चन्द्रप्रादेशत्वादिविषयं तु..

प्रत्यक्षसिद्धस्यानुमानाद्यबाध्यत्वनियमे व्यभिचारशङ्का तत्परिहारश्च

श्रीमज्जयतीर्थटीका

ननु नीलं नभ इति प्रत्यक्षं विभुत्वाद्यनुमानबाध्यं दृष्टम् । तथा प्रादेश-परिमितश्चन्द्रमा इति प्रत्यक्षमागमबाधितमुपलब्धम् । न हि गगनादेरनीलत्वादिकं प्रत्यक्षसिद्धम् । येन तत्रापि प्रत्यक्षं बाधकं स्यात् । अपौरुषेयवाक्येन बाधे मूलप्रत्यक्षस्याप्यभावात् । तत्कथमेतदित्यत आह–

मूलं

चन्द्रप्रादेशत्वादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वादपटु

चन्द्रप्रादेशत्वादिर्विषयो यस्य तत्तथोक्तम् । नन्वत्रान्यपदार्थो न तावत्प्रत्यक्षम् । अयथार्थत्वात् । न च ज्ञानमप्रकृतत्वात् । मैवम् । प्रत्यक्षमिव प्रत्यक्षमित्युपपत्तेः । अथ वा प्रत्यक्षस्य प्रकृतत्वादेवेन्द्रियजन्यं ज्ञानमपि प्रकृतमित्यदोषः । तुशब्दो विशेषार्थः । चन्द्रप्रादेशत्वादिविषयप्रत्यक्षं न जगत्प्रत्यक्षवत् । किन्त्वपटु । स्वार्थे पुरुषं प्रवर्तयितुं न क्षममिति यावत् । कुतः दूरस्थत्वादिदोषयुक्तत्वात् ।

इदमुक्तं भवति । द्विविधं ज्ञानम् । एकाकारनियतं डोलायमानञ्च । तत्र द्वितीयं सन्देहसञ्ज्ञां लभते । आद्यमपि द्विविधम् । किञ्चित्स्वार्थस्य निश्चायकम् । यथा स्तम्भोऽयं भवत्येवेति । किञ्चित्स्वार्थमुल्लिखदपि न तस्य निश्चायकम् । यथा सवितृ-सुषिरविषयम् । स चायं भेदः क्वचित्सम्भावनाभावाभावाभ्यां भवति । क्वचि-त्परीक्षापेक्षायामपि तत्प्रवृत्त्यप्रवृत्तिभ्याम् । क्वचिच्च प्रागेव विपरीतसंस्कारभावाभावाभ्याम् । तत्राद्यं निःशङ्कप्रवृत्तिहेतु । न तु द्वितीयम् । चन्द्रप्रादेशत्वादिविषयञ्च यद्दूर-स्थत्वादिदोषयुक्तं तत्परिमाणादावयथार्थमिति साक्षिणा निश्चितत्वादेकाकारविषयतया जायमानमप्यनिश्चाययदेव बाधितप्रायं जायते । ततः परञ्च प्रवर्तमानावनुमानागमौ प्रागेव तेन दत्तावकाशौ चन्द्रप्रादेशत्वाभावादिकं निश्चिन्वानौ तद्बाधकाविवोच्येते । अतो नैतत्प्रत्यक्षस्यानुमानागमबाध्यत्वे निदर्शनमिति ।

द्वैतद्युमणि:

प्रत्यक्षस्य निश्चितप्रामाण्यकप्रत्यक्षतत्प्रामाण्याधीनस्वप्रामाण्यकत्वरूप-तन्मूलकत्ववदनुमानागमाद्यन्येन बाधो नास्तीति नियमे व्यभिचारं शङ्कते ।। नन्विति ।। दृष्टमिति ।। न नीलं नभ इति प्रत्यक्षाननुभवात् विभुत्वानुमानस्योक्ततन्मूलकत्वाभावात्तद्बाध्ये तत्र व्यभिचार इति भावः ।। तथेति ।। आगमेति ।।

अष्टाशीतिसहस्राणि विस्तीर्णं योजनानि तु ।

प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु ।

इत्यागमेनेत्यर्थः । उपपादनं तु व्यभिचारस्यानुमानस्थल इवानुसन्धेयम् । मूले आदिपदेन नभोनैल्यग्रहणेऽपि प्रमाणपरिगणनाक्रमे अनुमानस्यागमात्पूर्वोपस्थितत्वात्तदनुसारेणानुमान-बाध्यस्य नीलं नभ इत्यस्य शङ्कायां प्रथममुपन्यासो बोध्यः ।। प्रत्यक्षमिति ।। ‘न च प्रत्यक्षसिद्धम्’ इति पूर्वमूलस्थप्रत्यक्षपदतात्पर्यविषयीभूतमित्यर्थः ।। अयथार्थत्वादिति ।। यथार्थप्रत्यक्षस्यैव मुख्यत्वेन वाच्यत्वात् पूर्वस्थले तस्यैव तात्पर्यविषयत्वाच्च प्रकृतेऽन्य-पदार्थत्वेन विवक्षितस्य भ्रमत्वात्तदभेदायोग इति भावः । ज्ञानं ज्ञानत्वेन ज्ञानसामान्यम् । अप्रकृतत्वात् अनुमानाद्यबाध्यत्वेन पूर्वमनुक्तत्वात् । तथा च ज्ञानसामान्यविषये शङ्कापरिहारेऽनाकाङ्क्षिताभिधानापत्तेरिति भावः ।। मैवमिति ।। प्रत्यक्षमिव प्रत्यक्ष-मितीति ।। मुख्यप्रत्यक्षसदृशमत्र विशेष्यसमर्पकतयाऽनुवृत्तप्रत्यक्षपदतात्पर्यविषयीभूतं भवतीति हेतोरुपपत्तेस्तस्य बहुव्रीह्यर्थत्वे बाधकाभावादित्यर्थः ।

अयमभिप्रायः । अत्र विशेष्याकाङ्क्षायां पूर्वमूलस्थप्रत्यक्षपदं समासान्तर्गतमपि प्रथमान्ततयाऽनुवर्तते । तच्च पूर्वं मुख्यवृत्त्याश्रयणबलात्प्रत्यक्षप्रमाबोधकमप्यत्र चित्रलिखित-सिंहे सिंहपदमिव रूढगौण्या तत्सदृशभ्रमप्रत्यक्षबोधकं तात्पर्यवशादिति ।

अत्र कल्पे पूर्वमूलस्थप्रत्यक्षपदस्य तन्मुख्यार्थप्रमापरत्वे अन्येनेत्ययुक्तम् । प्रमासिद्धस्य केनाप्यबाध्यत्वात् । किञ्च प्रमाया अन्याबाध्यत्वे कस्याप्यविवादात्परकीयशङ्कानुत्थितेः प्रत्यक्षसिद्धमिति वाक्यस्थप्रत्यक्षपदस्य प्रत्यक्षसामान्यपरत्वं भ्राम्यतः सिद्धान्ततात्पर्य-परिज्ञानिनः शङ्केति वक्तव्यम् । तथात्वे प्रमाया अस्मदभिप्रेतत्वमित्युक्त्यैव शङ्कापरिहार-सम्भवे दूरस्थत्वादिदोषादपटुत्वोपपादनग्रन्थो नातीवोपयोगी । किञ्च प्रत्यक्षप्रमासिद्ध-स्यान्येनाबाध्यत्वेऽभिहिते ‘सत्यमेतत् जगत्प्रत्यक्षमप्रमेति तद्बाध्यं भवतु’ इति शङ्का सिद्धान्त्यभिप्रायाज्ञानपूर्विकैवोचिता । तदुपरि जगत्प्रत्यक्षस्य प्रमात्वोपपादकग्रन्थ एवापेक्षितः । न चन्द्रप्रादेशिकत्वादीत्यादिग्रन्थः । भ्रान्तिमूलशङ्कोत्थापनतत्परिहार-योरुपयोगाभावात् । कथञ्चिच्छिष्यबोधनार्थमिति समाधानं तु नातीव स्वरसमित्यरुच्या प्रकारान्तरमाह ।। अथ वेति ।। प्रत्यक्षस्य प्रत्यक्षपदमुख्यार्थभूतप्रत्यक्षप्रमारूपज्ञानस्य । प्रकृतत्वात् बाधोपपादनाय बुद्धिस्थत्वात् । एवकारेणेन्द्रियजन्यज्ञानसामान्यं कथं प्रक्रान्तमिति शङ्का न कार्या । हेतोः स्फुटत्वादिति सूचयति ।। इन्द्रियजन्यं ज्ञानमपीति ।। अपिः समुच्चये । न केवलं प्रत्यक्षप्रमारूपं ज्ञानं । किन्तु भ्रमसाधारणेन्द्रियजन्य-ज्ञानत्वावच्छिन्नमपीत्यर्थः । अपिरभिव्याप्तौ वा । इन्द्रियजन्यज्ञानसामान्यमित्यर्थः । प्रकृतं पूर्वमूलस्थसमासान्तर्गतप्रत्यक्षपदेन प्रकृतमित्यर्थः । अदोषः अत्रानुवृत्ततत्पदस्य तत्तद्रूपावच्छिन्नबोधकत्वादिति भावः ।

अयं भावः । प्रत्यक्षप्रमाबाधेऽभिहिते ‘प्रकृतानुमानबाधात्तत्प्रामाण्यमेवासम्मतम् । उपजीव्यत्वेनापि तद्व्यवस्थापयितुमशक्यम् । प्रकारांशे उपजीव्यत्वायोगात्’ इति वदन्तं प्रति ‘मास्तूपजीव्यत्वं तथापि प्रत्यक्षस्य स्वभावप्राबल्यादेव प्रकृतानुमानबाधाभावात् प्रत्यक्षरूप-बाधकान्तराभावे प्रामाण्यं निर्विवादमेवेत्याशयेन प्रसक्तैतन्मूले प्रत्यक्षपदमिन्द्रियजन्यज्ञानत्व-रूपसामान्यधर्मावच्छिन्नपरमेव वाच्यम् । तस्यैवोभयसिद्धस्य प्राबल्यप्रयोजकत्वेन बोधनार्थ-मावश्यकत्वात् । न तु निर्दोषार्थेन्द्रियसन्निकर्षजन्यज्ञानत्वावच्छिन्नपरम् । जगत्प्रत्यक्षे तस्य परं प्रति विवादग्रस्ततया तद्रूपावच्छिन्नस्य प्राबल्योपपादनेऽपि तेन जगत्प्रत्यक्षप्राबल्या-सिद्धेस्तादृशार्थस्य प्रकृतानुपयोगापत्तेः । तथाचेन्द्रियजन्यज्ञानवाचित्वात्पूर्वमूलस्थप्रत्यक्ष-पदस्यात्राप्यनुवर्त्तमानं तादृशधर्मावच्छिन्नं वाच्यमेवेति नाप्रक्रान्तबोधकत्वादिदोष इति ।

अथ वा प्रत्यक्षबाधितमिति मूले प्रत्यक्षप्रमायाः प्रत्यक्षपदमुख्यार्थत्वेन प्रकृतत्वानु-सन्धानमात्रेण पूर्वमूलस्थप्रत्यक्षपदस्य तत्परत्वाभिमानिनामाशङ्का नन्वित्यादिना प्रदर्शिता । प्रत्यक्षमिवेत्यादिसमाधानग्रन्थस्य चायमर्थः । प्रत्यक्षपदस्य गौणीवृत्त्याश्रयेण प्रत्यक्षसिद्ध-मिति मूलस्थप्रत्यक्षपदस्य भ्रमपरत्वेनोपपत्तेरित्यर्थः ।

अयं भावः । न केवलमेतत्प्रघट्टिकास्थप्रत्यक्षपदं प्रत्यक्षबाधितमिति मूलानुरोधात्प्रत्यक्ष-प्रमापरम् । किन्तु पूर्वमूलानुरोधात् प्रमासदृशभ्रमपरमपि । न च पूर्वमूलस्थपदं कुतो भ्रमपरमिति वाच्यम् । प्रमापरत्वे अन्येनेत्यस्य वैयर्थ्यापत्तेः । प्रमायाः केनाप्यबाध्यत्वात् । तर्हि भ्रमस्यानुमानाद्यबाध्यत्वोक्तौ कथं प्रकृतप्रत्यक्षप्रमायाः प्राबल्यं सिद्ध्यतीति चेन्न । बाध्यमपि प्रत्यक्षभ्रमात्मकं ज्ञानं अनुमानागमाबाध्यं दृष्टम् । तत्कस्य हेतोः । स्वभाव-प्राबल्यादेवेति वक्तव्यम् । बीजान्तराभावात् । किमुत प्रत्यक्षप्रमाया इति कैमुत्यन्यायेनैव तत्सिद्धेः । तथा च पूर्वमूले भ्रमस्यैव प्रसक्तत्वादत्रान्यपदार्थत्वं तस्य युक्तमिति ।

अत्र कल्पे सादृश्यरूपगौणाश्रयणायानुमित्यादिव्यावृत्तेन्द्रियजन्यज्ञानत्वरूपसादृश्य-घटकधर्मोपस्थितेः प्रथममावश्यकत्वात्तेनैव भ्रमप्रमोभयसाधारणरूपेणोभयबोधकत्वसम्भवे प्रथममूलस्थप्रत्यक्षपदप्रक्रान्तप्रमां विहाय भ्रममात्रबोधकत्वं प्रत्यक्षसिद्धेत्यत्रत्यप्रत्यक्ष-पदस्यानुचितमित्याशयेन तथैवाह ।। अथ वेति ।। अभिप्रायस्तु पूर्वोक्त एव । तुशब्दस्य समुच्चयार्थकत्वं न सङ्गच्छते । प्रमाया अपटुत्वाभावेनासमुच्चेयत्वात् । भ्रमान्तराणामादिपदेनैव गृहीतत्वादित्यत आह ।। त्विति ।। सर्पभ्रमाद्यपेक्षयेत्यादिः । स च विशेषः प्रत्यक्ष-बाधितत्वेन निरूपणानर्हत्वरूपः शङ्ककाभिमतः । अथवा जगत्प्रत्यक्षापेक्षया विशेषसूचनार्थ इत्यर्थः । स चापटुत्वरूप एव बोध्यः ।

।। प्रवर्तयितुमिति ।। उपलक्षणमेतत् । आप्तान् प्रत्युपदेष्टुमपीति ध्येयम् । अक्षम-मजनकम् । दोषयुक्तत्वात् दोषजन्यत्वात् । ननु शङ्ककेनानुमानागमादिज्ञाप्यमप्रमात्व-रूपमपटुत्वं यदभिहितं तस्य दूरस्थत्वादिदोषप्रयुक्तत्वमभिहितं मूले । तेन शङ्का दृढीकृतैव । न परिहृतेत्यतोऽभिप्रायमाह ।। इदमुक्तमित्यादिना ।। उपोद्घातविधयाह ।। द्विविध-मित्यादिना ।। एकाकारनियतं परस्परविरुद्धत्वेन भासमानकोटिद्वयमेकत्रानवगाहमानम् । डोलायमानं तादृशकोटिद्वयमेकत्रावगाहमानम् । निश्चायकं स्वोत्तरकाले स्वार्थसन्देहोत्पत्त्य-भावप्रयोजकम् । तत्त्वं च दोषजन्यत्वादिसम्भावनारूपमानसदोषरूपापवादाभावसहितसाक्षि-निश्चितप्रामाण्यकत्वेन ।। न तस्य निश्चायकमिति ।। तद्विपरीतार्थग्रहोत्पत्तिं प्रत्यविरोधित्वं च स्वोत्पत्तिकाल एव साक्षिणा अप्रमात्वेन गृह्यमाणत्वेन ।। सवित्रिति ।। आसन्न-मरणरोग्यादिसम्बन्धिज्ञानमित्यर्थः ।।  स चायं भेद इति ।। उक्तयोर्ज्ञानयोर्मध्ये कस्य-चिदुत्पत्तिकाल एव निश्चितप्रामाण्यकत्वं कस्यचिदुत्पत्तिकाल एव निश्चितप्रामाण्यकत्वा-भावोऽप्रमाणत्वेन गृह्यमाणत्वं चेत्येतद्रूपवैलक्षण्यं चेत्यर्थः ।। क्वचिदिति ।। सम्भावनेति ।। भासमानधर्माभावव्याप्यधर्मविषयकोद्बुद्धसंस्कारस्मृत्याद्यभावः सम्भावना तद्भावाभावाभ्या-मित्यर्थः ।। तत्प्रवृत्त्यप्रवृत्तिभ्यामिति ।। पूर्वं उत्पन्नेषु तज्जातीयज्ञानेषु यदा परीक्षापेक्षा तदा तेषु संवादादिरूपपरीक्षाप्रवृत्त्यप्रवृत्तिभ्यामित्यर्थः । पूर्वं तज्जातीयज्ञाने यत्र परीक्षायामपि प्रामाण्याप्रामाण्यान्यतरनिश्चयो न जातः इदानीमपि तत्सन्दिग्धप्रामाण्यकमेव जायत इति भावः । अनभ्यासदशादेरप्युपलक्षणया ग्रहः। तेनानभ्यासदशापन्नं प्रथमत एव यद्विषयकं ज्ञानं निश्चितप्रामाण्यकं न भवति तद्बीजोक्तेरपि प्राप्तेर्न न्यूनता ।

।। विपरीतेति ।। यत्र यो धर्मो भासते तत्र तदभावावगाहिनिश्चितप्रामाण्यकपूर्वज्ञाना-धीनोद्बुद्धसंस्काराभावभावाभ्यामित्यर्थः। यादृशज्ञानेषु यादृशविषयविशेषे नियमेनाप्रामाण्यं तादृशव्याप्तिविषयकसंस्काराभावभावाभ्यां चेत्यर्थः । तादृशव्याप्तिविषयकोद्बुद्धसंस्कारसहितं तादृशधर्मविषयकज्ञानरूपं प्रामाण्यव्यावर्तकधर्मदर्शनबलात् प्रामाण्यग्रहप्रतिबन्धात्तदगृहीत-प्रामाण्यकमेव जायत इति तस्याप्युक्तापटुत्वप्रयोजकत्वं बोध्यम् । आद्यं निश्चितप्रामाण्यकं द्वितीयं अनिश्चितप्रामाण्यकम् । विपरीतसंस्कारेत्यस्य पूर्वोक्तोभयार्थत्वात् । प्रथमस्योदाहरणं सवितृसुषिरप्रत्यक्षम् । तत्र सवितरि सुषिराभावनिर्णयस्य पूर्वमेवारोगितादशायां सत्त्वेन तज्जन्यसंस्कारसत्त्वात् । द्वितीयार्थस्य चन्द्रप्रादेशादिपरिमाणे अपटुत्वहेतुत्वम् ।

प्रकृतानुसारेणाह ।। चन्द्रेति । साक्षिणा निश्चितत्वादिति ।। यद्दूरस्थत्वरूपदोषजन्यं तत्परिमाणांशे अयथार्थमिति व्याप्तेः साक्षिणा निश्चितत्वात् इत्यर्थः । तथा च साक्षिणा ज्ञानस्वरूपग्रहकाले दोषजन्यत्वज्ञानतादृशव्याप्तिसंस्कारसत्त्वात्प्रामाण्यग्रहप्रतिबन्धपूर्वम-प्रामाण्यग्रह एव जायते । दोषजन्यत्वज्ञानसहकृतसाक्षिणोऽप्रामाण्यग्राहकत्वस्य सिद्धान्त-सिद्धत्वादिति भावः । एवं नीलं नभ इत्यादितत्तद्भागावगाहिप्रत्यक्षाणामप्रामाण्यमेव गृहीतं वर्तते । तस्यैव समीपगतौ नीलरूपाभावप्रत्यक्षनिश्चयात् । तथा च पूर्वापरिचितनभोभागे नीलरूपावगाहिप्रत्यक्षे तादृशप्रत्यक्षत्वस्य रूपांशे प्रामाण्याभावव्याप्यत्वसंस्काररूपविपरीत-संस्कारसाहित्येन साक्षिणा भ्रमत्वं गृह्यते । यदि परिचितभागे पुनः पूनर्दूरस्थस्य नील-रूपभ्रमस्तस्य तद्भागे नीलरूपाभावसंस्कारः पूर्वोक्तसंस्कारश्चेत्युभयमपि तत्र साक्षिणा भ्रमत्वग्रहे उपयोगीति ध्येयम् ।। तेन दत्तावकाशाविति । तद्रूपनिश्चयेनाप्रतिबन्ध-प्रयुक्तोत्पत्तिशालिनावित्यर्थः ।। बाधकाविवेति ।। तत्र स्वयमेवाप्रामाण्यनिश्चायका-विवेत्यर्थः ।। उच्येत इति ।। तद्विरुद्धार्थविषयकव्यवहारादिहेतुत्वरूपतद्गुणयोगेनेत्यर्थः ।

तथा चायं प्रघट्टिकार्थः । यादृशनिश्चयेऽप्रामाण्यज्ञानानास्कन्दिते सत्यपि यादृश-ज्ञानमुत्पन्नं सत् पूर्वज्ञानसजातीयज्ञानान्तरं विरुणद्धि पूर्वज्ञानेऽप्रामाण्यग्रहमुत्पाद्य तन्निर्वाह्य-प्रवृत्त्यादिकार्योच्छेदादिकं वा करोति तत्तस्य बाधकमिति स्थितिः । प्रकृते च चन्द्रप्रादेश-परिमितत्वनभोनैल्यावगाहिप्रत्यक्षमुक्तरीत्याऽप्रामाण्यज्ञानानास्कन्दितमेव जायते । तत्सत्ता-काले उत्पन्नस्यागमिकादिनिश्चयस्य तदप्रामाण्यग्रहं प्रत्युत्पादकत्वं नास्ति । तस्य पूर्वमेव सिद्धत्वात् । तत्सजातीयग्रहान्तरं तु दोषवशाज्जायत इति नास्य प्रत्यक्षबाधकत्वम् । किन्तु तद्विपरीतार्थविषयकत्वमात्रेणोपचारेण बाधकमिति व्यवहार इति ।

ननु यस्य पुरुषस्य पूर्वोक्तक्रमेण विपरीतसंस्कारो न जातः । न हि सर्वेषां तादृशविमर्शो वर्तत इत्यत्र प्रमाणमस्ति । तस्य पुरुषस्य प्रथमतश्चन्द्रः प्रादेशपरिमित एवेति अप्रामाण्य-ग्रहानास्कन्दितधीरेव जायते । तस्य चाऽगमप्रामाण्यश्रद्धाबलादेवागमवाक्येन बाधनिश्चयः । एवमाप्तपित्रादिवाक्येन च । तत्र प्रात्यक्षिकनिश्चयस्याऽगमेन बाधितत्वप्रात् न च प्रत्यक्ष-सिद्धमन्येनेत्याद्यमयुक्तमेवेति चेन्न । आगमे ईश्वरादिप्रत्यक्षसिद्धार्थबोधकत्वाभिमानेन पित्रादिवाक्ये च तत्प्रत्यक्षसिद्धार्थबोधकत्वाभिमानेन श्रद्धोत्पत्त्या प्रत्यक्षमूलकागमेनैव बाधितत्वप्राप्त्या पूर्वोक्तनियमे व्यभिचाराभावात् ।

यदि च प्रत्यक्षसंवादित्वाद्यभिमानाभावेऽपि श्रद्धाविशेषवतः आगमादेव बाधोऽनुभवसिद्ध इत्युच्यते तदेदं भवतैवोच्यताम् । तद्दृष्टान्तेन सर्वस्याप्यागमस्य प्रत्यक्षबाधकत्वमुच्यते उत कस्यचित् तथात्वं कस्यचिन्नेति । नाद्यः । वेदः सर्वोऽपि प्रतीतार्थ एव प्रमाणमिति श्रद्धावतः यजमानप्रस्तरभेदप्रत्यक्षे अप्रामाण्यग्रहोत्पत्त्या तस्य बाधितत्वप्राप्त्या तद्वाक्यस्य यथाश्रुतार्थपरित्यागाभावप्रसङ्गात् । येन यत्राप्रामाण्यप्रमोदेति तत्तस्य बाधकमित्युच्यते । न च यजमानप्रस्तरभेदप्रत्यक्षाप्रामाण्यधीः प्रमेति चेत्तर्हि चन्द्रप्रादेशपरिमितत्वादिधीरपि कुतो भ्रम इति तदप्यबाध्यमेव स्यात् । अतो न प्रत्यक्षस्यागमबाधः । न द्वितीयः । व्यवस्थापका- भावात् । प्रबलप्रत्यक्षानुसारित्वतदननुसारित्व एव व्यवस्थापके । प्रादेशपरिमितत्वाभाव-बोधकागमस्तु तादृशपरिमाणप्रत्यक्षे अयाथार्थ्यावगाहिसाक्ष्यनुसारीति चेत्तर्हि प्रत्यक्षानु-सारित्वेनाननुसन्धीयमानागमेन प्रत्यक्षसिद्धार्थस्य न बाध इत्यस्याऽव्याहतिरेव ।

न च तथापि पूर्वोक्तरीत्या यस्यागमप्रामाण्यश्रद्धामात्रेण प्रादेशपरिमितत्वग्रहाप्रामाण्य-ग्रहः। न तु तस्योक्तप्रत्यक्षानुसारित्वग्रहेण । तादृशाप्रामाण्यग्रहस्य वस्तुतः प्रमात्वेनावयोः सम्मततया अप्रामाण्येनागृहीतप्रत्यक्षस्य प्रत्यक्षानुसारित्वादिरूपतन्मूलकत्वेनाननुसन्धीय-मानागमानुमानादिना भ्रमत्वग्रहरूपबाधो नास्तीति नियमस्य व्यभिचारस्त्वागत एवेति वाच्यम् । तादृशश्रद्धावतः पुरुषस्य तद्वाक्यस्यार्थविशेषबोधतात्पर्यग्रहानन्तरं तद्विरुद्धार्थ-कत्वज्ञानाधीनद्वेषेण लिङ्गाद्यनुसन्धानादिविमर्शं विनैव १स्वोत्प्रेक्षयैवाप्रामाण्योपस्थित्या मानसप्रत्यक्षात्मकाप्रामाण्यग्रहो जायते । असूयया गुणिनि दोषबुद्धिवत् । अतः पूर्वतनबोधे मानसाप्रामाण्यग्रहोत्तरमेवागमेन स्वार्थबोधजननाङ्गीकारेण तत्रागमेन प्रत्यक्षाप्रमात्वग्रहानु-त्पत्त्या व्यभिचारानवकाशात् । यत्र प्रथमत एव कस्मिंश्चिदर्थे आगमेन दृढतरनिश्चयस्त-द्विरुद्धार्थावगाहिप्रत्यक्षे तच्छ्रद्धामात्रेणाप्रामाण्यग्रहस्तत्र जायमानप्रत्यक्षं विपरीतसंस्कार-वशादप्रामाण्यग्रहास्कन्दितमेव जायत इति न तत्रापि व्यभिचारावकाशः । अन्यथा लिङ्गविशेषे घटाभावव्याप्यत्वं २वाक्यविशेषे श्रद्धाबलादेव निश्चितवतः घटप्रत्यक्षस्थलेऽपि तादृशं लिङ्गं श्रद्धावशादेव निश्चिन्वतस्तत्र घटप्रत्यक्षमवधूय घटाभावानुमितिरप्यङ्गीकार्या स्यात् । अविशेषात् । इति बाधस्य सर्वतान्त्रिकसिद्धानुमित्यसाधारणदोषत्वमुच्छिद्येतेत्युक्त-रीतिरेवाश्रयणीया ।

यद्वोक्तबाधकवशादेव श्रद्धाविशेषरूपदोषानुपजीव्यागमानुमानाबाध्यत्वं प्रत्यक्षनिश्चय-स्येति नियमोऽङ्गीकार्य इति न काऽप्यनुपपत्तिः ।

यत्तु ‘दूरस्थत्वादिदोषजन्यत्वग्रहाच्चन्द्रपरिमाणादिप्रत्यक्षे भ्रमत्वज्ञानाङ्गीकारे इयमनुमिति रूपैवेति प्रत्यक्षसिद्धस्यानुमानबाध्यत्वाभावोपपादनायैतत्कथनमत्यन्तसाहसम् । एवं तत्रागम-तात्पर्यविषयीभूतार्थविरुद्धविषयकत्वलिङ्गेनैव प्रत्यक्षाप्रामाण्यग्रहो जायते’ इति । तत्तुच्छम् । तत्र विपरीतसंस्कारसहितसाक्षिणैवाप्रामाण्यग्रहाङ्गीकारात् । तस्य च विशेषदर्शनसहकृत-सामग्य्रधीनप्रत्यक्षरूपत्वात् । अन्यथा संशयोत्तरं स्थाणुत्वाभावव्याप्यकरचरणादिज्ञान-सहकृतचक्षुरादिजन्यज्ञानस्याप्यनुमितिरूपत्वापत्तेः । यदि तत्र साक्षात्कारित्वानुभवात् प्रत्यक्षसामग्य्रा अनुमितिप्रतिबन्धकत्वाच्च नानुमितिरित्युच्यते प्रकृतेऽपि तदविशिष्टम् । प्रकृते ज्ञानस्य ज्ञातैकसत्त्वात्तदुत्पत्तिक्षण एव तत्प्रत्यक्षस्यावश्यकतया तस्यैव पूर्वतनदोषजन्यत्व-ग्रहाद्यधीनविपरीतसंस्कारवशात् भ्रमत्वविषयकत्वेनोपपत्तौ तज्ज्ञानप्रत्यक्षोत्तरोत्पन्नपरामर्श-बलात्तत्रानुमित्यङ्गीकारे मध्ये लिङ्गज्ञानपरामर्शान्तरादिकल्पनागौरवापाताच्च ।

अपि च तद्बाधकत्वं नाम तत्काले तदुत्तरकाले वा तद्विपरीतार्थावगाहितया उत्पद्य-मानत्वे सति तत्राप्रामाण्यग्रहप्रयोजकत्वम् । न हि चन्द्रपरिमाणज्ञानधर्मिकाप्रामाण्य-धीर्युक्तिजन्या चन्द्रे परिमाणाभावमवगाहते । भ्रमत्वघटकतया तद्भानेऽपि न चन्द्रत्वावच्छिन्ने तद्भानम् । तदंशे निर्धर्मितावच्छेदककत्वात् । लौकिक१सन्निकर्षदोषविशेषाजन्यज्ञानमात्रे विपरीतनिर्णयस्य प्रतिबन्धकतया चन्द्रत्वावच्छिन्ने भ्रमत्वघटकतयाऽपि तद्भानायोगात् । चन्द्रविषयकत्वावच्छेदेनोक्तभ्रमत्वभानमात्रेण तत्र तादृशपरिमाणादिविषयव्यवहाराद्युच्छेदात् । तस्मात्तत्र प्रत्यक्षस्योक्तरीत्या भ्रमत्वज्ञानानास्कन्दितत्वेनैव जातत्वान्न युक्तिबाध्यत्वम् । क्वचिच्च प्रत्यक्षमूलकत्वेनानुसन्धीयमानयुक्त्यादिबाध्यत्वमेवेति युक्तम् । प्रत्यक्षविरोध-ग्रहकालेऽनेकार्थतयाऽनुसन्धीयमानशब्दस्य तद्विरुद्धार्थे तात्पर्यग्रहस्यैवायोगेन तादृश-लिङ्गान्तरानुसन्धानस्याप्ययोगाच्च ।

ननु चन्द्रप्रादेशिकत्वप्रत्यक्षे न प्रागेव दुष्टकरणजत्वनिश्चयः । नैकट्यस्यापि क्वचि-द्दोषत्वेन सर्वत्र परिमाणज्ञानाविश्वासप्रसङ्गात् । सवितृसुषिरादिप्रत्यक्षस्य न पूर्वतन-विपरीतप्रत्यक्षेण बाधः । एतदुत्पत्तिकाले तदभावात् । नापि तज्जन्या स्मृतिः । अनुभवा-पेक्षया दुर्बलत्वात् । तस्मात्तत्र तादृशप्रत्यक्षं युक्त्युत्थापकमेव । चन्द्रप्रादेशपरिमितत्वा-देरागमेन बाधोत्तरमेव दूरस्थत्वस्य दोषत्वकल्पनम् । एवं जगत्प्रत्यक्षस्यापि युक्त्यागमाभ्यां बाधग्रहोत्तरमेवाविद्यादिरूपदोषजन्यत्वं कल्प्यत इति चेन्न । यत्र दूरस्थत्वं तद्विषयक-परिमाणप्रत्यक्षस्य भ्रमत्वमित्यन्वयव्यतिरेकदर्शनेन दूरस्थत्वस्य दोषत्वनिश्चयात् । नैकट्य-स्थलेऽपि क्वचित्परिमाणभ्रमदर्शनाद्व्यतिरेकायोग इति चेन्न । नैकट्यविशेषस्य परिमाणाव-गाहिभ्रमविशेषजनकत्वेऽपि दूरस्थत्वस्य परिमाणावगाहिभ्रमविशेषे तृणारणिमणिन्याये-नान्वयव्यतिरेकविधारणस्याव्याहतत्वात् । अन्यथा सर्वत्रापि भ्रमत्वावधारणोत्तरमेवं कस्य-चिद्दोषत्वेन प्राप्त्या दूरस्थत्वस्यैव दोषत्वं नान्यस्येत्यवधारकाभावेन दूरस्थत्वादेरनुगतदोषस्य दोषत्वनिर्णयाभावप्रसङ्गात् । सवितृसुषिरशङ्खपीतत्वादिप्रत्यक्षप्राक्क्षणे तद्विपरीतप्रत्यक्षा-भावेऽपि निश्चितप्रामाण्यककालान्तरीणतादृशप्रत्यक्षाधीनसंस्कारसहितसाक्षिणो भ्रमत्व-ग्राहकत्वस्य पूर्वमुक्तस्य सम्भवे, मध्ये युक्त्यन्तरानुसन्धानादेरनुभवविरुद्धत्वात्पूर्वोक्तरीत्या गौरवाच्च । निरपवादसाक्षिणा निश्चितप्रामाण्यके जगत्सत्यत्वप्रत्यक्षे जागरूके सति परीक्षकाणामभ्रान्तानां तद्विरुद्धार्थावगाह्यागमे तादृशार्थतात्पर्यकत्वस्यैवाग्रहेण तज्जन्य-तादृशबोधायोगात्तत्साहाय्यस्याप्यभावेऽनुमानस्य सुतरां बाधितत्वान्मिथ्यात्वानुमित्यभावा-त्प्रत्यक्षे भ्रमत्वज्ञानस्यैवानुदयेनाविद्यायाः दोषत्वकल्पनायाः सुदूरपराहृतत्वादिति कृतं पल्लवितेन ।