तदज्ञाननिवृत्तिश्च तेन भवति
आत्मनो दृश्यत्वानङ्गीकारे अतिप्रसङ्गान्तरोक्तिः
तदज्ञाननिवृत्तिश्च तेन भवति
श्रीमज्जयतीर्थटीका
अथ वा आत्मनो दृक्कर्मत्वानङ्गीकारेऽतिप्रसङ्गान्तरमेतत् । तथा हि, यद्यात्मनो दृक्कर्मत्वं न स्यात्तदा तदज्ञानं नाम न स्यात् । सति पुष्कलकारणे तत्कर्मकज्ञानप्रतिबन्धकं हि तदज्ञानम् । सम्बन्धान्तरानिरूपणात् । आत्माज्ञानाभावे च तन्निवृत्तिलक्षणमोक्षश्च न स्यादिति शास्त्रवैयर्थ्यं स्यादिति ।
द्वैतद्युमणि:
।। अथ वेति ।। एतन्मूलं पूर्वमूलोक्तातिप्रसङ्गे इष्टापत्तिपरिहारकाति-प्रसङ्गान्तरपरतयैव न व्याख्यायते । किन्तु तत्समकक्षातिप्रसङ्गान्तरपरतयैव व्याख्यास्यत इति भावः ।। सति पुष्कल इति ।। ज्ञानोत्पादकसामग्य्रां सत्यामित्यर्थः । प्रतिबन्धकं तन्निष्ठ-कार्यानुकूलशक्तिविघटकम् । परस्यापि मते प्रतिबन्धकाभावस्य कारणत्वानङ्गीकारादिति भावः । अत्र तदनुकूलशक्तिविघटकत्वमेव तत्प्रतिबन्धकत्वम् । पुष्कलकारणोक्तिस्तु तदनु-मापकतया । अन्यथैककारणकाले कार्यानुत्पत्तेः कारणान्तरविरहादपि सम्भवेन तदसिद्धेः ।
ननु तत्कर्मकज्ञानप्रतिबन्धकस्य तदज्ञानरूपत्वे तन्निवृत्तिः कदापि न स्यात् । ज्ञानेन ह्यज्ञानस्य निवृत्तिर्वाच्या । तत्सद्भावे च ज्ञानोत्पत्तिरेव न घटते । प्रतिबन्धककाले कार्योत्पत्तेरेवायोगादिति चेन्न ।
सामान्यतज्ज्ञानसामग्रीवृत्तिशक्तिविघटकत्वेऽपि विशेषदर्शनादिकारणविशेषाधीनज्ञान-विशेषे तादृशाज्ञाननिवर्तकशक्त्यभ्युपगमात् । तादृशज्ञानसामग्रीवृत्तिशक्तिविघटकत्वस्य तत्रानभ्युपगमात् । न च तस्यापि तज्ज्ञानत्वाविशेषे तदप्रतिबन्धकत्वे बीजाभावः । सिद्धेः प्रत्यक्षसमानविषयकानुमितिप्रतिबन्धकत्वेऽपि तत्समानविषयकप्रत्यक्षोपनीतभानाद्यविरोधित्व-दर्शनात् । न च वेदान्तवाक्यश्रवणादितः प्रागात्मज्ञानमुत्पन्नं चेदज्ञानस्य भवदुक्त-प्रतिबन्धकत्वायोगः । इदानीमपि तस्यानुत्पन्नत्वे तत्सामग्य्रा एवाक्लृप्ततया तन्निष्ठशक्तिविघट-कत्वादिरूपप्रतिबन्धकत्वं कुतोऽज्ञानस्य वक्तव्यम् । शुक्त्यज्ञानादिस्थलेप्येवमेवेति असम्भवीदं लक्षणमिति वाच्यम् । यज्जातीयस्थलान्तरे यादृशसामग्रीसमवधाने सति यादृश-कार्यं जायते तज्जातीयनिखिलकारणसमवधान१सत्त्वेऽपि प्रकृते तादृशज्ञानरूपकार्यानुत्पत्तौ तन्निष्ठशक्तिविघटकं किञ्चित्कल्प्यते । यथा शुक्त्यन्तरे शुक्तित्वप्रकारकज्ञानं केवलचक्षुः-संयोगालोकसंयोगादिभिरेव विशेषदर्शनानपेक्षैर्जायते तैरेवैतच्छुक्तिस्थलेऽपि शुक्तित्व-प्रकारकज्ञानानुदये तच्छक्तिविघटकं किञ्चित्कल्पनीयम् । विशेषदर्शनादिसाहित्ये च क्लृप्त-सामग्रीशक्तौ कुण्ठीभावलक्षणावस्था१विशेषस्याभ्युपगमात् पुनरुद्बोधेन २बुद्ध्या शुक्तित्व-प्रकारकज्ञानोत्पत्त्या तदज्ञाननिवृत्तिर्जायते ।
न च तत्र विशेषदर्शनस्य सामग्रीघटकता । मणिस्थलीयदाहे औषध्यादीनां सामग्री-घटकत्वापत्तेः । न चोत्तेजकानां तत्स्थलीयदाहं प्रत्येव कारणत्वं कल्प्यते तन्निष्ठशक्ति-कुण्ठीभावनिवर्तकत्वं वा कल्प्यत इत्यत्र विनिगमकाभाव इति वाच्यम् । तस्य दाहं प्रत्येव कारणत्वकल्पने दाहे तत्कार्यतावच्छेदकतया नानावैजात्यकल्पनापत्तेः । उत्तेजकानामननु-गतत्वात् । अन्यथा दाहसामान्यकारणकोटौ निवेशे व्यतिरेकव्यभिचारापत्तेः । न च कुण्ठी-भावनिवृत्तिकारणतायामपि व्यभिचारवारणाय तत्र वैजात्यं त्वयापि कल्पनीयमिति साम्यमिति वाच्यम् । तस्य तवाप्यावश्यकत्वात् । अन्यथोत्तेजकद्वितीयादिक्षणे वह्न्यादि-रूपक्लृप्तकारणस्यापगमेऽपि दाहधारापत्तेः । त्वन्मते विजातीयदाहसामग्रीशरीरे वह्नेरनि-विष्टत्वात् ।
न च यच्छुक्तिज्ञानं पूर्वं जातं तस्या एव शुक्तेः कालान्तरे इदन्त्वेन ज्ञानमात्राद्रजतत्वेन भ्रमः तत्र तदज्ञानस्य तच्छुक्तिप्रथमज्ञानप्रतिबन्धकत्वापत्तिः । न चेद्द्वितीयज्ञानप्रतिबन्ध-कत्वानुपपत्तिः । अज्ञानस्यानादित्वेन प्रथमज्ञानप्राक्काले नास्ति द्वितीयज्ञानप्राक्काले उत्पन्न-मिति वक्तुमशक्यत्वादिति वाच्यम् । तदज्ञाने तत्कालीनसामग्रीनिविष्टशक्तिविघटकताया एवानुभवानुसारेण स्वीकारात् ।
एवं घटादीनामपरोक्षत्वादिन्द्रियसन्निकृष्टघटादिबोधकवाक्येन तद्विषयकापरोक्षज्ञानं जायते । तथा चापरोक्षत्वमात्रेण ब्रह्मसजातीयस्थले क्लृप्तपदपदार्थोपस्थित्यादिजातीयैः पदार्थोपस्थितितात्पर्यज्ञानादिसमुदायैर्ब्रह्मापरोक्षमिदानीं जायते । मनननिदिध्यासनादि-सहकृततत्त्वमस्यादिवाक्येन जायत इति मते पूर्वं तत्त्वमस्यादिवाक्ये ब्रह्मापरोक्षशक्तिविघट-कत्वमज्ञाने स्वीक्रियते । मनननिदिध्यासनाभ्यामुत्तेजकीभूताभ्यां तन्निष्ठशक्त्युद्बोधे १तदपरोक्षं न जायते । अत एव मनननिदिध्यासनयोः श्रवणाङ्गत्वम् । ततस्तदज्ञाननिवृत्तिरित्यभ्युप-गमेऽज्ञानप्रतिबन्धकतापक्षस्य क्षोदसहत्वात् । यद्यपि ज्ञानस्याज्ञानसमानकालिकत्वाभावः परेषां परमः सिद्धान्तस्तथापि ज्ञानस्याज्ञाननाशकत्वस्यापि परैर्व्यवहृतत्वात् तन्मते तयो-र्मेलनस्य क्षणमात्रकालेऽवश्यम्भावमङ्गीकृत्य ज्ञानस्य तन्निवर्तकत्वोक्तिः ।
यद्यपीदं प्रतिबन्धकत्वं न परसंमतं तथापि प्रकारान्तरासम्भवात् ‘तस्याज्ञानम्’ इति व्यवहारे उक्तरीत्त्या कथञ्चित् प्रतिबन्धकतामुपपाद्य स एव षष्ठ्यर्थसम्बन्धघटको वक्तव्य इति प्रसाध्य तत्कर्मज्ञानानङ्गीकारे तस्याप्यनुपपत्तिरिति दूषणे तात्पर्यम् । अत एवोक्त-प्रतिबन्धकतोपपादनरीतिसूचनायात्मनो ज्ञानविषयत्वप्रतिपादकश्रुतिमात्रं विहायापरोक्षज्ञान-विषयताप्रदर्शकश्रुत्युदाहरणं कृतमिति प्रतिभाति ।
यत्तु ‘तत्कर्मकज्ञानप्रतिबन्धकमित्यस्य तत्कर्मकज्ञाननिवर्त्यत्वरूपविरोधविशिष्ट-मित्येवार्थः । अतः प्रतिबन्धकत्वाद्युपपत्तये नोक्तश्रमः सफलः’ इति । तन्न । ‘सति पुष्कलकारणे’ इत्यस्य वैयर्थ्यापत्तेः । न च सति पुष्कलकारणे जायमानं तत्कर्मक-ज्ञानमित्यर्थः । नित्यस्वरूपभूतज्ञानस्याज्ञानाविरोधितया तद्व्यावर्तनायेदमिति वाच्यम् । घटादिकर्मकत्वस्य परैरनङ्गीकृतत्वेन स्वकर्मकत्वस्य तेनैव तद्व्यावृत्तेः । पुष्कलपदानर्थक्याच्च । जन्येत्युक्तिमात्रेण सम्भवे एतावदुक्तेरसङ्गतेश्च । व्याप्यव्यापकभावादेरबोधनेन नित्यज्ञान-सङ्ग्रहेऽपि व्यभिचाराद्यप्रसक्त्या तत्कर्मकज्ञानत्वेन जन्यज्ञानमादायैवाज्ञानस्य त्वदुक्त-प्रतिबन्धकत्वस्य वक्तुं शक्यत्वेन कारणेत्यन्तस्य कथमपि सार्थकीकरणायोगाच्च ।
ननु सम्बन्धान्तरस्यापि सम्भवादयमेव सम्बन्धः कुत आदरणीय इत्यत आह ।। सम्बन्धान्तरेति ।। अनिरूपणात् मां प्रति त्वया निरूपयितुमशक्यत्वादित्यर्थः । संयोग-समवाययोस्त्वयाऽनङ्गीकारात् । अङ्गीकारे साक्षात्सम्बन्धेनैव विषयस्याज्ञानाश्रयत्वप्राप्त्या घटोऽज्ञः ब्रह्माज्ञमित्यादिव्यवहारप्रसङ्गः । चैत्रोऽज्ञ इत्यादिवाक्यप्रामाण्याद्यनुपपत्तिः । विषयविषयिभावादौ मानाभावः । तत्रास्याज्ञानमित्यादौ सप्तम्यर्थविषयत्वस्य ज्ञान एवान्वयात् । न च विनिगमकाभावान्नञर्थाज्ञान एवान्वयोऽस्त्विति वाच्यम् । घटं न जानातीत्यादौ द्वितीयार्थभूतविषयत्वस्य नञर्थ एवान्वये धात्वर्थानन्वयेन कर्मार्थकद्वितीयानु-पपत्तिप्रसङ्गेन ज्ञानान्वयस्यैव क्लृप्तत्वात् । स्वरूपसम्बन्धस्वीकारेऽपि घटोऽज्ञ इति प्रतीति-र्दुर्वा रैव । साक्षात्सम्बन्धस्यैव सत्त्वात् । आध्यासिकसम्बन्धाङ्गीकारे इदमवच्छिन्न-चित्यध्यस्तरजतादाविदं रजतमित्यादिव्यवहारवदिदमाद्यवच्छिन्नचित्येवाज्ञानाध्यासे इदमज्ञान-मिति १चिदज्ञानमिति च प्रतीतिप्रामाण्यापत्तिरिति भावः । आत्माज्ञानमेव माऽस्तु येन तत्रात्मसम्बन्ध२घटकतयाऽऽत्मज्ञानं सिद्ध्येदित्यत आह ।। आत्मज्ञानेति ।। निवृत्ति र्ध्वंसः ।