत्तित्वं नास्त्येवेति दण्डविशिष्टवृत्तित्वनिषेधतात्पर्यकं दण्डिनि दण्डो नास्तीति वाक्यं प्रमाणमेव । तादृशपरिणामविशेषभूतवस्तुनि तन्निषेधकं तु बाधितत्वा-दयुक्तमेव । क्वचित्प्रमाणसत्त्वे तद्विशिष्टेऽपि तत्सत्ता स्वीक्रियते । यथा प्रमेयत्वविशिष्टे प्रमेयत्वम् । घटात्यन्ताभावविशिष्टे घटात्यन्ताभावः । एवं चोक्तविशिष्टान्वयपरित्यागेन समाधानं युक्तमेव ।
केचित्तु अस्य व्यवहारस्य नैयायिकमतानुसारेणैव कृतत्वात् तन्मते विशिष्टस्यानति-रिक्तत्वात् तद्रीत्यैवैतच्छङ्कापरिहारौ । न च तन्मते सिषाधयिषाविरहविशिष्टसिद्ध्यभाववत एव पक्षपदार्थत्वान्न साध्यविशिष्टधर्मिणः पक्षपदार्थत्वमिति वाच्यम् । सन्दिग्धसाध्यधर्मवत्त्वं पक्षत्वमित्यस्य यथाश्रुतार्थमनुसरतां वह्निसाध्यके ह्रदादेः पक्षपदव्यवहार्यत्वमनभ्युपगच्छतां प्राचां मते साध्यवैशिष्ट्यस्यैव पक्षपदार्थशरीरविनिष्टत्वात् । अत एवानुपदं तथैव वक्ष्यतीत्याहुः ।
पक्षपदस्य मुख्यार्थत्वमनुसृत्याह ।। यद्विशेषणेति ।। अनेनाप्रसिद्धं विशेषणं यस्येत्यत्र षष्ठ्यर्थो नाधेयत्वम् । किं तु निर्वाहकत्वम् । विशिष्टनिर्वाहकत्वस्य विशेषणेप्यक्षतत्वात् । न च विशिष्टान्वयस्थले विशेषणान्वयस्य त्वयोक्तत्वात् विशेषणे स्वनिर्वाहकत्वं बाधितमिति वाच्यम् । विशेषणसम्बन्धपरिणतद्रव्यात्मकविशिष्टान्वयरूपतदुपलक्षितान्वयस्यैवाङ्गीकारात् । सति तात्पर्ये तत्पदस्य तादृशान्वयबोधजननाङ्गीकारे बाधकाभावात् । न चाधेयतान्वय-पक्षोप्युक्तरीत्या युज्यत इति तत्पक्षे एकदेशलक्षणाङ्गीकारो व्यर्थ इति वाच्यम् । तत्र पौनरुक्त्यपरपर्यायरूपवैयर्थ्यस्योक्तत्वात् । तद्विशेषणे तदाश्रयधर्मिनिरूपिताधेयत्वसंशयस्या-नाहार्यस्य कदाप्यनुत्पत्त्या तद्विशेषणे तदाश्रयवृत्तित्वस्याजिज्ञासितत्वेन च फलानुत्पत्ते-रानुभाविकत्वेन प्राचां मते जिज्ञासारूपाकाङ्क्षाभावेन नव्यमते समभिव्याहाररूपाकाङ्क्षाभावेन व्युत्पत्तिवादरीत्या कारणान्तरकल्पनेन वा तस्योपपादितत्वात् । अत एव घटो घट इति वाक्यस्य कर्म गच्छति पक्ता पचतीत्यादेश्चाप्रामाण्यमुक्तम् । तद्धर्मविशिष्टाख्यवस्तु-निर्वाहकत्वस्य विशेष्ये तद्धर्माश्रयत्वभानमात्रेणालब्धत्वेन तत्र तद्बोधनं युक्तमेवेत्यवधेयम् ।
यद्वा अनेनाप्रसिद्धं विशेषणं यत्रेति विग्रहो विवक्षितः । तत्र घटकत्वं सप्तम्यर्थः । विशेषणान्वयरूपविशिष्टान्वयस्वीकारेऽपि विशेषणस्यापि स्वाविषयकप्रतीत्यविषयतत्कत्वरूप-घटकत्वस्याबाधेन क्षतिविरहात् । स्वस्मिन् स्वघटितत्वव्यवहारस्यानानुभविकत्वेन घटकत्वस्य भेदघटितत्वे विशेषणान्वय एतत्कल्पे नास्त्येव । किं तु तदुपलक्षितान्वय एवेति द्रष्टव्यम् ।
अप्रसिद्धविशेषणतायाः दूषणत्वं परिहरिष्यामीत्याशयवान् परं प्रत्येव दूषणताप्रकारं पृच्छति ।। अथेति ।। व्याप्तीति ।। तद्वत्त्वेन ज्ञानविरहादित्यर्थः । तथा च व्याप्यत्वासिद्धिः पक्षासिद्धिश्चेति भावः ।। न हीति ।। निरूपकीभूतसाध्याग्रहादिति भावः । साध्यवदन्या-वृत्तित्वस्वव्यापकसाध्यकत्वादिरूपव्याप्तेरग्रहादित्यर्थकत्वमात्रं सिद्धान्तिवचनस्य ज्ञात्वा वक्ष्यमाणरीत्या व्याप्तिसामान्यग्रहाभिप्रायमज्ञात्वा केवलव्यतिरेकिणि तयोरनङ्गत्वात्तदग्रहोऽ-किञ्चित्कर एव । पक्षतापि सिषाधयिषाविरहसहकृतसाधकमानाभावः । अतो न तत्रापि साध्यप्रसिद्धिरुपयोगिनीत्याशयेन शङ्कते ।। केवलव्यतिरेकिण इति ।। किं केवलव्यतिरेकि-सामान्ये दूषणत्वं नास्तीति केवलव्यतिरेकिपदं प्रयुञ्जानस्य तवाभिप्राय उत केवलव्यतिरेकि-विशेष इति । नाद्यः । तथोक्तेरेव निर्दलत्वादित्याह ।। अन्यत्रेति ।। केवलान्वयिनि अन्वयव्यतिरेकिणि चेत्यर्थः । सपक्षसत्त्व एव तयोस्तथात्वादिति भावः । तत्कथायाः शास्त्रकृतां तद्व्युत्पादनस्य ।। वृथात्वापातादिति ।। कुत्रापि तदुद्भावनायोगादित्यर्थः । तथा च सामान्यतः केवलव्यतिरेकिण इत्युक्तिरसङ्गतैवेति हृदयम् । द्वितीयं निराचष्टे ।। दूषणोप-युक्तेति ।। अनिरासे तन्निरासाभावे । तत्सम्पादकविशेषणदाने अकृते सति । केवलव्यतिरेकितामात्रस्य तादृशविशेषणसाहित्यरहितकेवलव्यतिरेकित्वस्यानुपयुक्तत्वात् । अस्मदुक्तदूषणपरिहारं प्रतीत्यादिः । तथा च तादृशदूषणपरिहारक्षम१विशेषोपपादनपूर्वक-मेवाशङ्का कर्तव्या । न तु केवलव्यतिरेकित्वं कथनीयमिति भावः ।
केचित्तु दूषणोपयुक्तप्रकारस्य अनिरासे सम्यक् अनिरासे । केवलव्यतिरेकिता-मात्रस्यानुपयोगादित्यर्थः । केवलव्यतिरेकित्वकथनेनापि कथञ्चिदन्वयव्यतिरेक्यादिहेतुभिन्नहेतु विशेषपरिचयद्वारा कथञ्चिच्छङ्कापरिहारसम्भवेऽपि सम्यङ्निरासकस्यैव वक्तव्यत्वादिद-मयुक्तमेवेति भाव इति व्याचक्रुः ।
नन्वस्मत्प्रयुक्तकेवलव्यतिरेकिपदं नासत्सपक्षकहेतुत्वावच्छिन्नरूढम् । किं तु केवल-व्यतिरेकव्याप्तिमत्त्वेन गृह्यमाणपरम् । तेन व्यतिरेकव्याप्तिबलेनैवानुमितिसम्भवादन्वयव्याप्ति-ग्रहाभावेऽपि न दोष इत्युपपादितं भवति । पक्षे साध्यस्य निश्चये तस्यैव सपक्षत्वापातेन केवलव्यतिरेकित्वभङ्गापत्त्या रूढ्यर्थमहिम्ना सिद्ध्यभावरूपपक्षता लक्ष्यते । रूढेरप्य-निवारणात् । अतोऽस्मदुक्तमुपयुक्ततममेवेत्याशयेन शङ्कते ।। व्यतिरेकेति ।। उपलक्षणं चैतत् । पक्षधर्मताग्रहोप्यत्र द्रष्टव्यः । अन्यथा दोषद्वयमध्ये एकस्य दार्ढ्ये तेनैव प्रकृतहेतु-दुष्टताप्राप्तौ व्याप्तिग्रहसम्पादनस्याकिञ्चित्करत्वापत्तेः ।। प्रत्येतुमित्यादि ।। साध्यप्रतियोगिका-भावत्वेन गृहीतुमशक्यत्वादित्यर्थः । अयमपि दोषः सामान्यतो व्यप्तिपदप्रयोगेणैव पूर्वमुक्त एव । भवता तु अन्वयव्याप्तेः साध्यघटितत्वस्य झडिति बुद्ध्यारोहेण अन्वयव्याप्तिमात्र-प्रस्तावभ्रमेण दोषपरिहारोद्योगः कृत इति भावः ।
एवं सति केवलव्यतिरेकिण्यपि पक्षातिरिक्ते साध्यप्रतीतिरावश्यिकीत्यागतम् । अन्यथा साध्यप्रसिद्ध्यावश्यकत्वे तस्यावृत्तित्वेन ग्रहे हेतोः पक्षवृत्तित्वेन तदभावस्य तदभावव्यापक-त्वग्रहायोगात् व्यतिरेकव्याप्तिशरीरनिविष्टसाध्याभावनिष्ठप्रतियोगिवैयधिकरण्यग्रहायोगाच्च साध्य प्रकारकानुमित्यनुपपत्तेश्च तस्य वृत्तिमत्त्वग्रह आवश्यकश्चेत् पक्षान्तर्भावेन तत्सत्त्वे अनुमान-वैयर्थ्यापत्तेः । तथा च नियमेन सपक्षप्राप्त्या केवलव्यतिरेक्युच्छेदप्रसङ्ग इति तटस्थः शङ्कते ।। एवं सतीति ।। वादिशङ्कया नैतत्फक्किकावतारः । स्वपक्षे दूषणमनुद्धृत्यैव वादिनै-तच्छङ्कनस्यानुचितत्वात् ।। सामान्येति ।। नैरात्म्यं किञ्चिन्निष्ठाभावप्रतियोगि व्यतिरेकि-धर्मत्वादित्याद्यनुमानादिना सामान्यप्रसिद्ध्येत्यर्थः । सामान्यप्रसिद्धिर्नाम यावन्त उभया-वृत्तिधर्माः तत्तदवच्छिन्नधर्मिकतत्तत्संशयाविरोधिज्ञानम् ।। तत्प्रवृत्तीति ।। व्याप्त्यादि-ज्ञानरूपानुमानप्रवृत्तीत्यर्थः । प्रतियोगितावच्छेदकविशिष्टप्रतियोगिग्रहमात्रस्याभावबुद्धाव-पेक्षितत्वेन व्यक्तिविशिष्टवृत्तित्वेन तन्निश्चयस्यानपेक्षितत्वादिति भावः । तथा च स्वविशेष्यक साध्याभावग्रहविरोधिग्रहविषयस्यैव सपक्षत्वेन तदभावान्न केवलव्यतिरेकिविलय इति भावः ।