विमतो भिन्नो मुक्तत्वात्..

अनुमाने विमतसम्प्रतिपन्नपदप्रयोगप्रयोजनम्

विमतो भिन्नो मुक्तत्वात्..

श्रीमज्जयतीर्थटीका

अत्र विमत इति संसारान्मुक्तो विवक्ष्यते । तस्यात्मेत्येव ग्रहणे सिद्धार्था प्रतिज्ञा स्यात् । औतवादिनापि संसारिणो भिन्नत्वेनाभ्युपगतत्वात् । भेदस्य च पारमार्थिकत्वानौपाधिकत्वाभ्यामविशेषितत्वात् । मुक्त इत्येव तर्ह्युच्यतां । २निगडमुक्तेन सिद्धार्थता स्यादिति चेत् । तर्हि संसारान्मुक्त इति वक्तव्यं, तथा कृते गौरवं स्यादिति चेत् न । विमतेरनेकविधत्वेन धर्मिविशेषानिश्चये साध्यविशेषोपादानादिना तन्निश्चयानुसरणेऽपि गौरवसाम्यात् । तथापि विनिगमनं कुत इति चेत् । अर्थप्रतिपत्तिगौरवाच्छब्दगौरवस्य ज्यायस्त्वात् । सत्यम् । तथाप्यप्रसिद्धविशेष्यत्वाप्रसिद्धविशेषणत्वप्रसिद्धार्थत्व१प्रमाणबाधानां प्रतिज्ञादोषाणामुद्धारोऽप्यनेन सङ्क्षेपतः कृतः स्यादित्येवमर्थं विमतग्रहणम् । तथा हि, यदि विशेष्यो मुक्तात्माऽप्रसिद्धः स्यात्तदा किमाश्रया विमतिः स्यात् । यदि च विशेषणं भेदोऽप्रसिद्धो भवेत्तदा किमुल्लेखिनी विमतिर्भवेत् । यदि वा भेदो मुक्तात्मनि सिद्धो बाधितो वा भवेत्तदाप्यन्यतरपक्षनिश्चयान्न विमतिः स्यात् । अस्ति चेयम् । ततो नाप्रसिद्धविशेष्यत्वादीति । एतेनोदाहरणेऽपि सम्प्रतिपन्नग्रहणस्य साध्यसाधनवैकल्याद्युद्धारः प्रयोजनं व्याख्यातम् । अन्यथा यथा निगडमुक्त इत्यवक्ष्यत् ।

द्वैतद्युमणि:

।। अत्राहुरिति ।। यथाश्रुतार्थे मायावादिभास्करमतानुयायिन इत्यर्थः ।। मुक्तस्तु न केनापि नियत इति ।। तथा च नित्यं नियन्तेत्युक्तिरसङ्गतेत्यभिप्रायः । यद्वा मुक्तिदशायां तत्स्वरूपसत्तादेरितरानियम्यतयैव स्थितिवदन्यदापि तथैव स्थितिसम्भवा-च्चिच्चेत्ययोरितरनियम्यत्वं मास्त्वित्यनुमानं अप्रयोजकमिति भावः ।। न च मुक्तस्य कुतोऽपि भेदोऽस्तीति ।।

आमुक्तेर्भेद एव स्याज्जीवस्य परमस्य च ।

मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ।।

इत्यादीनां भेदसामान्यनिषेधकप्रमाणानां सत्त्वादिति भावः । ननु मुक्तौ भेदग्राहक-प्रमाणबाधात्तेषां न स्वार्थे प्रामाण्यमित्यत आह ।। प्रमाणाभावादिति ।। भेद इति शेषः । अस्य च प्रमाणाभावस्य भेदाभावे भेदग्राहकप्रमाणबाधाभावद्वारा हेतुत्वं बोध्यम् । यद्वा किं भेदाभावे प्रमाणान्तरोपन्यासेन । भेदे प्रमाणाभाव एव तदभावसाधक इत्याशयेनाह ।। प्रमाणाभावादिति ।। वादप्रक्रियया वादवृत्तितत्वनिर्णयोद्देश्यकत्वादिधर्मादिना सादृश्येन । कुत इत्यत आह ।। शिष्यानुकम्पयेति ।। उपोद्घातप्रक्रिययेति ।। ‘पृष्टेनागम एवादौ वक्तव्यः’ इत्यत्र आगमपदस्य चागमोपयुक्तप्रमेयग्राहकतया एवकारेण तदन्यानुमानादेरेव व्यवच्छेद इति भावः ।

ननु विमतपदस्य विवादविषयोऽर्थः । भिन्न इत्यादिविशेषसमभिव्याहाराच्च भेदप्रकारक-विमतिविषयत्वं पक्षतावच्छेदकं लब्धम् । तदवच्छिन्ने साध्यसाधनमयुक्तम् । विमतिसाध्य-संशयस्यान्यधर्मितावच्छेदककत्वेनानुमितेः संशयनिवर्तकत्वाभावापातेनानुमानवैरर्थ्यापत्तेरित्यत आह ।। अत्रेति ।। विमतपदं संसारान्मुक्तस्य प्रकृतानुमानपक्षस्य परिचयायैव । न तु विमतत्वस्य पक्षतावच्छेदकत्वलाभायेति भावः । ननु न्यायामृते विमतेः पक्षतावच्छेदकत्वानु-सरणं कथमुपपद्यत इति चेत् न । समानधर्मिताकत्वेन प्रतिबन्धकतापक्षमाश्रित्याभ्युच्चयवादेन तत्र तथोक्तत्वात् ।

ननु विमतेः पक्षतावच्छेदकत्वानङ्गीकारे मूले मुक्त इत्यादि पक्षनिर्देशं विहाय विमतमिति पदप्रयोगस्यानर्थक्यं स्यात् । न च विमतिवाक्यस्य सर्वत्रावश्यकताबोधनार्थं तदिति युक्तम् । तदावश्यकतायाः विप्रतिपत्तिसाध्यसंशयस्य पक्षतारूपत्वाभावाद्युपपादनेन न्यायामृते निरस्तत्वेन तस्य सिद्धान्तत्वाभावात् ।

यत्तु ‘विप्रतिपत्तिरावश्यिक्येव । विप्रतिपत्त्या संशयेन तदभावरूपफलेच्छया न्यायवाक्य-रूपविचारावसरेण विप्रतिपत्तेर्विचाराङ्गत्वात् । ननु वादिनोः स्वस्वपक्षनिश्चयवत्त्वध्रौव्येण मध्यस्थादीनामपि विद्वत्त्वात् कुत्र संशयो जायते । किञ्च मूर्खस्य विचारे नियमने स्वस्या-कीर्तिः स्यादिति तत्परिहाराय उभयोः समविद्यत्वपरीक्षाया मध्यस्थेन कर्तव्यतया तेन तदुभयनिष्ठान्यतरपक्षनिश्चयस्यापि निश्चितत्वेन तत्सम्भावनाऽपि नास्तीति कथं संशयो भवत्विति बुद्ध्या मध्यस्थो विप्रतिपत्तिवाक्यं प्रयुञ्जीतेति चेन्न । तत्काले संशयानुपधानेऽपि विप्रतिपत्तेः संशयस्वरूपयोग्यत्वरूपकारणत्वेन सम्बन्धितया विप्रतिपत्तिरूपैकसम्बन्धिज्ञाने सत्यपरसम्बन्धिरूपसंशयस्मरणे सति प्रतियोगिज्ञानानन्तरं तदभावरूपफलज्ञानोदयेन तदिच्छया तन्निर्वाहकविचारे प्रवृत्तिनिर्वाहकतया विप्रतिपत्तेर्विचाराङ्गत्वस्याभिमतत्वात् ।

न च तत्र संशयाभावस्तदा वर्तत एवेति कथं तदिच्छेति वाच्यम् । कालान्तरे व्यासङ्गादिना तदुच्छेदशङ्कया कालान्तरेऽपि संशयाभावोऽनुवर्ततामिति बुद्ध्या स्वजन्यानु-भवाधीनसंस्कारदार्ढ्यादिद्वारा तन्निर्वाहकविचार इच्छासम्भवात् । न च तत्वनिर्णयमात्र-फलकवादकथायां विप्रतिपत्तेरनावश्यकत्वं प्रत्यक्षालोकादिग्रन्थसम्मत्या नैयायिकादिसिद्धमेव । जल्पे तु स्वस्वविजयार्थमेव विचारे प्रवृत्तिसम्भवेन फलान्तरानुसन्धानं नापेक्षितमिति वाच्यम् । एवमपि सभ्यसभापत्यादीनां स्वकीयफलानुसन्धानं विना तत्र मनःप्रणिधानायोगे-नोक्तरीत्या विप्रतिपत्तेस्तदर्थकत्वात् । न च पूर्वोक्तरीत्या कुत्रापि फलानुपधाने स्वरूप-योग्यताऽपि नास्ति । कल्पकाभावादिति वाच्यम् । सभ्यानां सर्वेषां विद्वत्त्वनियमाभावा-त्सभाबहिर्भावेण कदाचित्तज्जातीयवाक्येन संशयस्यान्येषां सम्भवेन च फलानुपधानासिद्धेः ।

न चैवमज्ञानविपर्ययनिवृत्तिरूपफलप्रतियोग्यज्ञानादिजनकवाक्यमप्यावश्यकं स्यादिति वाच्यम् । अज्ञानस्यानादितया तज्जनकवाक्यासिद्धेः । संशयनिवृत्तेरज्ञाननिवृत्तिमूलकत्वेन पृथग्यत्नानपेक्षणाच्च । सर्वेषामेकदर्शननिविष्टत्वनियमाभावेन सर्वनिरसनीयैककोटेरभावेन इदमित्थमेवेत्याकारकस्य विपर्ययवाक्यस्य दर्शयितुमशक्यत्वात् । किञ्च विप्रतिपत्तेर्नैतावन्मात्रं प्रयोजनम् । अन्यदपि वर्तते । विप्रतिपत्तिवाक्ये प्रयुक्ते सर्वैः कोटिद्वयस्य श्रुतत्वा-त्तदपलापपूर्वकं वादिनोरन्यतरेण विषयान्तरग्रहणपूर्वकं स्वजयः स्थापयितुं नैव शक्यते । अन्यथा जयपराजयव्यवस्थाऽभावप्रसङ्गात् । एवं मध्यस्थेन स्वयमेवैकैकं प्रत्येकैकपक्षदाने तत्समर्थनाशक्तेन वादिना अन्यतरस्मिन्पक्षपातः स्वस्मिन्नसूयादिकं व्यवह्रियेत । अतो विप्रतिपत्तिवाक्येनोभाभ्यां कोटिश्रवणानन्तरं स्वयमेव पक्षविशेषग्रहणे पक्षान्तरसमर्थनाशक्तत्व-शङ्का लोकानां स्यादित्यभिप्रायवद्भ्यां वादिभ्यां त्वयैव कश्चन पक्षो देय इत्युक्त्यनन्तरमेव तथाकरणे स्वस्य दोषाभावात् । अत एतदुभयप्रयोजनार्थमपि विप्रतिपत्तिरावश्यिकी । एतेन साधारणधर्मादिप्रतिबन्दिदानं परास्तम् । तस्मात्स्वकर्तव्यनिर्वाहाय समयबन्धादिव-द्विप्रतिपत्तिर्दर्शनीयैव । परमवयवेषु नाग्रह’ इति ।

तन्न । ‘शब्दो गुणत्वेन नैयायिकाभ्युपगमविषयो द्रव्यत्वेन तु मीमांसकानाम् । अतो यथाकाममन्यतरपक्षाऽश्रयणं कार्यम्’ इत्याकारकेण संस्कृतेन तत्समार्थकभाषारूपवाक्येन वा मध्यस्थोक्तेन पूर्वोक्तसर्वप्रयोजननिर्वाहात् एकस्मिन्धर्मिणि विरुद्धकोटिद्वयशाब्दधीजननयोग्य-त्वादिनानाकुसृष्ट्यादि युक्तवाक्यविशेषरूपविप्रतिपत्तेरनावश्यकताया न्यायामृतोक्ताया एतादृशशतोक्तिभिरप्यपरिहारात् । न हि न्यायामृते सर्वथाऽनुपयोग उक्तः । किन्त्व-नावश्यकत्वमात्रम् । न हि कथापूर्वं मध्यस्थादिभिर्भाषया व्यवहारे किञ्चिद्बाधकम् । प्रत्युत प्राकृतादीनामपि सुज्ञानाय तस्यैवोचितत्वञ्च ।

अपि च सभापतिप्रेरितेनान्येनैवोक्तरीत्या वादिप्रतिवादिभ्यां पक्षपरिग्रहादिकं कारयित्वा अनन्तरं मध्यस्थो नियमितः । तत्र मध्यस्थस्य विप्रतिपत्तिदर्शनानवकाशाच्च । यत्र सर्व-विषयेषु तत्काले मध्यस्थकल्पितवाक्यस्यान्यदाप्युच्चारनियमाभावात्संशयाजननं तेषु स्वरूप-योग्यत्वकल्पकाभावाच्च । क्वचित्तस्य सत्त्वेऽपि ज्ञानस्यैव स्वस्योपयोगेन सर्वेषां तज्ज्ञान-नियमाभावेन सर्वेषां संशयस्मारकत्वायोगश्च । केषाञ्चित्सम्भवेऽपि भाविविचारत्य संशयनिवृत्तिनिर्वाहकत्वानुपस्थित्या तत्र सभापत्यादीनां मनःप्रणिधानस्य ततोऽनिर्वाहाच्च । यत्र सभापत्यादीनामन्यतरकोटिनिश्चय एव तत्र स्वकर्तव्यसन्मानोपयोगितदुत्कर्षज्ञानार्थमेव मनःप्रणिधानोपपत्तेश्च । वादिनोः प्रामाणिकत्वे निश्चितेऽसाधकतास्थलीयन्याये उदाहरण-प्रयोगस्येव समयविशेषबन्धस्याप्यकर्तव्यतया दृष्टान्तस्य नियमेन सार्वत्रिकतयाऽसम्मतेश्च । वाक्यविशेषस्य क्षेमसाधारणमज्ञाननिर्वाहकत्वमपि भवतीति फलस्मरणोपयोगितामात्रेण तत्प्रदर्शनप्रतिबन्द्यपि युक्तैव । तस्मादवयवेष्विव विप्रतिपत्तावप्यावश्यकत्वाग्रहस्त्याज्य एवेत्यर्थः ।

संसारान्मुक्त इति निर्देशं विहाय विमतपदप्रयोगप्रयोजनमाह तस्येत्यादिना ।। औत-वादिनापीति ।। आत्मत्वाश्रये शुद्धचिति आत्मत्वोपहिते वा भेदाभ्युपगमादिति भावः ।। पारमार्थिकत्वानौपाधिकत्वाभ्यामिति ।। अत्यन्ताबाध्यत्वोपाधिव्यतिरेकप्रयुक्तव्यतिरेक-प्रतियोगित्वरूपौपाधिकत्वाभावरूपविशेषणभ्यामित्यर्थः ।। अविशेषितत्वादिति ।। विशेषणे मायावादिभास्करयोः साध्याप्रसिद्धिः स्यादिति भावः ।। मुक्त इत्येवोच्यतामिति ।। संसारिणि मुक्त इति व्यवहाराभावान्मुक्तत्वं संसारदशाव्यावृत्तम् । तदाश्रये संसारदशायां भेदसत्त्वेऽपि तदुपहिते भेदस्यासत्त्वात्प्रकृते तथैव साधनान्न सिद्धसाधनतेत्यभिमानः । संसारिणि मुक्त इति शास्त्रीयव्यवहाराद्यभावेऽपि निगडमुक्तः इदानीमयं मुक्त इत्यादिव्यवहारो वर्तत एव । अन्यथा मुक्ताः संसारसागरादित्यादौ संसारिव्यावृत्त्यर्थमवधिपदप्रयोगो व्यर्थः स्यात् । अतस्तत्साधारणं दुःखजनकपदार्थप्रतियोगिकविभागवत्त्वादिकमेव तदर्थतावच्छेदकं वाच्यम् । तस्य संसारदशासाधारणतया तदुपहिते भेदसाधनेऽपि सिद्धसाधनतेत्यभिमान-निरासाभिप्रायेण समाधत्ते ।। निगडमुक्तेनेति ।। संसारान्मुक्त इत्येवं वक्तव्यमिति ।। अत्र संसारपदं स्वरूपावरणपरम् । मुक्तपदं च विभागावच्छिन्नवाचि । ध्वंसस्य सावधिकत्वाभावेन पञ्चम्यर्थान्वयस्य बाधितत्वेन तदवच्छिन्नवाचित्वायोगात् । विभागोऽपि न गुणः । दुःखा-द्विमुक्त इत्यादावतिप्रसङ्गात् । किं तु सम्बन्धध्वंसरूपापायमात्रम् । पञ्चम्यर्थप्रतियोगित्वस्य सम्बन्ध एवान्वयः । स्वरूपावरणसम्बन्धध्वंसोऽक्षरार्थः । स्वरूपावरणध्वंसवत्त्वं पक्ष-तावच्छेदकं फलितम् ।

यदत्राह कश्चित् । विमतो भिन्नो मुक्तत्वात्सम्प्रतिपन्नवदित्युक्ते शुद्धचिन्मात्रे मुक्ते संसारदशायां भेदस्याभ्युपगमात्सिद्धसाधनम् । मुक्तिदशायामिति धर्मिविशेषणत्वे परं प्रत्यसिद्धिः । मुक्तौ कालानभ्युपगमात् । मुक्तिदशायां कालो नाभ्युपेयत इति व्याहतमिति चेन्न । तत्त्वज्ञानस्य स्वसमानाधिकरणस्वसमानविषयकाज्ञानतत्प्रयुक्तदृश्याधिकरणकाल-पूर्वत्वाभावनियमाभ्युपगमे फलतस्तन्निरासादिति । तत्तुच्छम् । विप्रतिपत्तिसाध्यसंशयस्य मध्यस्थादिनिष्ठतादशायामुक्तानुमानप्रवृत्तेर्विमतपदप्रयोगबलेन सूचितत्वेन सिद्धसाधनत्वादि-शङ्काभावादेरग्रे ग्रन्थकृतैव वक्ष्यमाणतया तदुद्भावने स्वव्याहतत्वस्य स्वप्रतिज्ञातार्थपरित्यागस्य चापत्त्योद्भावकस्यैव निग्रहप्रसङ्गात् ।

ननु किञ्चिद्धर्मोपहिते तदुपलक्षिते वा चैतन्ये सर्वाधिष्ठानभूते भेदस्यापि सत्त्वेन न मन्मते पक्षतावच्छेदकोपहिते तदुपलक्षिते वा भेदकोटिकविप्रतिपत्तिः सम्भवति । न च त्वन्मते घटश्चिन्नेत्यादिप्रतीतिसिद्धभेदस्वघटावच्छिन्नचित्यारोपितत्वेन चिति तादात्म्य-सम्बन्धेन भेदसत्त्वेऽपि चिच्चिन्नेति प्रतीतिवारणाय ‘नञुल्लेख्यप्रतीतौ विशेषणतासम्बन्धो भासते । तेन सम्बन्धेन तु चिति १स भेदो नास्ति’ इति वक्तव्यम् । एवञ्च भेदान्तराणामपि तादात्म्यसत्त्वेऽपि न विशेषणतासम्बन्धेन वृत्तित्वम् । प्रकृते च मुक्तत्वोपलक्षिते तत्सम्बन्ध-संसर्गकभेदकोटिकविप्रतिपत्तिर्युक्ता । चिद्घटो नेति प्रतीतिसिद्धभेदो यद्यपि शुद्धचिति विशेषणतासम्बन्धेन वर्तत इत्यापाततः प्रतिभाति तथापि स स्वोपहित एव वर्तते । अन्यथा शुद्धत्वहानिप्रसङ्गात् । एवं अन्येषामपि भेदानामिति शुद्धचिति भेदस्यासिद्धतया मुक्तत्वोप-लक्षितायां चिति भेदकोटिकविप्रतिपत्तिसम्भवेन तत्र तत्साधने कथं सिद्धसाधनतावकाश इति वाच्यम् । अनुमितेर्वा विप्रतिपत्तिघटकवाक्यस्य वा यदि मुक्तत्वरूपधर्मपुरस्कारेण विशेष्यावगाहिता तदा मुक्तत्वोपहितस्यैवानुमितौ भानान्न शुद्धचिति भेदसिद्धिः । विप्रतिपत्तिघटकवाक्येन च तदुपहितभेदस्याङ्गीकृतत्वात्तन्निषेधरूपकोटिप्रतिपादनानुपपत्तिः । यदि चोपलक्षणीभूतधर्मस्य धर्मान्तरोपलक्षकत्वं क्वचिच्च स्वरूपोपलक्षकत्वञ्चाङ्गीकृतम् । तस्यायं निष्कर्षः फलीभूतबोधे भासमानधर्मान्तरोपस्थापकः सन् फलीभूतबोधे स्वयम-भासमानः क्वचिद्भवति । क्वचिच्च फलीभूतबोधे भासमानस्वरूपमात्रोपस्थापकः सन् तत्र स्वयमभासमानः स्वरूपोपलक्षणमित्युच्यते इति । एतदुदाहरणादिकन्त्वाकरे व्यक्तम् । एवञ्चेहापि यदि मुक्तत्वं धर्मान्तरमुपस्थाप्य स्वयं निवर्तते तदा विप्रतिपत्तिवाक्येन धर्मान्तरविशेषितचिति भेदनिषेधः कृतः स्यात् । स चानुपपन्नः । मुक्तत्वोपहित इव धर्मान्तरोपहितेऽपि भेदाङ्गीकारात् । एवं सिद्धार्था प्रतिज्ञा स्यात् । धर्मान्तरोपहिते भेदस्याभ्युपगतत्वात् । यदि च स्वरूपमात्रोलक्षणं स्यात् तदा मुक्तो न भिन्न इति वाक्यं वा नञ्घटितोक्तवाक्यं वा १स्वरूपमात्रावगाहिनं भेदाभाववान् इत्याकारकं वा भेदवान् इत्याकारकं वा बोधं जनयेत् । तथा च कथं तद्वाक्ययोर्विप्रतिपत्तिवाक्यत्वम् । तदुभयजन्य-बोध्यतदधीनबोधान्तरस्य वा संशयरूपत्वाभावेन तज्जनकत्वाभावात् । निर्धर्मितावच्छेदक-कसंशयाभावात् । अनुमितिरपि कथमुक्तविधमुक्तत्वोपलक्षितचिदवगाहिनी स्यात् । तस्या निर्धर्मितावच्छेदककत्वाद्यभावात् ।

अथ मन्यसे ‘मुक्तत्वोपलक्षिते भानं नाम मुक्तत्वसामानाधिकरण्यमात्रस्य प्रकारांशे भानम् । प्रकारसम्बन्धे मुक्तत्वावच्छिन्नत्वभानन्तु तदुपहिते भानम् । प्रकृते च किञ्चि-दुपहितचित्येव भेदस्य भवदङ्गीकृतत्वेन मुक्तत्वेनोपलक्षितायां शुद्धचिति भेदाभावकोटिका विप्रतिपत्तिर्युक्ता’ इति । तदप्ययुक्तम् । मुक्तत्वाश्रयत्वस्य मुक्तत्वोपहित एव सत्त्वेन तेन रूपेण शुद्धचितौ विप्रतिपत्तिवाक्येन भासमानत्वेन तदुपहितस्यैव भानेन तत्र विप्रतिपत्त्य-योगस्योक्तत्वात् । यदि चोपहितधर्माणां शुद्धवृत्तित्वस्याभ्युपगमान्मुक्तत्वं शुद्धचिति वर्तत इति ब्रवीषि तदा भेदोऽपि तत्र वर्तत एवेति कथं तत्र तत्कोटिका विमतिः स्यात् । किञ्च शुद्धचिति कथमपि भेदो नास्तीत्यभ्युपेत्य मुक्तत्वोपलक्षितायां भेदाभावकोटिका विप्रतिपत्तिः मुक्तत्वोपलक्षिते भेदसाधने शुद्धचिति भेदमात्रसिद्ध्या आत्मनः कृतार्थतेति यदि मनुषे तर्हि आत्मत्वसंसारित्वादिधर्मेषु कस्यचित्पक्षतावच्छेदकत्वानुसरणे विप्रतिपत्तेश्चिति भेदसिद्धि-सम्भवेन सिद्धसाधनतादोषेणैव तन्निराकरणपूर्वकं संसारान्मुक्तत्वस्य पक्षतावच्छेदकत्वानु-सरणासङ्गतिः ।

यदि च शुद्धत्वादिधर्मा इव शुद्धचित्येव जडानृतादिव्यावृत्तयोऽपि वर्तन्त इति विवरण-मतमाद्रियते तदा शुद्धचित्येव भेदाभ्युपगमान्न विप्रतिपत्तिः । न तत्साधनेनानुमानस्य कृतार्थत्वम् । सिद्धसाधनानुद्धारात् । नापि मुक्तत्वविशिष्टे भेदतदभावकोटिका विप्रतिपत्तिः । मन्मते चरमक्षणस्य चरमसाक्षात्कारस्य वाऽऽवरणध्वंसरूपमुक्तितया तद्विशिष्टे भेदस्य निर्विवादत्वात् । तदुत्तरावस्थाविशिष्टत्वरूपमुक्तत्वविशिष्टे विप्रतिपत्तिरपि न युक्ता । मन्मते तदुत्तरावस्थाया एवालीकत्वात् ।

यदि चाऽवरणध्वंसोपलक्षिता चिदेव मुक्तिस्तदाश्रयस्याभावात्तस्याः पक्षतावच्छेदकत्वा-योगः ।

यदि चोभयसिद्धमुक्तत्वाश्रयेऽनवच्छिन्नविशेषणतया भेदकोटिका विप्रतिपत्तिस्तेनैव सम्बन्धेन भेदस्य साध्यतापि मुक्तौ नश्यमानभेदस्य चित्यनवच्छिन्नविशेषणतया वृत्त्यभावान्न विप्रतिपत्त्ययुक्तिः सिद्धसाधनता वा । न च पक्षनिष्ठाया दृष्टान्तनिष्ठाया वा भेदीय-विशेषणताया मुक्तत्वनिगडमुक्तत्वादिधर्मावच्छिन्नत्वाद्बाधो दृष्टान्तासिद्धिश्चेति शङ्क्यम् । कालविधया या विलक्षणावच्छेदकता तदनिरूपकत्वस्यैव निवेशनीयत्वादिति मन्यसे तदप्य-युक्तमेव । आसंसारं चिन्निष्ठानामनृतादिभेदानां यावत्कालमनुवर्तमानानां विशेषणतायाः कालिकव्याप्यवृत्तितया कालानवच्छिन्नताया एव मदङ्गीकृतत्वेन विप्रतिपत्त्यनुपपत्तिसिद्ध-साधनतयोरनुद्धारात् । न च मुक्तिकालासम्बन्धिनां भेदानां कथं कालिकव्याप्यवृत्तित्वमिति वाच्यम् । भेदैः सह ब्रह्मज्ञानेन कालस्यापि निवृत्तत्वेन मुक्तौ कालस्यैवाभावात् । न च मुक्तौ कालानभ्युपगमे व्याहतिः स्यादिति वाच्यम् । विप्रतिपत्त्यभावे सिद्धसाधनतोद्भावने च परीक्षितापरीक्षितपराभ्युपगममात्रस्य बीजतया तत्सदसत्त्वविचारस्येदानीमनवसरपराहतत्वात् । किञ्चैतत्कल्पे आत्मत्वसंसारित्वादिचिद्वृत्तिधर्मसामान्यस्यापि पक्षतावच्छेदकत्वसम्भवे तत्परित्यागानुपपत्तिरूपपूर्वोक्तदोषानिस्तारश्च ।

ननु भेदस्य मिथ्यात्वसिद्धये भेदाभावोऽपि त्वयाऽङ्गीकृत इति तस्य कोटिता युक्तेति चेन्न । तस्येदानीमावृतत्वेन लौकिकानां भेदाभ्युपगमविरोधिग्रहाविषयस्य तस्य ज्ञानेन मध्यस्थसंशयाद्यनिर्वाहेण विप्रतिपत्तिकोटित्वायोगात् । भेदसाधनेऽपि तत्कोटेरस्मदभिमताया एव साधितत्वेन सिद्धसाधनानुद्धाराच्च । तस्माच्छुद्धभेदकोटिकमुक्तधर्मिकविप्रतिपत्तेरेवा-योगात्कथं तत्काले भेदसाधनेन सिद्धसाधनत्वाभाव इति समाधानम्’ इति ।

अत्रोच्यते । ‘मुक्तानां परमा गतिः’ ‘मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि’ ‘मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ । इत्येवमादीनि कानि-चिद्वाक्यानि, तथा ‘एतमानन्दमयमात्मानमुपसंक्रम्य’ ‘परमं साम्यमुपैति’ इत्यादिकानि श्रुतिवाक्यानि च मुक्तविषयतयाऽवगम्यमानानि श्रूयन्ते । तथा ‘परमं ब्रह्म वेद ब्रह्मैव भवति’ ‘ब्रह्मैव सन्ब्रह्माप्येति’ ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इत्यादीनि श्रुतिवाक्यानि, तथा

आमुक्तेर्भेद एव स्याज्जीवस्य परमस्य च ।

मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ।।

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।।

यावन्मोक्षन्तु भेदः स्याज्जीवस्य परमस्य च ।

ततः परं न भेदोऽस्ति भेदहेतोरभावतः ।।

इत्यादीनि च स्मृतिवाक्यानि मुक्तविषयतया प्रतीयन्ते । तत्र पूर्ववाक्येषु बहुवचनश्रवणेन साधर्म्येण प्राप्यप्रापकभावादिश्रवणेन मुक्तानां परस्परं परमात्मना च भेदोऽवगम्यते । यत्र त्वस्येत्यादिवाक्येषु यत्रेत्यनेन मुक्त्यवस्थानाशमात्यन्तिकं गते इत्यनेन ततः परमित्यनेन च परममुक्त्युत्तरः कालः प्रतीयते । तथा सर्वमात्मैवाभूदित्यनेन भेदो नास्तीत्यनेन च भेद-सामान्यनिषेधः प्रतीयते । तदुभयवाक्यदर्शनेन बलाबलनिर्णयाभावदशायां ‘भेदप्रतिपादका-नामर्थान्तरपरत्वेन प्रामाण्याभावादभेदपराणि प्रमाणानि’ इति त्वदीयेषु भास्करानुसारिषु वदत्सु ‘भेदनिषेधपराणां न स्वार्थपरत्वं किन्त्वन्यार्थपरत्वम्’ इति तत्ववादिषु वदत्सु लौकिकानां मध्यस्थप्रभृतीनां वा ‘मुक्तो भिन्नो न वा’ इति संशयो जायते न वा । नेति वदन् सर्वानुभवसिद्धापलापी न वैदिको नापि लौकिक इत्युपेक्षणीय एव स्यात् । आद्ये संसारध्वंसविशिष्टस्य तदुत्तरकालविशिष्टस्य च भेदतन्निषेधकवाक्याभ्यां धर्मितया स्फुरणेन तत्रैव संशयोदयेन तत्रैवान्यतरजिज्ञासायां तादृशविमतिविषयतावच्छेदकमुक्तत्वमुक्तिकाला-वच्छिन्नत्वादिविशिष्टे भेदसाधने सिद्धसाधनानवकाशात् ।

ननु बन्धध्वंसविशिष्टे भेदस्तु मयाभ्युपगम्यते । तदुत्तरकालस्यानभ्युपगमात्तदवच्छिन्नस्य पक्षता त्वप्रसिद्ध्या न युक्तेत्युक्तमेवेति चेन्न । तथात्वे विशिष्टे भेदाङ्गीकारे मम साधर्म्यमागता इति वाक्यस्य परमं साम्यमिति वाक्यस्य च ‘साधर्म्यं परमसाम्यञ्च अभेद एव’ इति, ‘सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता’ इति वाक्यस्य

सोऽश्नुते सकलान् कामान् क्रमेण च सुरर्षभाः ।

विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः ।।

इत्यादिस्कान्दवाक्यमुदाहृत्य ब्रह्मस्वरूपेण सर्वभोगानुभवपरतया व्याख्यानं ‘आनन्दमय- मात्मानमुपसंक्रम्य’ इत्यत्र अनतिक्रमार्थकत्वेन उपेत्यस्य व्याख्यानं व्यर्थमापद्येत । न च भेदान्तराङ्गीकारेऽपि ब्रह्मभेदस्यानङ्गीकारात् तत्परतया प्रतीयमानानां वाक्यानां युक्तं व्याख्यानमिति वाच्यम् । अज्ञानस्यैवात्यन्तिकनाशे ब्रह्मभेदस्येव भेदान्तरस्यापि स्थित्ययोगात् । भेदान्तरविशिष्टस्य ब्रह्मतादात्म्यायोगाच्च । स्वरूपैक्यविवक्षा तु संसार-दशायामप्यविशिष्टत्वेन मुक्तौ विशिष्य न घटते ।

किञ्चोक्तवाक्ये ब्रह्मभेदप्रतिपादने किं तव गतम् । ब्रह्मैव भवतीत्यादिवाक्यानां प्रामाण्य-मिति चेत्तर्हि मुक्तस्य तु न भेदोऽस्तीत्यादिवाक्यप्रामाण्यविघातकस्य भेदान्तरस्य कथमङ्गीकारः । न च तद्वाक्यानां भेदनिषेधद्वारा चिन्मात्रे वा स्वसमानविषयकेत्यादि नियमान्तरे वा तात्पर्यम् । तात्पर्यविषयीभूतार्थाविरोधात्तदङ्गीकार इति वाच्यम् । तर्हि ब्रह्मैव भवतीत्यादिवाक्यानामपि तथैव गतिरिति कुत उक्तश्रुतीनां व्याख्यानान्तरम् । तस्मान्मुक्तत्व विशिष्टे भेदो नास्तीत्येव यथाश्रुतं तव मतम् । यथा नेह नानेत्यादिवाक्यानां द्वैतसामान्या-भावप्रतिपादनद्वारा चिन्मात्रपरत्वं, तत्त्वमसीत्यादिवाक्यानां लक्षणया अभेदबोधद्वारा चिन्मात्रपरत्वं, तद्द्वारकचिद्बोधस्य द्वैतधीविरोधित्वं स्वीक्रियते, तदर्थं द्वारीभूतबोधेऽपि तद्वाक्यानां तात्पर्यं, तद्विषयघटितव्यावहारिकप्रामाण्यं, तेषां तादृशावान्तरबोधे तात्पर्यसिद्धये मिथ्यात्वानुमानानां अभेदानुमानानां प्रवृत्तिः, ‘नेह नानेत्यादिश्रुत्यर्थे विवदमानं प्रति साध्यान्तरमाह’ इति त्वदीयोक्तेः । तद्वन्मुक्तभेदनिषेधकवाक्यानामपि मुक्तत्वविशिष्टे भेदनिषेधे तात्पर्यं, तद्बोधद्वारा चिद्बोधे वा फलतः सर्वनिषेधकनियमे वा तात्पर्यं स्वीकार्यम् । अवान्तरतात्पर्यविषयीभूतार्थे व्यावहारिकप्रामाण्यनिर्वाहाय मुक्तत्वविशिष्टे भेदाभावः, यत्र त्वस्येत्युक्तमुक्त्यवस्था, ततः परमित्यादिनोक्तः भेदसामान्यानवच्छेदको ज्ञाननिवृत्त्य-वच्छेदकश्च कालः सर्वोऽपि बद्धपुरूषाज्ञानकल्पितो व्यवहारदशायामङ्गीकार्यः । उक्तञ्चा-द्वैतचन्द्रिकायां जडत्वहेतुनिरूपणे ‘बद्धपुरुषकल्पितस्य मुक्तिकालस्याभ्युपगमात्’ इति ।

इत्थञ्च यथा श्रुत्यवान्तरतात्पर्यविषयीभूतानिर्वचनीयत्वरूपमिथ्यात्वसत्यत्वकोटिक-विप्रतिपत्त्या त्वया अनिर्वचनीयत्वेनाभ्युपगते जगति आवयोस्तत्तत्साधनमुपपद्यते । तथा आवणध्वंसविशिष्टे तदवच्छेदककालावच्छिन्ने तदुत्तरकालावच्छिन्ने वोक्तरीत्या त्वन्मतेनापि सिद्धेरुक्तयुक्त्या भेदाभेदकोटिका विप्रतिपत्तिर्युक्तैव । परन्तु विप्रतिपत्तिविशेष्यीभूतं विशिष्टं वस्तु भवतोऽनिर्वचनीयं मम भास्करस्य वा सत्यम् । तत्र भेदसाधनमात्रेणास्मदिष्टसिद्धिः । सोपपत्तिकभेदश्रुतिविरोधेन तन्निषेधकश्रुतीनां मन्मतरीत्या मिथ्यात्वश्रुतीनामिवार्थान्तरपरत्वे द्वारीभूतबोधासिद्ध्या त्वदभिमतनिष्कृष्टार्थस्याप्यसिद्ध्या त्वत्पराजयोऽपि जात इति चैतन्ये भेदोऽभ्युपेयते । किञ्चिद्विशिष्टे मया भेदोऽभ्युपगम्यत इति त्वत्प्रलापस्य क्वोपयोगः ।

यद्वा अस्तु भवदभ्युपगमो यथा तथा । तथापि उक्तश्रुतिविगानेन सन्देहे त्वन्मत-च्छायामात्रानुसरणेन च भेदकोटिनिषेधकतया च शङ्कायां प्राप्तायां भेदनिषेधकश्रुतीनां पराभिमतवाक्यार्थविघटनद्वारा शिष्याणां तत्वनिर्णयाय सामान्यतस्तद्वाक्यस्थनञर्थप्रतियोगि-समर्पकपदघटितन्यायप्रयोगः कृतः । इत्थञ्च यथाश्रुतश्रुत्यनुरोधेन विप्रतिपत्तौ यथाश्रुतपरमेव विमतो भिन्न इति न्यायवाक्यम् । श्रुतीनां त्वदभिमतनिष्कृष्टार्थादरे तु सोऽर्थो यद्युक्त-नियमरूपः, नियमस्य लोकरीत्या सिद्धत्वेऽपि आत्मसाक्षात्कारात्माज्ञाननिवृत्त्योः कार्यकारणभावबोधकश्रुतीनामिव लौकिकार्थस्यैवानुवादकत्वसम्भवात् । असिद्धत्वे तद्बोधायैव प्रवृत्तिसम्भवात् । तदा तत्वज्ञानाधिकरणक्षणः स्ववृत्ति यत्तत्वज्ञानं तत्समान-विषयकतत्समानाधिकरणाज्ञानतत्प्रयुक्तदृश्याधिकरणकालपूर्वत्वाभाववान्न वेत्येव विप्रतिपत्तौ तद्भावकोटिसाधकानुमाने मूलवाक्यस्य तात्पर्यमस्तु । उभयथाऽपि न भवतः सिद्ध-साधनताया अवकाशः ।

न च भावरूपाज्ञानस्य त्वन्मतेऽप्रसिद्ध्या अभावकोट्यप्रसिद्धिः । प्रकृतेरेवाज्ञानत्वेन त्वया परिभाषितत्वान्न तदसिद्धिरित्युच्यते । तदापि तस्य स्वविषयकताया भवताऽनङ्गीकृत-त्वाद्भावकोट्यप्रसिद्धिरेवेति वाच्यम् । नैयायिकादीन्प्रति विप्रतिपत्तिवेलायां प्रतियोग्यप्रसिद्ध्या अभावरूपत्वदभिमतकोट्यप्रसिद्धिपरिहाराय मां प्रति सिद्धसाधनतापरिहाराय च तत्वज्ञानस्य साक्षात्स्वविरोधितत्प्रयुक्तदृश्याधिकरणकालपूर्वत्वाभावनियमः स्वीकार्यः । विरोधित्वं स्वजन्य-नाशप्रतियोगित्वम् । तच्च प्रागभावस्य प्रतियोगिनाश्यत्वमते प्रागभावे १प्रसिद्धमित्यादिरीत्या कथञ्चिन्निर्वाह्यम् । तथा च सुलभैव मम भावकोटिप्रसिद्धिः ।

यद्वा २आत्मसाक्षात्कारत्वावच्छेदेन भेदत्वेन वा दृश्यत्वेन वा भेदं निवेश्य तदधि-करणकालपूर्ववृत्तित्वकोटिका सामानाधिकरण्येन तदभावकोटिका विप्रतिपत्तिः । तत्र भावकोटिस्तत्ववादिनाम् । अभावकोटिर्मायावादिनाम् । कस्मिंश्चित्साक्षात्कारे तत्सिद्धि-मात्रेण तदभिमतार्थसिद्धेः । हेतुवाक्यस्यापि दुःखरूपबन्धध्वंसाधिकरणकालवृत्तित्वस्य वा ध्वंसाधिकरणकालवृत्तित्वस्य वा स्वध्वंसाधिकरणकालवृत्तित्वसम्बन्धेन स्वाधिकरणकाल-वृत्तित्वसम्बन्धेन वा बन्धस्य ध्वंसस्य वा हेतुत्वे तात्पर्यम् । तत्वज्ञानस्य सर्वदृश्योच्छेद-रूपतया तत्वज्ञानक्षणमादाय चरमसाक्षात्कारे अन्यत्र दुःखान्तरध्वंसमादाय पक्षतावच्छेदका-वच्छेदेन हेतुरनपवादः ।

यदि च चरमतत्वज्ञानस्य स्वातिरिक्तसर्वदृश्योच्छेदरूपत्वं तद्द्वितीयक्षणस्य तदवच्छिन्नस्य स्वस्य (तत्वज्ञानस्य) वा तत्वज्ञानध्वंसत्वमिति मतेन तत्वज्ञानस्य क्षणद्वयवृत्तित्वमास्थीयते तदा दृश्यत्वेन भेदनिवेशघटितसाध्यस्य तत्वज्ञानद्वितीयक्षणवृत्ति तदेवोपादाय सिद्धसाधनता-परिहाराय स्वाधिकरणकालपूर्ववृत्तितत्वज्ञानाधिकरणक्षणसामान्यकत्वसम्बन्धेन दृश्यं दृश्याधि-करणक्षणपूर्वक्षणवृत्तित्वं वा साध्यम् ।

यदि च अवच्छेदकावच्छेदेन साध्यसिद्धावप्यंशतः सिद्धसाधनता दोष एव । अन्यथा यथाश्रुतरीतौ आत्मत्वावच्छेदेन मुक्तत्वावच्छेदेन वा साध्यासिद्ध्या निगडमुक्तत्वादिकमादाय सिद्धसाधनतावारणसम्भवे संसारान्मुक्तपर्यन्तं पक्षतानुसरणं व्यर्थं स्यात् । तथा च निष्कृष्ट-कल्पेऽपि तन्मतानुसरणमेवोचितम् । इत्थञ्चात्मसाक्षात्कारस्य तत्त्वेनैव निविष्टत्वात् पक्षकोटिनिविष्टैतत्कालिकात्मप्रत्यक्षमादाय सिद्धसाधनतेत्युच्यते तदा स्वसमानाधिकरण-दुःखप्रागभावासमानकालीनसाक्षात्कारत्वेन वा स्वोपादानभूतमनः परिणामप्रागभावकालिकं यद्यत् तत्तद्भेदवत्साक्षात्कारत्वेन वा चरमसाक्षात्कारस्यैव पक्षत्वान्न सिद्धसाधनतादेरवकाशः ।

अत्र पूर्वकल्पे एतत्कल्पे वा बहुजीववादेन सिद्धसाधनतावारणाय स्वसामानाधिकरण्यं दृश्ये भेदे वा निवेश्य परिष्कार्यम् । स्वसमानाधिकरण्यञ्च स्वसाक्षिनिष्ठत्वम् । अतः सिद्धान्ते आत्मनिष्ठभेदादेः साक्षात्काराश्रयमनस्यवृत्तित्वेऽपि न क्षतिः ।

एतेन ‘आत्मसाक्षात्कारस्यानवच्छिन्नात्मनिष्ठविषयताकत्वेन पक्षत्वे तत्ववादिना तादृशज्ञानानभ्युपगमात्पक्षासिद्धिः । ‘दृष्ट्वैव तं मुच्यते’ इत्यादिश्रुतितात्पर्यविषयज्ञानत्वेन पक्षत्वे तत्ववादिमते अपरोक्षज्ञानानन्तरमपि भगवत्प्रसादविलम्बेन मुक्तिविलम्बात्संसार-कालीनतादृशज्ञाने उक्तसाध्यसत्त्वेऽपि मुक्तौ कालस्य भेदस्याप्यसिद्ध्या स्वपक्षासिद्धिः’ इति परास्तम् । मुक्त्यव्यवहितप्राक्क्षणवृत्तीनामेव पक्षत्वात् । संसारकालीनस्वरूपज्ञानवारणाय जन्यत्वमात्रमुपादेयम् ।

यदि चोक्तश्रुतीनां तदनुग्राहकयुक्तीनाञ्चोक्तनियमपरत्वमपि नाङ्गीकुरुषे तर्हि भवान् तासां यादृशार्थे तात्पर्यं यत्प्रयोजनकत्वं मनुतेऽस्मदीयन्यायस्यापि तद्विरोध्यर्थसाधनं १तद्विरोधि-प्रयोजनकत्वञ्चानुमतमिति न कथञ्चिदपि सिद्धसाधनतादेरवकाश इति दिक् ।

केचित्तु ‘यदि स्वाभ्युपगमेनैव वैयात्यात्सिद्धसाधनतां ब्रवीषि तर्हि त्वन्मते तस्या अपि मिथ्यात्वात्तदभावो वर्तत इति सन्तोष्टव्यम् । न च प्रतियोगिव्यधिकरणसिद्धसाधनत्वा-भावोऽपेक्षित इति वाच्यम् । तस्यापि मन्दारोपितस्य सत्त्वात् । न च तत्र व्यावहारिकत्वं प्रातिभासिकान्यत्वं वाऽपेक्षितमिति वाच्यम् । तस्यापि मन्दबुद्धिकल्पितस्य सत्त्वात्’ इत्याहुः ।

वस्तुतस्तु यथा परमते शुक्तिरूप्यादावनिर्वचनीयत्वसिद्ध्यनन्तरमेव विमतं मिथ्येत्यनु-मानस्य प्रवृत्तिः । ग्रन्थे प्रथमतस्तदनुक्तिपूर्वमेतदनुमानोक्तिस्तु तदसङ्गतत्वभ्रमनिरासायै-तदनुमानसङ्गतत्वप्रदर्शनार्थम् । तथैवैतदनुमानस्याप्यनिर्वचनीयपदार्थस्य जगदनिर्वचनीयत्वस्य च निराकरणोत्तरं मुक्तभेदमात्रे उक्तरीत्या विप्रतिपत्त्या प्रवृत्तिः । उत्तरत्र शिष्यान् प्रति तदपि बोधयितुं कथञ्चिदेतदनुमानसङ्गतत्वेनासङ्गतिशङ्कापरिहाराय ग्रन्थः प्रवृत्तः । परोऽपि स्वग्रन्थेऽनिर्वचनीयसिद्ध्युपसंहारे वक्ष्यति ‘एवमनिर्वचनीये सिद्धे सिद्धसाधनम्’ इति । ततश्चानिर्वचनीयवादिरीत्या चिन्मात्रे भेदमादाय न सिद्धसाधनतावकाशः । तर्ह्यात्ममात्र-पक्षीकरणेऽपि व्यावहारिकभेदेन परेण सिद्धसाधनोद्भावनस्य कर्तुमशक्यत्वात्पूर्वोक्तासङ्गतिरिति न शङ्क्यम् । तथात्वेऽपि मुक्ते भेदे विवादे आत्ममात्रे भेदसाधनस्यानाकाङ्क्षिताभिधान-रूपासङ्गतेः । सिद्धसाधनतापि सिद्धान्ते तन्मुखेनैव दोष इति युक्तमुत्पश्यामः ।

केचित्तु ‘विनश्यदवस्थापन्नबन्धाधिकरणक्षणावच्छिन्नात्मन्यद्वैतवादिनां चरमक्षणत्वेन योऽभिमतस्तदवच्छिन्नात्मपर्यवसिते स्वाधिकरणकालप्रागभावाधिकरणक्षणावच्छिन्नत्वविशिष्ट-विशेषणतासम्बन्धेन भेदः साध्यतयाभिमतः । उक्तानुमानं मुक्तौ कालं भेदञ्च विना न पर्यवस्यतीति कालभेदोभयसिद्धिः’ इत्याहुः ।

तच्चिन्त्यम् । औतवाद्यभिमतचरमक्षणस्यैव स्वाभिमतचरमक्षणत्वे मानाभावादद्वैतवादिनां यदीदानीन्तनक्षण एव चरमत्वेन ग्रहविषयस्तदा तदवच्छिन्ने उक्तसम्बन्धेन साध्यसिद्धावपि स्वमते मुक्तौ भेदासिद्धिः । न चेष्टापत्तिः । एतत्कथाया वादरूपत्वस्योक्तत्वेन तत्वनिर्णया-भावे तद्रूपत्वासिद्ध्येष्टापत्तेरयोगात् । अन्यथा वितण्डात्वापत्तेः ।

किञ्चाद्वैतवादिनापि बद्धपुरुषकल्पितस्योक्तसाध्यस्योक्तपक्षेऽङ्गीकारात्सिद्धसाधनस्या-परिहारश्च । यथाश्रुतार्थदशायामेवोक्तपक्षानुसरणे ‘संसारान्मुक्तो विवक्ष्यते’ इति टीकाविरोधो मुक्तत्वहेतोः कण्ठत एव मूलोक्तस्य यथाश्रुत एव परित्यागश्च स्फुटः । तस्माद्विमतपदोपरि भारेणैवास्मदुक्तरीत्या सिद्धसाधनता परिहरणीया । किं सिद्धान्तानभिमतोक्तसम्बन्धघटित-साध्यादरेणेत्यलम् ।

केचित्तु ‘अज्ञानरूपबन्धध्वंसरूपमुक्तत्वमेवोपलक्षणविधया पक्षतावच्छेदकम् । यथा विशेषणविधयोद्देश्यतावच्छेदकत्वे उद्देश्यतावच्छेदकविधेययोः समानकालिकत्वं भासते तथोपलक्षणविधयाऽवच्छेदकत्वस्थले उद्देश्यतावच्छेदकोत्तरकालिकत्वं विधेये भासत इत्यभ्युपगम्यते । न च समानकालिकत्वाभानमात्रेण विशिष्टोपलक्षितस्थलयोर्वैलक्षण्यसम्भवा-त्तद्भानमप्रामाणिकमिति वाच्यम् । उपलक्षितस्थले भासमानोत्तरकालिकत्वाभानमात्रेण विशेषणतया भानस्थले वैलक्षण्यसम्भवे तत्र समानकालिकत्वभाने मानाभाव इति युक्तेस्तौल्यात् । न च तत्रावच्छेद्यावच्छेदकभावो भासत इति वाच्यम् । समान-कालिकत्वातिरिक्तावच्छेद्यावच्छेदकभावे मानाभावात् । न चोपलक्षितस्थले धर्मिता-वच्छेदकोत्तरकालिकत्वभाने भाविरक्तरूपविवक्षया रक्तोपलक्षितघटबोधतात्पर्येण रक्तो घटस्तिष्ठति इतीदानीन्तनवाक्यजज्ञानस्याप्रमात्वापत्तिः । इष्टापत्तेः । उक्तञ्च त्वदीयैरेव

निवृत्तिरात्मा मोहस्य ज्ञानत्वेनोपलक्षितः’ ।

इति वार्तिकविवरणावसरे भाविज्ञानमुपादायाऽत्मन इदानीं अज्ञाननिवृत्तिव्यवहारवारणाय ‘स्वपूर्वकाले स्वस्योपलक्षणत्वं नास्त्येव । न हि पाककरणपूर्वकाले तस्योपलक्षणत्वतात्पर्येण पाचक इति प्रयोगः’ इति । यदि तादृशोऽपि प्रयोगः प्रामाणिकस्तदा समानकालिकत्वोत्तर-कालिकत्वयोरभानमात्रमिति वा तत्र तत्प्रागभावकालीनत्वरूपमुपलक्षणत्वं वा भासत इत्यभ्युपेयम् ।

नियामकविशेषस्तु शब्दस्थले तथा तथा तात्पर्यग्रहरूपः । अन्यत्र बाधाद्यभाव-परामर्शेन्द्रियसन्निकर्षादिरूपः । तथा चोक्तपक्षतावच्छेदकोपलक्षिते भेदावगाहिन्यामनुमितौ मुक्त्युत्तरकालिकत्वं भेदे भासते । अतो न सिद्धसाधनताऽवकाशः । न च तत्र पूर्वकालिकत्वमेव कुतो न भासत इति वाच्यम् । शक्यार्थबाधग्रहोत्तरमेव लक्षणाप्रतिसन्धान-स्येवानुभवबलेन सर्वत्रोत्तरकालिकत्वघटितोपलक्षणत्वबाधनिर्णयोत्तरमेव पूर्वकालिकत्व-घटितोपलक्षणत्वं भासते । प्रकृते च बाधाभावात्पूर्वकालिकत्वं न भासते । किन्तूत्तर-कालिकत्वमेव भासते’ इत्याहुः ।

यच्च ‘प्रमाणानां पारमार्थिकसत्तावगाहित्वस्वाभाव्याद्भेदे पारमार्थिकत्वं भासते । अतो न सिद्धसाधनत्वमनुमानस्य’ इति तत्तु आत्मत्वाद्यवच्छिन्नपक्षपरित्यागे बीजाभावप्रसङ्गा-च्चिन्त्यमिति ।

नापि तत्वज्ञानस्येत्यादिभवदुक्तनियमोऽप्युपपन्नः । तथा हि, किं शुक्तिज्ञानादि-साधारणरूपेणायं नियमः किं वोक्तश्रुत्यादिकमवलम्ब्यात्मतत्वज्ञानमात्रस्य । नाद्यः । किमिदं तत्वज्ञानत्वं प्रमात्वमिति चेत् तदेव निर्वाच्यम् । तद्वति तदवगाहित्वं तदिति चेत् ‘इदं रजतम्’ इत्यादिज्ञानानामपि तादात्म्यसम्बन्धेन रजतादिमत्स्वेव रजताद्यवगाहित्वा-त्प्रमात्वापत्त्या तत्र व्याप्यसत्त्वेन स्वसमानविषयकाज्ञानरूपव्यापकाप्रसिद्ध्या व्यभिचारात् । निष्प्रकारकात्मज्ञानासङ्ग्रहश्च । नाप्यबाधितार्थविषयकत्वम् । किञ्चित्कालाबाधितार्थ-विषयकत्वस्य शुक्तिरूप्यादिज्ञानसाधारण्यात् । सर्वथाप्यबाधितार्थविषयकत्वस्य शुक्ति-ज्ञानेप्यभावात् । न च व्यवहारकालाबाध्यार्थावगाहित्वं ब्रह्मज्ञानेतराबाध्यत्वपर्यवसितम् । तत् सर्वथाऽबाध्यस्यात्मनो व्यवहारकालाबाध्यत्वमपि वर्तत इति न तज्ज्ञानासङ्ग्रह इति वाच्यम् । देहात्मतादात्म्यस्य ब्रह्मसाक्षात्कारपूर्वमसञ्जातबाधभ्रमविषयस्यापि पदार्थस्य तथात्वापत्त्या तद्भ्रमे व्यभिचारात् ।

नापि तूलाज्ञानाजन्यविषयत्वं तत् । तूलाज्ञानत्वं यदि ब्रह्मज्ञानेतरबाध्यत्वं पूर्वोक्तपदार्थभ्रमजनकाज्ञानानामपि १तथात्वापत्त्या तज्जन्यपदार्थावगाहिभ्रमेऽपि प्रमात्वापत्त्या तत्राज्ञाननिवर्तकत्वापातेन व्यभिचारात् । तूलाज्ञानत्वमविद्यात्वव्याप्यजातिरिति चेत् अविद्यात्वजातावेव मानाभावेन तद्व्याप्यजातौ सुतरां मानाभावात् । तूलाज्ञाननिष्ठस्य वैजात्यस्याङ्गीकारेऽपि इदं रजतमिति भ्रमोत्तरं यत्र नेदं रजतमिति बाधो जातः पुनर्द्वितीयदिवसे इदं रजतमिति भ्रमो जायते तत्र प्रथमदिवसोत्पन्नबाधप्रमायां व्यभिचारः । द्वितीयदिवसे जायमानभ्रमानुरोधेन तत्राज्ञानान्तरस्यावश्यकत्वात्तस्य स्वसमानविषयकत्वा-त्स्वसामानाधिकरण्याच्च । एवं स्वाप्नभ्रमोत्तरात्मप्रबोधे द्वितीयदिवसीयस्वप्नभ्रमजनकस्वसमान-विषयकस्वसमानाधिकरणाज्ञानकालेऽपि१ वर्तमाने व्यभिचारश्च । न हि पूर्वोत्तरदिवसीय-स्वाप्नभ्रमजनकाज्ञानानां विषयवैलक्षण्यमस्ति । मानाभावात् । दुर्निरूपत्वाच्च । किञ्च स्वप्ने दत्तमौक्तिकादीनां कदाचित्प्रबोधानन्तरमप्युपलभ्यमानत्वेनोक्तनियमे व्यभिचारः । न च तेषां न स्वप्नहेत्वज्ञानप्रयुक्तत्वम् । किन्तु मूलाज्ञानप्रयुक्तत्वमेवेति वाच्यम् । बाह्यसामग्रीनैरपेक्ष्येण जातानां मूलाज्ञानहेतुकत्वे मानाभावात् ।

किं चाज्ञानस्य ज्ञानसमानविषयकत्वं यदि ज्ञानविषयविषयकत्वं तदा ज्ञानं वृत्तिर्वा तत्प्रतिबिम्बितचैतन्यं वा । नाद्यः । एतत्पक्षे विषयता किमाकाराख्या गौणी उत तादात्म्य-रूपा मुख्या । नाद्यः । शुक्तित्वादिप्रकारकसाक्षात्कारीयाऽकाराख्यगौणविषयतायाः शुक्त्या-दावेव सत्त्वेन तदवच्छिन्नचिद्विषयकाज्ञानीयाकाराख्यविषयतायास्तत्रासत्त्वेन तयोः समान-विषयकत्वानुपपत्तेः । न द्वितीयः । वृत्तितादात्म्यस्य शुक्त्यवच्छिन्नचित्यनङ्गीकारेण तद्दोष-तादवस्थ्यात् । नापि वृत्तिप्रतिबिम्बितचिदादिरूपा । तदीयतादात्म्यरूपविषयतायाश्चित्य-भावेन चिद्विषयकाज्ञानस्य तत्समानविषयकत्वायोगात् । अथ समानविषयकत्वं स्वप्रकारता-विशिष्टा याऽवच्छेदकता तन्निरूपितावच्छेदकताकविषयताकत्वम् । अवच्छेदकतायां प्रकार-तावैशिष्ट्यं च स्वसामानाधिकरण्यस्वसजातीयत्वोभयसम्बन्धेन । साजात्यं च स्ववृत्त्यवच्छिन्न-

त्वानवच्छिन्नत्वान्यतररूपेण । एवं च शुक्तित्वप्रकारकज्ञानीयशुक्तित्वनिष्ठप्रकारतायाः शुक्ति-निष्ठचैतन्यवृत्त्यज्ञानविषयतावच्छेदकतानिरूपितशुक्तित्वनिष्ठावच्छेदकतायामुभयसम्बन्धेन सत्त्वाच्छुक्तित्वविशिष्टावच्छिन्नचिन्निष्ठविषयताकाज्ञानशुक्तिज्ञानयोः समानविषयकत्वमिति चेत् तर्हि ब्रह्मज्ञानस्य निष्प्रकारकत्वेन चिन्निष्ठमूलाज्ञानसम्बन्धस्यानवच्छिन्नत्वेन च तत्र व्यापका-प्रसिद्ध्या व्यभिचारः। व्याप्यकोटौ सप्रकारत्वनिवेशे ब्रह्मज्ञानस्य सोयं देवदत्त इत्यादि- वाक्यजन्यबोधानां चासङ्ग्रहः। पर्वतस्तेजस्वीति ज्ञानस्य वह्नित्वविशिष्टवह्निमत्पर्वतरूपविशिष्ट- विषयावच्छिन्नचिद्विषयकाज्ञानस्योक्तसमानविषयकत्वापत्त्या निवर्त्यनिवर्तकभावप्रसङ्गः ।

किञ्चाभानापादकाज्ञानस्य विषयावच्छिन्नचिदाश्रितस्य प्रमात्राश्रितज्ञानसामानाधि-करण्यानुपपत्तिः । चक्षुरादिना बहिर्निर्गतान्तःकरणवृत्तेर्विषयावच्छिन्नचिदाश्रितत्वमङ्गीकृत्य सामानाधिकरण्यं यदि ब्रूषे तदा चैत्रीयाज्ञानस्य मैत्रज्ञानसामानाधिकरण्यापत्त्या तन्निवेशस्या- व्यावर्तकता । अज्ञानस्य चैत्रादिनिरूपितत्वं स्वीकृत्य सामानाधिकरण्यस्थाने स्वाश्रय-निरूपितत्वं निवेश्यते तदा १प्रमातृगताज्ञानसामानाधिकरण्येनैवोपपत्त्या निष्प्रामाणिकस्य प्रमातृनिरूपितत्वस्याभावेन तस्य निवृत्त्यसिद्धिः । तत्र नियमान्तरस्वीकारेऽपि एकस्यैव पुरुषस्य सजातीय बहुभ्रमजनकनानाऽज्ञानस्थले पूर्वोक्तदोषो दुर्वारः ।

एतेन ‘ज्ञानाज्ञानयोराकाराख्यविषयतैकैव । जडेऽपि सा स्वीक्रियते । तथा च स्वनिरूपितविषयतानिरूपकत्वमेव समानविषयकत्वम्’ इत्यपि परास्तम् । उक्तव्यभिचारस्य दुर्वारत्वात् ।

यत्तु ‘तत्तज्ज्ञानानां तत्तदज्ञाननाशकत्वोपगमात् तत्वज्ञानानां स्वनिवर्त्यत्वमज्ञाने निवेश्य पूर्वोक्तनियमाभ्युपगमान्न कुत्रापि व्यभिचारः’ इति । तदसत् । स्वसामानाधिकरण्य-स्वसमानविषयकत्वयोर्वैयर्थ्यापत्तेः । किञ्च दृश्येषु अज्ञानप्रयुक्तत्वं कीदृशं नियमे निविष्टम् । तदुपादानकत्वं वा साक्षात्तज्जन्यत्वं वा साक्षात्परम्परासाधारणजन्यत्वं वा स्वरूपसम्बन्ध-विशेषात्मकं वा । नाद्यः । अनादिदृश्यानां कालरूपाविद्याचित्सम्बन्धजीवब्रह्मविभागादीनां मुक्तावभावस्योक्तनियमबलादसिद्धेः । अत एव न द्वितीयः । आत्मापरोक्षानन्तरमाविद्यक-पदार्थविलयेन संस्कारोपादानकपदार्थानामभ्युपगमात्तमादाय मुक्तौ दृश्यसामान्योच्छेदा-सिद्ध्या पक्षद्वयेऽप्युक्तनियमाङ्गीकारवैयर्थ्यस्य दुर्वारत्वाच्च । द्वितीयपक्षे ज्ञायमानस्य लिङ्गस्यानुमितिकारणतामते चैत्रीयशुक्त्यज्ञानलिङ्गकमैत्रीयानुमितेश्चैत्रीयशुक्तिसाक्षात्कारोत्तर-मपि सत्त्वाद्व्यभिचारश्च । न तृतीयः । पूर्वोक्तदोषानिस्तारात् । सर्पभ्रमोत्थभयादीनां परम्परया रज्ज्वज्ञानजन्यानां रज्जुसाक्षात्कारानन्तरमपि सत्त्वाद्व्यभिचाराच्च । नापि चतुर्थः । अनादिदृश्यानां साक्षाद्वा परम्परया वा जन्यत्वाभावेऽपि स्वरूपसम्बन्धरूपप्रयुक्त-त्वस्यानादिसाधारणस्य कथञ्चिदभ्युपगमेन तेषां सङ्ग्रहेऽपि तृतीयपक्षोक्तव्यभिचारस्य दुर्वार-त्वात् । भयादीनामपि ‘रज्ज्वज्ञानान्ममेदं सर्वमनिष्टमभूत्’ इति प्रतीतिसाक्षिकस्वरूप-सम्बन्धरूपप्रयुक्तत्वानपायात् । अविद्यासंस्कारोपादानकपदार्थेष्वविद्याप्रयुक्तत्वे मानाभावेन तदुच्छेदासिद्ध्यापत्तेश्च ।

यत्तु ‘अनादिदृश्यानामविद्याप्रयुक्तत्वमविद्यानाशाधीननाशप्रतियोगित्वम् । उक्तभयादीनां तन्नास्तीति न व्यभिचारः’ इति । तत्तुच्छम् । शुद्धाद्वैतपक्षस्यैवेदानीमादृततया तत्राविद्या-नाशादनादिदृश्यनाशोपगमे नाशस्य नाशानभ्युपगमेऽद्वैतहानिः । आत्मनस्तद्रूपत्वकल्पनेऽपि तत्र कल्पितनाशत्वानुच्छेदे स एव दोषः । नाशस्य नाशान्तरकल्पनेऽप्रामाणिकनाश-धाराकल्पनायामनवस्था । ‘आद्यक्षणावच्छिन्नतत्वज्ञानस्याज्ञाननाशत्वं द्वितीयक्षणावच्छिन्नस्य तस्यैव साद्यनादिसाधारणसर्वदृश्योच्छेदत्वेन जन्यत्वमित्यङ्गीकारस्य तत्त्वज्ञानस्याज्ञाना-नाशकत्वप्रसङ्केन हेयत्वम्’ इति स्वयमेवाभिधायोक्तनियमतात्पर्यकत्वस्य श्रुत्यादीनामादृततया तत्रानादिदृश्यनाशेष्वज्ञाननाशकारणत्वप्रक्रियाया एव त्यक्तत्वात्तादृशनियमशरीरेऽज्ञाननाश-प्रयुक्तनाशप्रतियोगित्वरूपप्रयुक्तत्वस्य निवेशयितुमशक्यत्वात् । तस्माल्लोकरीत्यैवात्र नियम इति न युज्यते ।

नाप्यात्मसाक्षात्कारस्थल एव श्रुत्यादिबलात् नियम इति प्राग्विकल्पितद्वितीयपक्षः साधुः । अत्राप्यविद्यासंस्काराङ्गीकारपक्षेण नियमवैयर्थ्यदोषस्य दुर्वारत्वात् ।

अपि चायं नियमो नानाज्ञानभेदेन जीवनानात्वपक्ष एव वाच्यः । एकाज्ञानैकजीवपक्षे आत्मसाक्षात्कारक्षणस्य क्षणपूर्वत्वाभावमात्रस्वीकारेण सामञ्जस्ये नियमस्य तत्र व्यभिचार-वारकाणां स्वसमानाधिकरणेत्यादिविशेषणानां च वैयर्थ्यात् । एवञ्च नानाज्ञानपक्षे नाना-जीवानामेव जगदुपादानतया शुकस्य तत्वसाक्षात्कारेण स्वाज्ञानपरिकल्पितनिखिल-जगत्सम्बन्धाभावसिद्धावपि मैत्रादिपरिकल्पितकालादिसम्बन्धशरीरादिसम्बन्धानां प्रपञ्च-स्येश्वरमायाकल्पितत्वपक्षे तत्कल्पितानाञ्च तत्रानपगमात्कथं तत्र मुक्तिसिद्धिरुक्तनियमेन । स्वाविद्यैव स्वस्य किञ्चित्सम्बन्धं सम्पादयति । तदपगमे तु केनापि स्वस्य सम्बन्धा-भावान्मुक्तत्वं घटत इत्युच्यते यदि तर्हि मुक्ते कथं भेदाङ्गीकारेण तव सिद्धसाधनो-द्भावनावकाशः । किञ्च लोकसाधारणे असाधारणे वा एकजीववादे बहुजीववादे वा सर्वेषु पक्षेषु तत्वसाक्षात्कारक्षणस्य दृश्याधिकरणक्षणपूर्वत्वाभावो नाम दृश्याधिकरणक्षण-वृत्तिध्वंसप्रतियोगित्वाभावो वा दृश्याधिकरणक्षणप्रागभावानधिकरणत्वं वा । आद्ये चरमक्षणस्य नित्यतया पर्यवसानम् । द्वितीयेऽपि क्षणान्तरानुत्पत्त्या पर्यवसानम् । न च तस्य नित्यत्वे तस्य क्षणत्वानुपपत्तिरिति वाच्यम् । त्वयापि चरमक्षणस्योत्तरत्र नाशानङ्गीकारेण तवापि तद्दोषतादवस्थ्यात् । तत्वज्ञानोत्तरं दृश्यानां ब्रह्मवत्कालासम्बद्धानामेव सत्तासम्भवे पक्षद्वयेऽपि मुक्तौ दृश्यमात्रोच्छेदासिद्धेश्चेत्यन्यत्र विस्तरः । तस्मादुक्तनियमेन मुक्तौ कालानभ्युपगमे व्याहतिपरिहारोऽसङ्गत एवेति ।

यदपि परेण प्रलपितं, ‘मुक्तिकालावच्छिन्नभेदसाधने उक्तरीत्या साध्याप्रसिद्धिः । पारमार्थिकभेदसाधनमप्यत एवायुक्तम् । स्वज्ञानाबाध्यभेदसाधने स्वपदेन पक्षोक्तौ साध्या-प्रसिद्धिः । पक्षीभूतशुद्धचिन्मात्रज्ञानाबाध्यभेदाप्रसिद्धेः । दृष्टान्तोक्तौ दृष्टान्तीभूतनिगडमुक्त-ज्ञानाबाध्यस्य व्यावहारिकभेदस्य मुक्तेऽङ्गीकृतत्वात्सिद्धसाधनमेव । मण्डनमते चरमदृश्य-ध्वंसस्य मुक्तिकालत्वसम्भवात्तस्य पक्षतावच्छेदकत्वेन तदवच्छिन्ने भेदसाधने न सिद्धसाधनम् इति तु न युक्तम् । तन्मतेऽनृतादिव्यावृत्तेरपि मुक्तिकाले सत्त्वात्सिद्धसाधनस्य दुर्वारत्वात्’ इति । तदेतदनुक्तोपालम्भनरूपत्वादश्रद्धेयमेव ।

न चैतेषां पक्षाणां सम्भावितत्वेन शङ्कनमित्यपि युक्तम् । उक्तसाध्यादरे आत्मत्वा-वच्छिन्नस्य पक्षत्वेऽपि सिद्धसाधनत्वप्रसक्त्यभावेन तत्पक्षोपेक्षणस्य निर्बीजत्वापातेन ‘भेदस्य पारमार्थिकत्वानौपाधिकत्वाभ्यामविशेषितत्वात्’ इति टीकावाक्येनान्योपलक्षणपरेणोक्त-कल्पानां ग्रन्थकृदनभिप्रेतत्वावगमात् ।

किञ्च स्वज्ञानाबाध्यभेदस्य साध्यतापक्षे यत्स्वशब्दार्थविकल्पेन दूषणमभिहितं तदयुक्तमेव । तथा हि, अनुगतरूपेण साध्यस्यानुपस्थापकत्वेन पक्षदृष्टान्तयोः साध्यबोधा-भावेन परामर्शद्वारा मध्यस्थानुमितेरनिर्वाहात्तादृशन्यायप्रयोगोऽसङ्गत इति भवतामभिप्रायः । उत तादृशन्यायप्रयोगस्थले अन्यत्र निर्वाहेऽपि प्रकृते सोऽसङ्गत इति । नाद्यः । तत्वज्ञानस्य स्वसमानाधिकरणेत्यादित्वदीयनियमबोधकवाक्यस्य एकमात्रोपस्थापकतापत्त्या सर्वस्थलीय-सर्वसाधारणव्याप्तिबोधकत्वा भावेनासङ्गतत्वापत्तेः । ‘स्वज्ञानाबाध्यदृश्यत्ववत्त्वात्’ इति त्वयैव दृश्यत्वहेतुपरिष्कारस्य कृतत्वेन तत्राप्येकव्यक्तेरेव स्वपदेनोपस्थापनात्तस्यैकव्यक्तावेव सत्त्वेन भागासिद्ध्यापत्त्या तस्याप्यसङ्गतत्वापत्तेश्च । स्वप्रागभावातिरिक्तेत्यादिन्यायप्रयोगस्य स्वान्यूनसत्ताकेत्यादि व्यवहारस्य त्वद्ग्रन्थेष्वेव बहुलमुपलम्भाच्च । न द्वितीयः । प्रकृत एव तद्वैषम्ये बीजाभावात् ।

अथ तत्रानुगतरूपावच्छिन्नसाध्यहेत्वादीनां बोधो मानसः न्यायवाक्याधीनशाब्द-बोधोत्तरकाले मध्यस्थस्य जायते । न्यायवाक्यस्यापि तत्रैव तात्पर्यमधिगच्छति । ततः परामर्शद्वारा मध्यस्थानुमितिनिर्वाहो जायत इति यदि ब्रवीषि तदा तद्वाक्यान्मध्यस्थ-परामर्शद्वाराऽनुमितिमध्यस्थसंशयोच्छेदादिकं सर्वं सम्पद्यत इत्यावयोः सम्मतम् । तदुपपत्ति-प्रकारस्तु भवताऽनुगतधर्मं विना व्यवहारानिर्वाहं वदतोक्तरीत्याऽनुगतधर्मस्फूर्त्या निरूपितः । अनुगतधर्मं विना सर्वनिर्वाहवादिना मया त्वन्यथैव निरूप्यते ।

तथा हि, यथा वह्नित्वस्यानुगतत्वे वह्नित्वेनैकवह्निज्ञानान्तरं सकलवह्न्यादिज्ञानद्वारा सकलधूमनिष्ठव्याप्त्यादिज्ञानद्वारा विशिष्टपरामर्शनिर्वाहस्तथा तदननुगमेऽपि तद्धर्माभिव्यङ्ग्य-विलक्षणसादृश्यज्ञानसहकृतेन्द्रियेण सकलवह्न्यादिज्ञानद्वारा विशिष्टपरामर्शनिर्वाहस्त्वाकरे दर्शित एव । यथा वह्निपदप्रवृत्तिनिमित्तं वह्नित्वं द्रव्यपदप्रवृत्तिनिमित्तं द्रव्यत्वं चैकस्मिन्वर्तते तेषां व्यक्त्यभेदेऽपि परस्परमसङ्कीर्णतापि सर्वत्र जात्यादीनां भेदाभेदवादिनां यथा भेदेनैव तथास्माकं क्वचिद्भेदेन क्वचिद्विशेषेणेत्यन्यदेतत् । तथा च वस्तुषु स्वशब्दप्रवृत्तिनिमित्तधर्माणां विलक्षणत्वात्तदभिव्यङ्ग्यसादृश्येन सकलसाध्यनिरूपितानां व्याप्तीनां प्रकृतहेतुषु ग्रहेण विशिष्टपरामर्शादिनिर्वाहे क्वानुपपत्तिः । परन्तु अनुगतधर्माऽग्रहवादिन एव स्वशब्दघटित-न्यायप्रयोक्त्रा श्रोत्रा च विविच्य वक्तुमशक्येऽप्रामाणिकसंसर्गताके नानापदार्थघटिते कस्मिंश्चित्पदार्थे संसर्गतां परिकल्प्य तद्घटितसाध्यतावच्छेदकादेः श्रोतुर्मानसबोधविषयकत्व-कल्पनं वक्तुस्तत्र तात्पर्यकल्पनमप्रामाणिकमनुभवविरुद्धं गुरु च । यथाश्रुतवाक्यबोध्य-धर्मज्ञानद्वारोक्तरीत्याऽनुमितिनिर्वाहप्रकार एव लघीयान् । अधिकमन्यत्रानुसन्धेयम् । एवं च स्वशब्दार्थघटितसाध्यहेत्वादिस्थले स्वार्थानुमिति परार्थानुमित्योरानुभाविकत्वेन तदुपपादन-प्रकारस्य पुरुषमतिवैचित्र्येण वैचित्र्येऽपि तादृशानुमानप्रयोगः सङ्गतः एव । परन्तूपपादनक्रमे सौष्ठवविचारः परमवशिष्यते । स चेदानीमनुपयुक्तः । विचारान्तरत्वापत्तेः । अन्यथा १भेदत्वमात्रस्य साध्यत्वेऽप्येतादृशदूषणसम्भवेन तत्र तदनुक्त्वा स्वत्वघटितसाध्य एव तदुक्तेस्तवासङ्गतत्वापातात् ।

अनुगतधर्माऽग्रहमात्रेण भवदुक्तस्वत्वविकल्पादेर्दूषणत्वे नैयायिकमीमांसकादीनां कथोच्छेदप्रसङ्गात् । नैयायिकेन पर्वतो वह्निमानित्युक्ते मीमांसकेनोच्यते । किं पर्वतवह्न्यादिपदानि जातिवाचीनि किं व्यक्तिवाचीनि । आद्ये बाधादिकमपसिद्धान्तश्च । द्वितीये तेषां मां प्रत्यबोधकत्वमिति । तत्रैतावदेव वक्तव्यम् । उक्तवाक्येन मध्यस्थानुमित्यादेरानुभाविकत्वेनोक्तदूषणमसङ्गतमिति । तत्सर्वं प्रकृतेप्यविशिष्टमेवेति ।

एतेन न्यायामृतोदाहृतस्वशब्दार्थघटितसाध्येषु त्वदाचार्याणां स्वशब्दार्थविकल्पपूर्वक-दूषणान्यसाधून्येव । अपि चान्यत्र यथा भवतानुगमः क्रियते तथा प्रकृतेऽपि शक्यते कर्तुम् । तथा हि, स्वविषयताशालिज्ञानबाध्यत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभाववत्त्व-स्ववृत्तित्वोभयसम्बन्धेन तादृशाभाववत्त्वविशिष्टाधेयतासम्बन्धेन वा किञ्चिद्विशिष्टभेदवत्त्वं साध्यम् । अतो नाप्रसिद्धविशेषणत्वसिद्धसाधनत्वादयः । तव मते अनुगतधर्मो नास्तीत्यस्य दत्तमुत्तरम् । पररीत्येत्यपि वक्तुं शक्यत्वाच्चेति सर्वं समञ्जसम् ।

यत्तु केचित्त्विति मतान्तरमुत्थाप्य निगडमुक्तिसाधारणमुक्तिकालावच्छिन्नभेदसाधने सिद्धसाधनता । परममुक्तिकालावच्छिन्नभेदस्त्वप्रसिद्ध इति दूषणेन मुक्तिकालावच्छिन्न-भेदसाधनदूषणं तदप्यनुक्तदूषणमेवेति नास्माकं काचित्क्षतिरित्यलम् ।

।। एवमर्थं विमतग्रहणमिति ।। अप्रसिद्धविशेषणत्वाद्यभावोऽत्रानुमाने वर्तते । अतो न तच्छङ्कयाऽत्रानुमानेऽप्रमाणत्वबुद्धिः कर्तव्येति शिष्यान् प्रति बोधनार्थमित्यर्थः । यदत्र केनचिदुक्तं ‘विमत इत्युक्तिमात्रेणोक्तशङ्कानिरासे विमतं मिथ्या दृश्यत्वाद्यदित्थं तत्तथा यथा सम्प्रतिपन्नमित्युक्तिमात्रेण सकलदोषोद्धारसम्भवात्तत्र तवाप्रसिद्धविशेषणत्वाद्युत्थापनासङ्गतिः’ इति । तद्भावानबोधात् । न हि अनेन वाक्येन विमतपदेन सर्वदोषनिरासो जायत इत्युच्यते । किं त्वेतादृशार्थस्य सूचकतया ग्रन्थकारैर्विमतपदं प्रयुज्यत इति । तत्र सूचितार्थस्य युक्तत्वे परीक्षकैरादरणीयता । अयुक्तत्वे तु नैव । एवं च विमतं मिथ्येत्यत्रापि भवदाचार्यैरुक्तभिप्रायेण प्राचां सम्प्रदायमनुरुद्ध्य विमतपदसम्प्रतिपन्नपदे प्रयुक्ते । तत्र यथायोग्यं मिथ्याशब्दार्थविकल्पेन सूचितस्यासाधुता निरूप्यते । तत्र भवदभिमता-निर्वचनीयत्वाभावकोटिग्रहणपूर्वकं भावकोटेरप्रसिद्धत्वोद्भावने अप्रामाणिकप्रतियोगिकाभाव-वादिनो मम न व्याहत्यादिकम् । सिद्धसाधनत्वादिकं न निष्कृष्टवाद्यभिमतसाध्ये प्रदर्श्यते । वादिनः सदसत्सामान्यभेदानुसरणबीजं शिष्यहितार्थं ग्रन्थे निबद्धम् । सत्यत्वग्राहकप्रमाण-प्राबल्यविवक्षया बाधाद्युद्भावनं सङ्गच्छते । अत एवोत्तरत्र मुक्ताभेदग्राहकप्रमाणादिप्राबल्य-विवक्षया प्रकृतानुमाने प्रमाणबाधशङ्कादिकं सङ्गच्छते । यत्र क्वचिन्निष्कृष्टसाध्य एव सिद्धसाधनाताद्युक्तिः सा विप्रतिपत्तिरेव नास्तीत्यभिप्रायिका । न तु विप्रतिपत्तिमङ्गीकृत्य सिद्धसाधनतापरा । न चेह प्रकृते सम्भवति । विप्रतिपत्तेर्निपुणतरमुपपादितत्वात् । ननु स्वमते स्वार्थानुमाने सिद्धिर्नानुमितिविरोधिनी । तथैव तर्कताण्डवोक्तेः । परार्थानुमाने पुनरनाकाङ्क्षिताभिधानरूपतयाऽसङ्गतौ सिद्धसाधनता पर्यवस्यति । तत्रापि विप्रत्ति-पत्तेरावश्यकत्वेन तत्र सिद्धसाधनतोद्भावनाभावे तस्य दोषतावार्तैवोच्छिद्येतेति चेन्मैवम् । सर्वत्र विप्रतिपत्तेरनावश्यकत्वेन वादकथादिषु यत्र परस्यासिद्धत्वाभिमानेन न्यायप्रयोगस्तत्र, विप्रतिपत्तिस्थलेऽपि प्रथमं साध्ये हेतुमभिधाय तत्र वादिनोऽसिद्धत्वभ्रमेण पुनस्तत्साधने तत्र च तदुद्भावनसार्थक्यसम्भवान्न कोऽपि दोषः ।। अन्यथा निगडमुक्त इत्यवक्ष्यदिति ।। ननु हेतोरपि स्वरूपासिध्द्यादिशङ्कापरिहाराय सम्प्रतिपन्नादिति कुतो नोच्यते । मैवम् । हेतुसाध्य-योर्विशेषरूपेण ग्रहणे तदाश्रयीभूतव्यक्तिः सुग्रहा । सम्प्रतिपन्नादित्युक्तौ न विशेषरूपेण हेतुः सुग्रह इति विशेषरूपेण तन्निर्देशस्यावश्यकत्वात् ।