मय्यनन्तगुणेऽनन्ते..
ब्रह्मनिर्विशेषत्ववादे सत्यादिपदानां पर्यायत्वशङ्कानिरासपूर्वकं प्रतिवादिना प्रमाणोक्तिः
मय्यनन्तगुणेऽनन्ते
श्रीमज्जयतीर्थटीका
अथ मतं द्विविधा वेदान्तवाक्यप्रवृत्तिः । एका पदार्थपरा । अपरा तस्यात्म-तादात्म्यरूपवाक्यार्थपरा । तत्र तावत्सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिपदार्थपरं वाक्य-मखण्डार्थनिष्ठम् । ब्रह्मविदाप्नोति परमिति प्रस्तुतब्रह्मस्वरूपमात्रजिज्ञासायां तल्लक्षणं हीदमुच्यते । यथा खल्वस्मिन् ज्योतिर्मण्डले कश्चन्द्र इति चन्द्रस्वरूपमात्रप्रश्ने प्रकृष्ट-प्रकाशश्चन्द्र इति तल्लक्षणाभिधायकं वचनम् । यथा च तत्र प्रकृष्टप्रकाशपदयोश्चन्द्र-प्रातिपदिकार्थमात्रपरत्वेऽपि न पर्यायत्वम् । प्रकर्षादिगुणयोगाभिधानमुखेन लक्षणया तत्परत्वात् । तथा सत्यादिपदानामखण्डार्थनिष्ठत्वेऽपि परापरसामान्यवाचिनां शबले गृहीतसङ्गतीनां तेषां लक्षणया ब्रह्मस्वरूपमात्रपरत्वान्न पर्यायत्वम् ।
न चैवं सति प्रतिपिपादयिषितार्थस्यैकेनैव पदेन लक्षितत्वात्पदान्तरवैयर्थ्यमिति वाच्यम् । लक्ष्यार्थभेदाभावेऽपि प्रतिपदमारोपितासत्यत्वाद्यनेकाकारव्यवच्छेदस्य प्रयोजन-त्वात् । यथा नक्षत्रादिव्यवच्छेदप्रयोजनत्वेन न प्रकृष्टादिपदवैयर्थ्यम् ।
तदयं प्रयोगः । सत्यज्ञानादिवाक्यमखण्डार्थनिष्ठम् । लक्षणवाक्यत्वात् । प्रकृष्ट-प्रकाशश्चन्द्र इत्यादिवाक्यवत् । तथा सत्यज्ञानादिवाक्यं ब्रह्मस्वरूपमात्रपरम् । तत्प्रश्नोत्तर-त्वात् । यद्यत्स्वरूपमात्रप्रश्नोत्तरं तत्तत्स्वरूपमात्रपरम् । यथोदाहृतं वाक्यम् । एवं तत्त्वमसीत्यादिब्रह्मात्मतादात्म्यपरमपि वाक्यमखण्डार्थनिष्ठम् । कोऽहमिति स्वरूपमात्र-जिज्ञासायां ह्येतदुच्यते ।
किञ्च न तावदत्र देवदत्तस्य गौरितिवद्विशिष्टार्थता । समानाधिकरणत्वात् । नापि मृद्घटो नीलोत्पलमितिवत् । अकार्यकारणद्रव्यनिष्ठत्वात् । नाप्यभेदविशिष्टं बोध्यम् । स्वरूपाभेदस्य सिद्धत्वात् । तच्छब्दार्थेनाभेदस्य विरुद्धत्वेन बोधयितुमशक्यत्वात् । अतस्तत्र स्वार्थैकदेशत्यागलक्षणया भेदभ्रमव्युदासद्वारेण स्वरूपमात्रपर्यवसानमेव । अत एव न पर्यायत्वेन व्यर्थताप्रसङ्गः । यथा खलु कोऽयमित्यपेक्षायामुक्ते सोऽयं देवदत्त इति वाक्ये पदत्रयस्य देवदत्तस्वरूपमात्रपर्यवसानेऽपि विशिष्टाभिधानद्वारेण भागत्यागलक्षणया प्रवृत्तेर्न पर्यायत्वम् भेदभ्रमव्युदासेन सार्थक्यञ्च । अत्रापि प्रयोगः । तत्त्वमसीत्यादि-वाक्यमखण्डार्थनिष्ठम् । अकार्यकारणद्रव्यनिष्ठत्वे सति समानाधिकरणत्वात् । सोऽयं देवदत्त इत्यादिवाक्यवत् । स्वरूपप्रश्नोत्तरत्वाच्च । पूर्ववत्प्रयोगः । अतः श्रुतीनाम-खण्डार्थत्वस्य प्रमितत्वादनुपपत्त्यभावाच्च कथं सगुणं ब्रह्म श्रुत्यभिप्रेतमिति ।
द्वैतद्युमणि:
वेदान्तवाक्यप्रवृत्तिः प्रवर्तमानं वेदान्तवाक्यमित्यर्थः । ‘कृदभिहितो भावो द्रव्यवत्प्रकाशते’ इति वचनमनुरुद्ध्य निःश्रेयसमिति गौरीकान्तीये व्याख्या कृता तद्वत्प्रकृतेप्यनुसन्धेयम् ।
१यद्वा प्रवृत्तिः शक्तिः । पदार्थपरा वाक्यार्थपरेत्यस्य तद्बोधनिर्वाहिकेत्यर्थः । वेदान्तेति प्रकृताभिप्रायकम् । लोकेऽपि तथाविधवाक्यद्वयस्य सत्त्वात्तस्यापि वक्ष्यमाणरीत्या अखण्डार्थत्वाच्च ।। पदार्थेति ।। यन्महावाक्यीयपदार्थयोर्भेदबुद्ध्या विरोधित्वे सति तन्महा-वाक्यीयपदार्थरूपाखण्डार्थकं यत् तत्तन्महावाक्यीयपदार्थनिष्ठम् । यन्महावाक्यार्थबोधोप-योगिपदार्थबोधपर्यवसायि यत् तत्तन्महावाक्यीयपदार्थपरमिति यावत् तस्यात्मतादात्म्यरूपेति पदार्थयोर्भेदाभावोपलक्षितस्वरूपेत्यर्थः ।। वाक्यार्थेति ।। यन्महावाक्यीयपदार्थयोर्भेदबुद्धि-विरोधि तत्तन्महावाक्यार्थरूपाखण्डार्थकं तन्महावाक्यार्थपरम् । अखण्डार्थबोधान्तरा-ननुकूलाखण्डार्थबोधतात्पर्यकमिति यावत् । तत्त्वमसीति महावाक्यम् । तद्घटकतत्पदार्थभूत-ब्रह्मस्वरूपपरं सत्यं ज्ञानमनन्तमित्यादिवाक्यं त्वंपदार्थभूतजीवस्वरूपपरं च योऽयं विज्ञान-मयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुष इत्यादिवाक्यं बोध्यम् । तावदिति महावाक्यस्या-खण्डार्थकत्वं पश्चात्साधयिष्यत इत्याशयेन तावदिति ।। अखण्डार्थनिष्ठमिति ।।
नन्वेतदयुक्तम् । अखण्डार्थनिष्ठत्वस्वरूपस्यैव पूर्वं निरस्तत्वेन तत्स्वरूपसिद्धेः प्राक् तस्य किञ्चिद्धर्मिवृत्तित्वे संशयानुदयेनाजिज्ञासितत्वेन धर्मिविशेषनिष्ठत्वेन तत्साधनायोगात् । न च निर्विशेषार्थबोधकत्वरूपद्वितीयकल्पे दूषिते तत्पक्षव्यवस्थापनार्थमेवोत्तरग्रन्थस्य प्रवृत्तत्वान्नोक्तासङ्गतिरिति वाच्यम् । तथा सत्युत्तरत्रानुमाने प्रकृष्टप्रकाशवाक्यस्य दृष्टान्ती-करणासङ्गतेः । ब्रह्मातिरिक्तस्य निर्धर्मकत्वाभावेन निर्विशेषार्थबोधकत्वरूपसाध्यवैकल्या-पत्तेरिति चेन्न । यतो निर्विशेषार्थकत्वं नाम वस्तुतो यन्निर्विशेषं तदर्थकत्वमिति न । तथात्वे तत्स्वरूपस्यैवाद्वैतवाद्यतिरिक्तानामसिद्ध्या तद्दूषणं विहाय पर्यायत्वादिदूषणदानानौचित्या-पत्तेः । किन्तु निर्विकल्पकबोधजनकत्वस्य नैयायिकैरिन्द्रियादिष्वभ्युपगतत्वेन सम्भवदुक्ति-कत्वात् विशेषविनिर्मोकेणार्थबोधकत्वं किञ्चिद्धर्माप्रकारकबोधजनकत्वमिति यावत् । इत्थं च सत्यज्ञानादिवैदिकपदानां अमुख्यवृत्त्याश्रयणस्य विना बलवद्बाधकमयोगान्मुख्यवृत्त्यैव बोध-कत्वं सिद्धवत्कृत्य मुख्यवृत्तिपक्षे पर्यायत्वापादनं पूर्वं कृतम् । तत्पक्ष एव लक्षणाश्रयणादिना पूर्वोक्तदोषमुद्धर्तुं ‘अथ मतम्’ इत्यादिग्रन्थ आरभ्यते । तत्र लक्षणाश्रयणे बीजाभावं पराभिप्रेतं निराकर्तुं ब्रह्मविदाप्नोति परमित्यादिना तदुपपाद्यत इति न सन्दर्भविरोधः ।
ननु सामान्यतो निष्प्रकारकधीजनकत्वं नाखण्डार्थकत्वं वक्तुं युक्तम् । परानभिप्रेत-त्वात् । तथा हि, औतसिद्धिपूर्वपक्षभागव्याख्यावसरे अपर्यायशब्दानां प्रातिपदिकार्थमात्र-पर्यवसायित्वरूपलक्षणस्य शीतोष्णस्पर्शवन्तौ पयःपावकाविति वाक्यस्य लक्ष्यत्वमभ्युपेत्या-द्वैतचन्द्रिकायां ‘वस्तुतः समुदितवाक्येऽपि लक्ष्यत्वम् । लक्षणस्थमात्रपदस्य विशेषणीभूत-पदार्थान्तरव्यवच्छेदपरत्वेन पदार्थान्तराविशेषणकनामार्थधीपर्यवसायित्वं लक्षणं सम्भवतीति बोध्यम्’ इत्युक्तम् । तेन ज्ञायते पयःपावकाविति समासार्थभूतद्वित्वविशिष्टपयस्त्व-पावकत्वाद्यवच्छिन्नमात्रविषयकः शीतोष्णस्पर्शवत्पदार्थाप्रकारकबोधस्तादृशसमुदितवाक्या-ज्जायत इति । एवं सिद्धान्तभागे ‘श्यामो युवा लोहिताक्ष औपगवः’ इत्यौपगवलक्षणवाक्ये एकदेशस्था वृक्षा चतुरङ्गिणी सेनेत्यादिलक्षणवाक्ये चाव्याप्तिः । औपगवपदस्य उपगु-पुत्रत्वादिधर्मावच्छिन्नबोधकतया तदर्थबोधकत्वेऽपि नैकार्थमात्रपर्यवसायित्वम् । एवं वनसेना-पदानामपि एकदेशस्थितवृक्षाश्वादिसमुदायपरत्वात्’ इत्याशङ्क्याव्याप्त्युद्धारार्थं प्रवृत्तस्य ‘एकत्वं प्रातिपदिकार्थस्यैकधर्मावच्छेदेव वृत्तिविषयत्वमात्रम् । न त्वेकमात्रव्यक्तित्वम् । अतो यौगिकार्थौपगवादिप्रश्नोत्तरे श्यामो दीर्घो लोहिताक्ष औपगव इत्यादौ अनेकार्थात्मकवन-सेनाप्रश्नोत्तरे एकदेशस्था वृक्षा वनमित्यादौ नाव्याप्तिः’ इति मूलस्य व्याख्यावसरे ‘वृत्ति-विषयत्वं शक्तिलक्षणाकृत्तद्धितसमासानामन्यतमज्ञानाधीनज्ञानविषयत्वम् । तथा च यादृश-धर्मविशिष्टस्य शक्त्यादिज्ञानाधीनधीविषयत्वं तादृशयत्किञ्चिद्धर्मविशिष्टभिन्नाविषयकप्रमा-जनकत्वं पर्यवसितम्’ इत्यभिधाय ‘तद्धितान्तेन गोसमीपवृत्त्यपत्यत्वविशिष्टबोधनात्तन्मात्र-पर्यवसायिनि श्यामादिवाक्ये नाव्याप्तिः’ इत्यभिहितम् । तेनापि ज्ञायतेऽखण्डार्थवाक्येन सप्रकारकबोधो जन्यते । परन्तु स न समभिव्याहृतपदार्थान्तरविषयक इति । तथा च निष्प्रकारकबोधजनकत्वस्याखण्डार्थकवाक्यलक्षणत्वेऽसम्भवोऽव्याप्तिर्वा स्यात् । प्रकृष्ट-प्रकाशादिवाक्यस्यापि चन्द्रत्वप्रकारकबोधजनकत्वादिति । मैवम् ।
यतो यद्यप्युक्तवाक्यपर्यालोचनया सप्रकारकबोधः पराभिप्रेत इति प्रतीयते । तथापि नासौ तस्य परमसिद्धान्तः । तथात्वे सत्यज्ञानादिवाक्येन तत्त्वमस्यादिवाक्येन च ब्रह्मत्व-रूपैकधर्मावच्छिन्नमात्रविषयकबोधजननेऽपि तस्याखण्डार्थकत्वानपायेन वेदान्तानामखण्डार्थ-कत्वानुरोधेन निर्विशेषब्रह्मसिद्ध्यभावप्रसङ्गात् । औपगवादिस्वरूपमात्रप्रश्नोत्तरीभूतौपगवादि-लक्षणवाक्येन यद्यौपगवत्वादिप्रकारकबोधस्तदा किमपराद्धं श्यामत्वादिधर्मभानेन । औपग-वत्वादिधर्मभानेऽप्यजिज्ञासिताभिधायकत्वदोषतौल्यात् । अतस्तद्वाक्येनाप्यौपगवादिस्वरूप-मात्रावगाही निष्प्रकारक एव बोधो जायते । एवं नवसेनादिलक्षणवाक्यादपि एकदेशस्थना-नावृक्षस्वरूपमात्रविषयक एव बोधो जायत इति तत्सिद्धान्तः ।
अत एवाद्वैतचन्द्रिकायां ‘वस्तुतः श्याम इत्यादेरौपगवादिस्वरूपमात्रप्रश्नोत्तरत्वेन तन्मात्रविषयकत्वसम्भवात्तद्धितादिपदस्य तत्स्वरूपमात्रलाक्षणिकत्वान्न यौगिकार्थमात्रविषय-कत्वम् । एकदेशेत्यादेरपि वनादिपदलक्षितनानावृक्षस्वरूपमात्रविषयकत्वम्’ इत्याद्यभिधाय ‘तथा च शक्तिलक्षणान्यतररूपा लक्षणा वा या एका नाम्नो वृत्तिस्तज्ज्ञानजन्यस्मृति-विषयान्याविषयकप्रमाजनकत्वं लक्षणं सम्भवति’ इति ग्रन्थेनैकप्रातिपदिकार्थपर्यवसायित्व-रूपलक्षणं परिष्कृत्य सप्रकारकबोधमुपादाय लक्षणं परिष्कुर्वतो मूलकारस्याभिप्रायविशेषम् ‘आचार्याणां श्यामेत्यादेः’ इत्यादिग्रन्थेनाभिधाय तदीयोत्तरग्रन्थानुसारेण तस्यापि शुद्ध-स्वरूपमात्रबोधकत्वमखण्डार्थवाक्यानामभिमतमित्यभिप्रेत्य ‘अत एव’ इत्यादिग्रन्थेन तद्ग्रन्थसम्मतिरुक्ता ।
उदाहृताद्वैतचन्द्रिकापरिष्कृतलक्षणवाक्ये विशिष्टनिष्ठशक्त्यापि सहकारिवशाद्विशेष्य-मात्रबोधो जायते । अतश्चन्द्रादिपदशक्त्यैव चन्द्रादिस्वरूपमात्रबोध इत्याशयेन शक्तेर्ग्रहणम् । यत्र विशेष्यवाचकपदं निरूढलाक्षणिकं यथा ‘पीलु स्वासाधारणधर्मयुक्तम्’ इति वाक्य-स्थपीलुपदं पीलुवृक्षजन्यत्वरूपशक्यसम्बन्धेन फलरूपार्थे, तत्स्थलानुरोधेन लक्षणाया ग्रहणम् । ‘विशिष्टशक्तिस्थले विशेष्यबोधो लक्षणयैवेति पक्षे लक्षणा वा’ इत्युक्तमिति ध्येयम् । उक्ताखण्डार्थकत्वमभिप्रेत्यैवोक्तं कल्पतरौ
अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।
एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ।। इति ।
अत्र यद्यप्यखण्डार्थस्वरूपमुक्तं तथापि तेन तत्प्रतिपादकत्वमेव लक्षणमभिप्रेतमिति सिद्धम् । अत्र प्रकारतात्वं नाखण्डो धर्मः परेषाम् । किन्तु भासमानवैशिष्ट्यप्रतियोगिता-त्वादिकम् । तथा च संसर्गघटितत्वात्प्रकारतायाः लाघवात्संसर्गाविषयकबोधजनकत्व-मखण्डार्थत्वमिति निष्कर्षस्तैः कृतः । तथा चोक्तं परकीयतत्वप्रदीपिकाख्यग्रन्थे
संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।
उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ।।
इति । कल्पतरावेकमित्यनेनैकप्रातिपदिकार्थत्वरूपं यद्रीत्यन्तरेणाखण्डत्वं निरुक्तं तल्लब्धलक्षणबोधकं यद्वा तत्प्रातिपदिकेत्यादि । अत्र संसर्गाविषयकप्रमाजनकत्वं लक्षणं चेत् ‘अप्राप्तयोः प्राप्तिः संयोगः’ इति संयोगलक्षणवाक्येऽव्याप्तिः । न च पदस्मारितातिरिक्त-संसर्गागोचरप्रमाजनकत्वं तत् । सर्वेषामपि संसर्गाणां पदस्मारितत्वेन पदस्मारितातिरिक्त-संसर्गाप्रसिद्धेः । नापि स्वघटकपदस्मारितातिरिक्तेत्यादि । ‘स्वत्वस्याननुगतत्वेन पक्षदृष्टान्त-योरेकधर्मावच्छिन्नसाध्यानिर्वाहः’ इति तत्र तत्र वदतस्तवोक्तरीत्या साध्यपरिष्कारायोगात् ।
ननु नञ्व्यत्यासेन स्वघटकपदस्मारितातिरिक्तसंसर्गगोचरप्रमाजनकं यद्यत्तत्तद्भेदकूटवत्त्वं लक्षणमभिमतम् । घटमानय नीलोत्पलम् इत्यादिवाक्येषु स्वघटकपदानि यानि तत्स्मारि-तार्था घटादयस्तदन्यसंसर्गः कर्मत्वानयनयोः संसर्गो नीलोत्पलयोरभेदसंसर्गश्च तद्विषयक-प्रमाजनकत्वसत्त्वात्ताति प्रतियोगिकोटिप्रविष्टानि । न प्रकृष्टप्रकाशादिवाक्यानि । तेषां चन्द्र-स्वरूपातिरिक्तानवगाहिबोधजनकताया अग्रे व्यवस्थापयिष्यमाणत्वात् । अतस्तेषु तत्तद्भेद१कूटसत्त्वोपलक्षणसमन्वयसङ्गतिरिति । मैवम् । घटः कर्मत्वमानयनमिति निराकाङ्क्ष-वाक्येऽतिव्याप्तेः । शाब्दबोधजनकत्वाभावेन प्रतियोगिकोट्यनिविष्टत्वात् । न च ज्ञानजन-कत्वमपि विशेष्यदलं विवक्षणीयमिति वाच्यम् । तस्यापि ज्ञायमानलिङ्गविधया स्वप्रयोक्तृ-पुरषानुमितिजनकत्वात् । विषयविधया स्वप्रत्यक्षजनकत्वाच्च । न च शाब्दजनकत्वं विवक्षणीयमिति वाच्यम् । तेनापि योग्यताभ्रमेणाभेदान्वयबोधजननात् । तस्य प्रमाजन-कत्वाभावेन प्रतियोगिकोट्यप्रवेशाच्चातिव्याप्तेः । न च विशेष्यदले शाब्दपदं प्रमापरमस्त्विति वाच्यम् । प्रमापदस्य सर्वथा बाध्यत्वशून्यविषयकार्थकत्वे प्रकृष्टप्रकाशादिवाक्येऽव्याप्त्या-पत्तेः । व्यवहारकालबाध्यार्थविषयकार्थकत्वे तु ‘अविद्यातिरिक्तदोषप्रयुक्तभानकं प्रातिभासि-कम्’ इति प्रातिभासिकलक्षणवाक्येऽव्याप्तिः । तद्वाक्यजन्यप्रातिभासिकस्वरूपमात्रावगाह्य-खण्डार्थबोधस्योक्तप्रमात्वाभावात् । न च तदलक्ष्यमेवेति वक्तुं युक्तम् । स्वघटकपदार्थयोः परस्परभेदबुद्धेरनाहार्यत्वेन तद्विरोध्यखण्डार्थबोधजनकत्वात् । शुक्तिरजतादिकं नास्ति’ इति वाक्यस्येवैतस्यापि प्रमाणत्वेनैव लोकव्यवहारगोचरत्वेन ‘घटः कलशः’ इत्यादिवाक्यस्येव अलक्ष्यत्वे बीजाभावात् ।
ननु तर्हि त्यज्यतां प्रतियोगिकोटावपि प्रमात्वेन निवेशः । तावतापि घटः कर्मत्वमिति वाक्येऽतिव्याप्तेः प्रातिभासिकलक्षणवाक्ये चाव्याप्तेश्च निरासो भवति । न च संसर्गासङ्गि-सम्यग्धीत्युक्तिविरोधः । तेन प्रमात्वेन निवेशप्रतिपादनादिति वाच्यम् । सम्यक्पदस्योक्त-भेदविरोध्यर्थकतया घटः कलश इति वाक्यवारणार्थत्वात् । घटः कलश इति वाक्ये घटत्वमात्रनिर्विकल्पकशाब्दस्य जातिशक्तिवादिमते जननेऽपि घटत्वे घटत्वभेदबुद्धेराहार्यत्वेन तद्विरोधित्वाभावेन तस्याखण्डार्थकवाक्यलक्षणलक्ष्यतायास्तान्त्रिकैरनङ्गीकृतत्वात् । न च तर्हि ‘अपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वम्’ इति भवदीयलक्षणेऽपर्यायशब्दानां इत्यस्य वैयर्थ्यापातः । भवदुक्तप्रमात्वेन निवेशादेव तद्वारणादिति वाच्यम् । उक्तसम्यग्धी-पदस्यैवोक्तक्रमेणापर्यायशब्दानामित्येतन्निवेशतात्पर्यग्राहकत्वाभ्युपगमादिति चेन्न । एव-मप्युक्ताद्वैतसिद्धीयलक्षणवाक्ये प्रमापदापर्यायशब्दपदयोरन्यतरवैयर्थ्यस्य दुर्वारत्वात् ।
एतेन ‘प्रमापदं स्वानिवर्त्याज्ञानविषयविषयकशाब्दपरम् । प्रातिभासिकलक्षणवाक्यजा-खण्डबोधेनापि निवर्तनीयं किञ्चिदज्ञानं स्वीक्रियत एव । अतस्तत्र नाव्याप्तिः । घटः कर्मत्वमिति वाक्यजन्यशाब्दस्याविद्यावृत्तिरूपतयाऽविद्यानिवर्तकत्वाभावान्नातिव्याप्तिः’ इत्यपि निरस्तम् । घटः कलश इति वाक्यजन्यबोधस्याज्ञानानिवर्तकतायास्तवापि सिद्धत्वेना-पर्यायशब्दानामित्यस्य वैयर्थ्यापरिहारात् ।
किञ्च स्वत्त्वं प्रतियोगिकोटावनुयोगिकोटौ वा कामं निवेश्यताम् । तथापि संसर्ग-पदवैयर्थ्यं दुर्वारम् । पदस्मारितातिरिक्तस्य संसर्गस्यैव शाब्दबोधे भानेन संसर्गत्वेन तन्निवेशानर्थक्यात् । न चास्तु तथैव । संसर्गपदेन प्राचीनैरुपात्तेनैतादृशार्थो लभ्यत इति सूचनार्थत्वमात्रं तस्येति वाच्यम् । तथापि ‘सांसर्गिकविषयतावान् सम्बन्धः’ इत्याकारे विशिष्टार्थतात्पर्यकवाक्येऽतिव्याप्तिः । तज्जन्यबोधविषयीभूतपदार्थद्वयसंसर्गाणामपि पदस्मारितातिरिक्तत्वाभावात् । न हीदं संसर्गलक्षणपरत्वेन कदाचिदुक्तमपि विशिष्टार्थ-बोधतात्पर्येण न प्रयोक्तव्यमिति राज्ञामाज्ञाऽस्ति । आग्रहकरणेऽपि सम्बन्धसामान्यं प्रमेय-रूपं सर्वप्रमेयविषयकज्ञानविषयीभूतमिति वाक्ये प्रतियोगिनि स्वत्वनिवेशपक्षेऽतिव्याप्तिः । स्वघटकपदस्मारितारिक्ताप्रसिद्ध्या स्वपदेनोपादानासम्भवात् । अनुयोगिनि स्वत्व-निवेशपक्षेऽपि तादात्म्यसामान्यं सम्बन्ध इति वाक्येऽतिव्याप्तिरेव । सम्बन्धत्वस्य संयोगादि-साधारणतया अलक्षणतयोक्तस्य लक्षणवाक्यत्वाभावेनेष्टापत्तेरयोगात् । पदार्थोऽभिधेय इति पदार्थसामान्यलक्षणवाक्ये अनुयोगिनि स्वत्वनिवेशपक्षेऽव्याप्तिश्च । स्वघटकपदस्मारिताति-रिक्ताप्रसिद्धेरिति ध्येयम् ।
यदप्यपर्यायशब्दानामेकप्रातिपदिकार्थमात्रपर्यवसायित्वलक्षणं पूर्वोदाहृतेन ‘एका या नाम्नो वृत्तिः’ इत्यद्वैतचन्द्रिकावाक्येन निष्टङ्कितम् तदप्यकिञ्चित्करम् । वृत्तिपदस्य शुक्ति-सक्षणान्यतरपरत्वपक्षे सम्बन्धः तादात्म्यमित्यादिके विशिष्टपरवाक्येऽतिव्याप्तेः । असम्बन्ध-त्वेनापि तादात्म्यस्यैव प्रकारतया भानात्संसर्गतयापि तस्यैव भानात्सम्बन्धत्वस्यापि किञ्चि-त्तादात्म्यरूपत्वेन तादात्म्यपदशक्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वस्याव्याहतेः । न चोक्तरीत्या सर्वेषामपि किञ्चित्तादात्म्यरूपतया तदतिरिक्ताप्रसिद्धिरिति वाच्यम् । अवृत्तिगगनशशविषाणादीनामेव तथाभूतानां प्रसिद्धेः । सम्बन्धत्वादेव तादात्म्यरूपत्वा-नङ्गीकारेऽपि यत्रोद्देश्यबोधकं विधेयतत्संसर्गघटितधर्मावच्छिन्नलक्षणातात्पर्येणोच्चारितं तादृशोद्देश्यविधेयबोधरूपविशिष्टार्थबोधपरवाक्यसामान्येऽतिव्याप्तेः । तद्बोधस्योद्देश्यबोधक-नामनिरूपितलक्षणारूपैकवृत्त्युपस्थापितातिरिक्ताविषयकत्वात् । न च स्वघटकनामपद-निरूपितैकवृत्तिग्रहाधीनैकस्मृतिप्रयोज्यबोधजनकवाक्यत्वमिति तस्य निष्कर्षः । अखण्डार्थक- वाक्यस्थले नामार्थद्वयस्य प्रकारविशेष्यविधया भानोत्तरं वक्ष्यमाणरीत्या बाधग्रहेण वा तात्पर्यानुपपत्त्या वा पुनर्यत्किञ्चित्पदलक्षणाग्रहाधीनैकस्मृत्यैकप्रातिपदिकार्थमात्रविषयकबोधो जन्यत इति तद्बोधमादायैव लक्षणसङ्गतिः । न च पदानां बहूनां सत्त्वादेकपदलक्षणाधीनैव स्मृतिः कारणमित्यत्र मानाभावः । समानाकारानेकस्मृतीनामेकमात्रवस्त्ववगाहिशाब्द-सामग्रीनिवेशे गौरवादेकपदलक्षणाया आवश्यकत्वे विशेष्यबोधकपदस्यैव प्राधान्या-ल्लक्षणाङ्गीकारात् । उक्तविशिष्टार्थपरवाक्यस्थले वाक्यघटकपदद्वयाधीनस्मृतिद्वयघटित-सामग्य्रैव शाब्दबोधोदयात्तत्र नातिव्याप्तिः । स्मृतावेवैकत्वविवक्षणे यत्र नामपदद्वयाधीनैक-समूहालम्बनस्मृत्या विशिष्टार्थबोधः तत्रातिव्याप्तिः स्यादतो वृत्तावेकत्वनिवेशः । उक्त-समूहालम्बनस्मृतेर्वृत्तिद्वयग्रहाधीनत्वान्न दोषः ।
स्मृतावेकत्वनिवेशे प्रत्येकं पदद्वयेनैकवृत्या जातस्मृतिद्वयघटितसामग्य्रा विशिष्टार्थ-बोधकवाक्येऽतिव्याप्तिः स्यादिति तन्निवेश इति वाच्यम् । यत्र विषं भुंक्ष्वेति वाक्यजन्य-बोधोत्तरं तत्र विरोधग्रहेण तद्वाक्यघटकैकपदमात्रलक्षणया ‘द्विषदन्नं न भोक्तव्यम्’ इति विशिष्टार्थावगाही जातस्तत्रातिव्याप्तेः । न हि तद्घटकैकपदवृत्तिमात्रग्रहाधीनैकविशिष्ट-विषयकस्मृतिसहकृतो-क्तवाक्येन तद्वाक्यतात्पर्यविषयीभूतोक्तधीर्न जन्यते । अखण्डार्थपर-वाक्येन तु जन्यत इत्यत्र त्वद्वाक्यातिरिक्तं किञ्चिन्नियामकमस्ति येनोक्तातिव्याप्तिर्न स्यात् । न च विशिष्टविषयकस्मृतेरेकेनैव पदेन जनने शाब्दबोधस्यापूर्वार्थावगाहित्वाभावप्रसङ्गात् तद्घटकपदद्वयस्य पृथगर्थद्वयलक्षणामङ्गीकृत्य तत्र शाब्दबोध उपपादनीय इति वाच्यम् । प्रकृष्टप्रकाशादिवाक्यस्थलेऽपि चन्द्रमात्रविषयकस्मृतेः पूर्वमावश्यकत्वे तत्राप्यपूर्वार्थाबोधकत्व-प्रसङ्गात् । तत्र चन्द्रस्मृतिं पूर्वमनङ्गीकृत्याभिहितान्वयवादिमते वक्ष्यमाणरीत्या स्वरूपसत्या एवाज्ञाताया वाक्यलक्षणाया बोधकत्वमभ्युपेत्य चन्द्रादिस्वरूपमात्रावगाहिबोधाङ्गीकारे त्वदीयलक्षणस्यासम्भव एव स्यात् । स्मृत्यघटितसामग्य्राः शाब्दबोधजनकत्वं चेद्विलक्षणं निरुच्यते तदोक्तरीत्या विषं भुंक्ष्वेति वाक्येऽतिव्याप्तिरपरिहार्यैव ।
ननु वाक्यजन्यप्रमायां विषयतासम्बन्धेनाज्ञानं सामान्यसामग्री । अत एवानु-वादवाक्यात्स्मृतिरेव जायते । न शाब्दधीः । तथा चाज्ञाननिवर्तकबोधजनकत्वमेव प्रमाण-वाक्य आवश्यकम् । स्मृतेश्चाविद्यावृत्तित्वेनाज्ञानानिवर्तकतया चन्द्रस्वरूपविषयकाज्ञान-निवृत्त्यर्थं चन्द्रस्मृत्युत्तरमपि तच्छाब्द आवश्यक इति चेन्न । विषं भुंक्ष्वेति वाक्यस्थलेऽपि तथैव सम्भवेन पूर्वोक्तातिव्याप्तेर्दुर्वारत्वात् । तद्बोध्यार्थस्य विशिष्टरूपत्वेऽपि तद्बोध्यपदद्वय-लक्षणाश्रयणस्य गौरवादेव परित्यागात् । तस्माद्ब्रह्मानन्दो क्तलक्षणमयुक्तमेवेति ।
यद्यपि स्वघटकयत्किञ्चिन्नामपदजन्यस्मृतिविशेष्यमात्रविषयकबोधजनकत्वमत्र सुवचम् । विषं भुंक्ष्वेत्यादिविशिष्टपरवाक्यैर्विशेष्यस्वरूपमात्रावगाहिबोधानुदयान्नातिव्याप्तिः । नन्वभि-धेयः पदार्थ इति पदार्थलक्षणवाक्ये अव्याप्तिः । पदार्थमात्रस्य स्मृतिविषयतया तदन्या-प्रसिद्धेः । वस्तुतोऽभिधेयभेदाप्रसिद्धावपि निरूप्यनिरूपकभावापन्नविषयताशाल्यभिधेयभेद-भ्रमस्यानाहार्यस्य प्रसिद्ध्या तद्विरोधिबोधजनकस्यास्याखण्डार्थवाक्यलक्षणालक्ष्यत्वे बीजा-भावात् । एवं ध्वंसादिरूपकिञ्चिद्वस्तुभिन्ननिखिलप्रमेयार्थकसर्वनामपदघटिते वा तादृश-साङ्केतिकनामघटिते वा स प्रमेय इति वाक्येऽतिव्याप्तिश्च । तद्वाक्यजन्यविशिष्टावगाहि-बोधस्यापि तादृशविशेष्यवाचकपदस्मारितातिरिक्ततादृशध्वंसादिरूपवस्त्वनवगाहित्वात् । प्रमेयत्वेनापि प्रकारकोटौ विशेष्याभिन्नव्यक्तीनामेव स्फुरणात् । अन्यथा तस्याप्रमात्वा-पत्तेरिति चेन्न । स्वघटकयत्किञ्चिन्नामपदनिरूपितवृत्तिमात्रग्रहाधीनैकस्मृतिघटितसामग्य्रधीन-तादृशस्मृतिविशेष्यताव्याप्यस्वविषयतात्वावच्छिन्नकबोधजनकत्वमिति विवक्षणेनोक्तदोष-वारणात् ।
विशिष्टार्थबोधकवाक्यजन्यबोधसामग्रीकोटौ पदद्वयवृत्तिग्रहाधीनभिन्नस्मृत्योः समूहा-लम्बनैकस्मृतेर्वा घटकत्वेऽप्युक्तैकस्मृतिमात्रस्याघटकत्वान्नातिव्याप्तिः । विषं भुंक्ष्वेति वाक्य-जन्यबोधस्थले उक्तरीत्यैकस्मृतेर्निवेशाङ्गीकारेऽपि फलीभूतबोधीयविषयतायाः प्रकारता-रूपायास्तत्प्रकारे सत्त्वेऽपि तादृशस्मृतिविशेष्यतायास्तत्राभावेनोक्तव्याप्यताभङ्गादेव नाति-व्याप्तिः । व्याप्तिश्च स्वव्यापकसत्कत्त्वमेवेति न पदार्थलक्षणवाक्येऽव्याप्तिः । घटः कलश इति वाक्यजन्यबोधसामग्री यदि स्मृतिघटिता तदा पदद्वयवृत्तिग्रहाधीनस्मृत्योरेवैकस्मृतेर्वा निविष्टत्वान्नातिव्याप्तिः । तत्रैकमात्रपदवृत्तिग्रहाधीनस्मृतेरेव तत्र सामग्रीशरीरनिवेशे पदद्वय-घटितवाक्यस्य तत्र कारणताया निर्युक्तिकत्वापातात् । अखण्डार्थकवाक्यस्थले तु द्वारीभूत-बोधस्य स्वस्वार्थस्मृतिद्वारा समस्तपदैर्जननानन्तरं तात्पर्यवशात्तद्घटकैकनामपदाधीनस्मृति-सहकृततादृशवाक्येनैवाखण्डार्थावगाहिबोधोत्पत्तेर्विशिष्टवाक्यस्य तत्र कारणत्वं युक्तमेव । अन्यथा मध्यवृत्तिबोधस्य द्वारत्वानुपपत्तेः । अतोऽत्रापर्यायशब्दानामिति न देयमेव । उक्तार्थतात्पर्यग्राहकतया तस्योपयोगः । एवं सांसर्गिकविषयताशून्यशाब्दधीजनकतावच्छेदकं यत्पदोत्तरयत्पदत्वं तत्त्वमखण्डार्थत्वमिति संसर्गागोचरत्वघटितलक्षणमपि सुवचम् ।
घटः कलश इत्यादेः उच्चैर्नीचैः इत्यादेश्च मिलित्वैकार्थबोधकत्वे त्वपर्यायशब्दघटितत्वं वक्तव्यम् । तथाप्युक्तैकस्मृतिघटितसामग्य्राः आद्यस्य तद्रीत्यैव वक्ष्यमाणरीत्या परमतेऽप्य-भावात् । सांसर्गिकविषयताशून्यबोधस्य चाग्रे निराकणिष्यमाणतया लक्षणलक्ष्यस्वरूपा-प्रसिद्धिरेव दोषोऽनुसन्धेयः ।
न किञ्चिद्विदितं कृष्ण त्वयेत्थं येन मां प्रति ।
त्वद्दशा न मया ज्ञातेत्युच्यते सत्यवादिना ।।
इति श्लोकेऽतिव्याप्तिश्च । अत्र पाञ्चाल्या कुरुराजापकृतया कृष्णं प्रति भ्रातृत्वसम्बन्ध-मनुस्मरन्त्या सकोपमुच्यते । विपरीतलक्षणया तच्छ्लोकेन त्वया सर्वं ज्ञातमित्यर्थोऽवगम्यते । अतस्तज्जनकलक्षणाधीनस्मृतिविशेष्यताव्याप्यत्वस्योक्तशाब्दविषयतायाः सत्त्वात् । स्मृतौ सर्वस्यापि विशेष्यत्वादिति दिक् ।
तदेतत्सर्वं शिष्यैरेवोह्यतामित्याशयेन ग्रन्थगौरवभयाच्च नाखण्डार्थलक्षणदूषणं विशेषतः प्रदर्शितमिति ध्येयम् ।
अत्र तत्त्वमस्यादिवाक्यसाधारणरूपेण पक्षत्वे वक्ष्यमाणहेतोर्भागासिद्धिः स्यादिति वेदान्तवाक्यं विभज्य वाक्यविशेष एव पक्षत्वेनोररीकृतः । अखण्डार्थनिष्ठं सांसर्गिक-विषयताशून्यबोधजनकं एकप्रातिपदिकार्थपर्यवसायिवेत्यर्थः । ब्रह्मस्वरूपमात्रप्रश्नविषयी-भूतार्थबोधेच्छाधीनवाक्यत्वरूपब्रह्मप्रश्नोत्तरत्वरूपवक्ष्यमाणहेतुमुपपादयति ।। ब्रह्मविदिति ।। प्रस्तुतब्रह्मस्वरूपेति ।। मोक्षहेतुज्ञानविषयत्वेन प्रस्तुतेत्यर्थः । ब्रह्मस्वरूपेतरज्ञानस्य मोक्षा-हेतुत्वान्न स्वरूपातिरिक्ते जिज्ञासोचितेति भावः ।। लक्षणं हीति ।। लक्षणवाक्यत्व-रूपवक्ष्यमाणहेत्वन्तरोपपादनायेदमुदितमित्यवधेयम् । प्रकृष्टप्रकाशश्चन्द्र इति दृष्टान्तवाक्ये हेतुसाध्ये सिद्धवत्कृत्योपपादयति ।। यथा खल्विति ।। पूर्वोक्तं प्रतिकूलतर्कपराहतौ पर्यवसितं पर्यायत्वापत्तिदोषमुद्धर्तुमाह ।। यथा चेति ।। प्रकर्षादिगुणेति ।। प्रकृष्टप्रकाशादि-गुणसम्बन्धाभिधानद्वारेत्यर्थः ।। लक्षणयेति ।। विशिष्टवाक्यस्य वा तद्घटकप्रत्येकपदयोर्वा तद्घटकैकनाम्नो वा यथामतं शुद्धस्वरूपमात्रलक्षणयेत्यर्थः । तत्परत्वात् शुद्धस्वरूपमात्रबोधे परमतात्पर्यशालित्वात् ।
अयमभिप्रायः । अज्ञातचन्द्रस्वरूपमात्रः पुरुषस्तत्स्वरूपमात्रजिज्ञासया कश्चन्द्र इति पृच्छति । तं प्रति वक्त्रा अज्ञाननिवर्तकतत्स्वरूपमात्रबोधाय वाक्यं प्रयोक्तव्यम् । अधिक-विषयबोधतात्पर्ये वाक्यस्य पुरुषस्य चाजिज्ञासिताभिधायकत्वाभिधातृत्वरूपौ दोषौ प्रसज्ज्येयाताम् । तादृशफलीभूतबोधो यादृशवाक्यं विना न निर्वहति तावत्पदघटितमेव प्रयोक्तव्यम् । केवलं चन्द्र इत्येतावन्मात्रे प्रयुक्ते चन्द्रे प्रकृष्टप्रकाशाश्रयत्वाभावसन्देह-विपर्ययनिवृत्तिर्न जायते । स्वरूपविषयकाज्ञानस्यानिवृत्तत्वात् । अतः प्रकृष्टप्रकाशादिरूप-लक्षणबोधकं वाक्यं प्रयोक्तव्यम् । तेन च चन्द्रे प्रकृष्टप्रकाशादितादात्म्यबोधानन्तरं ‘अस्य वाक्यस्य नैतावन्मात्रे तात्पर्यम् । आप्तस्य मदजिज्ञासिताभिधायकत्वापत्तेः । किन्तु मज्जिज्ञासितस्वरूपमात्रबोधे तात्पर्यम्’ इति प्रतिसन्धानेन चन्द्रादिपदलक्षणया स्वरूपमात्र-शाब्दो जायते । तस्य स्वरूपविषयकाज्ञाननिवर्तकत्वं युज्यते । तादृशतादात्म्यधीद्वारक-स्वरूपमात्रबोधत्वेनैवाज्ञाननिवर्तकत्वात् । तथा च तादृशवाक्यघटकपदयोर्न सह-प्रयोगानर्हत्वरूपपर्यायत्वप्रसक्तिरिति ।
एतेन ‘प्रकृष्टप्रकाशपदचन्द्रपदयोर्विभिन्नधर्मावच्छिन्नवाचित्वादेव पर्यायत्वशङ्कानुदयादेता-वदुपपादनमकिञ्चित्करम्’ इति शङ्कानवकाशः । एकमात्रबोधकत्वे एकवाक्ये तदर्थं सह-प्रयोगानर्हत्वरूपपर्यायत्वापत्तेरेव निराकृतत्वात् ।
दार्ष्टान्तिकेऽपि तद्दोषं परिहरति ।। तथेति ।। परापरेति ।। परजातिः सत्त्वं अपरजातिर्ज्ञानत्वानन्दत्वे तद्वाचिनामित्यर्थः । भट्टमते जातौ शक्त्यङ्गीकारादेवमुक्तिः ।। शबले गृहीतसङ्गतीनामिति ।। शबले शक्तिग्रहविषयाणामित्यर्थः । अयं भावः । त्रिकाल-बाध्यत्वभावः सत्स्वरूपनिष्ठस्तत्स्वरूपः । अतः स एव सत्ताजातिरित्युच्यते । तत्र सर्व-पदार्थानां तादात्म्येनारोपिततया तस्याः सर्वानुस्यूतत्वेन जातिसाम्यात् जातित्वव्यवहारः । तस्य घटादौ वृत्तित्वाभावात् न जातित्वम् । सत्ता च कल्पितधर्मभावाद्ब्रह्मण्येव स्वोपहिते वर्तते । एवं प्रमाणजन्यान्तःकरणवृत्त्युपहितचिद्व्यक्तिषु ज्ञानत्वजातिः । तादृशोपहित-चिद्व्यक्तीनां परस्परं स्वसमानसत्ताकभेदवत्त्वेन बहुत्वात्तद्वृत्तिज्ञानत्वस्य जातित्वम् । एव-मानन्दत्वजातिरपि विषयसंसर्गजवृत्त्युपहितचित्येव स्वीक्रियते । तथा च तत्तदुपहितचितामेव शबलपदार्थत्वात्तत्र तत्र तच्छब्दशक्तिग्रहो भवति ।
तदुक्तं कल्पतरौ ‘सत्यत्वादिविशिष्टशबलब्रह्मवाचिनां सत्यादिपदानां शुद्धे ब्रह्मणि लक्षणा’ इति । अधिकं दूषणग्रन्थव्याख्यावसरे विवेचयिष्यते । न च सत्यत्वादीनामुपहित-वृत्तित्वात्कथं ब्रह्मलक्षणत्वमिति वाच्यम् । उपहितवृत्तेरपि शुद्धवृत्तित्वाङ्गीकारेण सामञ्जस्या- दित्याशयात् ।। लक्षणयेति ।। न च सत्यत्वादिधर्माणां शुद्धेऽङ्गीकारेऽन्वयानुपपत्त्य-भावात्कुतो लक्षणेति वाच्यम् । निष्प्रकारकबोधतात्पर्येणैवास्य वाक्यस्य प्रवृत्तत्वा-त्तन्निर्वाहायैव लक्षणा युक्तेति भावः । तथा च सत्यत्वादिविशिष्टबोधानन्तरं वाक्यलक्षणया तद्घटकपदलक्षणया वाऽखण्डार्थबोधोदयो भवतीति भावः ।
ननु तर्हि वाक्यलक्षणापक्षेऽपि वाक्यस्य सत्याद्येकतरपदघटितत्वेऽप्युद्देश्याखण्ड-बोधनिर्वाहादितरपदोपादानवैयर्थ्यम् । पदलक्षणापक्षे तु सुतरामेकेनैवोद्देश्यसिद्धेः । न च प्रतिपत्तृपुरुषभेदेन तदुपादानमिति युक्तम् । अयं ज्ञानपदेन बोधनीयोऽयं सत्यपदेन बोधनीय इत्यत्र शाखाभेदेन कर्मानुष्ठानभेद इव मानाभावादित्याशङ्कते ।। न चैवमिति ।। लक्ष्यार्थभेदेति ।। लक्ष्यतावच्छेदकस्य वा लक्ष्यवस्तुनो वा भिन्नत्वाभावेऽपीत्यर्थः । तथात्वे फलीभूतबोधे तद्भानार्थमेव पदान्तरमावश्यकं स्यादिति भावः । प्रतिपदमित्यस्य सत्त्वादित्य-नेनान्वयः ।। आरोपितेति ।। शून्यवादिनैयायिकादिरीत्याऽनृतत्वाज्ञानत्वानानन्दत्वादे-र्ब्रह्मण्यारोपितस्याभावनिश्चयरूपस्य प्रयोजनस्येत्यर्थः । सत्यमेवं कस्यचित्पदस्य तद्घटित-वाक्यस्य वा लक्षणामात्रेण स्वरूपमात्रावगाहिबोध उत्पत्तुमर्हति । तथाऽप्येकसत्यपदसत्त्वे सत्त्वरूपविशेषणस्य द्वारीभूतबोधे भानेनानृतव्यावृत्तिनिश्चयसम्भवेऽपि नाज्ञानव्यावृत्तिर्निश्चेतुं शक्यते । एवं ज्ञानपदमात्रसत्त्वेनानृतव्यावृत्तिनिश्चयः स्यात् । अतश्च नासङ्कीर्ण-ब्रह्मस्वरूपसिद्धिः स्यात् । अतस्तत्तद्व्यावृत्तिबोधनिर्वाहकतया द्वारीभूतबोधे तज्ज्ञानार्थं तेषां पदानां सार्थक्यमिति भावः । तादृशव्यावृत्तिधीद्वारकब्रह्मस्वरूपनिश्चयस्यैव ब्रह्मस्वरूप-विषयकाज्ञानसंशयादिनिवर्तकत्वात्तदावश्यकमिति भावः । यथा चेति ।। नक्षत्रादीति ।। प्रकाशाश्रयत्वमात्रस्य नक्षत्राद्यव्यावर्तकत्वात्तद्व्यावृत्तिधीद्वारकचन्द्रस्वरूपसिद्ध्यर्थं चन्द्र-स्वरूपमात्रतात्पर्यकेऽपि वाक्ये यथा न प्रकृष्टादिपदवैयर्थ्यं तथेति भावः ।
इत्थं हि परेषां प्रक्रिया । ‘सत्यं ज्ञानम्’ इति वाक्येन ब्रह्मविशेष्यकसत्यत्वादि-धर्मोपहिततादात्म्यावगाहिनी धीर्जायते । ततो लक्षणवाक्यस्य लक्ष्यस्वरूपमात्रतात्पर्यकत्व-निश्चयबलेन तद्वाक्यघटकसत्यादिपदलक्षणया वा स्वबोध्यसम्बन्धस्यैव लक्षणात्वाङ्गीकारा-द्वाक्यलक्षणया वा सत्यत्वज्ञानत्वाद्युपलक्षितस्वरूपमात्रावगाहिशाब्दबोधान्तरं जायते । न च काकेनोपलक्षणेन देवदत्तगृहवृत्त्युत्तृणत्वादिरूपोपलक्ष्यतावच्छेदकधर्मान्तरोपस्थापनावश्यकत्वे कथं स बोधः शुद्धस्वरूपमात्रावगाहीति साम्प्रतम् । धर्मोपलक्षकस्य तथात्वेऽपि स्वरूपोप-लक्षकस्य स्वरूपमात्रबोधजनकत्वाभ्युपगमात् । प्रकृष्टप्रकाशादिवाक्ये तथा दृष्टत्वात् । तथा च ब्रह्मपदलक्षणाजन्यान्तःकरणवृत्तिविषयीभूतं चिन्मात्रं तादृशवृत्त्युपहितं लक्ष्यम् । सत्यादिपदलक्षणाजन्यचिन्मात्रविषयकान्तःकरणवृत्त्युपहिता चित् स्वरूपलक्षणम् । लक्ष्यात्यन्ताभिन्नस्यैव स्वरूपलक्षणत्वम् । तद्भिन्नं सल्लक्ष्यव्यावर्तकं यत्तत्तटस्थलक्षण-मित्यभ्युपगमात् । लक्ष्यलक्षणावगाहिन्यखण्डस्वरूपविषयकबोधेऽप्येकस्यैव ज्ञातत्वेनोद्देश्यत्वं अज्ञाननिवर्तकवृत्तिविषयत्वेन विधेयतापि सङ्गच्छेते । ब्रह्मत्वाद्यवच्छिन्नविशेष्यकसत्यत्वादि-वैशिष्ट्यविषयकशाब्दधीद्वारा तादृशवाक्यजन्यस्वरूपमात्रविषयकशाब्दत्वावच्छिन्नस्यैव स्वरूपमात्रविषयकाज्ञाननिवृत्तिहेतुत्वात् । अखण्डार्थबोधस्याज्ञाननिवर्तकत्वात् । उद्देश्यता-विधेयत्वे च परस्परं निरूप्यनिरूपकभावापन्ने द्वे । एकस्या एव वा तस्या रूपभेदेन निरूप्यनिरूपकभावः । सर्वथा सांसर्गिकविषयता परं नास्ति । अत्यन्ताभिन्नस्वरूपे संसर्गभानायोगात् । न च किञ्चिन्निरूपितविषयतात्वं सांसर्गिकविषयतानिरूपितत्वव्याप्य-मिति नियमः । सांसर्गिकविषयतायामेव व्यभिचारात् । उक्तस्वरूपलक्षणेन लक्ष्यस्यानृता-दीतरभेदानुमितिर्जायते अर्थापत्तिर्वा । तत्प्रकारश्च अनृतादिव्यापकाभावप्रतियोग्युक्तसत्यादि-पदजन्यवृत्तिविषयवानयं ब्रह्मपदजन्योक्तवृत्तिविषय इति परामर्शेन ब्रह्मपदजन्यवृत्तिविषयोऽ-नृतादिभिन्न इत्यनुमितिः । अर्थापत्तिस्तु यद्ब्रह्मपदलक्षणाजन्यधीविषयत्वोपहितं तत्रानृतादि-व्यावृत्तिं विना तन्निष्ठं सत्यादिपदजन्याखण्डाकारधियोपहितमनुपपन्नमित्यनुपपत्तिज्ञाने-नोक्तानुमितिसमानाकारा जायते । तादृशतादृशवृत्तिविषयत्वोपहितचिद्रूपहेतुपक्षज्ञानं च तादृशवृत्त्युत्पत्त्यनन्तरं तद्ग्राहकसाक्षिणैव भवति । न चाखण्डस्वरूपबोधोत्तरमुक्तरीत्या व्यावृत्तिधीः किमर्थमपेक्ष्यत इति वाच्यम् । इतरव्यावृत्ततत्त्वंपदार्थज्ञानोत्तरमेव महावाक्येन तयोरभेदबोधनेन भेदभ्रमनिरासार्थत्वात् । सर्वत्र लक्षणज्ञानस्य व्यावृत्तिफलकत्वेन क्लृप्तत्वा-त्प्रकृष्टप्रकाशादिवाक्येऽपि चन्द्रस्वरूपमात्रबोधोत्तरं तादृशज्ञानविशेषविषयत्वोपहितचन्द्रस्वरूप- हेतुनैवेतरव्यावृत्तिधीजननात् । तज्ज्ञानस्य चासङ्कीर्णचन्द्रादिव्यवहारफलकत्वादित्येकः पक्षः ।
अपरः ‘सत्यादिवाक्यं अनृतादिव्यावृत्तिज्ञानद्वारा अखण्डार्थबोधं जनयतीति अखण्डार्थबोध एव फलं व्यावृत्तिज्ञानं द्वारम्’ इति । उक्तं हि ‘सत्ये ब्रह्मणि सत्यादिशब्दा व्यावृत्तिद्वारा पर्यवस्यन्ति’ इति । सत्यत्वादिवैशिष्ट्यस्य ब्रह्मणि बोधोत्तरमनृतादि-व्यावृत्तिधीर्ब्रह्मणि जायते सत्यत्वादिहेतुभिरेव । ततस्तद्द्वाराऽखण्डार्थधीर्जायते । नन्वेतदयुक्तम् । शाब्दबोधे हि पदतदर्थोपस्थित्यादीनामेव कारणत्वम् । न व्यावृत्तिधिय इति सार्वत्रिकी रीतिः । प्रकृते चासत्यादिव्यावृत्तिर्न पदार्थो नाप्यवान्तरवाक्यार्थः । कथं तज्ज्ञानमखण्डार्थबोधहेतुरिति चेन्न । आपाततः सत्यादिवाक्यात् ज्ञाने जातेऽपि तत्र तात्पर्यसन्देहाधीनाप्रामाण्यसन्देहादिना जायमानज्ञानं निश्चयात्मकमप्रामाण्यसन्देहाना-स्कन्दितञ्च न भवतीति स्वरूपमात्रविषयाविद्यानिवृत्त्युपधायकं न भवतीत्यतो विचार-निर्णीततात्पर्यकसत्यादिवाक्येन सत्यत्वादिविशिष्टबोधोत्तरं सत्त्वादिलिङ्गकव्यावृत्तिज्ञान-वशादनृतादितादात्म्याभानाच्छुद्धस्वरूपमात्रविषयनिश्चयात्मकमनावृतप्रामाण्यकं स्वरूपमात्र-विषयकाज्ञाननिवृत्त्युपधायकं ज्ञानं जायत इत्यन्वयव्यतिरेकबलादेव व्यावृत्तिज्ञानस्य द्वार-त्वाभ्युपगमात् ।
नन्वथापि पदान्तराणां वैयर्थ्यम् । एकपदजन्यव्यावृत्तिज्ञानेनापि तादृशबोधसम्भवात् । यदि सत्यपदेनानृतव्यावृत्तिसिद्ध्या अनृततादात्म्याभानेऽपि ज्ञानपदाभावेऽज्ञानव्यावृत्त्य-सिद्ध्या जडतादात्म्यभानापत्त्योक्तफलीभूतबोधासिद्धिः स्यादतो ज्ञानपदसार्थक्यमित्युच्यते तर्ह्यानन्दादिव्यावृत्तिसिद्ध्यर्थमानन्दपदमपि प्रयोक्तव्यं स्यादिति चेदिष्टापत्तिरेव । आनन्द-पदस्यात्राऽश्रवणेऽपि विज्ञानमानन्दं ब्रह्मेति वाक्यान्तरोक्तानन्दादीनामुक्तव्यावृत्तिसिद्धये उपसंहारः कर्तव्यः । एवं स्थूलादिव्यावृत्तिसिद्धये अस्थूलमनण्वित्याद्युक्तास्थूलत्वादीनां नेति नेतीत्यादीनां नेह नानेत्यादीनाञ्चोपसंहारः कर्तव्यः । तथा च सर्वैर्मिलित्वा तादृशफलीभूत- बोधो जायते । अतो न कस्यापि वैयर्थ्यम् । परं त्वानन्दादिभिरानन्दादिव्यावृत्तिरार्थिकी सिद्ध्यति । अस्थूलमित्यादिभिस्तु साक्षादेव शब्दमर्यादया ।
आनन्दादीनामुपसंहारस्तु गुणोपसंहारपादे अभिहितः ‘आनन्दादयः प्रधानस्य’ ‘अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्’ इति सूत्राभ्याम् । ‘यत्र शाखायामानन्दादिपदानामन्यतमं न श्रूयते तत्रापि तदुपसंहर्तव्यम् । यतस्तत् प्रधानस्य ब्रह्मणोऽनृतादिव्यावृत्तस्वरूपस्य बोधोपायभूतम्’ इत्याद्यसूत्रार्थः । द्वितीयस्य तु बृहदारण्यके ‘एतद्वै तदक्षरम्’ इत्युपक्रम्योक्तत्वेनाक्षरधियोऽस्थूलत्वादयः । अक्षरस्य धीर्येभ्यस्त इति व्युत्पत्तेः । ते यत्र ‘यत्तदद्रेश्यम्’ इत्यादौ न श्रूयन्ते तत्रापि तेषामुपसंहारः । सामान्यात् प्रपञ्चमात्रप्रतिषेधेन ब्रह्मप्रतिपादनस्य सर्वत्र समानत्वात् । तद्भावात् ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यम्’ इति वाक्येऽक्षरस्य प्रतिपाद्यतया भावात् । यथा जामदग्न्येऽ-हीने पुरोडाशिनीषूपसत्सु चोदितासु पुरोडाशप्रधानमन्त्राणाम् ‘अग्निर्वै होत्रं वरेऽध्वरम्’ इत्यादीनामुद्गातृवेदोत्पन्नानामध्वर्युभिः सम्बन्धो भवति । पुरोडाशप्रधानस्याध्वर्युकर्तृकत्वात् । अङ्गानाञ्च प्रधानतन्त्रत्वात् ।
तदुक्तं पूर्वमीमांसायाम् ‘गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः’ इत्यत्र । तथेहाप्यक्षररूपप्रधानतन्त्राणामस्थूलत्वादीनां यत्र क्वचिदुत्पन्नानां सर्वत्र विद्यमानेन प्रधाने-नाक्षरेण सम्बन्ध इत्यर्थः । न च ज्ञानत्वाऽनन्दत्वसत्यत्वमात्राणामेकैकानामतिव्याप्त्यभावात् मिलितोपादानं लक्षणे व्यर्थमिति वाच्यम् । अतिव्याप्त्यादिवारणमेव न लक्षणघटकपद-प्रयोजनमिति नियमः । किन्त्वभिमतलक्ष्यस्वरूपप्रमितिः । प्रकृते च ज्ञानपदमात्रोपादाने शून्यवादिनापि अनृतस्य स्वज्ञानरूपाङ्गीकारात्तन्मतव्यावृत्तब्रह्मस्वरूपसिद्धिर्न स्यात् । एवं सत्यज्ञानपदयोः सत्यानन्दपदयोर्वोपादाने नैयायिकादिभिस्तादृशज्ञानानन्दयोः परस्परं भिन्नयोः स्वीकृतत्वात् तन्मतसिद्धापेक्षया व्यावृत्तस्वरूपं न सिद्ध्येत् इति मिलितोपादानम् । तथा च ज्ञानातिप्रसङ्गनिरास एव पदानां फलं बोध्यम् ।
नन्वेवमपि मिथ्यात्वाभावरूपसत्यत्ववैशिष्ट्यज्ञानस्यैवानृतत्वादिसंशयनिवर्तकत्वा-त्तन्मात्रद्वारकाखण्डज्ञानेनापि शून्यवादिव्यावृत्तं ब्रह्म सिद्ध्यतीत्यनृतादिव्यावृत्तिनिश्चयस्य द्वारत्वाभ्युपगमवैयर्थ्यम् । एवं ज्ञानत्वादिवैशिष्ट्यनिश्चयस्यैव जडत्वादिसंशयविरोधित्वं सम्भवतीति ज्ञानपदस्थलेऽपि तदुत्तरव्यावृत्तिधियो द्वारत्वं व्यर्थम् । एवमनन्तपदेना-परिच्छिन्नबोधवत्सत्यपदेनापि अनृतभिन्नवाचिनाऽनृतव्यावृत्तेः साक्षादेव सिद्धेस्तस्याः सत्य-पदस्थले आर्थिकत्वोक्तिरप्ययुक्तेति चेन्न ।
अनृतत्वस्य पूर्वं पञ्चधा निरुक्ततया तत्रैकानृतत्वाभावरूपसत्यत्वस्य सत्यपदेन बोधनेऽप्यन्यविधानृतत्वसंशयनिरासायैकविधसत्यत्वहेतुकनानाविधानृतव्यावृत्तिग्रहस्य द्वारत्वाभ्युपगमसाफल्यात् । न च पूर्वमनृतत्वाद्यन्तराभावव्याप्यत्वविषयकोद्बुद्धसंस्कार-सहितैकसत्यत्वशाब्दबोधस्तद्ग्रहप्रतिबन्धको भवतीति वाच्यम् । नियमेन तादृशसंस्कारादि-सत्त्वे मानाभावेन तदुत्तरकाले व्याप्तिग्रहाधीनानुमितेरावश्यकत्वात् । किञ्च मिथ्यात्वाभाव-ज्ञानज्ञानत्वज्ञानादीनां मिथ्यात्वव्याप्यवानयं ज्ञानत्वाभावव्याप्यवानयं इत्यादिबुद्धाव-विरोधित्वात्तच्छङ्कानिवृत्तये शाब्दसत्यत्वज्ञानत्वादिलिङ्ककतादृशव्याप्यवद्व्यावृत्तिधीर्द्वारतयाऽ-वश्यमभ्युपेयैवेत्युक्तमिति । तथा चोक्तरीतिद्वयेन प्रवृत्तपरप्रक्रियायां न कस्यापि वैयर्थ्यं पर्यायत्वं चेति पराभिमानः । यथोक्तमानन्दबोधेन
लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः ।
विज्ञानानन्दपदयोः पर्यायव्यर्थते न हि ।। इति ।
।। तदयं प्रयोग इति ।। तत् तस्मात् सत्यज्ञानादिवाक्यस्याखण्डार्थकत्वे पर्यायत्वा-पत्तिरूपप्रतिकूलतर्कानुत्थितेरित्यर्थः । अयं प्रयोगः सम्भावित इति शेषः। लक्षणवाक्यत्वात् इतरव्यावृत्तिधीपरवाक्यत्वात् । अखण्डार्थनिष्ठं स्वघटकपदस्मारितान्याविषयकप्रमाजनकम् । यद्यन्निष्ठस्येतरभेदस्य ज्ञानपरं तत्तत्स्वरूपान्याविषयकप्रमाहेतुरिति सामान्यमुखव्याप्तेः पर्यव-सानम् । स्मारितान्तस्य साध्ये निवेशे प्रयोजनाभावात् । मन्मत इतरव्यावृत्तौ तात्पर्याभावस्य वक्ष्यमाणत्वेऽपि परमते तात्पर्यावश्यकत्वान्न हेत्वसिद्धिः । यावन्ति लक्षणवाक्यानि तावन्मात्रमुख्यविशेष्यकधीमुख्यविशेष्यत्वावच्छिन्नत्वं स्वमतसाधारणो हेतुरिति परैरेव व्याख्यातम् ।। तत्प्रश्नोत्तरत्वादिति ।। तन्मात्रविषयकबुभुत्सानिवर्तकधीमात्रपरवाक्यत्वा-दित्यर्थः । एवं ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इति त्वंपदार्थशोधकवाक्यं पक्षीकृत्य जीवस्वरूपमात्रपरत्वं तत्स्वरूपमात्रप्रश्नोत्तरत्वहेतुना साधनीयम् । एतन्न्यायेन सुज्ञानत्वादत्र न प्रदर्शितम् ।
महावाक्यपक्षकानुमाने उक्ताऽद्यहेत्वसम्भवस्तस्य लक्षणवाक्यत्वाभावात् । अतो द्वितीयहेतुमेवाह ।। कोऽहमितीति ।। अत्र ‘ब्रह्मविदाप्नोति परम्’ इत्यत्र च श्रूयमाण-प्रश्नवाक्याभावेऽपि प्रश्नवाक्यमध्याहार्यमेव । अन्यथैतद्वाक्यस्याजिज्ञासिताभिधायकत्वापत्तेः । अतो नासिद्धिरिति द्रष्टव्यम् । महावाक्यस्याखण्डार्थत्वे अकारणकार्यद्रव्यनिष्ठत्वे सति समानाधिकारणत्वादिति हेत्वन्तरं विवक्षुस्तस्याप्रयोजकत्वव्यभिचारप्रतिकूलतर्कपराहत्यादि-परिहारं सूचयन् सम्भावितप्रकारान् प्रकृते प्रतिक्षिपति ।। किञ्चेत्यादिना ।। विशिष्टार्थतेति ।। अभेदातिरिक्तसम्बन्धेन प्रातिपदिकार्थप्रकारकबोधजनकत्वम् । विभक्त्यर्थः संसर्गतया भासत इति मतेनेदम् । समानाधिकरणत्वात् स्वोत्तरविभक्तिविरुद्धविभक्तिरहितं वा स्वसमान-विभक्तिकं वा यन्नामपदं तत्समभिव्याहृतनामपदत्वादित्यर्थः । नामार्थद्वयस्य विभक्त्यर्थद्वारा भेदेनान्वयस्याव्युत्पन्नत्वादित्यर्थः ।। नापीति ।। इतिवदिति ।। तादात्म्यसंसर्गेणैकस्मिन्न-परप्रकारकमिति शेषः । विशिष्टार्थतेत्यस्यैवोक्तार्थकतयाऽनुषङ्गो वा ।। अकार्यकारण-द्रव्येति ।। उपादनोपादेयभावापन्नद्रव्यपरं यत्तदन्यत्वे सति द्रव्यमात्रबोधकपदद्वयघटितत्वा-दित्यर्थः । मृद्घट इत्यत्र सत्यन्तदलेन नीलमुत्पलमित्यत्र विशेष्यदलेन न व्यभिचार इति भावः । नीलादिपदानां गुणवाचकत्वमेवेति हृदयम् ।
उक्तहेतुसत्त्वे तादात्म्यादिसंसर्गेण किञ्चित्प्रकारकत्वानुपपत्तावप्यैक्यसम्बन्धेनैकन्मिन्नपर-प्रकारकत्वमस्तु । अतोऽप्रयोजकोऽयं हेतुरित्याशङ्कापरिहारायाह ।। नापीति ।। अभेद-विशिष्टम् ऐक्यसम्बन्धेन किञ्चिद्विशिष्टम् । तादात्म्यं भेदाभेदनियतं धर्मधर्मिभावनिर्वाहकम् । ऐक्यं तु तदनिर्वाहकमत्यन्ताभेदरूपं स्वस्मिन्स्वस्य संसर्गो भवतीत्यतोऽनयोर्भेद इत्यभि-मानः । वस्तुतः सर्वत्रैक्यमेव संसर्गः । स च क्वचिद्भेदसहितः क्वचिच्च विशेषसहितो धर्मधर्मिभावनिर्वाहको भवति । युक्तमेवैतद्वक्ष्यतेऽपि ।। सिद्धत्वादिति ।। स्वरूपमात्रे स्वरूप-मात्रभेदग्रहस्याऽहार्यतया जिज्ञासानुत्पादकत्वेन प्रश्नमूलभूतजिज्ञासां प्रत्यविषयत्वादित्यर्थः । तथा च तत्प्रतिपादने उत्तरवाक्यस्याजिज्ञासिताभिधायकत्वापत्तिरिति भावः ।
यद्वा सिद्धत्वात् मुख्यविषयरूपतयैव सिद्धत्वात् । तथा च भेदाभावरूपैक्यस्य विशेष्यात्यन्ताभिन्नत्वान्न तस्य संसर्गतया भानं स्वीक्रियते । ऐक्ये सामानाधिकरण्यमिति व्यवहारस्याखण्डार्थबोधकत्वमित्येवार्थ इति भावः ।। तच्छब्दार्थेनेति ।। तच्छब्दार्थता-वच्छेदकीभूताविद्याबिम्बत्वादिरूपधर्मविशिष्टेनोपहितेन चेत्यर्थः । अभेदस्य तादात्म्यस्य । त्वंपदार्थस्य स्वस्य श्वेतकेतुना ज्ञाततयोद्देश्यत्वात्तत्पदार्थस्याज्ञातस्य विधेयत्वात् तत्पदस्य प्रथमतः सत्त्वेऽपि उत्तरत्र योजनया विधेयसमर्पकत्वमनुसृतम् ।। एकदेशत्यागेति ।। जहद-जहल्लक्षणयेत्यर्थः । इदं च पदानां स्वशक्यतावच्छेदकविशिष्टविषयकबुद्धिजननानुकूल-शक्तत्वमेव । विशेष्यमात्र इतरपदार्थावगाहिबोधो गौरनित्य इत्यादौ लक्षणयैवेति जर-न्नैयायिकैकदेशिमतमनुसृत्य । विशिष्टशक्तपदेनापि विशेष्यमात्रबोधो विशेषणांशे बाध-ग्रहादिसहकृतशक्त्यैवेति पक्षाश्रयणे न लक्षणेति परैरुक्तम् ।। भेदभ्रमेति ।। जीवत्वोप-लक्षितेश्वरत्वोपलक्षितचेतनयोर्भेदभ्रमनिरासरूपप्रयोजनेन निमित्तेन स्वरूपमात्रबोधजनकत्व-मित्यर्थः ।। अत एवेति ।। प्रत्येकं पदयोर्भिन्नधर्मावच्छिन्नबोधकत्वान्न पर्यायत्वम् । लक्षण-योक्तभ्रमनिवर्तकबोधजननार्थत्वान्न वैयर्थ्यमित्यर्थः। दृष्टान्तोपपादनेनोक्तमर्थं सम्भावयति ।। यथेति ।। विशिष्टेति ।। विशिष्टे शक्त्या तदुपस्थितिद्वारेणेत्यर्थः । शक्योपस्थितेर्लक्षणाज्ञाने करणत्वाद्द्वारत्वोक्तिः ।। भेदभ्रमेति ।। तत्तेदन्त्वोपलक्षितस्वरूपभेदभ्रमनिरासरूपप्रयोजन-सत्त्वेनेत्यर्थः ।। सार्थकञ्चेति ।। पदत्रयमपीति शेषः । सार्थक्यमिति पाठो युक्ततरः । आखण्डलार्थस्तु समानविभक्तिकपदद्वयसमभिव्याहारस्थले चतुर्धा बोधो जायते । पदार्थ-योर्द्वयोर्विशेष्यविशेषणभावावगाही एकः । यथा नीलो घट इत्यत्र नीलरूपघटयोः । विशेषणविशेष्यभावो नाम व्यावहारिकतादात्म्यम् । अपरस्त्वध्यासावगाही । अध्यासः प्रातिभासिकतादात्म्यम् । यथा शुक्तितात्पर्यकमिदं रजतमिति ज्ञानमिदं रजतमिति वाक्यात् । अन्यो बाधावगाही यः पुरुषः स स्थाणुरिति वाक्याज्जायमानः पुरोवर्तिन्यध्यस्त-पुरुषभेदावगाही । यः पुरुषत्वेन ज्ञातः स न पुरुषः किन्तु स्थाणुरिति तद्वक्यार्थः । क्वचित्स्वरूपैक्ये यथा सोऽयं देवदत्त इति वाक्याज्जायमानः । तद्वाक्येन हि तद्देशकाल-विशिष्टरूपतत्पदार्थैतद्देशकालविशिष्टैतत्पदार्थयोर्न तादात्म्यान्वयधीः । विशिष्टयोः परस्पर-तादात्म्ये विशेषणयोः परस्परतादात्म्यापातेन लोके कयोरपि विशिष्टयोस्तादात्म्याभावेन युगपन्मिलनराहित्यरूपविरोधशालितदेतद्देशकालरूपविशेषणविशिष्टयोः सुतरामभावेन वाक्या- प्रामाण्यापत्तेः । तदुक्तं सङ्क्षेपशारीरके
अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।
घटते न यदैकता तदा न तरां तद्विपरीतरूपयोः ।। इति ।
नाप्युपहितयोस्तादात्म्यधीः । अविरुद्धोपाधिद्वयस्थले तदुपहितयोरभेदसम्भवेऽपि प्रकृते विरुद्धोपाधिद्वयोपहिततयोस्तादात्म्यासम्भवात् । वस्तुतोऽविरुद्धोपाधिद्वयस्थलेऽप्युपहितयो-र्भेद एव ।
ननु विशेष्यान्वय्यन्वयित्वरूपविशेषणत्ववतः स्वविशिष्टाभिन्नविशिष्टान्तरभेदप्रसक्त्या विशेषणस्यापि विशेष्याभेदप्रसङ्गाद्विशेषणद्वयस्य परस्पराभेदप्रसङ्गात्तद्विशेष्याभेदप्रसङ्गाच्च बाधकाद्विशिष्टयोर्भेदोऽस्तु । पदार्थान्तरान्वयस्य स्वविशेष्यनिष्ठस्य सत्ताकाले स्वयं विद्यमानत्वे सति स्वविशेष्यव्यावर्तको यः स तदन्वये उपाधिरित्युच्यते । अस्यान्वयेऽय-मुपाधिर्विशेषणमुपलक्षणमिति किञ्चिदपेक्षयैव तद्व्यवहारात् । पदार्थान्तरान्वयकाले स्वयम-विद्यमानस्तदन्वयकाले विद्यमानतया तद्व्यावर्तकविद्यमानधर्मान्तरं स्वरूपमात्रं वोपस्थापयित्वा फलीभूतबोधे भासमानत्वाभाववानुपलक्षणमित्युच्यते । एवं च विरुद्धोपाध्योरेककाले समानदेशत्वाभावेन परस्परोपहिततादात्म्यस्योपाधिद्वयकालीनत्वाभावात्तयोरभेदासम्भवेऽप्य-विरुद्धोपाध्युपहितयोः कुतस्तादात्म्याभाव इति चेदुच्यते ।
‘यथा तत्क्षणविशिष्टस्य वैशिष्ट्यमिति रीत्या जायमानात् तत्क्षणविशिष्टघटवानिति ज्ञानात् विशेष्ये विशेषणमिति रीत्या जायमानस्य तत्क्षणविशिष्टघटवानिति ज्ञानस्य वैलक्षण्यस्यावश्यकतया ज्ञानवैलक्षण्यस्य विषयवैलक्षण्याधीनत्वाद्यथा विशिष्टस्यातिरिक्तत्व-मभ्युपेयते तथा रक्तदण्डवान् भुंक्ते इत्यत्र विशिष्टस्योपाधित्वमिति न्यायेन जातात् उपधेये उपाधिस्तत्र चान्यो विशेषणमिति न्यायेन जाते उक्ताकार एव ज्ञाने वैलक्षण्यस्य तत्साध-कत्वात् । आद्ये पुरुषस्य रक्तविशिष्टदण्ड उपाधिः प्रकारतया भासते । द्वितीये केवल इति । पूर्वन्यायसाम्यात्’ इति ग्रन्थेन परैरेवोपाधिभेदेनोपहितभेदस्योपपादितत्वात् । न चैतावता परोपपादनेन केवलोपहितयोर्भेदसिद्धावपि न धर्मद्वयोपहितयोर्भेदसिद्धिरिति वाच्यम् । तद्धर्मोपहितज्ञानात्तदविरुद्धधर्मोपहितज्ञानस्य वैलक्षण्यरूपन्यायसाम्येनैव सिद्धेः । अत एव सोऽयं देवदत्त इति वाक्यार्थविचारावसर एव ‘सामान्यत उपाधिभेदादुपहितयोरत्यन्तभेदः’ इति परैरुक्तम् ।
न च तर्हि तत्तेदन्तयोरन्यतरोपलक्षितेऽन्यतरेणोपहितस्य विशिष्टस्य भेदो भासतामिति वाच्यम् । विनिगमनाविरहेणोभयोरुपलक्षणत्वस्यैव परिशेषात्प्राप्तेः । तत्तेदन्त्वयोरन्यतर-विशिष्टेऽन्यतरवैशिष्ट्यस्यान्यतरोपलक्षितेऽन्यतरवैशिष्ट्यस्य च बोधनमप्युक्तन्यायेनैवा-पास्तम् । तथा चोपलक्षितं च पदद्वयेन स्वरूपमात्रमेवेति तस्यैव स्वरूपैक्यमुच्यते । ऐक्यं चात्यन्ताभेदस्तत्प्रतियोगिकभेदाभावस्तन्निष्ठस्तत्स्वरूपमेव । अत्यन्ताभेदे च प्रकारविशेष्य-तयोरयोगात्स्वरूपमात्रं भासत इति तज्जन्यबोधस्य संसर्गाविषयकत्वम् । न च भेदाभावत्व-रूपेण स्वरूपमेव स्वस्मिन्प्रकारः संसर्गो वा स्तामिति वाच्यम् । भेदाभावत्वविशिष्टस्य स्वरूपे कल्पितस्यायावद्द्रव्यभावित्वेन स्वरूपैक्यरूपत्वाभावेन तज्ज्ञानेऽपि ज्ञानस्यैक्याव-गाहित्वायोगात् ।
न च स्वरूपमात्रबोधस्य प्रयोजनाभावः । तत्तेदन्त्वोपलक्षितस्वरूपभेदसंशयविपर्यय-हेत्वज्ञाननिवृत्तिद्वारा तन्निवृत्तेरेव फलत्वात् । न च लक्षणया शक्त्या वा जायमानाया अखण्डशाब्दबोधहेतुभूतस्मृतेरपि स्वरूपमात्रविषयकत्वात्तयैव तन्निवृत्तौ शाब्दबोधवैफल्यम् । तदनिवृत्तौ विषयावैलक्षण्यात्स्वरूपमात्रावगाहिशाब्देनापि कथं तन्निवृत्तिरिति वाच्यम् । शाब्दस्य शङ्खः श्वेत इति ज्ञानस्य शङ्खः पीतो न वेत्यादिसंशयविपर्ययानिवर्तकत्वेऽपि तत्समानविषयकप्रत्यक्षेण निवृत्तेर्ज्ञानस्वभाववैलक्षण्यानुसरणस्यावश्यकतया प्रकृते तदिदंपद-लक्षणाग्रहाधीनस्वरूपमात्रोपस्थितिजन्यस्वरूपमात्रविषयकशाब्दत्वेनैव तन्निवर्तकत्वाङ्गी-कारात् । न च श्रुतोक्तवाक्यार्थस्यापि देवदत्तस्वरूपदर्शनोत्तरं सोऽयं न वेत्यादि-संशयोपलम्भात्कथं तस्य तन्निवर्तकत्वमिति वाच्यम् । शाब्देन सत्यव्यवहारविरोधिनोऽ-सत्त्वावरणाज्ञानस्य निवृत्तावपि न भातीति व्यवहारापादकस्वरूपमात्रविषयकाज्ञानस्य तादृशतत्तेदन्त्वोपस्थितिद्वारकस्य स्वरूपमात्रावगाहिप्रत्यक्षमात्रनिवर्त्यतया तादृशप्रत्यक्षा-नुत्पत्तौ तादृशाज्ञानसत्त्वेन तन्मूलकतादृश संशयाद्युपपत्तेः । न च तात्पर्यज्ञानबलाच्छाब्द-स्थले लक्षणादिना स्वरूपमात्रभानेऽपि प्रत्यक्षसामग्य्रां तदनिवेशात्कथं तद्भाननिर्वाह इति वाच्यम् । तत्तावगाहिस्मृतीदन्त्वावगाह्यनुभवाभ्यां धर्मद्वयविशिष्टोपहिताभेदबाधग्रह-सहिताभ्यामेव तादृशप्रत्यक्षोत्पत्त्यङ्गीकारात् । शब्दप्रत्यक्षयोः प्रतिबन्धकता त्वेकशक्त्याऽ-न्यथा वेत्यन्यदेतत् ।
सोऽयं देवदत्त इत्यभिलापोऽपि पूर्ववृत्तिज्ञानसहितस्वरूपमात्रावगाहिप्रत्यक्षादेव । तत्ते-दन्त्वाभ्यामिमं जानामीत्यनुव्यवसायोऽपि तत्तेदन्त्वोपलक्षितस्वरूपविषयकज्ञानवानहमित्येव विषयीकरोति । न तु तत्तेदन्त्वप्रकारकत्वं ज्ञानेऽवगाहत इति न तद्विरोधोऽपि ।
ननु स्वरूपमात्रज्ञाननिवर्त्यः कीदृशः संशयादिः । विशिष्टयोरुपहितयोर्भेदधि-यस्तत्कालेऽप्यनुवृत्तेरिति चेन्न । तत्तेदन्त्वोपलक्षितस्वरूपभेदभ्रमस्यैव तन्निवर्त्यत्वात् । तादृशभेदावगाहनं नाम प्रतियोग्यंशे प्रकारत्वेन भासमानं यत्तत्त्वं तदवच्छिन्नत्वविशिष्ट-प्रतियोगितासम्बन्धेन वाऽवच्छिन्नत्वाविशेषिता वस्तुतस्तत्तोपलक्षितनिष्ठा या प्रतियोगिता तद्रूपसम्बन्धेन वा भेदांशे तत्तोपलक्षितस्वरूपमात्रभानम् । न च संशयस्य सधर्मितावच्छेद-कत्वनियमादिदन्त्वस्य धर्मितावच्छेदकतया भानमावश्यकम् । एवं भेदांशे प्रकारीभव-त्प्रतियोगिन्यपि तत्ताभानमावश्यकं जातीतरस्य स्वरूपतः प्रकारत्वायोगात् । न च तथैव भानमस्त्विति वाच्यम् । तथा सत्युपहितप्रतियोगिकभेदधीवैलक्षण्यनिर्वाहायानुपदमुक्त-प्रकारस्यासम्भवापत्तेरिति वाच्यम् । तद्देशकालसम्बन्धरूपतत्तायाः स्वरूपातिरिक्ताया दुर्वचतया ततोऽस्याः स्वरूपतः प्रकारताया आवश्यकत्वे जातीतरस्येति त्वदुक्तनियमस्या-प्रामाणिकतया भेदांश एव व्यक्तेरुक्तप्रकारस्यौचित्यात् । संशयस्य सधर्मितावच्छेदकत्व-नियमोऽप्यप्रामाणिकः । आपातब्रह्मज्ञानस्य स्वरूपे धर्मान्तरावगाहिनोऽसंशयरूपत्वा-भ्युपगमात् । अखण्डव्यक्तिप्रकारकस्याखण्डव्यक्तितद्विशेषितभेदोभयकोटिमुख्यविशेष्यकस्य भेदत्वरूपधर्मितावच्छेदकावगाहिनः संशयस्य वक्तुं शक्यत्वाच्च । स्वरूपे स्वरूपभेदज्ञान-स्याहार्यतया कथमुक्तशाब्दादिज्ञाननिवर्त्यत्वमिति नाशङ्क्यम् । उक्तरीत्याऽज्ञानविशेषनिवृत्तौ तन्मूलकोक्तसंशयादिनिवृत्तेरावश्यकतयाऽऽहार्यत्वादिपरिभाषाया अकिञ्चित्करत्वात् । एवं च तत्त्वमसीत्यत्र तत्पदवाच्यतावच्छेदकसर्गस्थितिलयकर्तृत्वत्वंपदवाच्यतावच्छेदकजागरा-द्यवस्थानुभवितृत्वाभ्यां वा तत्पदवाच्यतावच्छेकाविद्याबिम्बत्वत्वंपदवाच्यतावच्छेदकाविद्या-प्रतिबिम्बत्वाभ्यां वोपहितयोर्विशिष्टयोर्वा तादात्म्यस्य व्यवहारकाल एव बाधितत्वेन तद्बोधकत्वे तद्वाक्यस्य व्यावहारिकप्रामाण्यस्याप्यभावापत्त्या सोऽयं देवदत्त इति वाक्यरीत्यै-वात्र बोधो निर्वाह्यः । तत्राभिहितान्वयवादिमते तत्त्वंपदाभ्यां चिन्मात्रविषयकशाब्दद्वयं जायते । ताभ्यामेव सुबन्तपदाभ्यां चिन्मात्रविषयकाखण्डबोधो जायते । तत्राज्ञातत्वा-ज्ञाननिवर्तकज्ञानविषयत्वाभ्यामेव निमित्ताभ्यामेकस्या एव चित उद्देश्यत्वविधेयत्वे ।
ननु कुत एतत् उच्यते । अभिहितान्वयमते वाक्याधिकरणीयभट्टकारिकोदाहरणपूर्वक-मद्वैतचन्द्रिकायां पक्षत्रयमुपपादितम् । तथा हि । घटमानयेत्यत्र घटपदेन घटत्वेऽभिधा-रूपशक्तिग्रहसहितेन प्रथमतो घटत्वमात्रविषयकनिर्विकल्पक एव शाब्दबोधः । एवमम्प्रत्ययेन कर्मत्वत्वावच्छिन्नविषयकः शाब्दबोधः । कर्मत्वत्वस्य जातित्वाभावेन तन्मात्रे शक्त्यभावा-त्तद्विशिष्टे१त्यादिपदस्य शक्तेः । तादृशशाब्दबोधात्मकघटत्वज्ञानकर्मत्वज्ञानाभ्यामेव घटत्वीयकर्मतेति बोधः । घटत्वादिविषयकज्ञानस्य घटत्वकर्मत्वयोरन्वयबोधजनकत्वे तद्विषयीभूतघटत्वादेरपि शाब्दबोधजनकत्वप्राप्त्याऽभिहितान्वय इति व्यवहारः । पदैरभिहितैः शक्त्यधीनशाब्दबोधविषयीभूतैः प्रकृतिप्रत्ययार्थैर्बोध्यमानः प्रकृतिप्रत्ययार्थयोरन्वयः संसर्ग इति तदर्थात् । एवमानयेत्यनेनापि धातुनाऽऽनयनस्याऽख्यातेन कृतेश्च प्रत्येकं शाब्द-बोधानन्तरं ताभ्यामेवाऽनयनानुकूला कृतिरिति बोधो जन्यते । उक्ताभ्यां बोधाभ्यां घटकर्मकाऽनयनानुकूला कृतिरिति क्रियाकारकबोधरूपमहावाक्यार्थबोधो जायते । आद्य-बोधस्य साक्षाच्छब्दजन्यत्वात् शाब्दत्ववत् उत्तरयोरपि बोधयोः शब्दप्रयोज्यत्वादेव शाब्दत्वं स्वीक्रियते ।
ननु प्रत्येकशब्दैर्घटत्वकर्मत्वादिविषयकशाब्दानन्तरमेव महावाक्यार्थबोधः कुतो न स्वीक्रियते । मध्ये घटीया कर्मतेत्येवमाकारकबोधः किमर्थमाश्रयणीय इति चेन्न । भट्टेन सर्वस्यापि महावाक्यार्थबोधस्य विशिष्टस्य वैशिष्ट्यमिति रीत्योत्पत्त्यङ्गीकारेण तत्कारणी-भूतविशेषणतावच्छेदकनिर्णयमुद्रया तादृशबोधस्याऽवश्यकत्वात् । न च शाब्दबोधे घट-त्वस्यैव भाने घटकर्मकानयनानुपपत्तिः । घटानयनस्याऽक्षेपलभ्यत्वाङ्गीकारात् । अथ वा घटत्वमात्रशाब्दबोधानन्तरमुपस्थितघटत्वेनैव लक्षणया घट उपस्थाप्यते । तस्य चावान्तर-वाक्यार्थबोधे महावाक्यार्थबोधे च भानोपपत्तिः । शक्यार्थनिष्ठाशक्योपस्थितिप्रयोजक-सम्बन्धस्यैव लक्षणात्वाङ्गीकाराद्घटत्वस्य लक्षकत्वमुपपन्नम् । पदनिष्ठस्य तीरसंयुक्त-प्रवाहशक्तत्वस्य लक्षणात्वापेक्षया प्रवाहनिष्ठतीरसंयोगस्यैव लक्षणात्वे लाघवात् । घटप्रातिपदिकाज्जायमानघटत्वनिर्विकल्पकस्य शाब्दत्वानङ्गीकारे तस्य स्मृतित्वं वाच्यम् । तस्य सम्बन्धज्ञानाधीनत्वाद्घटत्वघटपदयोः सम्बन्धोऽपेक्षितः । स च संयोगादेरसम्भवा-त्तज्ज्ञानाधीनस्मृतेः शाब्दबोधकारणत्वे समवायसम्बन्धेन स्मृताकाशादेः शाब्दबोधे भान-प्रसङ्गेन सम्बन्धान्तराधीनस्मृतेरकिञ्चित्करत्वाच्च शक्तिरेव सम्बन्धोऽवश्यमनुसरणीयः । शक्तिश्च पदनिष्ठतदर्थानुभवानुकूलसामर्थ्यम् । तथा च घटादिपदैर्घटत्वादिमात्रविषयक-शाब्दबोधजनने तच्छक्तत्वस्य दुर्घटत्वापत्त्या तदुत्पत्तेरावश्यकत्वे तेनैवोक्तरीत्या महा-वाक्यार्थबोधनिर्वाहे स्मृतिजन्यत्वस्य शाब्दबोधे अङ्गीकारे मानाभावात् । न च महा-वाक्यार्थबोधस्यैव घटत्वविषयकतया तज्जनकत्वं घटे घटत्वशक्तिरास्तामिति वाच्यम् । महावाक्यार्थबोधे घटस्येवाऽनयनस्यापि भानेन घटपदस्यानयनशक्तत्वमपि स्यादित्युक्तरीतिरेव युक्तेत्येकः पक्षः ।
घटपदोत्तराम्प्रत्ययरूपानुपूर्वीज्ञानस्य ज्ञायमानानुपूर्व्याश्चाधेयतया घटत्वविशिष्टकर्मत्व-विषयकशाब्दस्य जन्यत्वम् । एवं घटेन घटायेत्यादावेषैव रीतिः । आनयतीत्यत्राप्येवमेव । तथा च तादृशबोधनिरूपितजनकता घटपदे वर्तते । किञ्चिन्निष्ठविशेष्यतानिरूपितसांसर्गिक-विषयतानिरूपितघटत्वप्रकारताशालिशाब्दत्वस्यैव घटत्वनिष्ठा करणतेत्यादिशाब्दसाधारणस्य जन्यतावच्छेदकत्वात् । सा च घटपदनिष्ठा घटत्वीयत्वेनैव ज्ञाता शाब्दबोधोपयोगिनी । न त्वन्वयनिरूपितत्वेन ज्ञाता । तथा चान्वयांशे कुब्जेत्युच्यते । जनकतैव शक्तिः । तथा च न घटपदवाच्यत्वव्यवहारोऽन्वयादीनाम् । शक्तिर्यन्निष्ठा यदीयत्वेन ज्ञाता शाब्दबोधोप-योगिनी तस्यैव तत्पदवाच्यत्वं नान्यस्येत्यभ्युपगमात् । इत्थं च घटपदे घटत्वानुभावकत्व-रूपशक्तेरुक्तविशिष्टविषयकशाब्दबोधमादाय निर्वाहात्तादृशशक्तिरूपसम्बन्धज्ञानात्प्रथमतो घटत्वस्मृतिरेवाङ्गीकर्तव्या । न निर्विकल्पकशाब्दबोधः । प्रमाणजन्यानुभवस्याज्ञाननिवर्तक-त्वेनैव प्रामाण्यात्केवलघटत्वादेः पूर्वसम्बन्धज्ञान एव भातत्वेनोक्तशाब्दस्य घटत्वादाव-ज्ञानानिवर्तकतया प्रमात्वाभावेन भ्रमत्वाभावेन च स्मृत्यनुभवविलक्षणज्ञानस्वीकारापत्तेः । तथा च घटमानयेत्यादिवाक्यस्थले घटादिपदैर्घटत्वकर्मत्वयोः स्मरणम् । तेन च घटत्वीय-कर्मतेति शाब्दबोधः स्मरणद्वारा घटमिति शब्देनैव जायते । एवं आनयेतिपदेनाप्या-नयनानुकूलकृतिशाब्दबोधः । ताभ्यां बोधाभ्यामेव घटकर्मत्वानयनरूपक्रिययोरन्वयरूप-महावाक्यार्थो बोध्यते । एतादृशवाक्यार्थरूपेऽपूर्वे संसर्गे पूर्वबोधविषयीभूताभ्यां घटकर्मत्वा-नयनाभ्यां यः सम्बन्धो निरूप्यनिरूपकभावादिः स एव लक्षणारूपो वाक्यार्थनिष्ठत्वेना-ज्ञायमान एव हेतुः । वाक्यार्थनिष्ठत्वेन ज्ञातस्यैव हेतुत्वे वाक्यार्थस्यापि पूर्वमेव ज्ञातत्व-प्राप्त्या वाक्यस्यापूर्वार्थगमकत्वाभावापत्तेरित्यपरो द्वितीयः पक्षः ।
घटमानयतीत्यत्र घटमित्यनेन कर्मत्वविशिष्टघटत्वमिति बोधः घटत्वादिस्मृतिद्वारा जायते । आनयतीत्यनेन कृतिविषयीभूतमानयनमिति बोधः कृत्यानयनादिस्मृतिद्वारा जायते । ताभ्यां बोधाभ्यां चोक्तमहावाक्यार्थबोधः । अन्यत्सर्वं द्वितीयपक्षरीत्यैव । घटपद-कार्यतावच्छेदकं किञ्चन्निष्ठप्रकारतानिरूपितसांसर्गिकविषयतानिरूपितघटत्वविशेष्यताशालि-शाब्दत्वमिति विशेष इति तृतीयः पक्षः । अभिहितेन प्रकृत्यर्थविशिष्टप्रत्ययार्थेनान्वयस्य महावाक्यार्थरूपान्वयस्याभिधानं द्वितीयपक्षे । तृतीये च प्रत्ययार्थविशिष्टप्रकृत्यर्थेनेत्यादि बोध्यम् । अत्रोपपत्त्यादिकं सर्वमद्वैतचन्द्रिकातोऽवसेयम् । ग्रन्थगौरवभयान्नेह प्रपञ्च्यते ।
कार्यान्विताभिधानपक्षे च शाब्दबोधसामान्यस्य कार्यताविषयकत्वनैयत्यात् केवल-घटपदेन वा घटमित्यादिप्रकृतिप्रत्ययाभ्यां वा घटमानयतीत्यादिनापि वा नावान्तरवाक्यार्थ-धीर्जायते । कार्यवाचकपदाभावात् । किन्तु घटादिस्मृतिरनन्तरं कार्यवाचकपदसाहित्येनैकदैव विशेष्ये विशेषणमिति रीत्या शाब्दबोधः । क्वचिद्घटादिस्मृत्यनन्तरं घटादिविशिष्ट-कर्मतास्मृतिर्जाता चेद्विशिष्टवैशिष्ट्यावगाह्यपि जायते । उक्तावान्तरज्ञानस्य न शाब्दत्वम् । शब्दस्य तत्रैवोपक्षीणत्वेन कारणाभावान्महावाक्यार्थबोधाभावप्रसङ्गात् ।
न च भट्टमत इव तादृशावान्तरबोधाभ्यामेव महावाक्यार्थधीः सम्भवति । गुरोरर्था-ध्याहारवादित्वेऽपि पदजन्यपदार्थोपस्थितिसहकारेणैव पदाजन्योपस्थितेः फलजनकत्वाङ्गी-कारात् । भट्टेन पुनरर्थमात्रोपस्थित्यापि शाब्दबोधाङ्गीकारान्न तस्य शाब्दबोधशब्दवाच्य-सामान्योत्पत्तौ शब्दापेक्षा । अतस्तन्मते तादृशरीतिः सम्भवति । उक्तं भट्टवार्तिके
पश्यतः श्वेतिमारूपं ह्रेषाशब्दं च श्रुण्वतः ।
खुरनिक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ।।
दृष्टा वाक्यविनिर्मुक्ता न पदार्थैर्विना क्वचित् ।। इति ।
एवं गुरुमते वह्न्यनुकुलशक्तिर्न केवलतृणे नापि फूत्कारमात्रे । एकैकेन फलाजननात् । सा च तृणफूत्कारसंयोगे तद्विशिष्ट एव यथा स्वीक्रियते तथा कारकपदकार्यवाचिपदमिलने एव घटानयनं कार्यमित्यादिशाब्दानुकूला शक्तिः स्वीक्रियते । तस्याश्च घटपदनिष्ठत्वं शाब्दबोधनिष्ठघटत्वविषयकत्वावच्छिन्ननिरूपकताकशक्तित्वेन । अतस्तेन रूपेण घटपदे तज्ज्ञानं घटत्वशाब्दकारणमिति घटत्वं घटपदवाच्यमित्युच्यते । एतन्मतेऽप्याकृत्यधिकरण-सिद्धान्तेन जातावेव शक्त्यभ्युपगमात् । एवमन्यत्रापि ।
तथाचाभिहितान्वयमते प्रथमपक्षे प्रथमाविभक्तिसहिततत्त्वंपदाभ्यां शक्त्यैव चिन्मात्र-विषयकशाब्दधीद्वयं जायते । विशिष्टशक्तेर्विशेष्येऽपि सत्त्वेन तात्पर्याबाधग्रहादिसहकारे विशेष्यमात्रानुभावकत्वसम्भवात् । प्रथमाया अपि प्रातिपदिकार्थविहितत्वेऽपि तत्साहित्येऽप्येकसुबन्तेनैक एव बोधः । सम्भेदे नान्यतरवैयर्थ्यमिति न्यायात् । प्रातिपदिकप्रथमाभ्यां चिन्मात्रविषयकबोधद्वयानन्ततरं ताभ्यां बोधाभ्यां चिन्मात्रविषयकैको बोधो घटीयकर्मतेत्यादिबोधस्थानीयस्तत्पदेन जायते । एवं त्वंपदेनेत्यङ्गीकारेऽपि नास्माकं क्षतिः । तथा च प्रत्येकं सुबन्तजन्यबोधाभ्यामेकश्चिन्मात्रविषयको महावाक्यार्थबोधोऽ-खण्डविषयकः । द्वितीयतृतीयपक्षयोस्तु प्रथमं तत्त्वंपदप्रातिपदिकसुब्भिरुक्तरीत्या शक्त्यैव चिन्मात्रस्मृत्यन्तरमवान्तरबोधस्थानापन्नः सुप्सहिततत्पदेनैकस्तादृशत्वंपदेनैक इति शाब्द-बोधद्वयं चिन्मात्रविषयकं जायते । तादृशबोधद्वयेनैव महावाक्यार्थभूतचिन्मात्रविषयका-खण्डाकारधीर्जायते । असिपदमपि तात्पर्यग्राहकं वा तात्पर्यवशादेव चिन्मात्रलक्षकं वा सन्महावाक्यार्थबोध एव कथञ्चिदुपयुज्यत इति पक्षत्रयेऽपि समानम् ।
अन्विताभिधानमते तु सुबन्ततत्त्वंपदाभ्यांमुक्तरीत्या शक्त्यैव चिद्विषयकस्मृतिद्वयं जायते । तद्द्वारा ज्ञानविध्येकतापन्नेन तत्त्वमसीतिवाक्येन कार्यत्वविषयक एव सन् ज्ञानांशे चिन्मात्रावगाही बोधो जायते । अखण्डार्थत्वमपि तदनुसारेणैव परिष्कर्तव्यम् ।
अभिहितान्वयमते चिन्मात्रविषयकावान्तरवाक्यार्थबोधद्वयं शाब्दबोधात्मकमपि अज्ञात-ज्ञानरूपत्वाभावात् ज्ञातार्थमात्रविषयत्वाच्च स्मृतिसमम् । न तु स्मृतिरूपम् । अन्विताभि-धानमते तादृशबोधद्वयं स्मृत्यात्मकमेव । तच्चोक्तं पुरस्तात् ।
नन्वभिहितान्वयनये उक्तज्ञानस्याज्ञानानिवर्तकतया प्रमात्वायोगः । इष्टापत्तेः । तादृश-बोधद्वयस्य प्रमात्वानङ्गीकारात् । अगत्या स्मृत्यनुभवविलक्षणस्यापि ज्ञानस्य प्रमाण-जन्यत्वाभ्युपगमात् । अत एव घटोऽस्तीति वाक्यजन्येऽस्तित्वं घटत्वीयमिति बोधे घटत्व-निर्विकल्पकशाब्दधीः स्मृतिसमैवाङ्गीक्रियते । अस्तित्वप्रकारकस्तु न बोधः । घटत्वस्य स्वरूपतो भातत्वेन निर्धर्मितावच्छेदककशाब्दापत्तेः । उक्तमेतत्संक्षेपशारीरकृता
अभिहितघटना यदा तदानीं स्मृतिसमबोधयुगं पदे विधत्तः ।
परदृशि पुनरन्विताभिधाने पदयुगलात्स्मृतियुग्ममेव पूर्वम् ।। इति ।
पदे तत्त्वंपदे । परदृशि ब्रह्मविषय इत्यर्थः ।
ननु तर्हि तत्पदार्थविशिष्टत्वंपदार्थविशिष्टयोरभेदबोधोऽपि अखण्डार्थबोधं प्रति द्वारत्वेन संक्षेपशारीरकेऽभिहितः ।
सामानाधिकरण्यमत्र भवति प्राथम्यभागन्वयः
पश्चादेव विशेषणेतरतया पश्चाद्विरोधोद्भवः ।
उत्पन्ने तु विरोध एकरसके वस्तुन्यखण्डात्मधीः
सर्वैरेव पदैरयं समुदितो ज्ञेयः क्रमः सूरिभिः ।। इत्यक्तेः ।
सामानाधिकरण्यं समानविभक्तिकत्वनिश्चयः । प्राथम्यभागिति सामानाधिकरण्य-विशेषणम् । विशेषणेतरतयाऽन्वयः पदार्थद्वयोस्तादात्म्येन विशेषणविशेष्यभावावगाही बोधः । पश्चात्तदनन्तरं भवतीत्यर्थः । पश्चात्तदनन्तरं विरोधोद्भवः बाधकप्रतिसन्धानेनोक्त-बुद्धावप्रमात्वधीर्जायते । ततश्चैकरसके वस्तुनि शुद्धचैतन्ये तद्विषय इति यावत् । अखण्डात्मधीरखण्डस्वरूपधीर्जायत इत्यर्थः । ज्ञानस्याखण्डस्वरूपत्वं प्रकारता-विशेष्यताऽनिरूपकत्वम् ।
अत्र च चिद्द्वयमात्रबोधद्वयस्य द्वारत्वमात्रमुक्तम् । उक्तविशिष्टयोस्तादात्म्यधियोर्द्वारत्वं त्यक्तमिति तद्विरोध इति चेन्न । तादृशतादात्म्यावगाहिबुद्धिबाधकप्रतिसन्धानयोस्तत्त्वं-पदयोःशक्त्या लक्षणया वा विशेष्यमात्रोपस्थापकत्वमात्रे चरितार्थत्वेन लक्षणाग्रहोत्तरं मध्ये तस्य द्वारत्वाभावात् । पूर्वं तस्य क्वचिदुत्पन्नत्वमात्रेण तस्य द्वारत्वोक्तिः । नियमेन तादृश-बोधोत्पत्तौ मानाभावात् । उक्तपदयोर्विशिष्टबोधकत्वबाधकप्रतिसन्धानेन लक्षणाग्रहार्थं नियमेन तादृशबोधस्याप्रयोजकत्वेन अनपेक्षणात् । अन्यथा गङ्गायां घोष इत्यादावपि नियमेन प्रवाहवृत्तिर्घोष इत्याकारकस्य बाधितार्थबोधस्यावश्यमनुसरणीयत्वापत्त्या पूर्वमेव विशेषदर्शिनां तद्वाक्याच्छाब्दानुभवाभावप्रसङ्गात् ।
न चान्यत्र तन्नियमाभावेऽपि प्रकृते तादृशबोधनियमोऽस्तु । नेह नानेतिवाक्यादेर-खण्डबोधपरत्वेऽपि द्वारीभूतमिथ्यात्वबोधे तात्पर्यसत्त्वेन तादृशबोधवदिति वाच्यम् । युक्तं मिथ्यात्वबोधेऽवान्तरतात्पर्यम् । मिथ्यात्वस्य व्यावहारिकत्वेन तदंशे व्यावहारिकप्रामाण्या-क्षतेः । प्रकृते च विशिष्टद्वयतादात्म्यस्य प्रातीतिकत्वेन तदंशे व्यावहारिकप्रामाण्यायोगेन शुक्तिरजतादिवाक्यतुल्यतापत्तेः । नन्वस्तु तदंशे प्रातीतिकमेव प्रामाण्यमिति वाच्यम्। तस्य विप्रतिषिद्धत्वात् । तथात्वे यजमानपाषाणत्वादिबोधेऽपि श्रुतेरवान्तरतात्पर्यापत्तेः । तस्मा-दुक्तमेव युक्तम् । तत्त्वंपदशक्त्या विशेष्यमात्रस्य यो बोधः स एवैकांशत्यागेन शक्त्या जायमानत्वाज्जहदजहल्लक्षणया भवतीति प्राचां प्रवादः । तत्पदस्य चिदाभासविशिष्ट-मायावाचित्वं त्वंपदस्य तु चिदाभासविशिष्टाहङ्कारवाचित्वं तदा तत्त्वंपदयोर्जहल्लक्षणैव । तदप्युक्तं संक्षेपशारीरके
साभासाज्ञानवाची यदि भवति पुनर्ब्रह्मशब्दस्तथाहम् ।
शब्दोऽहङ्कारवाची भवति हि जहती लक्षणा तत्र पक्षे ।। इति ।
न च सर्वेषां पदानां लाक्षणिकत्वेऽनुभावकत्वाभावेन शाब्दानुभवाभावप्रसङ्गः । लाक्षणिकपदस्यापि शाब्दानुभवजनकत्वे तदर्थशाब्दानुभवानुकूलशक्तेरेव तद्वाचकत्वरूपतया लाक्षणिकपदस्य लक्ष्यार्थवाचकत्वापातादिति वाच्यम् । अन्विताभिधानपक्षे उक्तबाधकबलेन जहल्लक्षणापक्षानाश्रयणेऽप्यभिहितान्वयपक्षे दोषाभावात् । तन्मते प्रत्येकं पदानां स्वशक्त्याऽनुभावकत्वमेव । तदनुभूतार्थैरेव महावाक्यार्थबोधजनने शक्त्या बोध इत्युच्यते । तादृशार्थेन स्वसम्बन्धबलादुपस्थापितस्यार्थस्य बोधजनने लक्षणया बोध इत्युच्यते । लक्षणाया अर्थधर्मत्वात् । एवञ्च वाक्यघटकनिखिलपदैः स्वशक्त्या शाब्दबोधजननोत्तरं तादृशैरखिलैरर्थैः स्वस्वपरित्यागेन लक्षणयाऽर्थान्तरोपस्थितिद्वारेणैकमहाशाब्दबोधजननेऽपि शब्दस्य लाक्षणिकार्थवाचकत्वापत्तिदोषाप्रसरेण सर्वलाक्षणिकस्थले शाब्दबोधे बाधका-भावात् । अन्विताभिधानवादे च महाशाब्दबोधस्यापि पदजन्यत्वाङ्गीकारात्सर्वेषां पदानां लाक्षणिकत्वे उक्तबाधकबलेन कस्यापि पदस्य लक्ष्यार्थानुभावकत्वाभावेन शाब्दबोधानुदय एव स्यात् । गङ्गायां इत्यादौ तु घोषपदस्य मुख्यार्थकत्वेन तस्यैव स्वार्थोपस्थितिद्वारा तच्छाब्दकारणत्वम् । गङ्गापदस्य नास्त्येव । तीयविषयता लाक्षणिकतीरोपत्थितिकार्यता- वच्छेदकतयैव बोधे वर्तते । पक्षद्वयसाधारण्यादभिहितान्वयवाद एव सिद्धान्तानुकूलः ।
ननु तत्त्वमस्यादिवाक्यस्थतत्त्वंपदयोश्चिति लक्षणाग्रहाच्छाब्दबोधसम्भवात्तत्त्वंपदार्थ-शोधकसत्यज्ञानादिवाक्यानां वैयर्थ्यम् । न च लक्षणाग्रहे धर्मितया चिज्ज्ञानाय तदुप-स्थितेरावश्यकतया तदर्थं तद्वाक्यजातमिति वाच्यम् । तद्वाक्येन चिद्बोधोपयोगिलक्षणाग्रहार्थं वाक्यान्तरापेक्षायामनवस्थापातात् । यदि च स्वप्रकाशचैतन्ये लक्षणाग्रहो यदि वा विशिष्ट-शक्त्यैव विशेष्यमात्रभानं स्वीक्रियते तर्हि तत्त्वंपदस्थलेऽपि तथैवास्त्विति चेन्न । यतो न वयं तत्त्वंपदलक्षणाग्रहार्थं सत्यज्ञानादिवाक्यमिति ब्रूमः । येन वैयर्थ्यं स्यात् । किन्तु महावाक्यतात्पर्यविषयीभूतचित्स्वरूपनिरूपणार्थमिति ब्रूमः । अन्यथा चैतन्यैक्यमात्रस्य पुरुषार्थत्वग्रहाभावेन तदर्थं प्रवृत्त्ययोगात् । तत्त्वंपदपरिशोधकवाक्यैस्तादृशचैतन्यस्या-द्वितीयस्वप्रकाशनिरतिशयानन्दात्मकत्वेऽभिहिते तदैक्यस्य पुरुषार्थत्वग्रहो भवतीति तदावश्यकता । जीवचैतन्यस्य स्वप्रकाशाद्वितीयानन्दात्मकब्रह्मस्वरूपत्वासम्भावनाशङ्का-निरासाय जीवशोधकवाक्यस्याप्युपयोगः । तत्पदार्थशोधकसत्यादिवाक्याभावे मन्दाधि-कारिभिरुपास्यस्य जीवनियामकत्वादिगुणविशिष्टेश्वरस्य सत्त्वे तन्नियम्यजीवस्वरूपानन्दादे-र्निरतिशयत्वाभावेनापुरुषार्थत्वापत्त्या तदर्थं प्रवृत्तिर्न स्यात् । अतस्तस्यापि नियामकत्वादि-धर्ममिथ्यात्वग्रहपूर्वकं निरतिशयानन्दाद्वितीयत्वादिबोधकतत्पदार्थशोधकवाक्यसाफल्यम् । जीवत्वेशत्वोपलक्षितचैतन्ययोर्भेदभ्रमनिरासकतत्त्वमसीत्यादिमहावाक्याभावे स्वस्वरूपस्य निरतिशयानन्दात्मकत्वनिश्चयो न स्यात् । ईश्वत्वोपलक्षितचैतन्यस्यापि तथोक्तत्वेनोभयो-र्मुख्याद्वितीयत्वनिरतिशयानन्दात्मकत्वायोग इत्यनुपपत्तिज्ञानात् । यथा मान्धाता महाराजोऽद्वितीय इत्युक्त्वा यौवनाश्वो महाराजोऽद्वितीय इत्युक्तावुभयोर्मुख्याद्वितीयत्व-महाराजत्वानुपपत्तिज्ञानाहितसन्देहेन क्वचिदपि तन्निश्चयो न जायते । महावाक्येन तु तयोर्भेदभ्रमनिरासे तु तन्निश्चयो जायते यो यौवनाश्वः स मान्धातेत्युक्तौ यथा तथैव । तथा चावान्तरमहावाक्यानां सर्वेषामुपकार्युपकारकभावसत्त्वात्सार्थक्यम् । अनृतत्वानानन्दत्वादि-भ्रमहेतुभूतयोर्जीवत्वेशत्वोपलक्षितचैतन्यस्वरूपमात्रविषयकाज्ञानयोर्निवर्तकेऽवान्तरवाक्ये । तादृशचैतन्ययोर्भेदभ्रमहेतुभूतचैतन्यमात्रविषयकाज्ञाननिवर्तकं महावाक्यमिति विवेकः ।
केचित्तु ‘तत्त्वमसीतिमहावाक्यजन्यबोधीयचैतन्यविषयता स्वपूर्वतनज्ञानविषयीभूत-जीवत्वेशत्ववृत्तिप्रकारतानिरूपिता भवति । तज्ज्ञानाविषयीभूतस्यापि तत्पूर्वतनज्ञानविषयी- भूतस्य तन्निष्ठविषयतानिरूपितप्रकारतायाः प्राचीननैयायिकैरङ्गीकृतत्वात् । अत एव निर्विकल्पकोपस्थितघटत्वनिष्ठप्रकारतानिरूपितत्वमात्रं सविकल्पके । न तु घटत्वस्यापि तत्र विषयत्वं तैरभ्युपगतम् । गुरुणापि भ्रमस्थले इदंज्ञानाविषयीभूतरजतत्वनिष्ठप्रकारतानिरूपिता विषयतेदंज्ञाने स्वीक्रियते । तथा च यादृशजीवत्वेशत्वोपलक्षितचैतन्यविषयकमहावाक्यार्थ-ज्ञानादज्ञानं स्वाविषयीभूतेशत्वजीवत्वनिष्ठप्रकारतानिरूपितचैतन्यमात्रनिष्ठविषयताकं निवर्तते तादृशबोधजनकत्वमेवाखण्डार्थकत्वमित्याहुः’ इति ।
एवं परप्रक्रियां प्रदर्श्यानुमानप्रयोगप्रकारमाह ।। अत्रापीत्यादिना ।। अकार्येति ।। स्वतात्पर्यविषयीभूतद्रव्यनिरूपितकारणत्वकार्यत्वाभावान्यतराभाववद्द्रव्यतात्पर्यकस्वसमानविभक्तिकपदसमभिव्याहृतं यत्पदं तत्तदुभयघटितत्वं यत्र तत्रोक्ताखण्डार्थनिष्ठत्वमिति व्याप्तिः । तत्ताविशिष्ट-देवदत्तेदन्ताविशिष्टदेवदत्तयोः कार्यकारणभावानापन्नत्वात्तदुभयपरसमानविभक्तिकपदद्वयघटिते सोऽयं देवदत्त इति वाक्ये उक्ताखण्डार्थनिष्ठत्वं वर्तते । प्रकृते च जीवत्वेशत्वविशिष्टयोर-कार्यकारणाभावापन्नत्वात्तदुभयतात्पर्यकतत्त्वंपदघटितोक्तवाक्येऽपि हेतुसत्त्वात्साध्यसिद्धिः । अकार्यकारणेत्यनुपादाने मृद्घट इत्यादौ व्यभिचारः । तस्योक्तरीत्या तदुभयतादात्म्य-परत्वात् । अतस्तन्निवेशः । अन्यतरत्वेनानिवेशे एकैकस्य कार्यत्वस्य वा कारणत्वस्य वा निवेशे घटपदं मृत्पदं वा स्वपदेन यथासम्भवमुपादायोक्तवाक्य एव व्यभिचारः स्यात् । अतोऽन्यतरत्वेन कार्यत्वकारणत्वयोर्निवेशः । अंशांशिनोर्विशिष्टशुद्धयोः परस्परमवश्यं कार्यकारणभावापन्नत्वम् । अंशस्यांशिकारणत्वाद्विशेष्यस्य विशिष्टं प्रति कारणत्वात् । अतस्तद्बोधकपदघटिते ‘दण्डी चैत्रः’ इत्यादौ ‘हस्तो वितस्तिः पटः’ इत्यादौ च न व्यभिचारः । नीलरूपस्यैकस्यैव जातिवन्नित्यस्यैव सर्वत्राङ्गीकारे ‘नीलो घटः’ इत्यादौ व्यभिचारः । नित्यस्यापि गुणस्य घटत्वादिजातिवद्व्यक्त्या तादात्म्याङ्गीकारात् । घटादि-रूपस्यानित्यत्वे ‘जलपरमाणुः शुक्लः’ इत्यादौ च व्यभिचारवारणायोभयत्र द्रव्यत्वेन निवेशः । अत्र शुक्लाऽदिपदानि गुणोपस्थापकान्येव न तदवच्छिन्नद्रव्यपराणीति न व्यभिचार इति हृदयम् ।
विभक्त्यर्थस्य संसर्गतामते ‘देवदत्तस्य गौः’ इत्यादौ व्यभिचारवारणाय स्वसमान-विभक्तिकेति । अधिष्ठानाध्यस्तयोरपि कार्यकारणभावापन्नत्वान्न ‘इदं रजतम्’ इत्यादौ व्यभिचारः शङ्क्यः । ‘यश्चोरः स स्थाणुः’ इत्यादावपि न व्यभिचारः । तस्यापि बाधद्वारेण पुरोवर्तिस्वरूपमात्रबोधजनकत्वाङ्गीकारात् । अत एव ‘इदं सर्वं यदयमात्मा’ इत्यादेः ‘अहं ब्रह्मास्मि’ इत्यादेर्बाधाय सामानाधिकरण्यपक्षे तस्याखण्डार्थकत्वं युज्यते । अहं ब्रह्मा-स्मीत्यादेर्बाधायां सामानाधिकरण्यमहमर्थस्य चिदाभासस्य जीवस्य नाशपक्षे सिद्धान्तलेशे उपपादितम् । नैष्कर्म्यवचनञ्चोदाहृतम् ।
योऽयं स्थाणुः पुमानेषः पुंधिया स्थाणुधीरिव ।
ब्रह्मास्मीति धिया शेषे ह्यहंबुद्धिर्निवर्तते ।। इति ।
न चैवमपि दण्डी कुण्डलीति वाक्ये व्यभिचारः । दण्डोपहितकुण्डलोपहितयोः कार्यकारणभावानापन्न१द्रव्यनिष्ठत्वादिति शङ्क्यम् । उपहितयोस्तादात्म्याभावेन तस्याप्य-खण्डार्थत्वाङ्गीकारेण व्यभिचाराभावात् । न चोक्तहेतोरप्रयोजकता । कार्यकारणाभावा-नात्मकद्रव्यत्वेन तादात्म्यायोगेन स्वरूपैक्यस्याप्यभावे तादृशसमानविभक्तिकपदद्वयघटित-वाक्यत्वं न स्यादित्यनुकूलतर्कोत्थानात् ।
तत्प्रश्नोत्तरत्वरूपपूर्वसूचितहेतुं स्पष्टं दर्शयति ।। स्वरूपेति ।। कथं सगुणं ब्रह्मेति ।। श्रुतेर्गुणे तात्पर्याभावात्प्रत्युत तन्मिथ्यात्व एव तात्पर्यादिति भावः ।