एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत्
अभेदपरवत्प्रतीयमानागमानां गत्यन्तरकल्पनम्
श्रीमज्जयतीर्थटीका
ननु यथा मुक्तेश्वरभेदे वाक्यनि सन्ति । तथा तदभेदेऽपि ‘परेऽव्यये सर्व एकीभवन्ति । परं ब्रह्म वेद ब्रह्मैव भवति’ इत्यादीनि वाक्यानि सन्ति । तत्कथं निर्णय इत्यत आह ।
मूलं
एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत् प्रतीयमानान्यपि
वाक्यानि सादृश्याद्यर्थान्येव योजनीयानि ।
आदिशब्देन स्थानैक्यमत्यैक्ये गृह्येते । सत्यम् । मुक्तेश्वरभेद इव तदभेदेऽपि सन्ति वाक्यानीति । तथाऽपि तान्यर्थान्तरे योज्यानि । कुतः । भेदवाक्यानामुक्तरीत्या प्रत्यक्षाद्यनुसारित्वेन प्रबलतया तद्विरोधात् । बलवद्विरोधे दुर्बलस्यार्थान्तरयोजनाया न्याय्यत्वादिति ।
न केवलमिदं न्यायप्राप्तं किन्तु पुराणसिद्धं चेत्याह ।
मूलं
‘विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते’ ।। इति ब्राह्मवचनाच्च ।
पारमार्थिकविरोधे त्याज्यत्वमेव स्यात् । न तु व्याख्येयत्वमित्यतो विरुद्धवदित्युक्तम् । प्रागप्यभेदविषयवदिति । यदि तर्हीत्यर्थ यत्र तत्रेति निपातौ । दृष्टं प्रत्यक्षम् । ये आगमाः प्रत्यक्षानुकूलाः तदनुसारेणेतरेषामर्थो द्रष्टव्य इति यवात् । वचनाच्च भेदागमानुसारेणाभेदागमाः सादृश्याद्यर्थे योज्या इति गम्यत इति शेषः ।
द्वैतद्युमणि:
।। प्रत्यक्षाद्यनुसारित्वेनेति ।। आदिपदेनोक्तानुमानग्रहणम् । यद्यपि मुक्तभेदस्य नास्मत्प्रत्यक्षगोचरत्वम् । तथाऽपि जीवेश्वरभेदस्य पूर्वमुपपादितत्वात् पूर्वमत्यन्तभिन्नस्य तदभिन्नत्वायोगान्मुक्तेश्वरभेदवाक्यानि प्रत्यक्षानुसारीणि । पूर्वं जीवानां परस्परभेदप्रत्यक्षस्या-प्युपपादितत्वान्मुक्तानां परस्परभेदवाक्यान्यप्युक्तरीत्या प्रत्यक्षानुसारीणि । प्रत्यक्षपदेनेश्वर-प्रत्यक्षग्रहणमिति वा ध्येयम् । आगमाधिकरणकथनस्यानुपयोगादाह ।। यदि तर्हीत्यर्थ इति ।।