न चैकनखनिकृन्तनविकारः..

उत तमादेशमित्यादीनां पराभिमतार्थखण्डनम्

श्रीमज्जयतीर्थटीका

अत्र येनाश्रुतं श्रुतं भवति, यथा सोम्यैकेन, वाचारम्भणं विकारः, सदेव सोम्येति चतुर्णां वाक्यानां पराभिप्रेतार्थमनादृत्यार्थान्तरमुक्तम् । न च तद्युक्तं निर्निबन्ध-नत्वादित्यतो यथा सोम्येत्यादिदृष्टान्तवाक्यानां तावत्पराभिमतार्थे बाधकमाह ।

मूलं

न चैकनखनिकृन्तनविकारः सर्वं कार्ष्णायसम् ।

यद्येते दृष्टान्ताः कार्यकारणभावविवक्षया स्युः । तदैकमृत्पिण्डादिशब्दा; व्यर्थाः स्युः एकमृत्पिण्डादिविकारत्वाभावात्सर्वमृन्मयादीनाम् । इदं तु सर्वथाऽनुपपन्नम् । ‘यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’ इति । मृत्पिण्डादेर्हि मृन्मयादिकं प्रति कारणत्वमात्रमस्त्येव । नखनिकृन्तनस्य तु स्वयमपि कार्यस्य कार्ष्णायसं प्र(ति तदपि)तीदमपि नास्ति । किमुतैकनखनिकृन्तनविकारः सर्वं कार्ष्णायसं न भवतीति । अतो ज्ञायते ‘नैते दृष्टान्ताः कार्यकारणत्वविवक्षया’ इति । सादृश्यं तु मृत्पिण्डादीनां मृण्मयादीनां चास्त्येवेत्यादिस्वार्थोपोद्बलकं च वक्तव्यम् ।

येनाश्रुतमित्येतत्प्राधान्यसादृश्याभ्यामित्येतत्कुत इति चेत् । लोकव्यपदेशानुगुण्यादि-त्याह ।

मूलं

प्रधानपुरुषज्ञानाद्ग्रामो ज्ञात इति व्यपदेशोऽस्ति ।

एवं सादृश्यादेकगोज्ञानाद्गवान्तरज्ञानमुदाहर्तव्यम् । मुख्यत एवैकविज्ञानेन सर्वविज्ञाने परोक्तरीत्या सम्भवति किमनेनामुख्येनेत्यत आह ।

मूलं

न हि सत्यज्ञानेन मिथ्याज्ञानं भवति ।

शुक्तिज्ञानेन रजतज्ञाननिवृत्तेरेव दर्शनादिति हिशब्दार्थः । एवं वाचारम्भणं सदेव सोम्येतिवाक्ययोरपि स्वपरविवक्षितानुगुण्यवैगुण्ये दर्शनीये । तथा नान्योऽतोऽस्ति द्रष्टेत्याद्यात्मैक्य(वाक्य)विचारोऽपि ग्रन्थान्तरानुसारेणात्र कर्तव्यः ।

ननु प्रपञ्चमिथ्यात्वाद्यागमानां प्रतीतार्थानुपपत्त्यादि वर्णितं प्राक् तत्किमनेनेति । सत्यम् । बाह्यानुपपत्तिमेव प्रदर्श्यान्यार्थकल्पना कार्येत्येव तत्रोक्तम् । अर्थान्तरव्याख्यान-मान्तरानुपपत्त्यादिप्रदर्शनं चात्र क्रियत इत्यदोषः । तत्प्रदर्शनार्थमेव शङ्कोत्थापनमिति । तदेवं प्रपञ्चमिथ्यात्वादेः कथमप्यसिद्धेः न मुक्तत्वानुमानस्यासिद्धिः, प्रमाणविरोधश्चेति स्थितम् ।

द्वैतद्युमणि:

।। व्यर्थाः स्युरिति ।। विरुद्धार्थाः निष्प्रयोजनकाश्च स्युरित्यर्थः । विरुद्धार्थकत्वमुपपादयति ।। एकेति ।। मृद एवोपादानत्वान्मृदा विज्ञातयेत्येतावता पूर्णत्वा-त्तत्रैकशब्दस्य विरुद्धार्थकत्वम् । सर्वमृन्मयादीनामेकमृत्कार्यत्वाभावात् । जातिविविक्षयै-कत्वस्य चैकवचनेनैव बोधितत्वादेकशब्दस्य वैयर्थ्यमेव । मन्मते चैकवचनेन जातिनिष्ठैकत्व-बोधनसम्भवात्तथात्वे च प्रकृतदृष्टान्तवैषम्यपरिहारायैकशब्दस्य सार्थक्यम् । पुनस्तत्प्रयो-गबलेनैव, ‘सिद्धे सत्यारम्भो नियमार्थः’ इति न्यायेनैव व्यक्त्यैक्यलाभात् । ‘पिण्ड’पदमपि भवत्पक्षे विरुद्धार्थकं व्यर्थं च । तस्य कार्यव्यक्तिवाचित्वेन सर्वमृण्मयानां तत्कार्यत्वाभावा-द्विरुद्धार्थकत्वम् । मृत्कार्यत्वेन मृदभेदस्यैवेदानीं बोध्यत्वेनाभिधित्सिततया पिण्डशब्द- वैयर्थ्यम् । आदिपदेन लोहमणिवाक्यस्थमणिपदस्य वाक्यत्रयस्थेतिशब्दानां नामधेयशब्दस्य च ग्रहणम् । ग्रन्थान्तरेषु तेषामपि वैयर्थ्यस्योक्तत्वात् । मणिशब्देन लोहकार्यविशेषस्यैव बोधितत्वात्तत्कार्यत्वस्य सर्वलोहकार्येष्वभावादुक्तरीत्या विगतार्थकत्वं विरुद्धार्थकत्वम् । अर्थप्रकरणपठितार्थविपर्यासकारीतिशब्दैर्मृदादिशब्दानामेव बोधितत्वेन भवदुक्तार्थे तस्यानु-पयोगो विरुद्धत्वञ्च । वाचारम्भणशब्देनैवोक्तस्य नामधेयशब्देन प्रतिपादनात्तत्रापि स्वार्थे धेयप्रत्ययस्याङ्गीकाराच्च वैयर्थ्यं चेत्यर्थः ।

एवं नखनिकृन्तनवाक्यस्य चरमत्वात्तस्यैव कण्ठत उपादानमन्यस्य तूपलक्षणया ग्रहणं मूलकृतोऽनुचितमित्याशङ्क्यानुपपन्नत्वांशे इतरेभ्य आधिक्यमेव तद्बीजमित्याशयेनाह ।। इदं त्विति ।। कारणत्वमात्रमिति ।। किञ्चिन्मृण्मयं प्रतीत्यर्थः । मात्रपदेन पराभिमत-सर्वमृण्मयकारणत्वव्यवच्छेदः ।। स्वयमपि कार्यस्येतिम् ।। अन्त्यावयविरूपस्येत्यर्थः । उपलक्षणमेतत् । उपादानोपादेयभावं विविक्षित्वोपादानव्यतिरेकेणोपादेयस्यासत्वबोधे तात्पर्ये, मृत्पिण्डलोहमणिवन्नखनिकृन्तनस्योपादानत्वेन सर्वकार्ष्णायसानामुपादेयत्वेन मृण्मयलोह-प्रसक्त्योत्तरत्र नखनिकृन्तनमेव सत्यमिति वक्तव्यं मृत्तिकेत्येव सत्यं लोहमणिरित्येव सत्यमितिवत् । कार्ष्णायसमित्येव सत्यमिति कार्यभूतकार्ष्णायससत्यत्वोक्तेरसङ्गतत्वं, एवकारेण तत्र कारणसत्यताव्यवच्छेदस्यैवेतराप्रसक्त्या वक्तव्यत्वेनात्यन्तं स्वाभिमतविरुद्धत्वं चेत्यपि द्रष्टव्यम् । कार्ष्णायसपदेनापि कृष्णायोविकारत्वान्नखनिकृन्तनमेवोच्यत इति वचनं सचेतसां चेतश्चमत्कारकारि । प्रकृतहानाप्रकृतग्रहणादेः स्फुटत्वात् । एतेन क्षीरस्य दध्युपादानत्ववन्नखनिकृन्तनस्यापि स्वशकलाद्युपादानत्वान्नखनिकृन्तनदृष्टान्तसङ्गतिरिति कस्यचित्प्रलापोऽप्यपास्तः । तावताऽप्युक्तासङ्गतेरपरिहारात् ।

वस्तुतो नखनिकृन्तननाशानन्तरमेव शकलोत्पत्तेर्नखनिकृन्तनस्य शकलोपादानत्व-मयुक्तमेव । क्षीरस्थले तु क्षीरव्यक्तेर्न नाशः । अपि तु क्षीरभावस्यैव निवृत्तेस्त-दैक्यानुभवात् । नखनिकृन्तनशकलानां तु नखनिकृन्तनस्य शकलं नखनिकृन्तनन्तु नष्टमिति भेदेनैव सर्वेषामबाधितानुभवात् । न च नखनिकृन्तनमेव शकलभावमापन्नमिति प्रतीति-रस्तीति वाच्यम् । ‘पटो भस्मीभूत’ इतिवत्तदवयवानां शकलात्मत्वावगाहित्वात् । अन्यथा कुण्डलं कटकमभूदिति प्रतीत्या कुण्डलस्यापि कटकोपादानत्वापत्तेः । न चेष्टापत्तिः । वाचस्पतिकारिकाव्याख्यावसरेऽद्वैतचन्द्रिकाकारेण कुण्डलरूपपरिणामविशेषस्य कटकोपादा-नत्वप्रयोजकतादात्म्यं निराकृत्य तादृशप्रतीतेः कुण्डलत्वोपलक्षितसुवर्णस्य कटकाभेदा-वगाहितायाः स्वीकृतत्वेन तद्विरोधापत्तेः । नखनिकृन्तनरूपधर्मिकाल एव यद्यत्किञ्चिच्छकलं निर्गतं तस्य तु नखनिकृन्तनाद्भिन्नत्वेन तदवयवत्वेन च प्रतीयमानस्य तदुपादानत्वं शङ्कितुमप्यशक्यमिति ।

यत्तु नखनिकृन्तनस्य विशेषणान्तरसम्बन्धाद्यानि विशिष्टान्तराणि जायन्ते तेषां विशेष्यमात्रोपादानकत्वात्तद्विविक्षयैवैतद्दृष्टान्तोपपत्तिरिति । तदप्यसमञ्जसम् । तादृ-शविकाराणां लौकिकैरुत्पत्तिमत्वेनानिश्चितत्वेन शास्त्रमात्रावगम्यत्वेन सिद्धवत्कृत्य दृष्टान्ततया ग्रहणानौचित्यात् । कृष्णायःपरिणामत्वबोधककार्ष्णायसपदेन तेषां ग्रहणस्यानुचितत्वाच्च । दृष्टान्तवाक्यत्रयेष्वपि सर्वपदसङ्कोचोऽपि स्फुटः । उपात्तैकव्यक्त्युपादानकमृण्मयादिपरत्वस्यैव मृन्मयादिपदानां वक्तव्यत्वेन तन्मात्रनिष्ठसर्वत्वस्यैव बोधनात् । मृन्मयसामान्यस्य भवन्मत एकव्यक्तिज्ञानमात्रेण ज्ञातत्वाभावेन बाधापत्तेः । तदर्थं मृन्मयादिपदानामपि तद्व्यक्तिकार्य-मृन्मयादिलक्षणाया आवश्यकतया तत्रापि वृथा मुख्यार्थत्यागापाताच्च ।

यत्तु मृत्तिकेत्यादिवाक्यस्थेतिशब्दानां प्रभृत्यर्थकत्वम् । मृत्तिकाप्रभृतिसत्यमित्यर्थोऽतो नेति शब्दानां वैयर्थ्यमिति । तदसत् । एकमृज्ज्ञानेनाखिलमृन्मयानां ज्ञानस्यैव पूर्वमुक्तत्वेन तदुपपादकवाक्ये मृत्तिकायाः सत्यत्वोपादनस्यैवाकांक्षितत्वेन तत्प्रभृतीनां सत्यत्वोप-पादनस्यानाकांक्षितत्वात् । सजातीयस्थलान्तरग्राहकत्वाय तदुपादाने प्रकृतवाक्येनैव लोहमण्यादिस्थलानामपि सङ्गृहीतत्वेनोत्तरवाक्ययोरेव वैयर्थ्यम् । न हि ‘चैत्रादीन् मोचय’ इत्युक्त्यनन्तरं विशेषकांक्षां विना पुनः ‘मैत्रादीन् भोजय’ ‘डित्थादीन् भोजय’ इति च वदन्ति । न च पुनःप्रकृतेषु वाक्योत्थापकविशेषाकांक्षाबीजमस्ति । येन पुनरत्राकांक्षा स्यात् । किञ्च इति शब्दस्य प्रभृत्यर्थकत्वमपि तादृशगणघटककतिपयनानापदार्थ-बोधकद्वित्रादिशब्दोत्तरपठितस्यैव ।

त इह व्रीहियवा ओषधिवनस्पतयस्तिला माषा इति जायन्ते’

इत्यादिषु स्थलेषु तथैव दर्शनात् । कुञ्जरसिंहादिशब्दानां श्रेष्ठवाचित्वस्य कोशादिसिद्धत्वेऽपि ‘राजकुञ्जरः’ ‘राजसिंहः’ इत्येव प्रयोगात्पदान्तरसमभिव्याहृतस्यैव तथात्वं न तु केवलस्य । ‘अयं कुञ्जरः’ इति श्रेष्ठमात्रतात्पर्येणाप्रयोगो यथा, तथा प्रकृतेऽपि चैत्रादय इत्यर्थतात्पर्येण ‘चैत्रे’त्यागत इत्यादिकस्य लौकिकस्य वैदिकस्य वा व्यवहारस्य कुत्राप्यदर्शनात् । इत्थञ्च केवलमृत्तिकादिशब्दोत्तरेतिशब्दस्य प्रभृत्यर्थकत्वमयुक्तमेव । किञ्च वाचैव केवलमारभ्यते नामैव केवलमित्यादिरीत्याऽर्थकथने स्फुटमश्रुतकल्पनम् ।

किञ्च विवर्तवादे मृत्पिण्डादिदृष्टान्तासङ्गतिस्तेषां परिणामित्वात् । न च मायोप-हितब्रह्मणः जगदात्मना परिणामस्यपि सत्वात्तदुक्तिर्युक्तैवेति वाच्यम् । ज्ञेयत्वेन प्रसक्तस्य शुद्धब्रह्मणः परिणामित्वाभावात् । तथात्वेऽपि वा परिणामित्वोक्तेर्मिथ्यात्वग्रहासम्पादकतया चोक्तासङ्गतितादवस्थ्यात् । अनाद्यविद्यादीनां ब्रह्मपरिणामत्वाभावेन तदुक्त्या ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वासिद्धेश्च ।

यत्तु अत्र गुर्वद्वैतचन्द्रिकायामुक्तं वाचारम्भणमित्यस्य वागालम्बनमित्यादिभाष्य-व्याख्याने—‘‘अयं भावः । येनाश्रुतं श्रुतमित्यादिसामानाधिकरण्यं बाधायाम् । अश्रुत-मन्यत्सर्वं यदभिन्नश्रुतव्यतिरेकेण नास्तीत्यर्थः । तथा चैकं सर्वाधिष्ठानमित्यर्थः प्रतिज्ञातो भवति । तत्र मृत्पिण्डव्यतिरेकेण तद्विकारो यथा नास्तीत्यादिदृष्टान्ताः यथा सोम्यैकेने-त्यादिना प्रतिपाद्यन्ते । मृत्पिण्डपदञ्च मुख्यार्थकैकपदप्रयोगाद्भूमिरूपपिण्डार्थकं पिण्डपदञ्च स्थौल्यविशेषबोधकं मृन्मयमात्रोपादनतायोग्यतालाभाय । मृन्मयपदञ्च भूमिविकार-मात्रार्थकम् । तथा च भूमिविकारः सर्वो यथा भूमिं विना नास्तीत्यर्थः । भूमिविकारत्वं च साक्षादेव वृक्षादेरक्षतमिति भूमेर्विभक्तपिण्डस्य नानाविकारानुपादानत्वेऽपि न क्षतिः ।

यद्यपि भूमिर्नाधिष्ठानं तथाऽप्यधिष्ठानावच्छेदकशुक्त्यादिव्यतिरेकेण रूप्यादि नास्तीति व्यवहारवत्, भूमिविकारादिस्वरूपविचारदशायामाधारतावच्छेदकव्यतिरेकेण तद्विकारो नास्तीति व्यवहारात् श्रुत्या तथोक्तम् । एवं च सर्वमृण्मयं एकमृत्पिण्डाभिन्न-विज्ञातस्वरूपमित्यपि बाधायां सामानाधिकरण्यं तत्र हेतुः ‘मृत्तिकेत्येव सत्यम्’ इति, मृत्तिका भूमिः, इति गृह्यमाणं यत्तदेव सत्यमिति, मृत्तिकास्वरूपस्य सत्यत्वाभावात्त-दवच्छिन्नसद्रूपस्य दृष्टान्तत्वधीदशायां मृदो विविच्याज्ञानाद्भूमित्वेन ज्ञायमानसद्रूपलाभार्थ-मितिशब्दः । ‘मनो ब्रह्मेति’ इत्यादौ ज्ञायमानस्येति शब्दार्थत्वात् । आद्यर्थको वेतिशब्दः ।

इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ ।

इत्यमरात् । तथा भूमिविकारस्य स्वरूपविचारदशायां साऽपि मिथ्या । तत्कारणानि पञ्चीकृतभूतान्येव सत्यानि । तेषामपि स्वरूपविचारदशायां तान्यपि मिथ्या तत्कारणमेव सत्यमित्याद्यर्थलाभः ।

नखनिकृन्तनपदं चायःसामान्यपरम् । लोहमणिपदं च सुवर्णार्थकम् । तयोर्विशेषणमेकपदं चैकजातीयार्थकम् । तदुपादानं चैकजातीयस्यैव सर्वत्र स्वविकारे उपादानत्वसम्भवलाभाय । इतिशब्दस्तु तत्राप्युक्तरीत्या व्याख्येयः । मृत्तिकेत्येव सत्यमित्यादौ हेतुर्वाचारम्भणं विकारो नामधेयमिति । आरम्भणमसमवायिकारणजन्यत्वमुत्पत्तिर्वाचां वाङ्मात्रं विचारासहमिति यावत् । तथाचोत्पत्तिः सतोऽसतो वेति विचारासहत्वादुत्पन्नसामान्यं विचारासहमिति भावः ।

तावताऽप्यनाद्यविद्यासाधारण्येन हेत्वलाभादाह — विकारो नामधेयमिति । विना-शादिविकृतियुक्तं नाममात्रं विचारासहमिति यावत् । अर्थेनामाभेदासम्भवात् अब्भक्ष इत्यादाविव मात्रान्तर्भावेण विचारासहत्वलाभः । तथा चोत्पत्यादिविकृतेस्तद्युक्तस्य संसर्ग-दुर्निरूपत्वादिना विचारासहत्वान्निर्विकारं ब्रह्मैव सत्यमिति दृष्टान्तोपपादकत्वेनोक्तमपि दार्ष्टान्तिकस्याप्युपपादकं भवतीति ध्येयम् । एवं च शुक्तौ ज्ञातायां रूप्यं ज्ञातं

भवति । सा हि तस्य तत्त्वम् । एवं ब्रह्मज्ञानात्सर्वं ज्ञातम् । तद्धि तस्य तत्वमिति भामत्युक्तिरपि सङ्गच्छते ।

ननु कथं तद्युक्तम् ? तथासति ब्रह्मज्ञानाद्ब्रह्म ज्ञातमित्यर्थस्यैव लाभेनाधिक्यायोगात् । अधिष्ठानस्यारोप्यतत्वरूपत्वभावाच्च । तत्वं ह्यसाधारणस्वरूपो धर्मो वा । न चाऽधिष्ठान-मारोप्यस्यासाधारणधर्मः स्वरूपं वा । आरोप्यान्तरसाधारणत्वात् । अधिष्ठानमात्रस्य तद्रूपत्वे ब्रह्मशुक्त्यादेरानन्दशुक्तित्वादिकं तत्वं न स्यादिति चेन्न । तत्वपदस्य नानार्थकत्वेन स्वरूपासाधारणधर्मयोरिवानारोपितरूपस्यापि तत्वपदार्थत्वात् । न च तत्र मानाभावः । शुक्तिरेव रूप्यस्य तत्वमिति लोकव्यवहारात् । अत एव ‘तत्वज्ञानान्निःश्रेयसाधिगमः’ इति सूत्रभाष्ये तत्त्वमनारोपितमित्युदयनाचार्याः । एवं विवेकदशायां ब्रह्मैवानारोपितत्वेन ज्ञायत इति वस्तुगत्या तदेव सर्वेषां स्वरूपतत्वमित्याशयेन ‘ब्रह्म तत्वं तपो वेद’ इत्यमरेणोक्तम् । ‘तत्वब्रह्ममार्गे सम्यक् सम्पन्नः’ इति जाबालश्रुतिः । ‘युञ्जानः प्रथमं मनस्तत्वाय’ इति श्वेताश्वतरश्रुतिः । ‘भगवन्नाहमात्मवित्त्वं तत्त्ववित्’ इति होमैत्रायणी श्रुतिः । ‘तत्वं परमात्मनि । वाद्यभेदे स्वरूपे च’ इति हैमः । तननं तत् । सम्पदादित्वात्क्विप् । तदस्यास्तीति च प्रकरणे वस्याप्युक्तेर्वः । असौमत्वर्थ इति भत्वान्न जस्त्वमिति बोध्यम् । अहो ते पाण्डित्यं येन स्वमपि न प्रस्मरसि तव हि तत्ववादित्वं नासाधारणधर्मवादित्वं, किन्त्वनारोपितवादित्वम् । एवं च तत्वपदस्यानारोपितार्थकत्वे ब्रह्मज्ञानस्य सर्वपदार्थाना-रोपितस्वरूपज्ञानरूपत्वलाभेन ब्रह्मव्यतिरेकेण सर्वं नास्तीत्यर्थ एव श्रुतेरिति भामतीग्रन्थेन लभ्यते । दृष्टान्तवाक्यानुगुण्यं चास्माभिर्दर्शितमेवेति, नाद्वैतमतोक्तश्रुतिव्याख्याने भवदुक्त-दोषावकाश’’ इति ।

तन्न । बाधायां सामानाधिकरण्यस्यैवायोगात् । ‘यः स्थाणुः स पुरुष’ इत्यादौ स्थाणुपदस्य ज्ञातलक्षकतया पूर्वं यः स्थाणुत्वेन ग्रहविषयीभूतः स पुरुष इति वा तात्पर्यसत्वे पुरुषपदलक्षणया पुरुषत्वप्रमाविषय इति वा तद्वाक्यार्थः । स्थाणुत्वादेर्बाधितत्वं त्वार्थिकमेव न शाब्दम् । बाधादेः प्रातिपदिकार्थयोः संसर्गतया भानस्याप्रामाणिकत्वात् । तथा च लाक्षणिकार्थाभ्युपगमे बीजाभावः ।

न च भवतामपि श्रुतपदादिकं श्रुतसदृशं श्रुतफलकमित्याद्यर्थकमिति भवतामप्य-मुख्यार्थकत्वं दुर्वारमिति वाच्यम् । वक्ष्यमाणमूलोक्तरीत्याऽस्मदुक्तार्थस्यानादिनिरूढ-व्यवहाराऽरूढत्वेन लाक्षणिकत्वेऽप्यमुख्यार्थकत्वाभावात् । न हि ‘अस्मिन् ग्रामे चैत्र एकस्त्वया दृष्टोऽनुसृतः परिचितश्चेत्सर्वेऽपि राजकीयाः परिचिता, दृष्टा, अनुसृता एवेत्यवेहि, गौरयं दृष्टश्चेत्सर्वेऽपि गावः गवयाश्च त्वया दृष्टा एवेति जानीहि’ इत्यादिप्रचुर-लौकिकवैदिकव्यवहारा इव शुक्ती रजतं भवति, रज्जुर्भुजङ्गो भवती’त्यादिव्यवहाराः सन्ति, येनेदं युक्तं स्यात् ।

किं च त्वदभिमते बाधायां सामानाधिकरण्यपक्षेऽपि यद्धर्मावच्छिन्नारोपस्तद्धर्मावच्छिन्न-बोधकपदस्यैवोद्देश्यसमर्पकत्वं, तद्व्यावर्तकधर्मावच्छिन्नबोधकविधेयपदसमभिव्याहारस्थले एव यथाकथञ्चिद्बाधप्रतीतिरित्येव वक्तव्यम् । अन्यथा बाधोत्तरमपीदं रजतं भवति, रजतमिदं भवतीत्यादिव्यवहारापत्तेः । इदं व्यतिरेकेण रजतं नास्तीत्यर्थस्य तत्राबाधितत्वात् । मेयत्वज्ञेयत्वादिना सर्वस्यापि श्रुतत्वादेरेव सत्वेन सर्वथा श्रुतादिभेदस्याप्रसिध्द्याऽश्रुतादि-पदानां पुरुषार्थोपयोगिश्रवणादिगोचरभिन्नार्थकत्वेन जगति तस्याबाधात्, प्रकृते चाश्रुतं श्रुतं भवतीत्यनेनाश्रुतत्वारोपविषयीभूतं यदभिन्नश्रुतत्वप्रकारकज्ञानविषयीभूतमिति वाक्यार्थः स्यात् । स च कथं युक्तः ? जगतोऽश्रुतत्वस्यैव सत्वेन तेन रूपेणारोपविषयत्वाभावात् । इत्थञ्च श्रुतपदेन ब्रह्मविवक्षया ब्रह्मभिन्नत्वेनारोपविषयीभूतं श्रुतब्रह्माभिन्नत्वप्रकारक-प्रमाविषयीभूतं भवतीत्यर्थस्तु सुतरामयुक्तः । व्यावहारिकव्यवस्थाविविक्षायां ब्रह्मभिन्नत्व-ज्ञानस्यापि प्रमात्वात्तस्यारोपत्वानुपपत्तेः । पारमार्थिकव्यवस्थायां तु ज्ञानद्वयस्यापि भ्रमत्वा-दभिन्नत्वेन ज्ञानस्य प्रमात्वोक्त्ययोगः । रङ्गत्वेन शुक्तिभ्रमोत्तरमिदं रजतमिति भ्रमोत्तरं प्रयुक्तस्य यद्रङ्गं तद्रजतमिति भ्रान्तप्रयुक्तवाक्यस्य प्रामाण्यवारणाय विधेयकोटिप्रविष्टज्ञानस्य प्रमात्वेनैव तादृशवाक्यबोध्यताया आवश्यकतात्वात् । उक्तवाक्यस्याखण्डार्थबोधेन सामञ्जस्यं त्वयुक्तमेव । वक्ष्यमाणब्रह्मोपदेशाभिरुच्युत्पादकत्वेनास्य वाक्यस्य स्वरूपमात्रप्रश्नोत्तरत्वा-भावाल्लक्षणवाक्यत्वाभावाच्च ।

येनाश्रुतं श्रुतं भवतीत्यस्य ब्रह्मभिन्नत्वेन जगन्नास्तीत्यर्थाङ्गीकारेऽमतं मतं भवतीत्या-देरपि तथैवार्थप्राप्त्या स्फुटं पौनरुक्त्यम् । दार्ढ्यार्थं त्रिरभिधानमित्यप्यसत् । इदानीं ब्रह्मोपदेशस्यानारब्धत्वेन त्रिवारं तत्प्रतिज्ञाया अनाकांक्षितत्वात् । ब्रह्मज्ञानोत्कर्षस्यैवा-कांक्षितत्वेन तादृशप्रतिज्ञाया असङ्गतत्वात् । न च यद्वस्तुव्यतिरेकेण सर्वं नास्ति तादृशवस्तु किं पृष्टवानसीत्यर्थस्यात्र विविक्षितत्वेन प्रतिपाद्यस्य सर्वतादात्म्यरूपमहत्वलाभात्तज्ज्ञान-स्तुतिर्लभ्यत इति वाच्यम् । अमतं मतमित्यादिना भिन्नानुपूर्व्यां त्रिरभिधाने प्रयोजना-भावादुदुक्षरत्वस्य स्फुटत्वाच्च ।

एवं दृष्टान्तवाक्यार्थवर्णनमपि न सत् । सिद्धस्यैव हि लोके दृष्टान्तीकरणं दृष्टम् । न च जगत्सत्यताभ्रमवतः श्वेतकेतोः घटादीनां मृदात्मकभूम्यवच्छिन्नसत्यारोपितत्वनिश्चयो वक्तुं युक्तः । तथात्वे सद्रूपे ब्रह्मणि सर्वेषामध्यस्तत्वज्ञानात् मिथ्यात्वनिश्चयस्यैव ब्रह्मज्ञानतया तद्वतो नित्यानित्यविवेकवत्तया महामना अनूचानमानी स्तब्ध एयायेति पूर्ववाक्योक्त-स्तब्धत्वादेरयोगात् । जगत्सत्यत्वभ्रमेणैव स्वस्मिन् स्वेतरेभ्यो जीवेभ्यः उत्कृष्टत्वभ्रम-स्तन्मूलकोऽहङ्कारस्तत्प्रयुक्तस्तब्धत्वादिकम् ।

उक्तरीत्या ब्रह्मणि सर्वस्याध्यस्तत्वज्ञाने न तद्धटेत । मिथ्यात्वनिश्चयेऽपि मानित्वादी-नामनिवृत्तौ स्वोपदेशानर्थक्यमेव स्यात् ।

न च भूमिव्यतिरेकेणासत्वं पार्थिवपदार्थानामत्र प्रतिपाद्यते । तच्च घटादीनां मिथ्यात्वनिश्चयं विनाऽपि प्रत्यक्षेण निश्चीयत एवेति दृष्टान्तसङ्गतिरिति वाच्यम् । तद्व्यतिरेकेणासत्वमित्यस्य यदि तदत्यन्तभिन्नत्वेनाप्रतीयमानत्वमित्यर्थः तर्ह्यसिद्धमेव । घटादेर्भूमिनिर्गतमृत्तिकारूपभागोपादानत्वेऽपि भूमिपदव्यवह्रियमाणपिण्डात्यन्तभिन्नत्वेनैव प्रतीयमानत्वात् । अत एव तत्सत्तातिरिक्तसत्ताशून्यत्वमप्रसिद्धमेव । तथात्वेऽपि मिथ्यात्वा-पर्यवसानेन दृष्टान्तवाक्येऽपि बाधायां सामानाधिकरण्योक्तेरसङ्गतेश्च । तत्रारोपितत्वमिति यद्यर्थः जगत्सत्यतादिभ्रमवतः श्वेतकेतोस्तदसिद्धमेवेति तस्य दृष्टान्तत्वोक्त्यसङ्गतिरेव । अत एव भूमिविचारदशायां तत्कारणं सत्यं तद्विचारदशायां तत्कारणं सत्यमित्यर्थ इति, इतिशब्देन लभ्यत इत्यपि निरस्तम् । तस्येदानीमनिश्चितत्वेन दृष्टान्तत्वोक्त्ययोगात् । प्रकृत इतिशब्दस्याद्यर्थकताया निरस्तत्वाच्च । इतिशब्दस्य ज्ञायमानार्थकत्वं मनो ब्रह्मेत्यादावप्य सिद्धमेवेति तद्दृष्टान्तेन कुत्राप्यसिद्धज्ञायमानार्थकत्वमयुक्तमेव । घटत्वादिनाऽपि घटः सन्नित्यादिप्रतीत्या गृह्यमाणस्य सद्रूपस्य सत्यत्वेन मृत्तिका इति गृह्यमाणं यत्तदेव सत्यमित्यवधारणायोगाच्च । न चानभिमतजडव्यावर्तक एवकार इति वाच्यम् । तथापि विकाराधिष्ठानसतोऽपि सत्वेन कारणीभूतमृत्तिकाया एव ग्रहणे बीजाभावात् । कारणावच्छिन्न एव कार्यतादात्म्याङ्गीकारात् मृत्तिका इति गृह्यमाणस्य तत्कारणावच्छिन्नसद्रूपस्यासत्वेन तत्सत्यत्वोक्तेरप्ययुक्तत्वात् ।

एवं वाचारम्भणमित्यस्य व्याख्यानमप्यसत् । उत्पत्तेर्विचारासहत्वे तदुत्पत्तेरेव मिथ्या-त्वापत्त्या तेन धर्मिमिथ्यात्वासिद्धेः । उत्पत्त्यभावे सिद्धेऽनादिषु उत्पत्त्यभावस्यैव प्राप्त्या पूर्ववाक्यार्थस्यैवोत्तरवाक्यार्थविरोधित्वप्राप्त्या विकृतियुक्तत्वादनाद्यपि मिथ्येत्येतदर्थकत्वेन विकारो नामधेयमित्यस्य व्याख्यानमप्ययुक्तमेव । विकृतिपदेन नाशो विवक्षित इति चेन्न । उत्पत्त्यभावे उत्पत्तिमदभावरूपनाशस्यैवायोगात् । उत्पत्तिविनाशातिरिक्तविकाराणाम-नादिजीवेशभेदादिष्वभावेन यादृशतादृशानां ब्रह्मण्यपि वक्तुं शक्यत्वेन तेषां विकृतत्वेन मिथ्यात्वसाधनायोगाच्च ।

अपि च विकृतत्वेन मिथ्यात्वसाधकोत्तरवाक्यस्यैवोपयोगेन तदसाधकार्थबोधकपूर्व-वाक्यवैयर्थ्यमेव । विचारासहोत्पत्तिकत्वस्य ब्रह्मण्यसति चानिर्वचनीयत्वरूपमिथ्यात्वव्यभि-चारित्वेन मिथ्यात्वासाधकत्वात् । वाचेत्यस्य वाचैवेत्येवकारान्तर्भावेण नामधेयमित्यत्रापि नामैव केवलमिति च तथैव व्याख्याने चाश्रुतकल्पना तु स्फुटैव । एतद्वाक्यस्थैकपदस्य प्रधानपरत्वमुत्तरवाक्यस्थयोस्त्वेकजातीयपरत्वमित्युक्तौ वृथा प्रायपाठबाधः । एवमत्रैकपदेन प्रधानमृद्बोधनवदुत्तरवाक्ये च मणिपदेन लोहप्रधानत्वेन सुवर्णबोधनवदुत्तरवाक्ये च प्रधानायो-बोधनस्यावश्यकत्वेन तदर्थं तत्राप्येकपदस्य प्रधानार्थकत्वौचित्येन तत्परित्यागेनैकजातीयार्थ-कत्ववर्णनानौचित्याच्च ।

एवं लोहमणिपदेन सुवर्णग्रहणे त्वद्रीत्या वाक्यार्थपक्षे लोहमयपदघटकलोहपदस्य सुवर्णलक्षकत्वापत्तिः । सर्वलोहमयानां सुवर्णकारणकत्वाभावात् । एवं नखनिकृन्तनपद-स्यायःसामान्यार्थकत्वमपि स्वाऽग्रहनिर्वाहायैवेति सर्वेषामपि स्फुटम् । एवं यथा-कथञ्चित्स्वोत्प्रेक्षामात्रेण श्रुत्यर्थकथने पूर्वमुत्तानधियामित्यनेनोक्तव्याख्याने कानुपपत्तिर्येन तत्परित्यागः । तत्पक्षेऽपि वाचारम्भणवाक्यसामञ्जस्यस्य सम्भवेनोक्तबाधकाभावात् । कथमिति चेत् इत्थम् ।

‘‘पूर्ववाक्येनैकमृत्पिण्डस्य, इदं मृत्तिकाविकारः मृदा भिन्नाभिन्नं मृत्कार्यमेतादृश-क्रियाकारि एतादृशशब्दाभिधेयमित्यादिरीत्या विज्ञाने सति, अन्यमृन्मयादिषु विषयेषु करणव्यवहारादिकौशलं जायते । तथा ‘परमात्मप्रसादेन सर्वपदार्थविषयकपरोक्षापरोक्षान्यत-रात्मककौशलं जायत’ इत्युक्तौ परबुद्धेरप्रत्यक्षत्वात्कथमेतदवगम्यत इत्याकांक्षायां ‘वाचारम्भण’मित्याद्यभिहितम् । तस्यार्थः— मृत्तिकैव विकारो भवति नानारूपेण विक्रियमाणं भवति । तस्य च नामधेयं, इति एवं क्रमेण कर्तव्यं घट इति शराव इति यथा तथास्माभिरपीदं नामास्मत्कृतपदार्थस्य स्थापनीयमिति । वाचारम्भणं व्यवहारारम्भणं वाचा आरम्भणं चेति द्वन्द्वैकवद्भावो वा वाचा आरम्भणमिति भिन्ने वा । तथाच तथा व्यवहारस्तत्पदार्थनिर्माणादिकं च यतो भवति अतः इदं ज्ञायत इति भावः । इतिशब्दस्याऽवृत्तस्य हेत्वर्थकत्वम् । सत्यमित्यस्य विसंवादीत्यर्थकतया वाचारम्भणविशेषण-समर्पकत्वम् । भिन्नपदत्वपक्षे आरम्भणमात्रविशेषणत्वं वा । लिङ्गव्यत्ययेन वाचाया अपि विशेषणत्वं वास्तूभयथाऽपि न क्षतिः । एवमुत्तरवाक्यद्वयमपि व्याख्येयम् । परमात्मन एतादृशमाहात्म्यं कुत इत्याकांक्षायां सृष्टिस्थानमाम्नायत’’ इति । त्वद्व्याख्याने पूर्वोपदर्शितबहुदोषाणां सत्वेनोक्तव्याख्यानस्यैव युक्तत्वात् ।

किञ्च सदसदतिरिक्ततृतीयानिर्वचनीयत्वप्रकारस्यैव सर्वथाऽप्रसिद्धेरुक्तत्वात्, वाचा केवलमारभ्यते न वस्तुतोऽस्ति नामैव केवलं न वस्तुतोऽस्ति इति निषेधे, जगतोऽसत्वाभावेन श्रुतेरयोग्यार्थकत्वप्राप्त्या तत्परिहारार्थं सत्यत्वपक्षमाश्रित्यैव योजनाऽऽवश्यकी । न हि श्रुतिरियं ‘इदं जगत्सदसद्विलक्षणं’ इति स्फुटं प्रतिपादयति । येनोक्तवाक्यबलादेव तृतीय-प्रकारस्य सिद्धिरिति वक्तुं शक्येत । एवं त्वदभिमतवाक्यान्तराण्यपि एतादृशान्येवेति न केनापि तत्सिद्धिः ।

अपि च प्रत्यक्षादिबलवत्प्रमाणविरुद्धार्थे स्फुटोक्तिरप्यकिञ्चित्करी । किम्वेतादृशोक्तयः ? अन्यथा मृदादीनामपि वचनाङ्गीकारापत्त्या अभिमान्यधिकरणासामञ्जस्यापत्तेः । एवमप्या-ग्रहमात्रेण श्रुतिस्वारस्यभङ्गेन स्वेच्छामात्रेण योजनायां शून्यवादोऽपि वेदारूढः कर्तुं शक्यते । तथाहि ।

ब्रह्मविदाप्नोति परं’ इत्यत्र परशब्दो दुःखादिजनकतया स्ववैरिरूपसंसारपरः । तथ च ब्रह्मज्ञानी दुःखरूपं संसारं प्राप्नोतीति न तज्ज्ञानं सम्पाद्यमिति भावः । इदं च ‘असदेवेदमग्र आसीत्’ इत्यादिना शून्यतत्वस्य बोधनार्थं ब्रह्मतत्वनिन्दारूपोऽर्थवादः तत्र मन्त्रवर्णः संवादित्वेनोच्यते ।। ।। यो वेदेति ।। हृदयगुहानिहितात्मरूपं ब्रह्म यो वेद विपश्चिता सर्वपदार्थसाक्षिरूपेण ब्रह्मचैतन्येन सहितः अन्तःकरणोपहितसाक्षिचैतन्येऽध्यस्तत्वात्तदनुविद्ध एव सन् सह कामान् दुःखादिभिर्मिश्रितानेव विषयान् । संसरत्येवेति यावत् । कथं दुःखादिविषयकसाक्षी ब्रह्मेत्यत आह ।। सत्यं ज्ञानमिति ।। सद्रूपं ज्ञानरूपं चेत्यर्थः । शून्यस्य निस्वरूपस्य कथं ज्ञानात्मत्वमित्यतः सांवृतसद्रूपात्मकत्वात्तद्युक्तमित्याशयेन तथोक्तिः । तर्हि सर्वबाधावधित्वेन चरमत्वात्तदेव तत्वमिति कथं तज्ज्ञानं संसारप्रापकमित्यत आह ।। अनन्तमिति ।। अन्तः सर्वबाधावधिः तद्भिन्नं स्वयमपि बाध्यमेवेति न तत्वमिति भावः । बहुव्रीह्यपेक्षया स्वघटकपदार्थप्रधानकस्तत्पुरुष एव युक्तः । नपुंसकत्वमेव छान्दसम् । आत्मनि सर्वेषां विषयाणां सम्बन्धः कथं येन तस्य दुःखादिकं स्यादित्यतस्तदुपपादयति ।। आत्मन इत्यादिना ब्रह्मपुच्छं प्रतिष्ठेत्यन्तेन ।। आकाशादीनामधिष्ठानभूतत्वेन प्रतिष्ठास्थितिहेतुः पुच्छं स्वयं चारोपितं पदार्थविचारदशायां चरममारोपितत्वेन निश्चीयमानमित्यर्थः । असन्नेवेति श्लोकस्य तु यो ब्रह्मासद्वेद सद्रूपं न किन्तु शून्यमेवेति यो वेद, सोऽसन् संसारस्थितिरहितः सन् शून्यभावमापन्नो भवतीत्यर्थः । यो ब्रह्मास्तीति वेद सद्रूपं वेद तं संसारे स्थितिमन्तमेव विदुरित्यर्थः ।

एवं ‘सदेव सोम्येदमग्र आसीत्’ इत्यत्र ‘सदिदं’ इति तद्धैक आहुरसदेवेदमित्यत्र ‘असदेवेदं’ इति च बाधायां सामानाधिकरण्यम् । ‘तस्मादसत’ इत्यस्य त्वसत्वेन गृह्यमाणादात्मनः सकाशात्सत्वेन प्रतीयमानं जगज्जायते इत्यर्थः । तेन शून्यब्रह्म-वादयोरङ्गीकारानङ्गीकारलाभः । ‘कथं नु खलु सोम्यैवं स्यात्’ इत्यस्य सद्रूपस्यैव कारणत्वेनावस्थानं कथं स्यात् ? अग्निसंयोगादिभिर्जलादेरत्यन्तोच्छेदस्य स्फुटत्वाद्धटादेरपि बलवत्पाषाणादिनाचूर्णतायां वायुजलादिभिरत्यन्तोच्छेददर्शनेन परिशिष्यमाणकारणस्य असदात्मकत्वस्यैव दर्शनात् । अतोऽसत्वेन गृह्यमाणात्सतः सकाशात्कथं सज्जायेतेत्यर्थः । ‘सत्त्वे वा’ इति निगमनवाक्यस्य प्रतिज्ञावाक्यवदेवार्थः । तथा च यत्तत्सद्रूपं प्रतीयते तदिदं शून्यमेवेत्यर्थः पर्यवस्यति । एवमन्यान्यपि ब्रह्मणो ज्ञानानन्दादिसद्रूपताबोधकानि क्वचिद्विपरीतलक्षणया, क्वचिदश्रुतनञध्याहारेण, क्वचित्पदविभागेन, क्वचित्तत्प्रकरणादुत्कृष्य ‘नेहनानास्ति किञ्चन’ इत्यादिसर्वनिषेधकवाक्यैकवाक्यतया शून्यवादानुगुण्येन योजयितुं शक्यान्येव । वेदे परिसङ्ख्यादिस्थले विपरीतलक्षणादेर्दृष्टत्वेन तदङ्गीकारेण योजनायां बाधकाभावात् । येनाश्रुतमित्यादेर्बाधायां सामानाधिकरण्यरूपत्वं, वाचारम्भणं नामधेय-मित्यत्राश्रुतमात्रान्तर्भावः, विकारपदस्य बुद्धिस्थमृद्विकारपरत्वं परित्यज्याप्रसक्तानादि-षट्कपरत्वं, नखनिकृन्तनमयोलक्षकमित्यादित्वदीयव्याख्यानस्यैतस्माद्विशेषानुपलम्भेन एत- द्व्याख्याने त्वया दोषस्य वक्तुमशक्यत्वात् ।

ननु नास्माभिराग्रहमात्रेण वाचारम्भणादिश्रुतीनामुक्तव्याख्यानं क्रियते । येन भवदीयप्रतिबन्दिप्रदानं सङ्गच्छेत । किन्तु—

को भवानिति निर्देशो वाचारम्भो निरर्थकः ।

शिबिकादारुसङ्घातो रचनास्थितिसम्भवः ।।

अन्विष्यतां नरश्रेष्ठ तद्भेदे शिबिका कथम् ?

इत्यादीनि विष्णुपुराणादिस्थवाक्यानि जगन्मिथ्यात्वावेदकानि । तदानुगुण्येनैवं व्याख्यायत इति चेन्न । तृतीयप्रकारस्य कुत्राप्यप्रसिद्ध्या तेषामसत्यत्वपर्यवसानापत्त्या जगत्सत्यत्वाभावपरत्वाभावात् । व्यासस्मृतिव्याख्यानव्याख्यावसरे सम्यक् तदर्थस्य निरूपितत्वाच्च । तस्मात्त्वद्व्याख्यानमसदेव ।

यत्तु ‘तत्त्वत इति पदाध्याहारेण वाचस्पतिव्याख्यापक्षे भ्रमाधिष्ठानस्य तत्त्वपदार्थत्वा-भावादित्यादिन्यायामृतोक्तदूषणपरिजिहीर्षया तत्त्वपदस्यानारोपितार्थकत्वव्यवस्थापनपूर्वकं अपहासवचनं’ तत्स्वापहासकारि । न हि तत्त्वपदमनारोपितार्थकमित्यत्र तेषां विप्रति-पत्तिरस्ति । अनारोपितं तत्त्वमिति तत्त्वसङ्ख्यानटीकादावुक्तत्वेन तत्रासम्मतत्वायोगात् । परन्तु अनारोपितमित्यर्थस्योत्थापितसम्बन्ध्याकांक्षारहितत्वेनास्य तत्त्वमिति ससम्बन्धिकत्वेन प्रतीत्ययोगात् । प्रकृते च तत्त्वत इत्यस्य स्वीयतत्त्वत इत्यर्थकत्वेऽवश्यं वाच्येऽत्र तत्त्वपदस्यासाधारणधर्मार्थत्वं स्वरूपार्थत्वं वा वाच्यम् । लोकव्यवहारानुसारात् । स्वभ्रमाधिष्ठानत्वेन वा भ्रमाधिष्ठानपरं वाच्यम् । तेनैव स्वस्य मिथ्यात्वपर्यवसानात् सामान्यतः स्वीयानारोपितरूपेण ज्ञातं भवतीत्युक्तिमात्रेण मिथ्यात्वापर्यवसानात् । लोके पृथुबुघ्नोदराकारेण घटस्तत्वतो दृष्ट इत्युक्तौ श्रोतॄणां घटे मिथ्यात्वाप्रत्ययात् । अन्यथा ब्रह्मापि स्वीयानारोपितरूपेणेदानीं ज्ञातमिति प्रामाणिकव्यवहारात् ब्रह्मणोऽपि मिथ्यात्व-प्रतीति ः स्यात् ।

तथा चासाधारणधर्मरूपत्वं तत्स्वरूपत्वं वा ब्रह्मणो न घटते । अनेकारोप्यानुगतस्य तदवृत्तेश्च तदसाधारणधर्मत्वायोगात् । तत्प्रकारकभ्रमविषयस्य तत्स्वरूपत्वे रजतवच्छुक्तेरपि ब्रह्मणोऽपि जगत इव बाध्यत्वापत्तेः । अन्यथा विरुद्धस्वभावयोरपि स्वरूपत्वे घटोऽपि पटस्य स्वरूपमित्यापातात् । तथा च शुक्ती रजतस्य तत्त्वमिति व्यवहारोऽसिद्ध एवेति भवदीयपरिभाषासिद्धं भ्रमाधिष्ठानरूपत्वावच्छिन्नं न तत्त्वपदार्थः ।

इत्थञ्च तत्त्वत इति पदाध्याहारेण भामतीव्याख्यानमयुक्तमिति न्यायामृतोक्तिर्युक्तैवेति तत्त्वपदस्यानारोपितार्थकत्वे सम्मतिकथनस्यास्य क्वोपयोगः ? ‘ब्रह्म तत्त्वं तपो वेद’ इति वेदपर्यायशब्दान्तर्गततत्त्वपदस्य ब्रह्मैव भवत्यनारोपितमन्यत्सर्वमारोपितमित्याशयेनामरेणा-नारोपितार्थकत्वमुक्तमित्यनेन ब्रह्मद्वेषिणः शून्यवादिनोऽमरकारस्याशयमभिदधानेन त्वया स्वस्य श्लाघनीयप्रज्ञत्वं सम्यक्प्रकटितमित्यलम् ।

ननु यथाऽस्मद्व्याख्याने दोषा उद्भावितास्तथा त्वद्व्याख्यानेऽप्यविशिष्टाः । तथाहि । येनाश्रुतं श्रुतमित्यादौ सादृश्यादिना ब्रह्मज्ञानात् सर्वज्ञानस्य विवक्षितत्वे वक्तव्यं, यथाकथञ्चित्सादृश्येन सर्वात्मना सादृश्येन वेति । नाद्यः । घटज्ञानेनापि प्रमेयत्वादिना सादृश्येन ब्रह्मादिसर्वज्ञानोदयेनेतरसाधारण्येन प्रतिपाद्यवस्तूत्कर्षानापादकत्वात् । तादृशस्य निष्फलत्वेनानाकांक्षितत्वाच्च । न द्वितीयः । अपसिद्धान्तादसम्भवाच्च । प्राधान्यपक्षेऽपि श्रुतादिफलके श्रुतादिपदानां लक्षणापत्तिश्च । फलमपि यत्किञ्चिदेकं वा सर्वफलं वा । नाद्यः । ‘सर्वं, घटश्चेत्साधनं’ इति ज्ञानेन जायमानं यत्फलं घटेच्छाप्रवृत्त्याद्यधीनघट-साध्यसुखादिकं तद्धटमात्रविषयकेण सर्वाविषयकेणापि जायत इति घटादिमात्रसाधारण्यात् ।

न द्वितीयः । घटादिज्ञानसाध्यसर्वफलानां ब्रह्मज्ञानेनालाभात् । न हि स्रक्चन्दनादि-ज्ञानसाध्यतद्भोगादिफलं ब्रह्मज्ञानेन सम्पद्यते । अनुभवविरोधात् । एवं दृष्टान्तवाक्यस्थलेऽपि दोषः । एकमृत्पिण्डसर्वमृन्मयादीनां सर्वात्मना सादृश्यायोगात् । यत्किञ्चित्सादृश्यस्य सर्वत्र सत्वेन मृन्मयादिपदवैयर्थ्यात् । एवं वाचारम्भणादिवाक्यानां दृष्टान्तपरत्वे यथा सोम्य तेन तद्विज्ञातं भवतीत्यध्याहारापत्तिश्च ।

न च ‘तनूर्वर्षिष्ठा’ इत्यादिवदनुवृत्त्यैव तन्निर्वाह इति वाच्यम् । ‘अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्’ इदित्यधिकरणे ‘याते अग्ने अपाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचोपावधीत्त्वेषं वचोपावधीत्स्वाहा’ इति मन्त्रपाठोत्तरं पठितयोः ‘या ते अग्ने रजाशया’ ‘या ते अग्ने हयाशया’ इति मन्त्रभागयोः पश्चात् तनूरित्यादिकमनुषञ्जनीयम् । बुद्धिपरि-वर्तमात्रेण साकांक्षाभ्यां ताभ्यां तत्सम्बन्धसम्भवेनानुषङ्गस्य वाक्यपरिसमापकत्वादित्युक्तम् । तथा च पूर्ववाक्यप्रविष्टभागस्योत्तरवाक्यगतत्वेन प्रतिसन्धानरूपस्यानुषङ्गस्य तत्स्थले सम्भवेऽपि प्रकृते न तत्सम्भवः । यथा सोम्य तेन तद्विज्ञातं स्यादिति भागस्य पूर्ववाक्येऽभावात् ।

किञ्च यथा वाचारम्भणमित्यादौ गुणप्रधानभावः श्रुत्या ज्ञापितस्तथा मृत्पिण्डान्य-मृन्मयादीनां सादृश्यमपि श्रुत्या ज्ञापनीयम् । तदनुक्त्या न्यूनता । यदि च ‘मृत्पिण्डेनान्य-ज्ज्ञायत’ इत्युक्त्यैव सादृश्यं तदुपपादकत्वेन ज्ञातुं शक्यते मनसैवेत्युच्यते । तर्हि तथैव गुणप्रधान भावोऽपि संस्कृतापभ्रंशयोर्ज्ञातुं शक्यत एवेति वाचारम्भणसत्यपदाभ्यां तदुपपादनं व्यर्थम् ।

अपि च दृष्टान्तत्रयोक्त्यनन्तरं संस्कृतज्ञानात्साङ्केतिकं ज्ञायत इत्येव वक्तव्यम् । किं प्रतिवाक्यं मृत्तिकादिविशेषशब्दग्रहणेन । आयसमेव सत्यमित्यनेन पूर्तौ किं कार्ष्णेत्यनेन । एवं वागिन्द्रियजन्यत्वं संस्कृतसाधारणमिति व्याकरणाद्यनपेक्षया वागिन्द्रियजन्यत्वलाभाय वाङ्मात्रेणेति त्वयापि वक्तव्यम् । तथा चाश्रुतकल्पना । वाचापदस्य त्वाबन्तत्वं व्याकरणाद्य-सिद्धमेव कल्पनीयमिति स एव दोषः ।

एवं ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यं’ इत्यादिवाक्यत्रयेषु त्वदुक्तार्थस्य तत्रासङ्गतत्वादग्न्यादिरूपविकाराणां मिथ्यात्वपरत्वमेवावश्यं वाच्यमिति अत्रापि तत्सजातीय-वाक्यस्य तथैवार्थो वक्तव्यो निर्निमित्तमर्थभेदकल्पने चाश्रुतकल्पनं गौरवं च । एवं वाचारम्भणं नामधेयं विकार इति ग्रन्थान्तरोक्तयोजनापक्षे विकारपदस्य विक्रियमाणार्थकत्वे तावन्मात्रेण त्वदिष्टसिध्द्या संस्कृतोच्चारणशक्त्योच्चार्यमाणार्थकत्वं लक्षणयैव वाच्यम् । नामपदस्यापि शब्दार्थकत्वं लक्षणयैव वाच्यम् । अपभ्रंशानां सङ्केतवत्प्रातिपदिकरूपनाम-पदरूढ्यर्थकत्वाभावात् । एवं चोक्तव्याख्याया बहुदोषकवलितत्वात् । ‘पश्यसि परदोष-मात्मदोषं न पश्यसि’ । इत्याभाणकविषयता भवतामापन्नेत्यत आह ।। सादृश्यन्त्विति ।। प्रकृतवाक्यतात्पर्यविषयीभूतमित्यर्थः ।। इत्यादीति ।। आदिपदेनेतरदोषनिरासक-युक्त्यादिसङ्ग्रहः ।

अयं भावः । गोसदृशो गवय इत्यादिव्यवहारैर्वा गवयादिपदशक्तिज्ञानं मुद्गपर्णसदृ-शौषधिर्ज्वरं हन्तीत्यादिवाक्यजन्यज्ञानोत्तरं व्यक्तिविशेषे ज्वरनाशकत्वादिबुद्धिरुदेतीति सर्वानुभवसिद्धम् । तत्र सादृश्यविशेषस्यानतिप्रसक्तस्याज्ञाने व्यक्तिविशेषे एव कथं बुद्धिः स्यात् ? एवं व्याप्त्यादिलक्षणानि विषयविशेषघटितानि निरुच्यन्ते । तैश्च तत्सजातीय-स्थलेष्वपि तादृशव्याप्त्यादिनिश्चयो जायते । अन्यथा ग्रन्थापर्यवसानापत्तेः । तत्राप्यनति-प्रसक्तसादृश्यबोधं विना कथं तद्बुद्धिः ? अतस्तद्बोधस्तद्वाक्यादिनैव । सामान्यतः सादृश्यं शब्दादिनैव प्रकरणवशात्तत्परिचायकशब्दविशेषादिनैव वा कथञ्चिज्ज्ञायत इत्येव वक्तव्यम् । अन्यथा विलक्षणसादृश्यमात्रवृत्तिरूपावच्न्निबोधकपदस्य कथमप्यभावेन तादृशसादृश्यबोधो-पायाभावात्पूर्वोक्तव्यवहारोच्छेदप्रसङ्गः । अतो येनाश्रुतं श्रुतमित्यादौ वक्ष्यमाणदृष्टान्तानु-गुण्येनैकविज्ञानेन सर्वविज्ञानं विवक्षितसादृश्यविशेषमूलकमेवेति प्रकरणादिवशाद्विज्ञायते ।

प्राधान्यपक्षेऽपि न दोषः । वक्तृश्रोत्रभिमतफलविशेषस्यैव प्रकरणवशात्प्राप्तेरुक्त-विकल्पाप्रसक्तेः । श्रुतादिपदानां तत्फलकपर्यन्तं लक्षणा न वाप्यावश्यकी । एकविज्ञानस्य स्वतः सर्वज्ञानात्मकत्वेऽपि तस्य सफलत्वप्रतिसन्धानं विना तत्र प्रवृत्त्ययोगात् तन्निर्वाहाय तस्य बहिःप्रतिसन्धानस्यावश्यकत्वे तद्धटकपदेनैव तद्बोधने प्रतिपत्तिसौकर्यादिति ।

ननु येनाश्रुतमित्यादिवाक्यं बाधायां सामानाधिकरण्यपरं किं न स्यात् । भवदुक्तरीत्यैव तत्कुतो विनिगमकाभावादित्याशयेन पृच्छति ।। येनेति ।। लोकव्यपदेशेति ।। वाक्यानां स्वरसार्थकत्वं नाम न शक्त्यैव बोधकत्वम् । अपि तु यादृशव्यवहाराणामनादितो यादृशार्थतात्पर्येण लोकानां प्रयोगस्तदनतिक्रमेणैव बोधकत्वम् । प्रकृते चास्मदुक्तार्थकत्वे-नैवेदृशव्यवहाराणां प्रचुराणामनादितः सत्वात्तथैवार्थो युक्तः । त्वदुक्तरीत्येदृशव्यवहाराणां लोके अनुपलम्भादित्याहेत्यर्थः ।

मूले ।। ज्ञात इति ।। उपलक्षणमेतत् । विष्णुतत्त्वनिर्णयादिरीत्या ‘आहूतो नाशित’ इत्यादिव्यपदेशा अपि लौकिकाः,

नाशिता पृथिवी कृत्स्ना धार्तराष्टै्रः सुदुर्नयैः’ ।

शशास पृथिवीं कृत्स्नां सशैलवनकाननाम्’ ।।

इत्यादयो वैदिका अपि ग्राह्याः । तेषां प्रधानवस्तुज्ञानाह्वाननाशनशासनैरप्रधानानां ज्ञातफलकत्वाद्यर्थकत्वस्य स्फुटत्वादिति भावः ।

ननु येनाश्रुतं श्रुतमित्यत्र श्रुतेन मतेनेत्यादिकं यत्पदार्थविशेषणोपस्थापकं पदमवश्य-मध्याहर्तव्यमित्यावयोः सम्मतम् । अन्यथा ब्रह्मश्रवणादिस्तुत्यलाभापत्तेः । तत्र श्रवण-विषयताविशिष्टेन येन सर्वं श्रवणविषयीभूतमित्याद्यर्थः स्यात् । तत्र च यत्पदार्थविषयक-श्रवणादौ श्रुतपदार्थविशेषणीभूते सर्वविषयकश्रवणादिनिमित्तत्वं वा, तात्पर्यवशात्सर्व-विषयकश्रवणाद्यभेदो वा बोध्यत इति वक्तव्यम् । तत्र प्रपञ्चस्य ब्रह्मव्यतिरेके ब्रह्मश्रवणादेः प्रपञ्चश्रवणादिकं प्रति हेतुत्वाभावान्निमित्तत्वं बाधितम् । श्रवणादिकं हि शाब्दानुमिति-प्रत्यक्षादिरूपम् । तस्य प्रपञ्चशाब्दादौ कारणत्वे क्लृप्तरीतेरदर्शनेन परस्परहेतुहेतुमद्भावे मानाभावात् । ब्रह्मश्रवणादेः प्रपञ्चश्रवणादिरूपत्वाभावस्तु स्फुट एव । अतस्त्वया ब्रह्मश्रवणादिनिमित्तकत्वं स्वविषयीभूतब्रह्मसादृश्यज्ञानाधीनत्वरूपं यथाकथञ्चित्परम्परया वाच्यम् । तच्चामुख्यमेव । एवं सादृश्यज्ञानस्य यथायथमनुमितिप्रत्यक्षे प्रति हेतुत्वसम्भवेऽपि शाब्दबोधं प्रति साक्षात् हेतुत्वे बीजाभावात्, यथाकथञ्चिद्योग्यताज्ञानसम्पादकतया जगच्छ्रवणं प्रति निमित्तत्वं वाच्यमित्यत्यन्तामुख्यार्थता । उक्तरीत्या जगच्छ्रवणादेरपि ब्रह्मश्रवणादिकं प्रति हेतुत्वेन तस्योत्कर्षालाभाच्च ।

प्राधान्यविवक्षापक्षे च श्रुतादिपदं तत्सदृशलाक्षणिकम् । सादृश्यञ्च फलगर्भितमिति वाच्यम् । तथा चामुख्यार्थत्वमेव । परमते तु प्रपञ्चस्य ब्रह्माव्यतिरेकात् ब्रह्मश्रवणादीनां प्रपञ्चश्रवणादीनां चाभेदोऽप्यबाधितः । ब्रह्मविषयकश्रवणादेरेव ब्रह्मविषयकश्रवणत्वादिना निमित्तत्वं प्रपञ्चविषयकश्रवणादित्वेन निमित्तित्वं च । एकस्यैव रूपभेदेन तथात्वे बाधकाभावात् । घटज्ञानेन तदात्मकं सर्वं ज्ञातमित्यविप्रतिपन्नानुभवाच्च । तथा च निमित्तनिमित्तिभावोऽपि मुख्य एवार्थः । अतस्तत्परित्यागेनामुख्यार्थाङ्गीकारो न युक्त इत्याशयेन शङ्कते ।। मुख्यत एवेति ।। तत्परिहाराय मूलमवतारयति ।। अत आहेति ।।

मूले सत्यमिथ्यापदप्रयोगस्यायं भावः । स्यादप्येवं यथाकथञ्चित् यदि ब्रह्मप्रपञ्चयो-स्तादात्म्यं सम्भावयेतापि । तदेवायुक्तम् । सदसतोस्तादात्म्यायोगात् । अनिर्वचनीयत्वस्य निरस्तत्वात् । यदि च तत्रारोपितत्वमात्रेण तच्छ्रवणादेस्तच्छ्रवणादिहेतुत्वमित्युच्यते तदप्ययुक्तम् । शुक्तिविषयकश्रवणादेरारोपितरजतश्रवणादिहेतुत्वाभावात् । अन्यथा शुक्ति-श्रवणादिमात्रेण रजतार्थप्रवृत्त्यापाताच्च । किञ्चानुवृत्ताकारेण ब्रह्मज्ञानस्तुतिरत्र क्रियतेऽथवा व्यावृत्ताकाररूपशुद्धस्वरूपज्ञानस्य । नाद्यः । अनुवृत्ताकारज्ञानस्य जगद्भ्रमहेतुत्वेन स्तुत्यविषयत्वात्तदधीनजगद्भ्रमस्याप्यनर्थहेतुत्वेनानपेक्षितत्वाच्च जगत् श्रुतं भवतीत्यादिना तुल्ययोगात् । तादृशसद्रूपज्ञानस्य स्वतः सिद्धत्वेनोपदेशानपेक्षणाच्च । न द्वितीयः । व्यावृत्ताकारशुद्धस्वरूपविषयकज्ञानस्य जगद्भ्रमनिवर्तकताया एव सत्वेन तस्य जगज्ज्ञान-हेतुत्वस्य सुतरामसम्भवात् । शुद्धस्य मननपदार्थभूतानुमितिविषयत्वायोगाच्च तत्त्वत

इति पदाध्याहारो बाधायां सामानाधिकरण्यं चेदुक्तरीत्या क्लिष्टम् । तावतापि न मुख्यार्थ-कत्वमिति ।

नन्वेवमपि भवन्मते पूर्वोपदर्शितं वाचारम्भणादिवाक्यासामञ्जस्यं दुर्वारम् । एवं सृष्टिप्रतिपादकं सदेव सोम्येत्यादिकमपि भवतामयुक्तम् । मन्मते च कथं ब्रह्मव्यतिरेकेण जगतोऽसत्वमित्याकांक्षायां ब्रह्मणो जगदुपादानत्वात् तद्युक्तमित्युपपादनाय तस्योपयोग इत्यत आह ।। एवमिति ।। दर्शनीय इति ।। अनुव्याख्यानादिरीत्येति शेषः ।

परमते वाचारम्भणादिवाक्यासामञ्जस्यं प्रसङ्गादस्माभिर्दर्शितमेवैतद्वाक्याभिमतम् । सृष्टिस्थानमपि परेषामयुक्तम् । उपादानत्वस्याग्रे दूष्यत्वात् । उपादानकारणपरत्वे तदैक्षत तत्तेजोऽसृजतेत्यादेरसङ्गतिश्च । उपादानस्येक्षापूर्वं सृष्ट्यदर्शनात् । न च ब्रह्मणो जगत्प्रति निमित्तत्वस्यापि सत्वात्तदुपपत्तिरिति वाच्यम् । तावताऽपि प्रकृतेऽवश्यमाकांक्षितो-पादानत्वबोधनाय तत्तेजोऽभवदित्याद्यनुक्त्वा तत्तेजोऽसृजतेत्यादिना निमित्तकारणत्वस्याना-कांक्षितस्याभिधानेनासङ्गत्यपरिहारात् । एतेन मन्मते कपालाद्यवच्छिन्नचित एव घटं प्रत्युपादानत्वं निमित्तत्वमपि तस्यैव । उपादानप्रत्यक्षस्य कार्यमात्रहेतुत्वेन चक्षुरादिद्वारा बहिर्निर्गतान्तःकरणवृत्त्यवच्छिन्नचित्तादात्म्गापन्नकपालावच्छिन्नचित एव साक्षात्कारत्वेन कर्तृभूतान्तःकरणावच्छिन्नचिदात्मकत्वात् । एवञ्च कर्तृत्वोपादानत्वयोः व्याप्यव्यापक-भावापन्नत्वात् उपादानत्वव्याप्यं कर्तृत्वमेवोपपादितमिति निरस्तम् । एवमपि आकांक्षितस्य तस्य साक्षादुपपादनं विहायानाकांक्षिततद्व्याप्योपपादनस्यासङ्गतत्वात् । अन्तःकरणस्य बहिर्निर्गमनादिप्रक्रियाया अप्रामाणिकत्वादिना निरस्तत्वात् । ‘बहुस्यां प्रजायेमहि’ इति वाक्यादेव बहुभवनप्रतीत्योपादानत्वं बोध्यते इत्येतदुत्तरत्र निराकरिष्यत इति ।

अथ स्वपक्षानुगुण्यमित्थं चिन्त्यम् । अस्मिन् प्रपाठके सर्वेषां जीवानां स्वस्मिन् महत्वरूपब्रह्मधर्माध्यासवतां भगवत्सर्वोत्तमत्वज्ञानायोगात्पूर्वोक्ता मोक्षतदितरफलत्वेन विधीय-मानोपासना निरर्थका भवेयुरिति जीवेश्वरभेदज्ञानपूर्वकं तस्य सर्वोत्तमत्वग्रहसम्पादनाय श्वेतकेतूद्दालकसंवादरूपोऽयं प्रपाठक आरभ्यते । तत्र श्वेतकेतोर्महापण्डितत्वभ्रमप्रयुक्ता-हङ्कारशमनपूर्वकं ब्रह्मज्ञानोत्कण्ठां जनयितुमुक्तं ‘उत तमादेशं’ इत्यादि । यज्ज्ञानात्सर्वं श्रुतादिकं भवति तादृशवस्तुत्वं पृष्टवानसि किम् ? प्रायस्त्वं न पृष्टवानसि । किन्त्वनी-दृशकर्मदेवतादिज्ञानमात्रं सम्पादितवानसि । अतो ज्ञानित्वादेर्दर्पपूर्णोऽसीति लब्धम् । तदनन्तरं तद्विषयकोपदेशः कथं स्यात् । एकश्रवणादिमात्रेणापरश्रवणादेरयोगादपर-श्रवणादेरपरसकलश्रवणादिहेतुत्वस्यादृष्टत्वादिति पुत्रेण पित्रभिप्रायमजानता पृष्टे, ब्रह्मणि सत्तादिधर्मविशिष्टत्वेन श्रुते तत्सादृश्याज्जगदपि तथा श्रवणादिविषयीभूतं जीवाश्चानन्दादि-स्वरूपत्वादिना च तत्तत्कर्मस्थले हविःसम्प्रदानभूतेन्द्रादिरूपाश्च देवा एवं क्रमेण सर्वेऽपि यथायोग्यं श्रवणादिविषया भवन्ति । निश्चितप्रामाण्यकप्रमाभूतस्वपुरुषार्थोपयोगि- श्रवणादिविषयत्वस्येदानीमभिधित्सितत्वात् । अन्यादृशस्याकिञ्चित्करत्वेनावक्तव्यत्वात् । अन्यथा जगत्सत्यताखण्डनयुक्त्या कर्मादिस्वरूपानिश्चयः । एवमेकस्येन्द्रस्यानेक-देशस्थहविर्ग्रहणायोगः, विग्रहसत्वे प्रत्यक्षं स्यात्, तदभावे च हविर्ग्रहणायोगः इत्यादियुक्त्या देवतास्वरूपादेरनिश्चयः जीवस्य जडवैलक्षण्यसम्पादकज्ञानयोगित्वाद्यसिद्धौ देहस्यैव जीवत्व-प्रसक्त्या तस्य पारलौकिकफलाभावनिश्चयेन कर्मानुष्ठानासिद्धिश्चेत्येवं क्रमेण क्रर्मादेरनिश्चये तदनुष्ठानाद्यभावापत्त्या तन्निश्चयप्रकारोऽवश्यमनुसरणीयः । तदर्थे प्रयासो न कर्तव्यः । ब्रह्मणि, सत्वेन व्याप्तत्वेन विद्यमानत्वेऽपि स्वशक्त्यानुपलभ्यमानत्वेन ज्ञानानन्दादिरूपत्वेन च निश्चितेऽन्यत्रापि तत्सादृश्यादसम्भावनाशङ्कापगमेन वाक्यादिना तथा तथा निश्चयो भवति ।

तर्हि विनिगमकाभावः । इतरसादृश्येन ब्रह्मण्युक्तधर्माणां ज्ञातुं शक्यत्वात् । ब्रह्मज्ञानस्य कर्मानुष्ठानादावनुपयोगात्तस्यापुरुषार्थहेतुत्वात्, जगज्ज्ञानमेव सम्पाद्यमिति चेन्न । अन्यथा तस्यानर्थहेतुत्वात् ।

स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत्’ ।

इति गीतातात्पर्योदाहृतप्रमाणेन ब्रह्मज्ञानं विना केवलजगज्ज्ञानस्यानर्थहेतुत्वश्रवणात् ।

किञ्च ब्रह्मणः सर्वसत्ताप्रदत्वादिरूपप्राधान्यादिना ज्ञानं कर्मदेवतादिरूपजगन्निश्चयेऽप्युप-युज्यते । अन्यथा अचेतनानां कर्मादीनां फलप्रदत्वायोगः । देवतानां बहूनां अन्तर्धानशक्त्यादिमत्त्वं जीवत्वाविशेषादयुक्तम् । बहुषु स्वातन्त्र्यमयुक्तम् । जगद्विलयापातात् अतः सर्वमयुक्तमिति बुद्धिः स्यात् । ब्रह्मण एकस्य स्वतः सर्वशक्तिप्रदत्वादिप्राधान्यनिश्चये अन्येषां तच्छक्तिबलात् सर्वं युज्यत इति निश्चयो जायते । अतो ब्रह्मज्ञानं सादृश्यप्राधान्याभ्यां पुरुषार्थोपयोगिसर्वज्ञाननिर्वाहकं भवतीत्याशयवता पित्रा मिलित्वोभयत्रैव दृष्टान्तप्रदर्शनपूर्वकमुक्तार्थो दृढीक्रियते यथा सोम्येत्यादिवाक्यत्रयेण । तत्र प्राधान्यस्यैव मुख्यहेतुत्वसूचनाय प्रतिवाक्यं प्राधान्यसाहित्येनैव सादृश्योक्तिसत्वेऽपि लोहमणिदृष्टान्तस्य सादृश्यप्राधान्योभयानुगुणस्य मध्य उक्तिः । मृत्पिण्डमृन्मयादिपदेन सादृश्यविशेषसूचनवत् मणिपदेन प्राधान्यस्य बोधनात् । संस्कृतनाम्नामपभ्रंशादिभ्यः प्राधान्यं तु सर्वभाषाप्रबन्धान् विहाय द्वादशवर्षपर्यन्तं वेद एव परिश्रमं कृतवतः श्वेतकेतोः सिद्धमेव । एवं भाषानिर्माणमादिकालीनं संस्कृतोपजीव्येव । अन्यथा सर्वपदार्थानामप्रत्यक्षत्वेन मन्वादीनां तद्वाचकपदनिर्माणायोगाद्वेदघटकपदैरेव तेषां ज्ञेयत्वात् कथञ्चित्सर्वज्ञत्वादिनानिर्माणसम्भवेऽपि असर्वज्ञमन्यं प्रत्ययमेतत्पदवाच्य इत्यङ्गुल्या निर्देष्टुमशक्यत्वेन प्रथमतो वृद्धानां संस्कृत-व्यवहारादिना गृहीतशक्तिकसंस्कृतशब्देन तन्निर्देशं कृत्वा स्वसङ्केतस्य बोधनीयत्वात् ।

एवं च संस्कृतनाम्नां प्राधान्यस्य, तज्ज्ञानस्य भाषाप्रबन्धादिज्ञानादेर्यत्फलं, तद्वत्वेन यथाकथञ्चिन्मान्यत्वादिकं, तदपेक्षया अधिकतत्सजातीयस्वाभिमतफलजनकत्वस्य च सिद्धत्वात् जगत्प्रत्युपजीव्यत्वेन ब्रह्मण इव प्राकृतभाषां प्रत्युपजीव्यत्वेन वैदिकशब्दानां प्राधान्यविषये प्रकृतसाम्यादन्यद्विहाय तेषामेव दृष्टान्ततया ग्रहणम् । उक्तविलक्षण-प्राधान्यस्फोरणस्य संस्कृतनाम्ना प्राकृतनामज्ञानं भवतीत्युक्तिमात्रेणालाभात् प्राधान्यस्फोर-काभावे इदमपि सादृश्यविषयकमेवेति प्रसक्तिः स्यादिति प्राधान्यस्फोरणमप्यावश्यकम् । तत्रापि वेदस्यैकपदरूपाणां समासरूपाणां वाक्यरूपाणां सर्वेषामप्यनादितः सत्वोच्छेदाभाव-रूपपरमप्राधान्यबोधनाय सत्तदभिधेयप्रसङ्गसन्निधापिततया मृत्तिकाशब्दलोहमणिरूपसमास-वाक्यतुल्यतद्धितान्तसमासरूपकार्ष्णायसपदानां ग्रहणं युक्ततरम् । लोहमणिकार्ष्णाय-सपदयोरनेकपदघटितत्वेऽपि प्रातिपदिकत्वादेव माधवादिपदवन्नामत्वोक्तिर्युक्ता । लोहश्रेष्ठत्वेन सुवर्णज्ञानमितरलोहज्ञानात्मकमेव तथा ब्रह्मणः सर्वप्राधान्यज्ञानं सर्वज्ञानरूपं भवतीति ब्रह्मणः प्राधान्यं फलघटितसादृश्यमन्तरापि एकविज्ञानेन सर्वविज्ञानस्योपपादकं भवतीति लोहमणिदृष्टान्तेनावगम्यते । मृत्पिण्डदृष्टान्तः कार्यकारणभावरूपप्राधान्यान्तरसूचकोऽपि प्राधान्यात्किञ्चित्सादृश्यात्कारणत्वाच्चेति कारणत्वस्य प्राधान्यात्पृथगुक्तिस्तु कुरुपाण्डवन्यायेन सामान्यविशेषभावमाश्रित्य । एते दृष्टान्ता नोपादानोपादेयभावविवक्षया । अपि तूक्तरीत्या सादृश्यादिनिबन्धना एवेति सूचनायैव नखनिकृन्तनमेव सत्यमिति पूर्ववाक्यसाम्यार्थं वक्तव्यत्वेऽपि कार्ष्णायसशब्दस्यैव ग्रहणं कृतम् । कार्ष्णायसस्यापि पूर्वं प्रसक्तत्वेन तद्वाचक-शब्दस्यापि बुद्धिस्थत्वे उपादानोपादेयविवक्षाभावेन नखनिकृन्तनशब्दं विहाय तस्यापि ग्रहणे बाधकाभावात् ।

यदग्ने रोहितं रूपमित्युक्तोत्तरप्रकरणस्थवाक्यानि अस्मत्पक्षे सङ्गतानि । छान्दोग्यभाष्ये प्रमाणोदाहरणपूर्वकं तेजोबन्नशब्दाभिधेयरमाप्राणरुद्रादीनां अग्न्यादिशब्देन क्रमात् मुख्यतोऽभिधेयत्वं अग्न्यादेस्तु तदपेक्षया अमुख्यार्थत्वमित्यादिव्याख्याया दर्शितत्वात् । परेषामेव पौनरुक्त्यम् । जगन्मिथ्यात्वस्य पूर्वमेवोक्तत्वेन पुनः प्रकरणविच्छेदेन तेज आदिषु मिथ्यात्वमनुक्त्वा अग्न्यादीनामेव मिथ्यात्वस्यानाकांक्षितत्वादसङ्गतिश्च । प्रमाणादरेण प्रत्य-वस्थाने नोक्तावाक्यानां त्वदुक्तमिथ्यात्वपरत्वम् । अश्रुतकल्पनादिपूर्वोक्तबहुदोषापत्तेः ।

किन्त्वपागादग्नेरग्नित्वमित्यनेन तेजोबन्नविकारत्वादग्नेरग्नित्वं कारणात्मनाऽवस्थानवेलायां गच्छतीत्युक्तौ एतादृशविकृतपदार्थानां निर्माणं परमेश्वरस्य किमर्थमित्याकांक्षायामिदमुच्यते वाचारम्भणमित्यादि । विकारोऽग्न्यादिरूपविकृतपदार्थः । नामधेयं अग्न्यादिनाम त्रीणि रूपाणि तेजोबन्नानि इत्येतत्सत्यमेव सर्वं वाचारम्भणं वाचया वेदवाचया परम्परया स्वोत्पादननिमित्तभूतयाऽऽरम्भणमुत्पादनं यस्य तादृशम् । वेदे अग्न्यादेरादित्यादेश्चोक्तत्वेन तदुत्पादनाभावे वेदोक्तकर्मानुष्ठानवेदप्रामाण्यासिद्ध्यापत्त्या तन्निर्वाहार्थं तदुत्पादनं कृतमिति भावः । तदुक्तम् —

अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।

 ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।।

 वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’ । इति ।

पञ्चम्योक्तनिमित्तत्वमवगम्यते । न चैकजातीयानुपूर्व्याः प्रकृतेऽन्यादृशार्थकत्वं यदग्ने-रित्यादावन्यार्थकत्वं विरुद्धमिति शङ्क्यम् । प्रकरणानुगुण्येन तदुपयुक्तार्थकल्पने बाधका-भावात् । अन्नमयादिप्रकरणस्थपुच्छादिपदस्यावयवविशेषपरत्वेन आनन्दमयवाक्यस्थ ‘ब्रह्म-पुच्छं’ इति वाक्यस्थपुच्छपदस्य सर्वान्तरपरत्वादिना त्वया व्याख्यातत्वात् ।

यदपि ‘तनूर्वर्षिष्ठा’ इत्यादितोऽस्य वैषम्यकथनं तदपि न । अत्रापि विज्ञातं स्यादिति पूर्वभागावृत्त्या वाक्यपरिसमाप्तेरङ्गीकारात् । यथा सोम्येत्यस्यापि पूर्वभागघटकत्वात् । निरन्तरानुपूर्वीरूपत्वस्य, अन्वयाकांक्षया पूर्वभागावगाहित्वरूपबुद्धिविपरिवर्तं प्रत्यप्रयोज-कत्वात् । तथापि तेन तदित्यविद्यमानमधिकमध्याहर्तव्यमिति चेत् का क्षतिः ? तावतापि तद्भागानुवृत्तेरपरिहारात् । अन्यथा याते अग्न इति वाक्यस्थलेऽप्येकवाक्यतयाऽन्वयलाभाय तया तन्वेत्यध्याहारस्यावश्यकतयाऽनुषङ्गोदाहरणत्वं न स्यात् । दृष्टान्तोपपादकत्वपक्षेऽपि यतोऽत इत्यध्याहारस्य तवाप्यावश्यकत्वाच्च ।

यदपि ग्रन्थान्तरोक्तयोजनायां व्याकरणानिष्पाद्यत्वलाभाय वाचैवेत्येवकारस्त्वयाऽपि कल्पनीय इति । तन्न । पूर्वोक्तरीत्या वाचारम्भणशब्देनैव संस्कृतवैषम्यलाभेन व्याकरणा-निष्पाद्यत्वस्यार्थिकस्य स्वरूपकथनमात्रपरत्वात् ।

यदपि नामधेयपदं सोङ्केतिकनामबोधकमिति लक्षणाप्रसङ्गस्तवेति । तदपि न । चित्रलिखितसिंहे सिंहशब्दवद्रूढगौणत्वात् । अन्यथा द्वादशेऽहनि पिता नाम कुर्यादिति श्रुतौ साङ्केतिकनामि्न नामशब्दप्रयोगाभावापातात् । डित्थनामायं चैत्रनामायमित्यादिप्रचुर-व्यवहाराभावापाताच्च । वाचाशब्दस्य त्वाबन्तत्वं सुधायामेवोपपादितम् । संस्कृत-नामोच्चारणशक्त्योच्चार्यमाणत्वं विकारशब्दार्थ इत्यस्मदनुक्तस्यैवाऽपादनेन दूषणादिकं पूर्वोक्त-क्रमेण टीकाया भाववगमेऽतितुच्छमेवेत्युपरम्यते ।

सृष्टिस्थानं त्वस्मन्मते ब्रह्मणः प्राधान्यबोधनायैव प्रवृत्तमिति तस्यानुगुण्यन्तु स्फुटमेवेति ज्ञातव्यम् । सृष्टिवाक्यानां स्वपरपक्षानुगुण्यानानुगुण्ये टिप्पण्युक्ते अत्राप्यनुसन्धेये ।

विमता आत्मानः परमात्मनस्तत्वतो न भिद्यन्त इत्यनुमानस्य ‘नान्योतोऽस्ति द्रष्टा’ इत्यादिश्रुत्यनुग्रहे तद्बलादैक्यसिद्धौ पुनरयं प्रयासो व्यर्थ इति तदनुक्त्या न्यूनतेत्यत आह ।। तथेति ।। कर्तव्य इति ।। अत्र ग्रन्थगौरवभयात्तदनुक्तावपि स्वकृतानुव्याख्यानादिग्रन्थानुसारेण कर्तव्यताया अभिप्रेतत्वान्न न्यूनतेति भावः । अत्र मिथ्यात्वाद्वैतप्रतिपादकतया प्रतीयमानश्रुत्यन्तरेषु गुर्वद्वैतचन्द्रिकोक्ते स्वपरपक्षसामञ्जस्यासामञ्जस्ये अन्यत्रास्मिन्निरस्तेऽनु-सन्धेये । ग्रन्थगौरवभयादुपरम्यते ।

यत्त्वाधुनिकेन केनचिट्टीकाभावमज्ञात्वैव प्रलपितं ‘एवञ्च तत्त्वमसीत्यादिवेदान्त-महावाक्येष्वपि तात्पर्यानुमापकलिङ्गानुरोधादखण्डार्थत्वमङ्गीकार्यम् । तथा हि । ‘उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवती’त्युपक्रमे एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् । तच्च प्रतिपाद्यस्यैव परमार्थतां विना नोपपन्नं भवति । न हि मतान्तरे कथमपि ब्रह्मज्ञानेन वियदादीनां विज्ञातत्वं निर्वहति । सिद्धान्ते तु तत्वत इत्यध्याहारेण यस्मिन् तत्वतः श्रुते सर्वमश्रुतं श्रुततत्वाभिन्नं भवतीत्यर्थलाभात्, चेतनाचेतननिखिलप्रपञ्चज्ञानं तत्वभूतस्य ब्रह्मणः श्रुतत्वेन निर्वहति ।

न च तत्वत इत्यस्याध्याहारोऽनावश्यकः । येनाश्रुतं श्रुतं भवतीत्यस्याश्रुतं सर्वं यदभिन्नश्रुताभिन्नं भवतीति वाक्यार्थपर्यवसानात् । अध्याहारोऽपि न दोषाय । परेणापि यथाश्रुतस्य योजयितुमशक्यत्वात् । फलमित्यध्याहारेण योजने तु ब्रह्मज्ञाननिखिल-प्रपञ्चज्ञानयोः यत्किञ्चित्फलसाधनत्वस्यानुत्कर्षकारित्वेन श्रैष्ठ्यायोगात् । फलानां ब्रह्म-ज्ञाननिरपेक्षाणां तेन सिद्धत्वाभिधानायोगात् । मोक्षरूपैकफलत्वस्य काकदन्तादिज्ञाने नितरामदृष्टेश्च । यथाकथञ्चित्तदुपयोगाभ्युपगमे चानुत्कर्षपरत्वं सुस्थितम् । तथा च ब्रह्मैव जगत्तत्वं न त्वन्यदिति पर्यवस्यति । तमेव चार्थं यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्यादिना गुडजिह्विका-न्यायेनोपपादयिष्यति ।

तस्य चायमर्थः । हे सोम्य यथा केनचिन्मृत्पिण्डेन विज्ञातेन सर्वं मृन्मयं मृत्पिण्ड-विकारजातं तत्वतो विज्ञातं स्यात् । शरावादेस्तत्कार्यस्य पारमार्थिकत्वादिदं न युक्तमिति शङ्कां निराकरोति । वाचारम्भणं वागालम्बनं विकारो नामधेयमात्रं न परमार्थमित्यर्थः । अयं पण्डित इति नामधेयमात्रमित्यादौ तथा दर्शनात् ।। मृत्तिकेति ।। तन्मृत्पिण्डमित्यर्थः । इतीति प्रकारार्थकम् । इत्यादिकमेवेत्यर्थः । सत्यं पारमार्थिकम् । एवमुपलक्ष्यार्थे उपपत्ति-र्दर्शिता । तामेव च प्रकटीकर्तुं निखिलजगदभिन्ननिमित्तोपादानत्वं सदेव सोम्येत्यादिना दर्शितमपि ऐतदात्म्मिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपक्रमा-विरोधेनोपसंहृतम् । अभ्यस्तोऽयमर्थो नवकृत्वः । अपूर्वं चेदमात्मतत्वे प्रमाणान्तराप्रसक्तेः । फलं च यावन्न विमोक्ष्येऽथ स सम्पत्स्यत इति दर्शितम् । एकविज्ञानेन सर्व-विज्ञानादप्येषोऽर्थः सिद्य्यति । एवं चोपक्रमादिलिङ्गपर्यालोचने ब्रह्मान्यस्य सर्वस्यातात्विक- त्वप्रतिसन्धानात्तत्वावेदकप्रागवगतानां वेदान्तानां तन्मात्रपरत्वं सिद्ध्यतीति सर्वं चतुरस्रम् ।

यत्तु ‘एकविज्ञानेन सर्वविज्ञानस्य सादृश्यप्राधान्याभ्यामुपपत्तेर्न प्रपञ्चमिथ्यात्वपरमिदं वाक्यम् । वाचारम्भणमित्यादेरपि नोक्तोऽर्थः । किन्तु मृत्तिकेत्यादि वैदिकमेव नामधेयं नित्यं धार्यं नाम । सर्वदा ज्ञातव्यमित्यर्थः । सत्यमित्यव्यभिचारीति तदर्थः । साङ्केतिकं नाम पुरुषमतिवैचित्र्येण नानाप्रकारं भवतीत्यनित्यम् । पुरुषापेक्षयाऽनित्यमित्युक्तं भवति । नित्यं ह्यर्थेनौत्पत्तिकसम्बन्धवत्त्वात्परानपेक्षं प्रधानम् । अनित्यन्तु काल्पनिकशक्तिमत्त्वात्त-दपेक्षमप्रधानं भवतीत्यर्थः पर्यवसितः । तथा च यथा प्रधानसंस्कृतज्ञानादप्रधानं ज्ञातमिव भवति । तथा प्रधानपरमात्मज्ञानेन अप्रधानं जगज्ज्ञातमिव भवतीत्यर्थः । इदञ्च येनाश्रुतं श्रुतं भवतीति प्रतिज्ञातार्थोपपादनपरम् । न तु यथा सोम्येत्यादिदृष्टान्तोपपादनपरम् । यथोक्तम् —

‘‘प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ।

  विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित्’’ ।।

इति । ‘यथा सोम्यैकेन मृत्पिण्डेन’ इत्यादि तु सादृश्यात् एकविज्ञानेन सर्वविज्ञाने दृष्टान्तप्रतिपादनपरम् । एवञ्च सादृश्यप्राधान्याभ्यामेवैकविज्ञानेन सर्वविज्ञानमुपपादितं भवति । ब्रह्मानन्दोक्तव्याख्या तु न युक्ता । एकमृत्पिण्डज्ञानात्सर्वमृद्विकारज्ञानायोगात् । नखनिकृन्तनदृष्टान्तस्यान्त्यावयवित्वेन कार्यान्तरानुपादानत्वात् । एकमृत्पिण्डादिपदानां वैयर्थ्यापत्तेश्च । न हि सत्यत्य विज्ञानादसत्यस्य विज्ञानम् । शुक्तिज्ञानेन रजतज्ञाननिवृत्तेरेव दर्शनात्’’ इति ।

तन्मन्दम् । साङ्केतिकनाम्नो गर्गर्यादेरपि विविधप्रकारत्वाभावात् । न हि गर्गर्यादिशब्दः पुरुषमतिवैचित्र्यात्प्रकारान्तरमाप्नोति । साङ्केतिकाः शब्दाः पुरुषभेदेन भिद्यन्त एवेति चेत् किञ्चातः तावतापि गर्गर्यादिशब्दानां रूपान्तरापत्त्यभावात् । विविधप्रकार इत्यस्य विविधार्थको भवतीत्यर्थाभ्युपगमे संस्कृतशब्दस्यापि हर्यादेर्विविधार्थकत्वात्संस्कृतसाङ्केतिक-योरविशेषः । ननु सत्यमेतत् । साङ्केतिकस्य नानार्थत्वं पुरुषविशेषापेक्षम् । संस्कृतस्य तु तदौत्पत्तिकमिति विशेषोऽस्तीति चेत्तर्हि सापेक्षत्वमेव श्रुत्या अप्राधान्यनिर्वाहकं दर्शनीयम् । न तु प्रधानसाधारणं विविधार्थकत्वमिति ।

इह श्रुतिव्याख्यानवैगुण्यं विकारशब्दस्यैवमाधुनिकलक्षणाक्रान्तता स्यात् । एवं धार्यं नामेति साधारणं नित्यं धार्यता तु लक्षणागम्या बाधिता च । न हि विद्वद्भिरपि नित्यं धार्यते । सत्यमित्यस्याव्यभिचारितार्थपरत्वमित्यपि न विना लक्षणाम् । तत्त्वं च न तावदेकार्थकत्वम् । हर्यादिपदाव्यापकत्वात् । पुरुषनिरपेक्षार्थकत्वं तदित्युक्तावपि भवति श्रुतिकचाकर्षणं स्वमनोरथावाप्तये न तु हृदयानुगुण्याय । अन्यत्रापि च प्राधान्यं हेतुनिरपेक्षत्वमेव वाच्यम् । नान्यत् । इतिशब्दस्याद्यर्थकत्वे मृत्तिकाशब्दस्य स्वरूपपरत्वं निर्मूलम् । स्वरूपपरत्वे तदन्यानां सत्यादवधारणानुपपत्तिरिति सङ्कोचेन तन्नयनमावश्यकम् । एकेनेत्यादावेकपिण्डपदयोर्वैयर्थ्यं तवापि दुष्परिहरम् । एकवचनेनैवैकत्वलाभात् । जात्येकवचनत्वशङ्कानिवृत्तिस्तत्फलमिति तु ममापि तुल्यम् । मयड्वैयर्थ्यं च तवाधिकम् । एतादृशविज्ञानस्यानुत्कर्षकारित्वात्प्रकृतेऽनुपयोगः । न हि काकदन्तकपिगुदाभ्यां विज्ञाताभ्यां प्रमेयत्वपदार्थत्वादिना तत्सदृशजगन्न विज्ञायते । अत्यन्तसादृश्यविवक्षायां तु परमेश्वरस्य घटादिषु किं बहुना ब्रह्मादिष्वनुपपत्तेः । तस्मात् परकीयापव्याख्यानस्य हेयत्वादुक्त एवार्थो रमणीयः । तत्र यथा सत्य(त्यं)ब्रह्मविज्ञानं तथोपपादितं प्राक् सिद्धान्ते । सावयव्यसम्प्रतिपत्तेः । नखनिकृन्तनादेरपि स्वकार्यशकलाद्युपादानता सम्भवत्येव क्षीरादेर्दध्युपादानत्ववदित्यन्यत्र विस्तरः’’ इति ।

तत्तुच्छम् । पूर्वमस्मदुक्तरीत्या टीकार्थावगमे त्वत्प्रलपितस्य कस्यापि दोषस्यासंस्पर्शात् । सादृश्यविकल्पफलविकल्पपूर्वकदूषणस्य निरस्तत्वात् । तत्वत इत्यध्याहारपक्षेऽपि न्यायामृतोक्तदूषणस्य व्यवस्थापितत्वात् । तदनध्याहारे यदभिन्नश्रुताभिन्नं सर्वमित्युक्तौ, तदध्याहारपक्षे वा सर्वविषयकोक्तज्ञानस्य स्वाभिमतफलजनकत्वाप्रतिसन्धाने तदर्थं प्रवृत्त्य-निर्वाहात् । तन्निर्वाहाय फलविशेषाध्याहारस्य तवाप्यवर्जनीयत्वात् । अन्यथाऽश्रुतं यदभिन्नश्रुतं भवतीत्येतावन्मात्रोक्तावपि ब्रह्मरूपाश्रुतस्य ब्रह्मरूपश्रुताभेदस्याबाधितत्वात् सर्वपदानामश्रुतानामध्याहारो न कर्तव्यः स्यात् । तत्वत इति पदानध्याहारे ब्रह्माभिन्न-श्रुभिन्नत्वस्य सर्वत्रोक्तावपि न सर्वेषां ज्ञातत्वलाभः रूपघटयोरभेदेऽपि घटस्य ज्ञातत्वेऽपि रूपे ज्ञातत्वाभावस्यैव सत्वेन तस्य तदव्याप्यत्वात् । तथा च येनाश्रुतमित्यादिना ब्रह्मज्ञानस्योत्कर्षालाभ एव । तत्वत इत्युक्तावपि काकदन्तः क्वचिदारोपित इति ज्ञानस्यापि सर्वतत्वज्ञानरूपतया काकदन्तब्रह्मणोरविशेष एव । उक्तकाकदन्तज्ञानस्याप्यारोपाधि-ष्ठानभूतब्रह्मज्ञानरूपत्वाद्ब्रह्मण एव सर्वतत्वरूपत्वे काकदन्तकपिगुदतत्वज्ञानस्य सर्वतत्वज्ञान-रूपत्वानपायात् । यथाकथञ्चिद्ब्रह्मज्ञानस्य सर्वतत्वज्ञानात्मकत्वे ‘सन् घट’ इति ज्ञानस्यापि तथात्वापत्त्या तस्य स्वतःसिद्धत्वेन उपदेशानर्थक्यापत्त्या ब्रह्मतत्वज्ञानस्यैव तथात्वेन विवक्षणीयत्वेन तस्योक्तरीत्या काकदन्तादितत्वज्ञानाविशेषात् । ज्ञानविशेषादेस्तुत्य-न्यथानुपपत्त्यैव तात्पर्यबलाल्लाभे तु मां प्रत्युक्तस्तव प्रलापस्त्वन्मौर्ख्यख्यापक एव ।

यदपि षडि्वधतात्पर्यलिङ्गादिप्रदर्शनं तदप्यकिञ्चित्करम् । तेषामप्यद्वैततात्पर्यकत्वा-भावस्यैव सविस्तरमन्यत्रोपपादितत्वात् । उक्तग्रन्थोपक्रमे ‘एवं च’ इत्येतत्, ‘प्रकृष्ट-प्रकाशादिवाक्यादिरीत्याऽखण्डार्थबोधकत्वसिद्धौ सत्यां’ इत्येतदर्थकं उपष्टम्भकवचनमिति वाक्यानामखण्डार्थत्वनिरासादेव निरस्तम् । गर्गर्यादेरपि विविधप्रकारत्वाभावादित्यादिजल्पनं कल्पभेदेन नानाप्रकारत्वादेस्तदप्राधान्यहेतुभूतस्य टीकामूलाभिप्रेतत्वस्य दर्शितत्वेन निर-स्तम् । नानार्थकत्वमेव नानाप्रकारत्वमित्यादिकं त्वनुक्तोपालम्भरूपत्वादश्रद्धेयम् । धेय-मित्यत्र धारणयोग्यतायाः तत्प्राधान्यनिर्वाहिकायाः यत्प्रत्ययार्थतया दर्शितत्वेन नित्यधार-णस्य लक्षणावगम्यत्वबाधितत्वादिदूषणमप्यशुद्धम् । ब्रह्मादिभिर्वेदवाचां नित्यं धारणसम्भवेन बाधाभावाच्च । सत्यमित्येतत्पदार्थदूषणन्तु तव मूलटीकावाक्यार्थाज्ञानमूलकम् । तत्र इत्येतद्वचनं सत्यमिति श्रुत्यर्थ इत्यनेनास्मदुक्तवाक्यं प्रमाणमर्थाव्यभिचारीति वेदपुरुष-वाक्यतया व्याख्यातत्वेन नामधेयविशेषणतया व्याख्यातत्वाभावेन सत्यपदस्य प्रमाणवाक्ये लौकिकवैदिकप्रचुरप्रयोगबलेन निरूढलक्षणायाः कथञ्चिदवयवशक्तेर्वा आश्रयणीयतया च त्वदुक्तदूषणसङ्गत्यभावात् ।

मन्मते एकव्यक्तिज्ञानेनैव सादृश्यविशेषनिबन्धनतत्सजातीयानेकव्यक्तिज्ञानलाभार्थं जात्येकवचनत्वशङ्कानिरासकैकपदस्य व्यक्तिविशेषबोधकपिण्डपदस्य सादृश्यविशेषलाभाय मयटश्च सार्थत्वसम्भवेऽपि त्वन्मते कारणव्यतिरेकेण कार्यासत्वबोधनमात्रस्य प्रकृतोपयोगित्वेन तत्रैकपिण्डपदवैयर्थ्यानिस्तारेण तत्र मन्मतसादृश्याद्युद्भावनपूर्वकदूषणासंस्पर्शात् । मृत्पिण्ड-पदसामञ्जस्याय मृन्मयपदस्य मृत्पिण्डमयलक्षणया व्याख्या तु निर्निमित्तं जघन्यलक्षणामूलेति स्फुटैव । विकारशब्दस्य सोपसर्गघञन्तकृञ्घातुनिष्पन्नस्य प्रकारपदवद्धर्मबोधकत्वसम्भवात् । उपसर्गार्थप्रकर्षाविवक्षयाऽपि धर्ममात्रे प्रकारप्रयोगोऽपि सङ्गच्छते । सुन्दरी रामेत्यादिशब्दानां स्त्रीसामान्ये प्रयोगवत् । तथा च न विकारशब्दस्य लक्षणाप्रसक्तिः । अतस्तद्दूषणमप्ययुक्तम् ।

नखनिकृन्तनस्य तु शकलोपादाननत्वन्तु दूषितमेव । समवायगर्भसावयवत्वस्या-सम्प्रतिपत्तावपि द्रव्यान्तरानुपादानत्वरूपान्त्यावयवित्वव्यवहारस्य नखनिकृन्तने सत्वादस्मद्-ग्रन्थस्य बाधकाभावेनावयव्यसम्मतिकथनमकिञ्चित्करमेव । अयं पण्डित इति नाममात्र-मित्यादौ मात्रपदसत्वेन तत्र पण्डितत्वाभावप्रतीतावपि प्रकृते श्रुतौमात्रशब्दाश्रवणात् । स्वाभिप्रेतमिथ्यात्वबोधकत्वनिर्वाहायैव मात्रपदपूरणे तवैव श्रुतिमातुः कचाकर्षणं स्वमनोरथा-वाप्तये नास्माकम् । न हि तद्विना वाक्यार्थो न घटते । एकमृत्पिण्डेन तदात्मकानां मृन्मयानां ज्ञानं भवतीत्युक्तौ मृत्तिकामृन्मयपदार्थानां कथमभेदः ? शब्दानामर्थमेदात् घटशरावमृत्तिकादिरूपपरस्परात्यन्तभिन्नशब्दार्थघटशरावमृत्तिकादीनामैक्यायोगादित्या— -ङ्क्येदमुच्यते । विकारो मृत्तिकैव नामधेयन्तु वाचारम्भणं वाग्जन्यं इत्येव सत्यम् । उक्तमतान्तरन्तु असत्यमेवाप्रमाणमेवातोऽयुक्तमित्यादिरीत्या योजनायाः कर्तुं शक्यत्वात् । मतान्तराणामप्यनादिसिद्धत्वेन ‘तद्धैक आहु’रिति श्रुत्येवानेनापि तत्प्रत्याख्याने बाधकाभावात् ।

न चैतावतैव मदिष्टसिद्धिः एतद्दृष्टान्तबलेन मृत्तिकातद्विकाराणामिव ब्रह्मजगतोरपि तादात्म्यपर्यवसानेन मिथ्यात्वसिद्धेरिति वाच्यम् । दृष्टान्ते सर्वसाम्याभावेन तदधीनोत्पत्ति-कत्वादिना बोधे प्रमाणान्तराविरुद्धस्य तस्यैव ग्रहणसम्भवात् । अन्यथा तवापि तद्दृष्टान्तमहिम्ना ब्रह्मणो विकारित्वसिद्ध्यापत्तेरिति ।

अत्रानूदितपरग्रन्थेऽनन्वितार्थकान्यपि वाक्यान्युपलभ्यन्ते । पुस्तकप्रत्ययाभावेन तानि तथैव निश्चित्य दूषणायोगात्प्रमेयमात्रं दूषितमित्यलम् ।

उपसंहरति ।। तदेवमिति ।। ननु ब्रह्मणो जगदुपादानत्वस्य परैरभिहितत्वेन तस्य जगन्मिथ्यात्वपर्यवसानेन तदनिराकरणे जगत्सत्वसिद्ध्ययोगादुपादानत्वावेदकश्रुतिविचारोऽपि कर्तव्य इति तं कृत्वोपसंहारः कर्तव्योऽतस्तदनुक्त्या न्यूनतेति चेन्न । ‘आत्मैक्यविचारः’ इति पूर्ववाक्ये आत्मनामैक्यं आत्मनो जगदैक्यं चेत्यर्थद्वयमभिप्रेतम् । नान्योतोऽस्ति द्रष्टेत्यादीत्यत्रादिपदेन भेदाभेदनिर्वाह्योपादानत्वबोधक‘यतो वा’ इत्यादिश्रुतयोऽपि ग्राह्याः । अतो न्यूनत्वाप्रसक्तेरुपसंहारोपपत्तेः ।

।। ब्रह्मणो जगदुपादानत्वनिरासः ।।

अत्रोपादानत्वनिराकरणप्रकारो न्यायामृतोक्तरीत्या लेशतो दर्शयिष्यते ।

ब्रह्मणो जगदुपादानत्वे जगदात्मना मृदो घटात्मनेव विकाररूपपरिणमो वाच्यः । स न युक्तः । ‘निर्विकारोऽक्षरः शुद्धः’ ‘निर्विकारमनौपम्यं’ इत्यादिबहुश्रुतिविरोधात् ।

अत्र यदुक्तं परैर्मायासम्बन्धादुपादानत्वोपपत्तिरिति । तत्र वक्तव्यम् । किं मायाविशिष्टं ब्रह्मोपादानं निर्विकारश्रुतिस्तु शुद्धविषया यद्वा मायाब्रह्मणी सितासितरज्जुवत् मिलित्वैवोपादानं निर्विकारश्रुतिस्तु मायासाहित्यं विना केवलब्रह्मणः परिणामाभावविषया । अथवा मायैव जगदुपादानकारणम् । तदुपादानत्वाद्ब्रह्मापि जगदुपादानमुच्यते । पटोपादान-तन्तूपादानस्य कार्पासस्य पटोपादानत्ववत् । निर्विकारश्रुतिस्तु ब्रह्मणो युक्तैव तस्याविकारित्वादिति नाद्यः । मायाविशिष्टब्रह्मणः शुद्धान्यत्वे ज्ञेयस्य शुद्धस्य जगत्कारण-त्वासिद्धिः । तत्स्वरूपत्वे शुद्धस्यैव विकारापत्तिः । ब्रह्मणः परिणामप्राप्त्या ब्रह्मविवर्तत्वमतहानिश्च ।

न च विशिष्टापेक्षया परिणामः । शुद्धापेक्षया विवर्तः । विशिष्टशुद्धयोर्भेदाभेदादिति वाच्यम् । शुद्धापेक्षया विवर्त इत्यस्य शुद्धं विकारिभूताविद्याविषय इत्यर्थः । तथा च तन्नाशरूपविकारस्य शुद्ध एव वाच्यतया शुद्धे निर्विकारत्वश्रुतिविरोधतादवस्थ्यात् । न द्वितीयः । इतरासाहित्येनाविकारस्य तत्साहित्येन विकारस्य च मायाब्रह्मणोरुभयोः साम्ये विशिष्य ब्रह्मणो निर्विकारत्वावेदकश्रुतिविरोधात् । पारमार्थिकापारमार्थिकोभयात्मक-ब्रह्माविद्योभयपरिणामत्वे जगति पारमार्थिकत्वापारमार्थिकत्वयोः समुच्चयापातात्परस्परप्रति-बन्धादुभयशून्यत्वे निस्स्वभावत्वापाताद्ब्रह्मपरिणामत्वे तद्विवर्तमतहानिप्राप्तेश्च । न तृतीयः । मायाया अनादित्वेन मायोपादानतया जगत्प्रत्युपादानमुच्यत इत्यस्यासङ्गतेः ।

ननु अविद्यापरिणामः ब्रह्मण्यारोपितोऽयं प्रपञ्चोऽत उभयोः समप्रधानभावेनैवो-पादानता । ब्रह्मणो निर्विकारत्वाच्च न तत्श्रुतिविरोधश्च । न च ब्रह्मणि प्रपञ्चारोपार्थ-मविद्याविषयत्वाङ्गीकारात्तन्नाशस्य तत्रावश्यकत्वादुक्तदोषः । तत्वज्ञानक्षणस्य तत्क्षणपूर्वत्वा-भावनियममात्रे मायारूपाविद्यानाशश्रुतीनां तात्पर्याङ्गीकारेण नाशरूपविकारस्य तत्रानभ्युपगमात् । नाशाङ्गीकारे वा निर्विकारत्वश्रुतेः स्वसमसत्ताकविकाराभावपरत्वे-नाविरोधात् । नाप्युभयोपादानकत्वे जगत्यनिर्वचनीयत्वपारमार्थिकत्वयोरुपादानधर्मयोर्मेलन-रूपदोषः । परिणाम्युपादानधर्मस्यैव कार्य आवश्यकत्वेन विवर्तोपादानधर्मभूतपारमार्थिक-त्वानङ्गीकारे क्षतिविरहात् । न चानिर्वचनीयपारमार्थिकोभयानुगतमुपादानत्वं दुर्वचमत-स्तद्विभागोऽप्ययुक्त इति वाच्यम् । स्वनिष्ठतादात्म्यप्रतियोगिकार्यजनकत्वं सामान्यत उभयानुगतमुपादानत्वम् । कार्ये स्वसमसत्ताकत्वस्वविषमसत्ताकत्वाभ्यां निवेश्य परिणाम्युपा-दानत्वविवर्तोपादानत्वे निर्वाच्ये । विवर्तेऽपि कार्यतादात्म्यमस्त्येवेति न कोऽपि दोषः । न च सत्यरूपान्तरापत्तिमत्परिणामीति वृद्धोक्तेरारोपितस्य सत्यत्वाभावेन सत्यरूपान्तरा-भावेनोक्तपरिणामिलक्षणं शुक्त्यज्ञानब्रह्माज्ञानादौ च न घटत एवेति वाच्यम् । स्वविषय-काज्ञानापेक्षां विना कार्यतादात्म्यापन्नं कारणं परिणामिकारणमित्यत्रैव तद्वाक्यतात्पर्यात् । परिणम्यमानपदार्थविषयकाज्ञानानपेक्षणादिति चेन्न ।

आरोपितस्यात्यन्तासत्वस्यैव व्यवस्थापितत्वेन अनिर्वचनीयत्वरूपतृतीयप्रकारस्य निर-स्तत्वेन जगतो ब्रह्मण्यारोपितत्वे तन्निरूपितकारणत्वस्यैवायोगेन तद्विशेषोपादानत्वस्य दूरे निरस्तत्वात् । सदसतोस्तादात्म्यायोगाच्च । अज्ञानस्वरूपस्यैवाग्रे निराकरिष्यमाणतया अविद्यायाः परिणाम्युपादानत्वादिप्रक्रियाया अपि खपुष्पतुल्यत्वमेव । अपि च जगत्प्रत्युपादानत्वे ब्रह्मणो निमित्तकारणत्वानुपपत्तिः ।

न च रूपभेदेन कालघटसंयोगं प्रति कालस्येवोभयमप्यस्त्विति वाच्यम् । तर्हि अविद्याया अपि जगदारोपं प्रति दोषविधया निमित्तकारणत्वेन आरोपस्यार्थज्ञानो-भयात्मकत्वेन जगत्प्रत्यभिन्ननिमित्तोपादानत्वस्य ब्रह्मलक्षणस्याविद्यायामतिव्याप्त्यापत्तेः । न च कर्त्रभिन्नोपादानत्वमेव लक्षणमभिमतमिति वाच्यम् । कर्तृत्वोपादानत्वयोः परस्परविरोधेन सामानाधिकरण्यस्यैवायोगात् ।

न चात्मनि सुखदुःखादिकं प्रति कर्तृत्वोपादानत्वे समानाधिकरणतया दृष्टे एवेति वाच्यम् । भेदाभेदनियततादात्म्यगर्भितोपादानत्वस्यात्मन्यसम्प्रतिपत्तेः । तर्ह्यन्तःकरण एवोभयं दृष्टम् । तस्य सुखादिकं प्रत्युपादानत्वात् तदनुकूलकृतेरप्यन्तःकरणोपादानकत्वेन कृतिनिरूपिततादात्म्यसम्बन्धवत्वरूपकर्तृत्वस्याप्यक्षतेः । समवायस्य निरस्तत्वेन तादात्म्य-स्यैव कृत्याश्रयतानियामकत्वात् इति चेन्न । त्वदुक्तलक्षणस्य मायायामेवातिव्याप्तिः । तस्याः जगदुपादानत्वात् । ईक्षणकृत्यात्मना तस्या एव परिणतत्वेन कृतेस्तादात्म्यसम्बन्धस्य मायायामपि सत्वाच्च ।

न च तदारोपाधिष्ठानत्वरूपोपादानत्वं लक्षणत्वेनाभिमतम् । न च मायायास्तदस्तीति वाच्यम् । आरोपितं प्रति कारणस्यैवाप्रसिद्ध्या तन्निमित्तत्वगर्भलक्षणस्यात्यन्तासम्भवदुक्ति-कत्वात् । शुद्धस्यारोपाधिष्ठानत्वेन मायोपहितस्येश्वरस्य निमित्तत्वेनाभिन्ननिमित्तोपादान- त्वाभावेनासम्भवाच्च ।

ननु मायाऽविद्याभेदाभावात् मायोपाधिवशात् शुद्धमेवाधिष्ठानं सत्यांशप्रधानमाया-परिणामभूतेक्षणादिशालित्वात् कर्तृत्वमपि तस्यैव । न च कल्पितकार्ये शुक्तिरजतादौ कर्तुरदर्शनात् जगति कर्तृकल्पना न युक्ता । एवमारोपाधिष्ठानस्य सर्वज्ञत्वे बीजाभावेन जगत्कारणत्वोक्त्याऽर्थलब्धं सार्वज्ञ्यं शास्त्रयोनिसूत्रेण स्फुटीकरिष्यत इति त्वन्मत-हानिश्चेत्यापत्तिरिति वाच्यम् । मन्मते घटादेरपि कल्पितत्वेनाकल्पितकार्याप्रसिद्धेः । शुक्ति-रजतादिकं प्रत्यपि साक्षिण एव कर्तृत्वाभ्युपगमाच्च । न च तदनुकूलकृतेरनुभवविरुद्धत्वमिति वाच्यम् । कार्यानुकूलज्ञानवत्त्वस्यैव कर्तृत्वपदार्थत्वात् कर्तृत्वबललब्धस्य मायासत्यांश-परिणामभूतेक्षणरूपसर्वज्ञत्वस्यैव स्फुटीकरणात् । इति चेत् ।

मैवम् । उपाधिवशाच्छुद्धस्यैव विवर्तोपादानत्वे कर्तृत्वघटकं तत्रैव स्वीक्रियते उत मायोपहित ईश्वरे । आद्ये शुद्धस्यैवेक्षणतज्जन्यकृतिक्रियातन्नाशादिविकाराङ्गीकाराच्छुद्धत्व-हानिः । श्रुतेः स्वसमानसत्ताकविकाराभावपरत्वेन सङ्कोचेन श्रुतिविरोधपरिहारः, शुद्धत्वमपि तादृशविकारादिराहित्यं चेत् मृत्पिण्डादिदृष्टान्तानुरोधाद्ब्रह्मणः परिणामितयैवोपादानत्वं स्वीकृत्य निर्विकारत्वशुद्धत्वादिश्रुतीनां स्वाधिकरणकालत्वव्यापकविकारसामान्याभावाद्यर्थ-कत्वं कुतो न स्वीक्रियते ? एवमेव सङ्कोचः कर्तव्य इत्यत्र नियामकानुपलम्भात् । सत्तात्रैविध्यादेर्निराकृतत्वेनोक्तसङ्कोचानुपपत्तिश्च । न द्वितीयः । मायोपहितस्य मुमुक्षुज्ञेय-शुद्धान्यत्वादुपादानत्वस्यापि उक्तलक्षणस्य ज्ञेयब्रह्मनिष्ठत्वायोगः । शुद्ध एव तदङ्गीकारे पुनरभिन्ननिमित्तोपादानत्वमतहानिः । स्वरूपविवक्षया तथात्वं चेज्जीव एवातिव्याप्तिः स्यात् । ईक्षणमात्रस्य कार्यानुकूलस्य कर्तृत्वपदार्थत्वे मृत्पिण्डं दृष्ट्वैवं कुर्विति प्रेरकस्यापि घटकर्तृत्वव्यवहारापत्तिस्तज्ज्ञानस्यापि घटानुकूलत्वात् ।

न च तद्धटोत्पत्तावन्यथासिद्धं न साक्षात्कारणत्वानुकूलतावदिति वाच्यम् । कुलालादि-प्रत्यक्षस्यापि घटोत्पत्तौ कृत्यादिनाऽन्यथासिद्धत्वस्य सुवचत्वेन तेषामपि कर्तृत्वाभावा-पातात् । मायापरिणामभूतज्ञानरूपकार्यं प्रत्यपि कर्तृत्वनिर्वाहाय ज्ञानान्तरस्वीकारेऽनवस्था-पत्त्या कस्यापि कार्यस्यायोगेन तन्निर्वाहाय तादृशज्ञानस्वीकारस्यैवायोगात् कर्तृत्वलब्ध-सार्वज्ञस्फुटीकरणं, शास्त्रयोनिसूत्रे क्रियत इत्येतद्गर्भस्रावेणैव निरस्तम् । मन्मते नित्य-ज्ञानाभिव्यक्त्यादिकं तूक्तं गुणपूर्णत्वविचारावसरे । स्वाप्नव्यामोहनीयाभावात् जगद्भ्रमोत्पादनाय प्रेक्षावतोत्तमस्येश्वरस्य प्रवृत्त्याद्ययोगः । मायाबलादेव प्रवृत्तौ तत्स्वातन्त्र्यावेदकश्रुतिविरोधः । अधिकं सुधान्यायामृतादितोऽनुसन्धेयमिति दिक् ।

स्यादेतत् । ‘‘ब्रह्मणो जगदुपादाननिमित्तत्वयोः श्रुत्यादिसिद्धत्वेनोक्तदूषणानां तद्विरोधे स्वयमेवाभासत्वात् । तथा हि । ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतिस्ता-वत्प्रमाणम् । ‘जनिकर्तुः प्रकृतिः’ इति सूत्रेणोपादानस्यापादनत्वविधानेनोक्तपञ्चम्योपादान-त्वबोधनात् । एवं ‘सोकामयत । स तपोऽतप्यत । स तपस्तप्त्वा इदं सर्वमसृजत । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत्’ इति तैत्तिरीयश्रुतिः प्रमाणम् । सत्त्यदादिशब्दोदितमूर्तामूर्तदेशकालादिसम्बद्धत्वप्रकारकनिरुक्तिविषयतदन्यनिलय- नानिलयनशब्दोक्ताश्रयतदन्यविज्ञानाविज्ञानशब्दोक्तचेतनतदन्यसत्यपदोक्तव्यावहारिकसत्या- नृतपदोक्तप्रातिभासिकादिरूपनिखिलप्रपञ्चात्मनाभवनस्योपपादितत्वात् । एवं ‘आत्मन आकाशः सम्भूतः’ इत्यत्रापि पञ्चम्योपादानत्वं प्रतीयते । न च सच्चत्यच्चेति पदाभ्यामेव मूर्तामूर्तनिखिलप्रपञ्चानामुक्तत्वादितरपदानां वैयर्थ्यम् । सत्यच्छब्दोक्तविवरणरूपत्वेन निरु-क्तादिपदानामवैयर्थ्यात् । निलयनत्वं स्वान्यसर्वकृताश्रयत्वमाकाशस्यैव सर्वभवनाश्रयत्वं वा ब्रह्माण्डस्यैवेति बोध्यम् ।

एवं ‘सदेव सोम्येदमग्र आसीत्तदैक्षत बहुस्यां प्रजायेय तत्तेजोऽसृजत’ इति छान्दोग्यश्रुतिरपि प्रमाणम् । आत्मनो बहुभवनसङ्कल्पपूर्वकं सृष्टिकथनात् । एवं येनाश्रुतं श्रुतमित्यादिनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा मृत्पिण्डादिदृष्टान्तैरुपपादनं च तत्प्रमाणम् । एवं तैत्तिरीयस्थमेव वाक्यं ‘तदात्मानं स्वयमकुरुत तस्मात्तत्सुकृतमुच्यत इति’। तत्रात्मन एव जगदात्मनाकरणोक्तेः । एवं ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ इत्याथर्वणश्रुतिरपि । योनिपदेनोपादानत्वस्यैवोक्तेः ।

न च ‘योनिष्ठ इन्द्र निषदे अकारि’ इत्यत्रेव योनिपदस्यान्यार्थकत्वमिति वाच्यम् । तत्र ते निषदे उपवेशनाय योनिस्थानमकारीत्यर्थस्य निषद इत्यादिपदसमभिव्याहारादङ्गीकारेऽप्यत्र स्वरसतः प्राप्तमुपादानकारणत्वं विहाय कारणमात्रार्थकत्वाङ्गीकारे बीजाभावात् । एवं ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादिस्मृतीनामपि उक्तार्थे प्रामाण्यम् । समित्युपसर्गेण तादात्म्यरूपप्राप्तेरवगमात् । एवमुक्तरीत्या श्रुतिस्मृत्यनुग्रहाद्विवरणोक्तमनुमानमपि मानम् ।

तथा हि । ‘महाभूतानि सद्वस्तुप्रकृतिकानि तत्स्वभावानुरक्तत्वे सति विविधविकारत्वात् घटवत्’ इति । अत्र यदनुरक्तत्वे सति यत्कार्यं तत्तदुपादानकमिति सामान्यव्याप्तिरनु-मानाङ्गम् । गुणोपरक्ते तदनुपादानके द्रव्ये व्यभिचारवारणाय विशेष्यदलम् । निमित्तकारणत्वं ‘स हि सर्वस्य कर्ता’ इत्यादिवाक्यैरेव परेषामपि सम्मतमिति नोपादानत्वसहितकर्तृत्वस्य ब्रह्मण्यनुपपत्तिः’’ इति ।

मैवम् । जनिकर्तुंः प्रकृतिरिति सूत्रवृत्तौ प्रकृतिपदं हेतुमात्रपरमित्युक्त्वा पुत्रात्प्रमोदो जायते इत्युदाहृतत्वात् न्यासेऽप्येतदभिप्रायेण (सति प्रकृतिग्रहणे) ‘उपादानस्यैवापादान-संज्ञाया उक्तसूत्रेणाविधानात्’ इत्युक्तत्वात् उक्तपञ्चम्योपादानत्वासिद्धेः । एवं महाभाष्येऽप्युक्तम् । ‘अयमपि योगोऽवक्तुं शक्यः । कथम् । गोलोमाजलोमविलोमभ्यो दूर्वा जायन्ते । अपक्रामन्ति तास्तेभ्यः’ इत्यादिना लोमादीनां दूर्वादीन् प्रति अवधित्वात् ‘ध्रुवमपायेऽपादानं’ इत्यनेनैवापादनसंज्ञासिद्धेरिदं सूत्रमनारम्भणीयमिति दर्शितम् । कैयटेऽपि अपक्रमणावधिलोमादिषु कार्यप्रतीतिर्न सम्भवतीत्याशङ्क्य बिलान्निष्क्रमतो दीर्घभोगस्य भोगिनोऽवच्छिन्नतया तत्रोपलब्धिवत् कार्यस्यापि दूर्वादेस्तत्रोपलब्धिरित्यवधित्वमेव तस्योप-पादितम् । तथा च भाष्यकारपक्षेऽपि उपादान एव जनिधातुयोगे पञ्चमीत्यनङ्गीकारात् प्रकृते पञ्चमी अपादान एव । शृृङ्गाच्छरो जायत इत्यादिवत् ।

न च लोमादीनां तदात्मना परिणतानां कथं विभागावधित्वरूपमपादानत्वमिति शङ्क्यम् । शृृङ्गमृत्पिण्डलोमादिघटकभागविशेषाणामेव शरघटदूर्वाङ्कुराद्यात्मना परिणत-त्वात्तद्भागनिष्ठविभागावधिभूतभागविशेषाणामेव प्रकृतवाक्यघटकशृृङ्गलोममृत्पिण्डपदतात्पर्य-विषयत्वेनापादनत्वोपपत्तेः । पर्णात्पर्णं पततीत्यादौ कर्तृरूपपर्णभिन्नपर्णव्यक्तेरेव सामान्यरूपेण तात्पर्यविषयत्ववत् । तद्वाक्याद्बोधप्रकारस्तु यथा वृक्षात् पततीत्यनेन वृक्षावधिक-विभागानुकूला वृक्षवृत्तिभेदप्रतियोगितावच्छेदिका या पतनरूपक्रिया तदाश्रयः पर्णमिति । तथा प्रकृते शृृङ्गमृत्पिण्डलोमादिभागनिष्ठविभागजनकीभूततन्निष्ठभेदप्रतियोगितावच्छेदकीभूत- परिणामविशेषरूपजनिकर्ता दूर्वादिरिति क्रमेण । शरस्तृणजातिविशेषः ।

कर्दमलिप्तमहिषीशृृङ्गेण शराङ्कुरोत्पत्तेर्लोकसिद्धत्वात्’ इति तरङ्गिणी । परिणाम-रूपव्यापारस्य तु तादृशभागान्तरावधिकविभागानुकूलत्वमेव । न तु समीपवृत्ति-तद्भागानंशभूतपदार्थान्तरविभागानुकूलत्वम् । मानाभावात् । अवयवविभागानुकूलत्वं वाऽऽव-श्यकम् । तस्मादुद्गमनं विना रूपान्तरापत्तिरूपपरिणामायोगात् । पदार्थान्तरविभागस्तु सर्वप्रत्यक्षसिद्धक्रियान्तरेणैव । अतो यत्र मृत्पिण्डाद्धटो जायत इति व्यवहारः तत्स्थले तत्संयुक्तपदार्थान्तराद्धटो जायत इति न व्यवहारः । इदं तु लोकानां बीजादि-भागादङ्कुरादेरुद्गमनदृष्टिमवष्टभ्य । न तु साङ्ख्यनैयायिकादिमतमवलम्ब्य । तयोरेकस्य सत्कार्यवादित्वादन्यस्य तु शृृङ्गलोमादिनाशानन्तरमेव तदवयवसमवेतमसदेव कार्यं जायत इत्यभ्युपगन्तृत्वेन परिणामादेरसिद्धेरिति कैयट एवोक्तम् । एतन्मते दुग्धाद्दधि जायते तन्तुभ्यो वस्त्रं जायत इति प्रयोगा न मुख्याः । तन्तवः पटो भवन्ति दुग्धमेव दधि भवतीति प्रतितिव्यवहारादिबलात्तद्विभागादेर्बाधितत्वात् । यो भागो घटात्मना परिणमते तत्तात्पर्यको मृत्पिण्डाद्धटो जायत इति व्यवहारो दण्डाद्धटो जायते पुत्रात्प्रमोदो जायत इतिवत्कारणत्व-मात्रतात्पर्यकपञ्चमीघटितोऽमुख्य एव ।

न च ‘विभाषा गुणेऽस्त्रियाम्’ इत्यनेनैव पञ्चमी हेतावेवास्त्विति वाच्यम् । साध्य-वदाश्रितत्वरूपगुणत्वस्य तन्त्वादावभावात् । साध्यपदस्य यथोदाहरणं कार्यज्ञाप्यो-भयरूपत्वात् । यद्वा क्वचिदगुणेऽपि स्त्रियाम् । नास्ति घटोऽनुपलब्धेरित्युक्तत्वात् । प्रकृतेऽपि तथात्वम् ।

अथवा ‘भीत्रार्थानां भयहेतुः’ ‘वारणार्थानामीप्सिते’ इत्यादिसूत्राणि प्रत्याचक्षाणेन भाष्यकृता चोराद्बिभेति, यवेभ्यो गां वारयति, कूपादन्धं वारयति, पापात्त्रायत इत्यादि-स्थलेषु बौद्धमेवापायावधित्वरूपमपादानत्वं स्वीकृत्य तादृशप्रयोगाणां समर्थितत्वात् प्रकृतेऽपि तथात्वमेव । बौद्धत्वं च यथाकथञ्चिद्गौणत्वमेव । सर्वमुख्यप्रयोग एव तत्तत्सूत्रैरपादान-संज्ञेत्यभ्युपगमे भयात्त्रायते, एको भ्राताऽन्यस्माद्विभक्तः, सङ्कल्पाच्चलतीत्यादौ पञ्चमी न स्यात् । भयस्य हेतुत्वाभावात् । भ्रात्रोर्गुणरूपविभागस्य परस्परं स्वस्वमात्रस्वामिकद्रव्य-ग्रहणमात्रेणानुत्पत्त्या ‘ध्रुवमपाये’ इत्यनेनापादानसंज्ञाभावापत्त्या अन्यस्य विधायकस्य चाभावेन, सङ्कल्पे विभागाभावेन पञ्चम्यनुपपत्तिः स्यात् । मुख्यगौणसाधारण्येन सूत्रोक्त-कार्याभावे पाण्डव आधिरथिः कर्ण इत्यादौ अपत्यार्थे अणादिप्रत्ययो न स्यात् । तेषां पाण्डुजन्यत्वाद्यभावात् । एवं रथो ग्रामं गच्छतीत्यपि न स्यात् । रथस्य कर्तृत्वाभावात् । ग्रामस्य तदीप्सिततमत्वाभावाच्च । इत्थं च सूत्रस्थापायशब्दोऽपि विभागरूपमुख्यार्थ-संश्लेषाभावरूपगौणार्थोभयपर एव । अन्यथोक्तापायपदस्य संश्लेषाभावाद्यर्थकत्वं ‘धर्मादपेतं वचनं, अयं सुखादपेतः’ इत्यादिव्यवहाराद्बहुशो दृष्टं न स्यात् । अतः सूत्रस्थापायशब्दस्य तदर्थकत्वं नानुपपन्नम् ।

कैयटेऽपि ‘लोमादीनामपक्रमणावधित्वे तत्र कार्यप्रतीतिर्न स्यात्’ इत्याशङ्क्य ‘बिलान्निष्क्रामतो दीर्घभोगस्य भोगिनोऽवच्छिन्नतया तत्रोपलब्धिवत्कार्यस्यापि दूर्वादेस्तत्रोप-लब्धि’रिति मुख्यविभागनिमित्तकापादानत्वमेवोपपादितम् । भोगिनो भोगे बहिर्निर्गतभागा-वच्छेदेन बिलविभागसत्वात्तत्तात्पर्येण भोगी बिलान्निर्गच्छतीति व्यवहारकालेऽपि भागविशेषस्य सम्बद्धत्वात् बिलेऽपि तत्सत्ता प्रतीयते । तथा माषादिबीजघटकपरिणतभागस्योर्ध्वमङ्कुरा-त्मनोद्गतस्य तद्विभागशालित्वेन तन्मूलभागस्य तुषादिसङ्कुलत्वेन बीजादङ्कुरं जायत इति व्यवहारकालेऽपि तत्र बीजघटकतुषादिविवक्षया बीजेऽङ्कुरं वर्तत इति प्रतीतिर्नानुपपन्नेति कैयटवाक्यार्थः ।

यत्तु ‘नोक्तरीत्या कैयटार्थो वक्तुं युक्तः । वृक्षावस्थितिकाले चलत्यपि पर्णादौ वृक्षाच्चलतीत्यप्रयोगेण वृक्षादिसंयोगाद्यसमानकालीनतद्विभागस्यैवापायशब्दार्थतया वक्तव्यत्वेन बिलादिसंयोगकालीनतद्विभागस्यापायशब्दार्थत्वाभावात् । किन्तु बिलादिविभागानुकूल-व्यापारोत्पत्तिकालावच्छिन्नस्य विभागात्पूर्वकालव्यापिव्यापारो त्पत्तिकालस्य प्रदर्शनायाह

।। दीर्घभोगस्येति ।। तत्र बिले । अवच्छिन्नतया संयुक्ततया । उपलब्धिः प्रत्यक्षम् । उत्तरक्षणेष्वित्यादिः । तथा च विभागोत्पत्तेः पूर्वं बिले भोगिन इव उत्पत्तेः तत्प्रयुक्तत्वस्य वाऽपक्रमणस्य उत्तरकालमेव लोमादौ दूर्वादेः प्रत्यक्षम् । उत्पत्त्यादिकाले तु दूर्वादेः प्रत्यक्षं नास्त्येव । चक्षुराद्यसंयोगात् । उत्पत्तिक्षणे लोमादौ दूर्वाद्यस्तीति परोत्क्षादौ सत्यपि विभागोत्पत्तेः पूर्वं विभज्यमानस्य संसृष्टत्वात् स्वसत्ताकाल एवापक्रमणमपक्रम्यमाण-संसर्गाविरोधीति द्वितीयक्षणे एव कार्यस्य तत्र प्रतीतावपि न दोष इति हृदयम्) क्षधीस्तु विभागरूपापक्रमणकर्तुः स्वनिष्ठापक्रमणावधाववृत्तित्वेऽपि प्रयुक्तत्वरूपापक्रमणकर्तुः तादृशा-पक्रमणनिरूपकावधौ सत्वान्न विरुद्धेति ज्ञेयम् । यद्यप्युक्तरीत्या सिद्धान्तः स्फुटः । तथापि कैयटेन समाधानान्तरं सम्भवाभिप्रायेणोक्तमिति कैयटवाक्यार्थ इति ।

तदसत् । आसनोपविष्टानामुत्थाय तत्र पदाभ्यां स्थितिकालेऽपि आसनादुत्थित इत्यादिप्रचुरप्रयोगसत्वात् । तथा कृपस्य रथे स्थितिवेलायामेवार्जुनबाणहततुरगवेगेन कृपस्य रथ एवेतस्ततश्चलनमात्रेण—

... ... कृपः स्थानादथाच्यवत् ।

च्युतं तं गौतमं वीक्ष्य रक्षमाणोऽस्य गौरवम् ।।

इत्यादिभारतप्रयोगाणां नृपाणामासने शरीरस्य विशेषतश्चलनमात्रेण ‘आसनाच्चलिता नृपा’ इत्यादीनामपि प्रचुरप्रयोगाणां सत्वेन भागविशेषनिष्ठविभागादितात्पर्येण तादृशप्रयोगे बाधकाभावात् । अत एव पत्रस्य पतनवेलायां ‘आकाशात्पतति’ इति लौकिकानां ‘आकाशात्पतितं तोयं’ इत्यादिवैदिकानां प्रयोगाणामप्युपपत्तिः । अन्यथा आकाशसंयोगैः सर्वथा राहित्यस्य पर्णादावभावेन तादृशप्रयोगविलयप्रसङ्गात् । न चोक्तानुपपत्तिः । वृक्षे स्थितिकाले पत्रक्रियया पूर्वापरविभागस्यैव तत्र जननात् । यदा तु वृक्षस्थपत्रस्यैव वायूपघातादिना वृक्षे संयोगविभागावुत्पद्येते तद्भागतात्पर्येण ‘पुनःपुनरयं वृक्षे संयुज्यते तस्माच्चलति विभज्यते च’ इति व्यवहारा इष्यन्त एव । आकाशात् पततीतिवत् । अन्यथा शाखाग्रादिस्थफलस्य गुरुत्वेन स्वस्थानाद्विभज्यमानस्य वृक्षस्थिताल्पशाखापत्रादिभिः संयुक्ततयैवाधःपतनवेलायां इदानीं वृक्षात् फलं पततीति सर्वानुभवसिद्धव्यवहारस्याप-लापापत्तेः । इत्थं च यथाश्रुतकैयटार्थे बाधकाभावात् उक्तकुसृष्ट्या कैयटार्थवर्णनम-सम्बद्धमेव । उत्पत्तिकाले प्रतीतेरेवाभावात् ‘न स्यात्’ इत्यापादनं द्वितीयक्षण एव लोकानु-भवसिद्धप्रतीतेरेवेति वक्तव्यं शङ्काग्रन्थे । तत्र बीजन्तु अपक्रमणशब्दस्य विभागार्थकत्वभ्रम इति वक्तव्यम् । तथा च समाधानग्रन्थेऽपक्रमणशब्दस्य विभागार्थकत्वभ्रममनिराकृत्य द्वितीय-क्षणे प्रत्यक्षं, न प्रथमक्षण इत्युक्तिमात्रेणोक्तशङ्कापरिहाराभावात् अवश्यवक्तव्यस्य स्फुट-समाधानस्याकथनाच्च प्रयुक्तत्वेऽपक्रमणशब्दस्य लौकिकवैदिक-परीक्षकैरप्रयोगाच्चेति ।

तथा च ‘ध्रुवमपायेऽपादानम्’ इति सूत्रेणैव सर्वत्र मुख्यगौणापायशब्दार्थमादाय सार्वत्रिकापादानसंज्ञासिद्धौ सूत्रकारस्य ‘जनिकर्तुः प्रकृतिः’ इत्यादिसूत्राणां प्रणयनं कुरुपाण्डवन्यायेन सामान्यविशेषभावमाश्रित्य वा उक्तस्य विवरणरूपतया वा अदृष्टोपयोगितयेति ज्ञातव्यम् । अत एव भाष्ये अयमपि योगोऽवक्तुं शक्य इत्युक्तम् । न त्वयमकर्तव्य एवेत्युक्तम् । अवक्तुं शक्य इत्युक्ते, यद्यप्युक्तरीत्या ‘ध्रुव’मित्येतत्सूत्रेणैव सर्वनिर्वाहो भवति । तथाऽप्युक्तार्थविवरणादिरूपतया सार्थकं सूत्रप्रणयनमिति लभ्यते । अकर्तव्य इत्युक्तौ सर्वथा वैयर्थ्यात् सूत्र कारस्याप्रेक्षावत्त्वं प्रसज्यत इति ।

इत्थं च ‘यतो वा इमानि भूतानि जायन्ते’ इत्यनेनापि ब्रह्मरूपविशेषनिष्ठ-विभागानुकूलब्रह्मवृत्तिभेदप्रतियोगितावच्छेदकपरिणामविशेषवन्ति भूतानीति बोधः । ब्रह्मरूप-विशेषोदरस्थस्य जगदात्मना विभागविशेषेण विक्रियमाणाव्यक्तस्य ब्रह्मरूपविशेषेण विभक्त-त्वाद्ब्रह्मणः अपादानत्वनिर्वाहः । तदुक्तमनुव्याख्याने—

स्वदेहादिच्छया पूर्वं भुक्तपूर्वं जनार्दनः ।

 ससर्ज मातापितृवत् ऊर्णनाभिवदेव वा’ ।। इति ।

उक्तार्थोपपादनप्रकारश्चोक्तानुव्याख्यानसुधादितो द्रष्टव्यः । वृत्तिकारमतेन कारणमात्रस्य प्रकृतिपदार्थत्वेनापादानसंज्ञायां तु यतो वा इमानि भूतानीत्यनेन यद्धेतुकोत्पत्तिमन्ति भूतानीत्येव बोधः । आत्मन आकाशः सम्भूत इत्यादावप्येवमेव द्रष्टव्यम् ।

यत्तु अपायशब्देन विभागस्योक्त्या वृक्षात् पत्रं पततीत्यत्र यथा पञ्चमी तथाऽव्यव-हितोत्तरक्षणसम्बन्धस्य तत्पदेनोक्त्या तदेकदेशाव्यवहितोत्तरत्वनिरूपकावधेर्ध्रुवपदेन वक्तुं शक्यत्वात् कारणसमूहस्य तदवधित्वेऽपि समूहसमूहिनोरभेदोपचारात् कारणमात्रेऽपि तत्सम्भवात् ‘गोलोमभ्यो दूर्वा जायन्ते’ इत्यत्रापि पञ्चमीसम्भवः । यद्याप्यन्यथा-सिद्धस्याप्युक्तावधित्वमस्ति । तथाप्यनन्यथासिद्धत्वस्यापि निवेश्यत्वाद्दण्डरूपाद्धट इत्यादे-र्नापत्तिः । तथा च दण्डाद्धटो जायत इत्यादौ घटं प्रत्यनन्यथासिद्धदण्डघटितो यः समुदायः तदव्यवहितोत्तरसम्बन्धाभिन्ना या उत्पत्तिः तद्वान् घट इति बोधः । दण्डाद्धट इत्यादौ क्रियाध्याहारस्यावश्यकत्वे तु तादृशाव्यवहितोत्तरत्वमेव पञ्चम्यर्थः । तस्यैव धात्वर्थजनिघट-कक्षणेऽन्वयेनेष्टार्थलाभात् । वस्तुतः प्रयुक्तत्वमेव पञ्चम्यर्थः । तस्यैवापायपदेन तन्निरूपकस्य च ध्रुवपदेनोक्तिसम्भवात् । अस्ति च घटादाविव तदुत्पत्तावपि दण्डादिप्रयुक्त-त्वमिति दण्डाद्धट उत्पद्यत इत्यस्य दण्डाद्धट इत्यस्य च प्रामाण्यमिति ध्येयम् ।

नन्वपायशब्देन विभागस्य ध्रुवपदेन तदवधित्वस्य चोक्त्या जनीत्यादिसूत्रसार्थक्यसम्भवे उक्तप्रयुक्तत्वादिसाधारणापक्रमणोक्त्या तत्खण्डनमयुक्तमिति चेन्न । ‘वृक्षात् पतति’ इत्यादौ वृक्षाद्यवधिकविभागप्रतीत्या विभागस्येव ‘कपालाद्धटः’ इत्यादौ कपालाद्यवधिकप्रयुक्तत्व-स्याप्यपायशब्देन वक्तुं शक्यत्वात् जनीत्यादिसूत्राभावेऽपि निर्वाह इति भाष्यतात्पर्यात् । अत एव ‘अवक्तुं शक्यः’ इत्युक्तम् । अन्यथा ‘न वक्तव्यः’ इत्येवोक्तं स्यात् ।

न च ‘यतो वाचो निवर्तन्ते अप्राप्य’ इत्यादौ शक्तिरूपप्राप्त्यभावेन यत्र विषयेऽशक्ति-प्रयुक्तबोधकत्वाभाववत्यो वाचः इत्याद्यर्थः । तथा चोक्ताभावादेरपि अपायशब्देन वाच्यत्वात् उक्तप्रयुक्तत्वमपि तेनोच्यत इति वाच्यम् । जनीत्यादिसूत्रसार्थक्यायोक्तप्रयुक्तत्वान्यस्यैवा-पायशब्देनोक्तेर्युक्तत्वात् । तथा च विभागमात्रं नापायशब्दार्थः । किन्तूक्ताभावादिरपीति जनीत्यादिसूत्राकरणं शक्यत्वेन भाष्ये ज्ञापितम् । न तु तदकरणमेवाभिप्रेतम् । अत एव लोमादिभ्यो दूर्वादीनामपक्रमणं लौकिकप्रतीतिमात्रानुसारेण भाष्ये उक्तम् । वैशेषिक-साङ्ख्यादिदर्शनेषु तदस्वीकारादिति कैयटे उक्तम् । तत्र लोकानामपक्रमणपदप्रयोगो लक्षणयेति भावः । एवं च प्रकृतिरित्युपादानरूढसौत्रपदादुपादानतानिरूपितप्रयुक्तत्वरूपार्थे जनीत्या-दिना पञ्चमीविधानान्निमित्तत्वनिरूपितप्रयुक्तत्वे सूत्रान्तरेण पञ्चमीविधानेऽपि, विनिगम-काभावात् ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादौ निमित्तोपादानताभ्यां निरूपि-तप्रयुक्तत्वयोः पञ्चम्यर्थत्वं दुर्वारमित्यस्मदिष्टार्थसिद्धिः इति ।

तदसत् । अपायपदस्य प्रयुक्तत्वार्थकत्वेन, सौत्रापायपदेन मुख्यवृत्त्या गौण्या वा प्रयुक्तत्वस्य बोधयितुमशक्यत्वेनैतत्सूत्रेणान्यसूत्राणां गतार्थताया वक्तुमशक्यत्वात् । अन्यथा ‘धर्मादपेतमिदं सुखम्’ ‘दण्डादपेतो घटः’ इत्यादिप्रयोगप्रसङ्गात् । न च तथा व्यवहारो वर्तते । प्रत्युत ‘धर्मादपेतं दुःखम्’ ‘धर्मादपेतमिदं वाक्यं’ इत्यादिरीत्या तत्प्रयुक्तत्व-तत्सम्पादकत्वादिरूपसम्बन्धाभावतात्पर्येणैव व्यवहारदर्शनात् । न च लक्षणयापायशब्देन प्रयुक्तत्वस्य प्रतिपादयितुं शक्यत्वात्तेन सूत्रेण ‘प्रकृति’रिति सूत्रवैयर्थ्यमुच्यत इति वाच्यम् । मुख्यार्थाङ्गीकारं विहाय लक्षणाङ्गीकारे बीजाभावात् । लक्षणया प्रयुक्तत्वबोधकत्वे वृक्षाद्विभजते वृक्षात् पततीत्यादौ पञ्चम्युपपादानानुपपत्तेश्च । युगपत्प्रतीतिद्वयस्वीकारेण मुख्यार्थमप्यङ्गीकृत्य तदुपपादने मानाभावात् ।

किञ्चैवं सति ‘जनिकर्तुः प्रकृतिः’ इति सूत्रेणैवोक्तरीत्या ध्रुवमित्यादिसूत्राणां गतार्थता वक्तुं शक्येति भाष्यकारेण ध्रुवमिति सूत्रेणैव जनीति सूत्रस्य गतार्थता किमुच्यते ? अपि च निर्निमित्तं सूत्रस्थपदानां लक्षणामङ्गीकृत्य सूत्रान्तराणां गतार्थता यदि तर्हि, घ्रुवपदस्यैव कर्तुरीप्सिततमे अपादानपदस्य कर्मसंज्ञके लक्षणामङ्गीकृत्य कर्तुरीप्सिततममित्यादिसूत्राण्यपि प्रत्याख्यातुमपि शक्यानि स्युरित्यष्टाध्याय्येवोच्छिद्येत । किञ्च प्रयुक्तत्वलक्षणया जनी-तिसूत्रस्य कथञ्चिद्गतार्थताया वक्तुं शक्यत्वेऽपि वारणार्थानामित्यादेः कथं तावन्मात्रेण गतार्थता ? तत्र प्रयुक्तत्वस्याभावात् । तत्स्थलीयबौद्धापादानताबोधकभाष्यविरोधाच्च । तत्सूत्रस्याप्यत्र लक्षणया बोध्यतेत्यङ्गीकारे उक्त एवातिप्रसङ्गः ।

अपि च लक्षणा हि वक्तृतात्पर्यानुसारिणी । प्रकृते च जनीत्यादिसूत्राणां पृथक्प्रण-यनान्यथानुपपत्त्या लक्षणाभावस्यैव वक्तुरभिमतत्वस्यैव प्राप्त्या लक्षणामाश्रित्य भाष्यकारीयं गतार्थतावर्णनाभिधानमसङ्गतमेव स्यात् । न चापायशब्देन प्रयुक्तत्वादेरपि लक्षणया गृहीतुं शक्यत्वेनेतरत्र पञ्चम्युपपादनसम्भवे तथा विवक्षाया अकरणं सूत्रकारस्यानुचितम् । यतो वाचो निवर्तन्त इत्यत्र पञ्चम्युपपत्तये लक्षणाया आवश्यकत्वादित्यत्र भाष्यकारतात्पर्यमिति वाच्यम् । तथाभिप्रायस्योक्तरीत्या समस्तशास्त्रवैयर्थ्यापत्तिप्रापकत्वेन प्रेक्षावदुत्तमस्य भाष्यकारस्योक्ताभिप्रायवत्त्ववचनस्य अप्रेक्षावद्वचनत्वात् । यतो वाचो निवर्तन्त इत्यत्र पञ्चमीप्रयोगस्य प्रकारान्तरेणानिर्वाहे तदुपसङ्ख्यानस्य तदुपयुक्तलक्षणामात्रस्य वा कर्तव्यताया एव प्रसक्तेः कण्ठोक्तस्य त्यागानर्हत्वात् ।

वस्तुतः साकल्येन तत्प्रतिपादकत्वरूपसम्बन्धाभावरूपापायस्यैव निवृत्तिपदार्थतया प्रतिपादकत्वनिरूपकत्वरूपावधित्वबोधकतयैव तत्र पञ्चम्युपपत्तिरिति न किञ्चिदपि तत्र बाधकम् ।

यदपि जनीत्यादिसूत्रसार्थक्याय, प्रयुक्तत्वविवक्षाया यदा ध्रुवमित्यादिसूत्रेऽभावः तदा जनीत्यादिसूत्रसार्थक्यमन्यथा तु नेति भाष्यकारभाववर्णनं तदनेनैव निरस्तप्रायम् । जनीत्यादिसूत्रान्तरप्रणयनान्यथानुपपत्त्या तद्विवक्षाऽभावस्यैव प्रथमसूत्रे सिद्धत्वेन यदा तदेत्यनेन तस्य पाक्षिकत्वोक्त्यसङ्गते । अन्यकर्तृकवाक्यसार्थक्यासार्थक्ययोः पुरुषान्तर-तात्पर्यस्याकिञ्चित्करत्वेन भाष्यकारीयविवक्षायास्तत्सूत्रसार्थक्यसम्पादकत्वायोगात् । एतेन कैयटवाक्यस्य स्वरसतः प्रतीयमानमर्थमपहाय ‘लोकानामुत्पत्तावपक्रमणपदप्रयोगो लक्षणयेति भावः’ इति भावकथनञ्च पूर्वमस्मदुक्तरीत्याऽर्थान्तराङ्गीकारे बाधकाभावेन निर्बीजत्वादु-पेक्षणीयम् । तथा च भाष्यकारस्यापि पक्षे उपादानतानिरूपितप्रयुक्तत्वविशेषस्य जनीत्यादिसूत्राभिप्रेतत्वस्याप्रामाणिकत्वात् यत इत्यादौ पञ्चम्यास्तदर्थकथनमयुक्तमेव ।

एतेनैवं चेत्यारभ्येष्टसिद्धिरित्यन्तोपसंहारवाक्यमपि अशुद्धम् । जनियोगबलाद्विशेषसूत्र- रूपविनिगमकप्राप्तोपादानत्वबोधनेनैव पञ्चम्याः कृतार्थत्वेन निमित्तत्वबोधकताया अप्रसक्तेश्च । विनिगमकविरहादेव सर्वस्याप्यर्थजातस्य स्वीकारे ‘ल्यब्लोपे कर्मण्यधिकरणे च’ इति सूत्रोक्तार्थानामप्यङ्गीकारापत्त्या ‘यत्परित्यज्येमानि भूतानि जायन्ते’ इत्याद्यर्थस्यापि स्वीकारापत्त्योपादानत्वाभावस्यापि सिध्द्यापत्तेश्च । बाधकभावभावाभ्यां व्यवस्थेति चेत्तर्हि ब्रह्मण उपादानत्वेऽपि बाधकानामुक्तानां वक्ष्यमाणानां सत्वात्तदपि त्यज्यतामिति न कथञ्चिदपि त्वदिष्टसिद्धिरिति दिक् ।

यदप्यद्वैतसिद्धावुक्तं ‘‘पञ्चम्याः कारणत्वमात्रार्थकत्वेऽपि प्रकृते वाक्यशेषबलादुपा-दानत्वरूपतदर्थकत्वे पर्यवस्यति पञ्चमी । यथा ‘पशुना यजेत’ इति वाक्यस्थपशुपदं ‘छागस्य वपायामेदस’ इत्यादिवाक्यशेषबलाच्छागे पर्यवस्यति । अवधिपञ्चमीपक्षेऽपि शृृङ्गाच्छर इत्यादौ निमित्तरूपावधिपरत्वेऽपि प्रकृते नियामकसत्वेनोपादानरूपावधिपरत्वमेव । आत्मन आकाशः सम्भूत इत्यादावप्युपादानरूपप्रकृतिपञ्चमी ‘सच्च त्यच्चाभवत्’ इति वाक्यशेषेण ‘तदैक्षत बहुस्यां प्रजायेयेति’ इति वाक्येन च प्रतीतसामानाधिकरण्यस्यैव नियामकत्वात्’’ इति ।

तदसत् । ‘यत्प्रयन्त्यभिसंविशन्ति’ इत्यादिना प्रतीयमानलयाधिकरणत्वस्य ‘गेहे निविष्टो नष्टो घटः’ इत्यादाविवोपपत्तेरस्योपादानत्वाप्रत्यायकत्वात् । सच्च त्यच्चाभवदिति वाक्यस्य ब्रह्मवल्लीस्थस्य यतो वेत्यादिभृगुवल्लीस्थवाक्यं प्रति शेषत्वाभावात् । अवधिपञ्चमीत्वपक्षे पूर्वोपपादितरीत्योपादानत्वाभावस्यैवावधौ सिद्ध्या तस्योपादनत्वपरत्व-कथनासङ्गतेः । अत एवोक्तनियामककथनमप्यकिञ्चित्करम् । अवधित्वेनैवोपादान-त्वाभावस्यैव प्राप्त्या नियामकशतेनाप्युपादानत्वस्यासिद्धेः । सच्च त्यच्चाभवदिति वाक्यन्तु—

सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु ।

 बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत्’ ।।

इत्यादितैत्तिरीयभाष्येण, तदैक्षत बहुस्यामित्यादिवाक्यन्तु—

बहु स्यामिति सङ्कल्प्य तेजःप्रभृतिसर्जनम् ।

 गुरुः स्यामिति सङ्कल्प्य शिष्यसम्पादनं यथा’ ।।

इत्यादिछान्दोग्यभाष्येणावगन्तव्यम् ।

अत्र यत्परैरुक्तं ‘परमेश्वरस्य स्वकीयनियामकबहुभावेच्छा न घटते । रूपाणामपि नित्य-सिद्धत्वेनेच्छाऽयोगः’ इति । तत्सुगुणपूर्णत्वविचारावसरे भगवदत्यन्ताभिन्नेष्वेव ज्ञानेच्छादौ शक्तिव्यक्त्या व्यवस्थापितत्वेन विशेषशक्त्या रूपाभिव्यक्तीच्छोपपत्त्या निरस्तप्रायमेवेति नेह पुनः प्रयतितव्यम् ।

यदपि ब्रह्मानन्देनोक्तम्—‘‘

अवसादसुवाच्यत्वदौर्बल्याज्ञप्त्यसाधुताः ।

 प्रकृतिप्राणतोऽन्यत्र कुर्वन् तन्नामको हरिः’ ।।

इति भाष्यम् ।

तच्चानिरुक्तं विज्ञानं तथा निलयनं महत् ।

 सत्यं प्राणस्तथा श्रीश्च ... ....’ ।।

इत्यादिभाष्यं च परस्परविरुद्धम् । सत्यादिशब्दानां प्राणादिपरत्वे भगवद्गुणाभि-व्यक्तिपरत्वायोगात् । योगे वा महदादिपरत्वोक्तेः उन्मत्तप्रलपितत्वापत्तेः’’ इति ।

तदुन्मत्तप्रलपितत्वादनादेयम् । सत्यादिशब्दैस्तत्तच्छब्दवाच्यप्राणादीनां तन्नियामक-भगवद्रूपस्य च द्वयोरपि प्रतिपादनसम्भवात् । प्राणादीनां परमात्मप्रतीकत्वेन चैत्रादिशब्दैः पिण्डावच्छिन्नचैतन्यस्येव सत्यादिशब्दैः शरीरस्थानीयप्राणाद्यवच्छिन्नेश्वरबोधकत्वस्य अव्य-क्ताधिकरणन्यायसिद्धत्वात् । परमते सोऽकामयतेत्युक्तकामनाया जगदुपादानब्रह्मत्वे-नाभिमतशुद्धब्रह्मण्यनुपपत्तिः । ‘तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्’ इत्याद्युक्तेर्जगदुत्पत्तितत्प्रवेशानन्तरमेव सदादिभवनस्योक्तत्वेन तस्य जगत्सृष्टित्वानुपपत्तेरस्य वाक्यस्य ब्रह्मणो जगदात्मत्वेऽस्य प्रमाणरूपत्वाभावाच्च ।

न च मुखं व्यादाय स्वपतीतिवत् क्त्वाप्रत्ययस्य समानकालिकत्वमर्थोऽस्तु प्रकृत इति वाच्यम् । पूर्वकालिकक्रियायामेव क्त्वाप्रत्ययस्य सूत्रविहितत्वेन तत्परित्यागेन क्वाचित्क-प्रयोगमात्रसिद्धलाक्षणिकार्थाङ्गीकारे मानाभावात् । तथात्वेऽपि वा सदादिभवनातिरिक्त-सर्जनप्रवेशनयोः प्रकृतोपयोगिनोर्वक्तुमशक्यतया तादृशक्रियाणां परस्परं समानकालीन-त्वोक्त्यसङ्गतेश्च । सत्त्यच्छब्दाभ्यां मूर्तामूर्तनिखिलप्रपञ्चस्योक्तत्वेन निरुक्तादिपदवैयर्थ्यम् । एवं सदादिभवनस्यैव जगत्सृष्टिरूपत्वे ‘स इदं सर्वमसृजत’ इत्यनेन पौनरुक्त्यञ्च । शुक्ती-रजतभवदित्यादिव्यवहाराभावेन ब्रह्मणः जगदारोपाधिष्ठानत्वे ‘सच्चत्यच्चाभावत्’ इत्ययोगश्च ।

न च सत्त्यच्छब्दार्थभूतमूर्तामूर्तविवरणरूपत्वान्न निरुक्तादिपदवैयर्थ्यम् । ‘स इदं सर्वमसृजत’ इत्येतद्वाक्येन निमित्तकारणत्वमात्रमुच्यते इति भ्रान्तिनिरासायोपादानता निर्वाहककार्यतादात्म्यस्य ‘सच्च त्यच्चाभवत्’ इत्यनेनोक्तिः । किञ्चापञ्चीकृतसमष्टेरेव सृष्टिं तत्र प्रवेशं चोक्त्वा पञ्चीकृतसमष्टेः सृष्टिः सच्चेत्यादिनोच्यतेऽतोऽपि न पौनरुक्त्यम् । न च पञ्चीकृतेषु प्रवेशालाभः । अपञ्चीकृतेषु प्रवेशोक्त्यैव पञ्चीकृतेषु प्रवेशस्योक्तप्रायत्वात् । शुक्त्यवच्छिन्नचित एव रजतोपादानत्वेन शुक्ते रजतोपादानत्वाभावेन ‘शुक्ती रजतमभवत्’ इति व्यवहाराभावेपि प्रकृते तथा व्यवहारे बाधकाभावात् न तृतीयोऽपि दोष’ इति वाच्यम् । उक्तार्थविवरणरूपतया पौनरुक्त्यपरिहारस्यागतिकगतित्वेन भाष्योक्तप्रमाणोक्तार्थभेदसम्भवे सङ्ग्रहविवरणरूपत्वेन समाधानमयुक्तमित्यत्र तात्पर्यात् । ‘स इदं सर्वमसृजत’ इत्युक्तसृष्ट्युत्तरप्रवेशोत्तर सदादिभवनोक्त्योपादानतया स्रष्टृत्वालाभेन तद्भ्रान्तिनिरासो-पायाभावात् । ‘स इदं सर्वमसृजत’ इति वाक्ये अपञ्चीकृतसमस्तसृष्टिमात्रपरत्वे सर्वपदस्य वृथा सङ्कोचापत्तेः । उक्तविशेषनियामकस्यानुपलम्भात् ।

किं चेत्यप्ययुक्तम् । अपञ्चीकृतप्रवेशोक्त्या पञ्चीकृतप्रवेशोक्तिलाभवत् तत्सृष्ट्यैव पञ्चीकृतसृष्टेरपि लाभेन पुनस्तत्कथनवैयर्थ्याच्च । उपादानतयाऽभिमतशुद्धात्मनः प्रवेशादि-क्रियाऽयोगात्तत्प्रतीतावधिष्ठानीभूय तत्तादात्म्येन भानस्यैव प्रवेशरूपताया वक्तव्यत्वेन तेनैव भवदभिमतोपादानत्वसिध्द्या ‘सच्च त्यच्च’ इत्यादेर्वैयर्थ्याच्च । शुक्तेरजतोपादानत्वाभावान्न शुक्ती रजतमभवदिति व्यवहार इति यदुक्तं तदप्ययुक्तम् । अधिष्ठानभूतचैतन्यावरकाज्ञाना-वच्छेदकतया शुक्तौ रजततादात्म्यस्य त्वया स्वीकृतत्वेन तादृशव्यवहारस्य दुर्वारतया आरोपितस्य तादात्म्यं नास्त्येवेत्येवावश्यं वक्तव्यतया भवत्पक्षे सच्च त्यच्चाभवदि-त्यस्यायुक्तत्वात् ।

तदात्मानं स्वयमकुरुत’ इत्यपि नोपादानत्वे प्रमाणम् । आत्मनः कृतिविधेय-त्वस्यायोगात् । घटकरणकाले ‘सुखं करोति, मृदं करोति’ इति व्यवहारवारणाय उद्देश्य-तातिरिक्ताया विधेयताया एव कृञ् समभिव्याहृतद्वितीयार्थत्वात् । न च विधेयबोध-कपदान्तरासमभिव्याहार एवोक्तनियमः । तत्समभिव्याहारे तु उद्देश्यताऽपि द्वितीयार्थः । अन्यथा ‘मृदं घटं करोति, घटात्मना करोति’ इति व्यवहारानुपपत्तिप्रसङ्गात् । तथा च जगद्रूपमिति वा जगद्रूपत्वेनेति वा पदाध्याहारेण वाक्यसामञ्जस्यमिति वाच्यम् । अप्रामाणिकाध्याहारापेक्षया—

स वासुदेवः स्वात्मानं चक्रे सङ्कर्षणादिकम्’ ।

इति भाष्योदाहृतप्रमानुसारेण अभिव्यक्तसङ्कर्षणादिरूपवन्तमित्यध्याहारस्यैव युक्त-त्वात् । अभिव्यक्तत्वं च पूर्वोक्तरीत्या विशेषशक्त्या स्वकीयकृतिविषयीभूतत्वम् । अथ वा अधिकारिप्रत्यक्षगोचरत्वरूपम् । तत्र विशेषणीभूतप्रत्यक्षस्य कृतिविषयत्वाद्विशिष्टे तद्व्यव-हारोपपत्तिः ।

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादिकं पूर्वमेव सम्यग्व्याख्यातमिति तस्यापि त्वदभि-मतेऽर्थेऽप्रामाण्यम् । यद्भूतयोनिमित्यत्रापि योनिपदस्य कारणमात्रपरत्वेनोपादानकारण-रूपविशेषकारणपरत्वाभावेन तद्वाक्यस्यापि भवदभिमतार्थे प्रामाण्याभावात् । न हि योनिपदमुपादानकारणस्यैव मुख्यतया वाचकमित्यत्र विशेषप्रमाणमस्ति । येन मुख्यत्वात्तदेव ग्राह्यमिति वक्तुं शक्येत । मुख्यत्वेऽपि वा योनिष्ठ इत्यत्रोपादानरूपार्थानुपपत्त्याऽर्थान्त-राङ्गीकारवदत्रापि ब्रह्मणो निर्विकारत्वजगत्सत्यत्वावेदकबहुश्रुतिबाधात् कारणसामान्य-वाचित्वमेवास्तु ।

सर्वं समाप्नोषीति स्मृतावपि समित्युपसर्गसमभिव्याहारेणान्तर्यामित्वादिना प्राप्तेः प्रमाणान्तरानुगुणायाः बोधनसम्भवे सर्वप्रमाणविरुद्धायास्तादात्म्येन प्राप्तेः स्मृत्यर्थत्वस्या-प्रामाणिकतया तत्स्मृतेरपि त्वदभिमतसाधकत्वाभावात् । एवमन्यदप्यूह्यमिति न किञ्चिदपि वाक्यं त्वदुक्तेऽर्थे मानम् ।

एवं श्रुत्यादौ निरस्ते तदनुग्रहाभावादनुमानानि अप्रयोजकत्वान्न्यायामृतोक्तसत्प्रति-पक्षकबलितत्वादाभासान्येव । प्रकृत्यादीनां सत्वस्य साधितत्वात् सद्वस्तुप्रकृतिकत्वं प्रकृत्युपादानकत्वेनाप्युपपन्नमित्युक्तानुमानेऽर्थान्तरतेत्येवमादिकं बहुतरमूहनीयमिति ।

यदप्युक्तम् — ‘ब्रह्म अज्ञानवशाज्जगदात्मना भातीति तद्विवर्तोपादानं’ इति तदप्ययुक्तम् । भवदभिमताज्ञानस्यैवालीकत्वात् ।

।। पररीत्या प्रत्यक्षेण भावरूपाज्ञानसमर्थनम् ।।

नन्वहमज्ञोऽहमिममर्थं न जानामीति प्रत्यक्षादिप्रमाणसत्वात्कथं तदभावः? न चायं प्रत्ययो ज्ञानाभावविषय इति वाच्यम् । अभावबुद्धौ प्रतियोग्यधिकरणग्रहयोः कारणत्वेन तत्सत्वे ज्ञानाभावरूपविषयस्यैवाभावात्तत्प्रत्यक्षानुपपत्तिः । तदसत्वे कारणाभावादेव तत्प्रत्यक्षानुपपत्तिरिति बाधकबलेन ज्ञानाभावस्य तादृशप्रत्यक्षविषयत्वायोगात् । न च न ज्ञानसामान्याभावः प्रतीयते । किन्तूत्पत्स्यमानज्ञानविशेषाभावः प्रतीयते । तस्येदानीमसत्वेन नानुपपत्तिरिति वाच्यम् । तादृशप्रतियोगिनोऽनुपस्थितत्वेन तदभावग्रहायोगात् । ज्ञानत्वसामान्यप्रत्यासत्त्यादिना कथञ्चित्प्रतियोग्युपस्थितावपि तन्निष्ठप्रतियोगितावच्छेदक-स्यानुपस्थितत्वेन तदवच्छिन्नप्रतियोगिताकाभावभानानुपपत्तेः ।

न च सामान्यरूपावच्छिन्नविशेषप्रतियोगिताकोऽभावो भासत इति वाच्यम् । वह्नित्वेन तद्वह्निर्नास्तीति प्रतीतेरसिद्धत्वेन सामान्यरूपेण विशेषाभावानङ्गीकारात् । अङ्गीकारे वा विशेषधर्मावच्छिन्नस्याभावांशे प्रतियोगितासम्बन्धेन भानस्थल एव भासते । अन्यथा वह्निर्नास्तीत्यादावपि तद्वन्ह्यभावभानापत्त्या वह्निमति वह्नित्वेन तद्वह्निर्नास्तीतिवत् वह्निर्नास्तीति प्रतीतिव्यवहारयोरापत्तेः । अत एव न जानामीत्यत्र नकोऽपि धर्मः प्रतियोगितावच्छेदकतया भासते । किन्तु ज्ञानत्वसमानाधिकरणप्रतियोगिताकत्वेन कश्चिद्विशेषाभावो भासत इत्यपास्तम् । तादृशशब्दाभिलापप्रतीतौ प्रतियोग्यंशे भासमानधर्मस्य प्रतियोगितावच्छेदकतया भाननियमात् । अन्यथोक्तप्रतीत्यापत्तेर्दुर्वारत्वात् ।

न च सामान्यरूपावच्छिन्नविशेषप्रतियोगितानङ्गीकारे विशेषाभावकूटातिरिक्तसामान्या-भावानङ्गीकारमतानुत्थितिः । इदानीं कपाले घटो नास्तीत्यादौ प्रागभावभानानुपपत्तिश्च स्यात् । केषाञ्चिद्घटानामुत्पन्नत्वेन प्रागभावप्रतियोगित्वानुपपत्त्या तत्र प्रतीयमानप्रतियोगि-तायास्तद्घटमात्रनिष्ठत्वात् । तत्र घटत्वावच्छिन्नत्वाभाने प्रतियोग्यंशे भासमानधर्मस्य प्रतियोगितावच्छेदकतयैव भानमिति नियमानुपपत्तिरिति वाच्यम् । सामान्याभावा-नभ्युपगमवादे यत्किञ्चिद्रूपवति विशेषाभावान्तरसत्वेन रूपं नास्तीति प्रतीतिव्यवहारयोर-प्रामाण्यसिद्धये तत्तदभावकूटाधिकरणावच्छेदेन विशेषाभावेष्वेव सामान्यधर्मावच्छिन्न-प्रतियोगिताकत्वं स्वीक्रियते । यदधिकरणविषयिणी प्रतीतिस्तदधिकरणावच्छेद्यत्वं च तादृशप्रतियोगिताकत्वे तादृशप्रतीत्या नियमेन विषयीक्रियते । न तु विशेषनिष्ठतादृशतादृश-प्रतियोगिताकत्वकूटेषु तादृशाधिकरणवृत्तित्वसामानाधिकरण्यावच्छेदेन सामान्यधर्मावच्छेद्यत्व-विशिष्टप्रतियोगितानिरूपकत्वं स्वीक्रियते । गौरवात् । सामान्याभावमात्रमतिरिक्तं न स्वीक्रियत इति सामान्याभावानङ्गीकर्तृभिरभ्युपगमेन विशेषमात्रनिष्ठप्रतियोगितायाः सामान्यधर्मावच्छेद्यत्वानभ्युपगमात् । इदानीं कपाले घटो नास्तीति प्रतीतेः सामयि-कात्यन्ताभावविषयकत्वेन प्रागभावविषयकत्वानङ्गीकारात् । सामान्यरूपेण विशेषप्रतियोगि-ताकाभावाभ्युपगमे सर्वत्र तथैवाभ्युपगमसम्भवेन तादृशप्रतीतिमात्रशरणसामान्याभावस्यैवा-सिद्धिप्रसङ्गः ।

न च सामान्याभावाङ्गीकारेणोक्तस्थले सामयिकस्य भानाङ्गीकारे भाविघटनिष्ठतद्व्य-क्तित्वादेरिदानीमननुभूतत्वेन तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वेन प्रतियोग्युत्पत्तेः प्राक् प्रत्यक्षायोगात् प्रतियोग्युत्पत्त्यनन्तरं च स्वस्यैवाभावेन प्रत्यक्षायोगात् प्रागभावसिद्धिरेव न स्यात् । न हि घटो भविष्यतीति प्रतीतिबलात्तत्सिद्धिस्तत्र प्रागभावप्रतियोगित्व-रूपभविष्यत्वस्य घटे भानादिति वक्तुं युक्तम् । श्वो भाविनि घटे अद्य घटो भविष्यतीति प्रयोगप्रामाण्यवारणायाऽद्यतनकालसम्बन्धरूपोत्पत्तेरेव तत्र भानाभ्युपगमादिति वाच्यम् । प्रागभावस्योक्तप्रतीतिमात्रशरणकत्वे तदसिद्धेरस्माकमप्रतिकूलत्वात् । एतदन्यप्रमाणसम्भवे तत्सिद्धेरस्माकमप्रतिकूलत्वात् । तस्मात् ‘न जानामि’ इति प्रत्यक्षस्य ज्ञानाभावविषयकत्वे तस्य कारणतया क्लृप्तप्रतियोग्यादिविषयकज्ञानसत्वेन सामान्याभावस्य विषयस्यासत्वात् विशेषाभावविषयकत्वाभावस्य च पूर्वमुपपादितत्वाच्च परिशेषादेतदन्यविषयकत्वमेव सिध्द्यति । तदेव भावरूपमज्ञानम् ।

ननु सामान्यतोऽभावज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वेऽतिप्रसङ्गात् विशेषरूपेणैव पृथक्कारणताया आवश्यकत्वे ज्ञानसामान्याभावप्रत्यक्षे प्रतियोगिज्ञानत्वेन कारणता नैव कल्प्यते मानाभावात् । तत्कल्पने उक्तयुक्त्या पूर्वमक्लृप्तभावरूपाज्ञानकल्पनापत्तेः । न च विनिगमकाभावाज्ज्ञानाभावोऽप्यक्लृप्त इति वाच्यम् । घटे ज्ञानं नास्ति मत्सुखे ज्ञानं नास्तीति शब्दानुमानप्रत्यक्षादिप्रमाणैस्तस्य प्रमितत्वेन क्लृप्तत्वात् । जडस्य स्वत एवाप्रकाशरूपत्वेन तत्र प्रकाशप्रतिबन्धादिरूपावरणकृत्याभावेन भावरूपाविद्यायास्तत्रा-नङ्गीकृतत्वात् । एवमेव तत्र तदङ्गीकारे ज्ञानाभावस्यैव भावरूपाविद्येति नामान्तरं स्यात् । न तदन्यव्यक्तिसिद्धिरिति चेन्न ।

घटो न जानाति सुखं न जानातीति प्रत्यक्षस्यैव ज्ञानरूपप्रतियोगिग्रहान्वय-व्यतिरेकित्वेनानुभवसिद्धत्वेन प्रतियोगिग्रहकार्यतावच्छेदककोटौ अधिकरणविषयतानिवेशे प्रयोजनाभावेन सामान्यतो ज्ञानाभावप्रत्यक्षे ज्ञानरूपप्रतियोगिग्रहकारणताया आवश्यकत्वे तं विना जायमानस्यास्य भावपदार्थविषयकत्वस्यैवावश्यकत्वात् । न जानामीति प्रत्यक्षात्मक-ज्ञानस्यैव स्वस्य स्वोत्पत्तिकाले सत्वेन ज्ञानाभावस्य तदात्मन्यसत्वात् । इदानीमहं न जानामीति विषयस्य वर्तमानत्वावगाह्यनुभवविरोधश्च स्यात् ।

न चेदंत्वादिना तमःप्रत्यक्षोत्पत्त्या, तमसो द्रव्यत्वेऽपि च अभावांशे भासमानभावत्वस्य द्रव्यादिषट्कभिन्नभेदरूपस्य प्रतियोगतावच्छेदकावच्छिन्नग्रहं विनाऽपि प्रत्यक्षस्य जायमा-नत्वादभावप्रत्यक्षमात्रे न प्रतियोगिधियो हेतुत्वम् । किन्तु प्रतियोगतावच्छेदक-विशिष्टवैशिष्ट्यावगाहिप्रत्यक्षं प्रत्येव विशेषणतावच्छेदकनिर्णयमुद्रया हेतुत्वम् । प्रकृते चाभावप्रत्यक्षस्य विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्यैवोत्पत्स्यमानत्वान्न प्रतियोगितावच्छेदकप्रकारकग्रहापेक्षेति वाच्यम् । भावत्वस्याखण्डोपाधित्वाभ्युपगमेन उक्तभेद-रूपत्वानभ्युपगमेन सामान्यत अभावप्रत्यक्षे प्रतियोगिगहस्यावश्यकारणत्वात् । अन्यथा नेत्याकारकाभावप्रत्यक्षापत्तेः ।

न चाभावो न घटीय इति बाधग्रहोत्तरमभावांशे घटस्य भानायोगेन प्रतियोगिस्मरणादि- घटितसामग्रीबलान्नेत्याकारकाभावप्रत्यक्षापत्तिः प्रतियोगिग्रहकारणतयाऽपि न वारयितुं शक्या । अभावांशे प्रतियोगिनोऽलौकिकसन्निकर्षेणैव भानेन बाधप्रतिबध्यत्वस्य वक्तुमशक्य-त्वादिति वाच्यम् । अनुयोगितारूपाभावत्वविशिष्टप्रत्यक्षस्य प्रतियोगितावच्छेदकविशिष्ट-वैशिष्ट्याविषयकस्य कदाप्यनुत्पत्त्या तत्र विशेषणतावच्छेदकप्रकारकज्ञानमुद्रया व्यापक-सामग्रीघटकस्य प्रतियोगितावच्छेदकप्रकारकनिर्णयस्यावश्यकत्वात् । तमस इदंत्वेन भानेऽपि भावत्वरूपाभावस्य स्वरूपतो भानेऽप्यनुयोगिताविशिष्टत्वेनाभानान्न तदादाय दोषः । विशेष्ये विशेषणमिति रीत्या प्रतियोगितावच्छेदकविशिष्टस्य भानाङ्गीकारे प्रतियोगितावच्छेदक-स्योपलक्षणतयैव भानापत्त्या यत्किञ्चिद्घटवति भूतले घटो नास्तीति प्रतीतेर्दुर्वारत्वापत्तेः । अतो विशेष्ये विशेषणमिति रीत्या प्रकृतप्रत्यक्षमभ्युपगम्य भाविज्ञानव्यक्तेरेव भासमानाभाव-प्रतियोगितया भानाभ्युपगमेन व्याहतिपरिहारो न युक्त एव ।

न च रूपादिज्ञानस्य तदभावग्रहप्रतिबन्धकत्वेऽपि ज्ञानग्रहस्य प्रतिबन्दकत्वं न जानामीति ग्रहं प्रति न स्वीक्रियते । न जानामीति प्रत्यक्षे नैयायिकैः प्रतियोग्युपस्थित्यादि-विषयकज्ञानस्य प्रतिबन्धकत्वानङ्गीकारात् । एवं च प्रतियोगिग्रहादिकालेऽपि ‘न जानामि, मयि ज्ञानं नास्ति’ इति प्रत्यक्षं निराबाधमेव । तस्य भ्रान्तित्वाङ्गीकारात् विषयबाधेऽपि न क्षतिः । एवं सति ‘घटो न जानाति, घटे ज्ञानं नास्ति’ इति प्रत्यक्षं निराबाधमेव । तस्य भ्रान्तित्वाङ्गीकारात् विषयबाधेऽपि न क्षतिः । एवं सति ‘घटो न जानाति, घटे ज्ञानं नास्ति’ इति प्रतीतिसमानाकारकत्वमुक्तप्रतीत्योः अनुभवसिद्धमनुकूलितं स्यात् । परं तु घटविषयकयोरनयोः प्रमात्वमात्मविषयकयोर्भ्रान्तत्वमित्ययं विशेषो बाधतदभावकृतः । न हि तत्रापि भावरूपाज्ञानं विषयीक्रियत इति युक्तम् । जडे भावरूपाविद्यायोगात् । न जानामि ज्ञानं नास्तीति क्रियासमभिव्याहृतनञा प्रसज्यप्रतिषेधात्मकेनात्यन्ताभावस्यैव बोधनेन तदभिलाप्यप्रतीतेर्भावरूपाविद्याविषयकत्वायोगाच्चेति वाच्यम् ।

ज्ञानाभावग्रहे ज्ञानग्रहस्य प्रतिबन्धकत्वानङ्गीकारे ‘घटो जानाति, परमात्मा जानाति, अहं जानामि’ इति निश्चयकालेऽपि न जानाति न जानामीत्यादिग्रहापत्तेस्तस्य प्रतिबन्धकत्वमावश्यकमेव । ज्ञानसत्ताकाले नैयायिकानामपि न जानामीति ग्रहः कदाऽपि न भवतीति सिद्ध एव । अन्यथा विपर्ययवत् ‘मयि ज्ञानमस्ति न वा, जानामि वा नवा’ इति सन्देहस्य कदाचिदप्यापत्तेः । विपर्ययकारणदोषविशेषाणां संशयप्रयोजकदोषाभावादीनां च कार्यसिध्द्युत्तरकालनिर्णेयत्वात् । प्रकृते तदभावात् । अतो लौकिकविषयतासम्बन्धेन न जानामीति ज्ञानं प्रतिज्ञानस्यैव समवायेन प्रति बन्धकत्वमास्थीयते । मन्मते ज्ञानादीनां ज्ञातैकसत्वाभावेन ज्ञानप्रत्यक्षस्यानियतत्वात् । ज्ञानस्य स्वप्रकाशत्वमते साक्षिवेद्यतामते च ज्ञानकाले तत्प्रत्यक्षं नियतम् । प्रति बन्धकतापरं स्वरूपसज्ज्ञानत्वेनैवेत्यन्यदेतत् । तथा च घटो न जानातीत्यादिपरोक्षज्ञानस्य ज्ञानाभावविषयकत्वेऽपि उक्तापरोक्षप्रतीतेर्ज्ञानाभाव- विषयकत्वकल्पनं तस्य भ्रान्तित्वकल्पनं तत्प्रयोजकदोषविशेषकल्पनमुक्तप्रतिबन्धकत्वा-पलापश्चेत्यादिकं निर्मूलमेव । ‘घटो न जानाति’ ‘अहं न जानामि’ इत्यनयोः समानविषयकत्वानुभवस्तु नास्त्येव । न ह्येकजातीयशब्दप्रयोगहेतुत्वमात्रेण प्रतीत्योः समानविषयकत्वं सिध्द्यति । अन्यथा इदमसुरं, बलिरसुर इत्यत्रापि तथात्वापत्तेः । न चैतदस्ति । इदमसुरमित्यत्र इदं पदार्थे सुराभावः प्रतीयते । बलिरसुर इत्यत्र बध्यघातुकभावरूपसुरविरोधः बलौ प्रतीयते । एवं प्रकृते घटो न जानातीत्यत्रात्यन्ताभावः प्रतीयते । अहं न जानामीत्यादौ ज्ञानविरुद्धत्वेनाज्ञानं प्रतीयते इत्यत्र किं बाधकम् ?

ननु चाविद्यावृत्त्युपहितस्यैव साक्षितया अविद्यावृत्तिरूपज्ञानसत्वात्कथं ज्ञानविरुद्ध-त्वमज्ञानस्य ? यद्यविद्योपहितचिदेव साक्षी तदा स्मृतेर्भ्रान्तेश्चाविद्यावृत्तिरूपतया तत्काले अविद्याभावप्रसङ्ग इति चेन्न । न जानामीत्यन्तःकरणवृत्तिरूपप्रमाविरोधस्यैव भानाभ्युप- गमात् ।

ननु ज्ञानस्य तदवच्छेदकतया विषयस्य च साक्षिभास्यत्वेऽपि प्रमाविरोधस्य साक्षिमात्र-भास्यत्वे प्रातिभासिकत्वापत्त्या अविद्यायां प्रमाविरोधस्यैवाभावप्रसङ्गः । तदंशे प्रमाणवृत्त्यङ्गीकारे तस्याज्ञानविरोधितयाऽज्ञानस्यैवाभावप्रसङ्गः । न जानामीति विषय-विशेषाविशेषिततया भासमानज्ञानस्य सर्वविषयकत्वेन प्रमासामान्यविरोधित्वात् । न च पूर्वानुभूतस्य स्मृतिरस्त्विति वाच्यम् । नियमेन स्मृतिकल्पकाभावादिति चेन्न । अज्ञाने अज्ञानत्वभानस्येव प्रमाविरोधस्य साक्षिणैव भाने बाधकाभावात् । न च प्रातिभासिकत्वा-पत्तिः। सुखादिवदज्ञानस्वरूपवच्च प्रतिभासमात्रशरीरत्वरूपप्रातिभासिकत्वाभ्युपगमेऽपि तद्वदेव ब्रह्मज्ञानेतराबाध्यत्वादेव सर्वव्यवहारनिर्वाहसम्भवे उक्तप्रातिभासिकत्वस्याबाधकत्वात् । अन्यथाऽज्ञानत्वमप्यज्ञाने सांव्यवहारिकं न स्यात् । प्रमाविरोधांशे स्मृत्यङ्गीकारेऽपि न क्षतिः । अनुभवसिद्धप्रतीतिनिर्वाहायैव तत्पूर्वं स्मृतिनियमस्यान्यथानुप-पत्तिबलायातत्वात् ।

न च प्रमाविरोधस्य कथं साक्षिभास्यत्वं सङ्गच्छते ? प्रमायास्तदानीमविद्यमानत्वात् । अविद्यमानस्य विषयतया ज्ञानावच्छेदकत्वं विना साक्षिभास्यत्वायोगात् । अन्यथाऽतीत- सुखादेरपि साक्षिभास्यत्वं स्यादिति वाच्यम् । प्रमिणोमीत्यनुव्यवसायस्य साक्षिरूपत्वेन यथा तत्र प्रमात्वघटकतया प्रमया नष्टमप्यज्ञानं भासते तथा विरोधनिरूपकतयाऽविद्यमानाऽपि प्रमा साक्षिभास्येत्यङ्गीकारे बाधकविरहात् ।

यद्वा न जानामि मयि ज्ञानं नास्तीत्यादौ अविद्यात्वरूपजात्यवच्छिन्नं प्रतीयते । न प्रमाविरोधादिकम् । अभिलापकवाक्येऽपि नञ्समभिव्याहृतजानातेः अविद्यात्वजात्यवच्छिन्ने निरूढलक्षणाङ्गीकारात् । अधर्म इत्यनेन पापत्वजात्यवच्छिन्नस्यासुर इत्यनेन दैत्यत्वजात्य-वच्छिन्नस्य बोधनाय नञ्समभिव्याहृतधर्मसुरपदयोस्तादृशजात्यवच्छिन्ने निरूढलक्षणावत् । एवं च घटं न जानामीति स्थले घटविषयकत्वमविद्यायामेव भासत इति स्वप्रतीत्यैवाविद्यायाः सविषयकत्वं सिद्ध्यति । अन्यथा घटं न जानामीत्यादौ नञर्थविरोधनिरूपकीभूत- जानात्यर्थप्रमायामेव घटविषयकत्वभाने अज्ञानस्य तद्विरुद्धत्वेनैव भानेन सविषय-कत्वासिद्धिप्रसङ्गः ।

न चैवं सति विवरणविरोधः । तत्र ह्यज्ञानं स्वाश्रयविषयकमित्युक्तौ तदुपरि ‘नन्वेवं सत्यस्यात्राज्ञानमिति द्वयसापेक्षतया तत्प्रतीतिविरोधः । अत्रास्येति विषयाश्रय-योर्भेदेनोल्लेखात्’ इत्याशङ्क्य ‘अस्यात्राज्ञानमिति द्वयसापेक्षज्ञानपर्युदासेनाभिधानात्’ इत्युक्तम् । एतद्विषयकमेतत्पुरुषनिष्ठं यज्ज्ञानं तद्व्युदासेन तद्विरोधित्वेनाभिधानात् तादृश-वाक्येन प्रतिपादनात् । तदुल्लेख्यप्रतीत्या विषयीकरणाच्चेत्यर्थः । तथा चाज्ञानाश्रय-विषययोर्भेदस्यैतत्प्रतीत्या अविषयीकरणात्तन्निष्ठविरोधनिरूपकज्ञानाश्रयविषययोरेव भेदस्यैव विषयीकृतत्वादित्युक्तं भवति । अत्र च ज्ञानविरोधादेस्तत्प्रतीतौ भानाभावे विरोधस्य स्फुटत्वादिति वाच्यम् । विवरणोक्तेरज्ञाने नष्टे अज्ञानविरोधित्वेन तद्विषयकोत्तर-कालीनानुभवमालम्ब्यैव शङ्कासमाधानपरत्वेन ज्ञानप्रत्यक्षपरत्वाभावेन तद्विरोधविरहात् । अत्रास्याज्ञानमित्यविद्याप्रतिपादकवाक्येन भ्रमरूपकार्यलिङ्गावसेयं विषयाश्रितमज्ञानत्वरूपा-खण्डजात्यवच्छिन्नं प्रतीयते । अस्येति षष्ठ्यर्थो निरूपितत्वं अत्रेति सप्तम्यर्थविषयकत्वं चाज्ञान एवान्वेति । तत्पुरुषनिष्ठं ज्ञानं तत्पुरुषनिरूपितविषयाश्रिताज्ञानस्य निवर्तकमि-त्यभ्युपगमान्न कोऽपि दोषः ।

नन्वेतावता प्रबन्धेन ज्ञानसामान्याभावस्य ‘न जानामि’ इति प्रत्यक्षाविषयत्वमुप-पादितम् । किमेतावता । तत्प्रतीतेः प्रमात्वावच्छिन्नाभावविषयकत्वसम्भवात् । न हि तत्रापि प्रतियोगिज्ञानादिना व्याहतिर्वक्तुं शक्या । प्रतियोगिस्मृतेरेव तत्र हेतुताया नियमेनाङ्गी-कारात् । तादृशस्मृत्यभावकाले तादृशप्रत्यक्षमङ्गीकृत्य तस्याभावविषयकत्वानुपपत्त्या भावरूपाज्ञानकल्पनापेक्षया क्लृप्तप्रतियोगिज्ञानरूपकारणाभावकाले तादृशप्रत्यक्षरूपकार्या-भावस्यैवाभ्युपगन्तुमुचितत्वात् । प्रमात्वं चाविद्यावृत्तिव्यावृत्तोऽन्तःकरणवृत्तिमात्रवृत्तिर्जाति-विशेषोऽतः प्रमात्वस्य विषयविशेषघटितमूर्तिकत्वेनाननुगततया यदा यादृशप्रमात्वावच्छिन्न-रूपप्रतियोगिस्मृतिस्तदा तदभावः प्रत्याप्यत इति वक्तव्यम् । तथा च न जानामीति ग्रहस्यैकविषयकत्वावगाह्यनुभवविरोधः । नानाविधस्मृतीनां कालपुरुषभेदेन तादृशानुभव-पूर्ववृत्तित्वकल्पने महागौरवमित्यस्य नावकाशः । इति चेन्न ।

अहं प्रमावानिति भ्रमकाले तादृशप्रमाभावग्रहानुदयात्तत्र प्रतियोग्यनुपलब्धेरवश्यं कारणतया अनुपलब्धिप्रमाणगम्यस्य तस्य साक्षिप्रत्यक्षविषयत्वे मानाभावात् । न च न जानामीति प्रत्यक्षमपि साक्ष्यात्मकं न किन्त्वनुपलब्धिप्रमाणजन्यमेवेति वक्तुं युक्तम् । तथात्वे तद्रूपप्रमायास्तदुत्पत्तिकाले प्राप्त्या प्रमाभावरूपविषयस्य व्याहतत्वेन वर्तमानतया विषयाव-भासविरोधापत्तेः । न जानामीति ग्रहस्य ज्ञानसामान्याभावविषयकत्वं, किन्तु न प्रत्यक्षत्वं, अपित्वनुपलब्धत्वमित्युक्तावप्येते दोषा भवन्त्येव । प्रतियोगिस्मरणादिकं विनाप्यनुपलब्ध्या-प्यभावग्रहानुदयेन तत्रापि तद्धेतुताया आवश्यकत्वात् । तस्मान्न जानामीति प्रत्यक्षस्य भावरूपाज्ञानविषयकत्वमेवानुसर्तव्यम् ।

ननु तथापि कथं न व्याघातः । अज्ञानस्य ज्ञानविरोधित्वस्य तवाप्यावश्यकत्वात् । अन्यथा ज्ञानोत्पत्तावप्यज्ञाननाशाभावप्रसङ्गात् । तथा चाज्ञानरूपविशेषणज्ञानस्य तत्प्रत्यक्षहेतोः पूर्वमावश्यकत्वात् । तादृशप्रत्यक्षस्य अज्ञानत्वविशिष्टवैशिष्ट्यावगाहित्वे विशेषणतावच्छेदकप्रकारकनिर्णयविधयाप्यज्ञानत्वप्रकारकग्रहस्यावश्यकत्वात् । स्वात्मकप्रत्यक्ष-स्यापि ज्ञानत्वेन तद्द्वितीयक्षणे अज्ञाननाशस्यावश्यकत्वात् द्वितीयक्षणे विषयसत्वाव-गाह्यनुभवविरोधश्च स्यादिति चेन्न । विशिष्टबुद्धौ विशेषणज्ञानहेतुताया अनङ्गीकारात् । एवं विशेषणतावच्छेदकनिर्णयहेतुत्वाङ्गीकारेऽपि जन्यविशिष्टबुद्धावेव तद्धेतुत्वाभ्युपगमेनाविद्योपहि- तचिद्रूपस्य साक्षिणो नित्यत्वेन तद्रूपप्रत्यक्षे विशेषणज्ञानादेरनपेक्षितत्वेनोक्तव्याघातविरहात् ।

न चाविद्यावृत्त्युपहितचितः साक्षित्वपक्षे वृत्तेर्जन्यत्वेन तदुपहितचितोऽपि जन्यत्वात्तत्पक्षे व्याघात इति वाच्यम् । विशिष्टबुद्ध्यादीन् प्रति विशेषणज्ञानादिहेतुत्वाभावरूपनिष्कृष्टपक्ष एव तस्य साक्षित्वाभ्युपगमात् ।

नापि स्वात्मकप्रत्यक्षेणाज्ञानरूपविषयस्य विरोध इति द्वितीयो दोषः । उक्तप्रत्ययस्य साक्षिरूपत्वेनान्तःकरणवृत्तिरूपप्रमात्वाभावेन तस्य विरोधित्वाभावात् । साक्षिप्रत्यक्षस्यैवा-ज्ञानसिद्धिरूपत्वेन प्रत्युत तस्याज्ञानसाधकत्वात् ।

न च तर्हि ज्ञानसामान्याभावविषयं प्रमासामान्याभावविषयं चोक्तप्रत्यक्षं साक्षि-रूपमेवास्तु । त्वदुक्तरीत्यैव व्याहत्याद्यप्रसक्तेरिति वाच्यम् । ज्ञानाद्यभावस्य घटादावनुप-लब्धिप्रमाणगम्यत्वेन क्लृप्ततया साक्षिण्यध्यस्तस्यैव साक्षिभास्यतया च घटादिसाधारणस्य ज्ञानाद्यभावस्य साक्षिवेद्यत्वोक्त्ययोगात् ।

अथाविद्योपहितचैतन्यस्यैव साक्षित्वपक्षे अन्तःकरणावच्छेदेनेवान्यावच्छेदेनापि साक्षिणि ज्ञानाभावाद्यध्यासस्वीकारात् तस्य साक्षिवेद्यत्वसम्भवः । अवध्यादिज्ञानस्य दीर्घत्वादि-व्यवहार इवाभावव्यवहारे तत्तदधिकरणादिग्राहकसामग््रया हेतुत्वात्तदभावकाले न तद्व्यवहारा-पत्तिरिति । इत्थमेव च गगनादेः साक्षिवेद्यत्वे सिद्धान्तसिद्धे तद्व्यवहारे तत्तदधिकरणग्राहक-चाक्षुषाद्यपेक्षेति चेन्न । अभावबोधकवाक्यत्वरूपव्यवहारत्वापेक्षया अभावप्रत्यक्षत्वस्यैव लघुत्वेन तज्जन्यतावच्छेदकत्वौचित्येन प्रतियोग्यनुयोगिनिर्विकल्पकोत्तरमभावप्रत्यक्षस्य परैरप्यङ्गीकारेणाभावप्रत्यक्षस्य नित्यसाक्षिरूपत्वायोगात् ।

ननु ज्ञानाद्यभावस्य साक्ष्यवेद्यत्वे ज्ञानाभावं घटे जानामि चैत्रे न जानामीति प्रत्ययेन ज्ञानाज्ञानाद्यंशे विशेषणतया ज्ञानाभावस्य विषयीकरणानुपपत्तिः । ज्ञानाज्ञानाद्यंशे विशेषणतया साक्षिभास्यत्वाङ्गीकारे विशेष्यतया साक्षिभास्यं किं न स्यात् ? न च साक्षिविषयीभूतज्ञानादिकं प्रति विषयीभूतस्यैव विषयत्वसंसर्गेण ज्ञानादिविशेषणतया विशेष्यतया वा भानं स्वीक्रियते । अत एव घटं जानामीतिवत् ज्ञायते मया घट इति व्यवहारः । विनिगमकाभावेन एकशेषस्य कर्तुमशक्यत्वात् । अभावस्य तु निर्विषयत्वात्स्व-प्रतियोगितया भासमानज्ञानं प्रति अनुयोगितासम्बन्धेन विशेष्यतया कथं भासतामिति वाच्यम् । तथात्वे प्रमारूपज्ञानस्य अज्ञानांशे भासमानविरोधांशे भानानुपपत्तेरिति चेन्न । साक्षिप्रत्यक्षे प्रमाविरोधाभानस्य विवरणाभिप्रेतताया उपपादितत्वेन तत्प्रतिबन्देरनवकाशात् । अत एव ज्ञानाभावदशायामविद्यमानस्य ज्ञानस्य तदनावृतसाक्षिसम्बन्धाभावे अज्ञानप्रत्यक्षे विरोधांशे साक्षिणा प्रमाभानवत् ज्ञानस्याभावांशे साक्षिणा भानं स्यादित्यपास्तम् । दृष्टान्तस्यैवासम्प्रतिपत्तेः । घटे ज्ञानाभावस्यानुपलब्धत्वेन क्लृप्तत्वेन साक्षात्साक्षिभास्यत्वे मानाभावाच्च ।

एवं विषयविशेषिताज्ञानावगाहि ‘स्वरूपं न जानामि, घटं न जानामि, त्वदुक्तमर्थं न जानामि’ इति व्यवहारमूलभूतप्रत्यक्षमप्यज्ञानसाधकम् । तत्र स्वरूपादिविषयकत्व-विशिष्टज्ञानत्वादिरूपप्रतियोगितावच्छेदकाद्यवच्छिन्नज्ञानस्यैव स्वरूपादिविषयकज्ञानरूपतया तदभावस्य तत्र भानायोगेन तस्याज्ञानविषयकत्वात् । न च स्वरूपघटादिमुख्य-विशेष्यकज्ञानत्वावच्छिन्नाभावो वा स्वरूपत्वघटत्वव्याप्यधर्मविशिष्टविषयकज्ञानत्वावच्छिन्ना-भावो वा प्रतीयतामिति वाच्यम् । यत उक्ताकारज्ञानोत्तरं किं स्वरूपको घट इत्यादिप्रश्नं करोति । तदनुसार्युत्तरवाक्येन प्रश्नहेत्वाकांक्षा निवर्तत इत्यनुभवसिद्धम् । तत्र मुख्य-विशेष्यकज्ञानाभावमनुभूय तन्निवृत्त्यर्थं तत्प्रतियोग्याकांक्षया प्रश्नो न घटते । तस्य परोपदेशमन्तराऽपि घट इति ज्ञानस्य स्वयमेवोत्पत्तिसम्भवात् । कथञ्चित्प्रश्नकरणेऽपि स्वरूपं घट इत्युक्तिमात्रेणाकांक्षानिवृत्तिप्रसङ्गात् । घटमेतादृशमवेहि स्वरूपमेतादृशमवेहीति वाक्यात्तदनिवृत्तिप्रसङ्गाच्च तद्वाक्येन घटमुख्यविशेष्यकबोधाद्यजननात् । द्वितीयपक्षे तु स्फुटो व्याघातः । व्याप्यधर्मविशिष्टविषयकज्ञानत्वरूपप्रतियोगितावच्छेदकप्रकारकज्ञानस्य फलीभूता-भावप्रत्यक्षत्वेनाभिमतस्यापि विशिष्टविषयकत्वाव्याहतेः ।

एवमेव त्वदुक्तमर्थं न जानामीत्यादावनुपपत्तिरनुसन्धेया । त्वदुक्तमर्थं साक्षात्प्रमाणतो न जानामीति तदनुभवाकारः तत्र च त्वदुक्तार्थो न साक्षाद्भासते किन्तु प्रमाणज्ञाने विषयितासंसर्गेण विशेषणतयैव प्रतियोगिता वच्छेदककोटौ भासत इति प्रतियोगिज्ञानादिना न व्याहतिरिति चेन्न । अस्य मुख्यविशेष्यताकल्प एव प्रमितत्वेन तद्दोषेणैव दुष्टत्वात् ।

यत्तु ‘‘अत्रापि व्याहतिरेव । तथा हि । साक्षात्त्वदुक्तार्थमवगत्य हि तादृशार्थज्ञानाभावो ग्राह्यः तादृशज्ञानरूपप्रतियोगिज्ञानं च न साक्षिणा । तस्मिंस्तादृशप्रमाणाप्रवृत्तेः । किन्तु ‘अयं त्वदुक्तार्थमुख्यविशेष्यकप्रमात्मकज्ञावान्’ इति वाक्येनान्यनिष्ठज्ञानरूपप्रतियोगिनो ग्रहं सम्पाद्यानन्तरं तदभावप्रत्यक्षं वाच्यम् । तादृशमहावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधस्त्व-दुक्तोऽर्थ इत्याकारकोऽवश्यं वाच्यः । अन्यथा ‘विषयितासम्बन्धेन त्वदुक्तार्थविशिष्टं प्रमाणज्ञानम्’ इति त्वदुक्तार्थत्वविशिष्टवैशिष्ट्यावगाहित्वानुपपत्तेः । विशेषणतावच्छेदक-प्रकारकनिर्णयाभावात् । न चेष्टापत्तिः । तथात्वेऽभावप्रत्यक्षस्य विशिष्टवैशिष्ट्यावगाहिता-नियमेनैतच्छाब्दमूलकाभावप्रत्यक्षानुपपत्तेः । तथा च त्वदुक्तार्थमुख्यविशेष्यकं प्रमात्मकज्ञानं प्रथमत आगतमिति तन्निषेधे व्याहतिः ।

न च त्वदुक्तार्थप्रमात्वेन प्रतियोगिस्मरणादेव तादृशाभावप्रत्यक्षोत्पत्तौ नोक्तवाक्या-द्यपेक्षेति वाच्यम् । त्वदुक्तार्थत्वस्याननुभवेन तद्विशिष्टार्थपमात्वेन पूर्वानुभवाभावेन तत्स्मरणानुपपत्तेः । अत एव त्वदुकत्तार्थस्मृत्यापि तत्प्रमानुमानादेरसम्भव इति वाक्यमेवोक्तम्’’ इत्यद्वैतसिद्धितट्टीकयोरुपपादितम् । तत्रेदं चिन्त्यते ।

यत्र कश्चिदन्यं प्रति कञ्चिदर्थं वदति तत् श्रुत्वा कश्चन समीपस्थः तन्निकटवर्तिनं पुरुषान्तरं प्रति वदति ‘अयमेतदुक्तार्थज्ञानवान्’ इति । तत् श्रुत्वा स पुरुषः तदुक्तार्था-ज्ञानमनुभूय प्राथमिकपुरुषं प्रति वदति ‘तं प्रति त्वदुक्तमर्थं न जानामि’ इति तत्रैषा प्रक्रिया यद्यप्यस्तु तथाप्युक्ताभावप्रत्यक्षकाले पूर्वकाले च तादृशत्वदुक्तार्थत्वविशिष्टमुख्यविशेष्यताक-ज्ञानस्य कुत आवश्यकता येन व्याहतिः स्यात् । अवान्तरवाक्यार्थबोधोत्तरं महावाक्यार्थ-बोधस्यैव जननेनोक्तप्रत्यक्षानुदयात् । भिन्ने विषये शाब्दसामग््रयाः प्राबल्यात् । अन्यथा महावाक्यार्थबोधस्यैवाभावेन तदुत्पत्त्यर्थं कल्प्यमानोक्तावान्तरवाक्यार्थबुद्धेरप्यसिद्धिप्रसङ्गात् । विशिष्टवाक्यार्थबोधोत्तरं तादृशप्रत्यक्षोत्पत्त्यङ्गीकारे च न व्याहतिः । तादृशार्थबोधे त्वदुक्तार्थस्य प्रमात्मकज्ञानविशेषणतयैव भाने तादृशार्थमुख्यविशेष्यकज्ञाननिषेधे व्याहत्य-भावात् । कालान्तरे तादृशप्रतियोगिज्ञानेन तादृशप्रत्यक्षेऽपि न व्याहतिः । तादृशप्रति-योगिज्ञानस्य त्वदुक्तार्थविषयिणी प्रमेत्याकारकस्मरणरूपत्वेन त्वदुक्तार्थमुख्यविशेष्यक- त्वाभावात् प्रमारूपत्वाभावाच्च ।

न च न जानामीति प्रत्यक्षस्थले तादृशज्ञानाभावो वर्तमानकालमात्रसम्बन्धितया न प्रतीयते । पूर्वं कश्चिदर्थं प्रमाणान्तरेण निश्चितवतः इदानीं प्रमाणाप्रतीत्या तदनुसन्धानाभावे तमर्थं न जानामीत्यप्रतीतेः । किं तु न स्मरामीत्येव प्रतीतेः । अतः शब्दप्रयोगकालै-तत्पूर्वकालसामान्यावच्छिन्ना तादृशज्ञानाभावाधिकरणतैवाभावस्य स्वस्मिन् संसर्गत-याऽवभासत इत्यभ्युपेयम् । तथा चावान्तरवाक्यार्थबोधविधया पूर्वं कदाचित्प्रतीतिसत्तामात्रेण तादृशमहावाक्यार्थशाब्दबोधोत्तरं जायमानप्रत्यक्षस्यापि व्याहतिरेवेति वाच्यम् । अस्तु तर्हि कथञ्चिदद्वैतसिद्धिसामञ्जस्यम् ।

तथापि शाब्दबोधस्य त्वदुक्तार्थत्वविशिष्टवैशिष्ट्यावगाहित्वमुपपाद्य तन्मूलकोक्तप्रत्यक्षस्य विशिष्टवैशिष्ट्यावगाहितानियतत्वप्रदर्शनेनोक्तार्थोपपादकस्याद्वैतचन्द्रिकाग्रन्थस्यासामञ्जस्यमेव । उक्तरीत्या व्याहतौ अभावप्रत्यक्षस्य त्वदुक्तार्थत्वविशिष्टवैशिष्ट्यावगाहितानियमस्याप्रयोज-कत्वात् । प्रतियोग्यंशे भासमानधर्मस्योपलक्षणतया भानाभावात्त्वदुक्तार्थमुख्यविशेष्यक-प्रमात्वरूपविशिष्टधर्मस्योपलक्षणतया भानायोगात्तद्धर्मविशिष्टवैशिष्ट्यावगाहिताया आवश्य-कत्वेऽपि तादृशधर्मशरीरे त्वदुक्तार्थत्वरूपधर्मविशिष्टवैशिष्ट्यस्य घटकतायां बीजाभावेन तदंशमादाय विशिष्टवैशिष्ट्यावगाहितानियमोपपादनस्यासङ्गतत्वाच्च इति ।

न च त्वदुक्तमर्थं न जानामीत्यादौ व्यावर्तकधर्मविशिष्टत्वदुक्तार्थविषयकज्ञानत्वा-वच्छिन्नाभावः प्रतीयते अतो न व्याहतिरिति वाच्यम् । त्वदुक्तत्वस्यैव मदुक्ताद्व्यावर्तकत्वे-नोक्तव्याहत्यनिस्तारात् । न च तदन्यव्यावर्तकधर्मविशिष्टविषयकज्ञानाभावः प्रतीयत इति वाच्यम् । त्वदुक्तनीलघटं न जानामीत्यादावगतेः । तदन्यत्वमपि प्रतीयत इति चेत् तर्हि नीलघटत्वादिना निश्चयस्थलेऽपि तादृशप्रतीतिः स्यात् । इष्टापत्तौ चानुभवविरोधात् ।

यदपि ‘‘त्वदुक्तार्थविशेष्यकत्वदुक्तार्थत्वव्याप्यधर्मप्रकारकज्ञानत्वेन प्रतियोगिज्ञानात्तादृश-ज्ञानत्वावच्छिन्नाभावो न जानामीति प्रतीतौ भासते । न हि प्रतियोगिज्ञानमुक्त-प्रतियोगितावच्छेदकाक्रान्तम् । येन व्याहतिः स्यात् । उक्तज्ञाने व्याप्यधर्मस्य प्रकारतायामेव भासमानत्वेन त्वदुक्तार्थे भासमानत्वाभावात् । न च यत्र प्रतियोग्यप्रसिद्धिः तत्र का गतिरिति वाच्यम् । ईश्वरज्ञानस्य योगिज्ञानस्य च विद्यमानसमस्तवस्तुविषयकत्वेन तत्रैव तादृशज्ञानप्रसिद्धेः । यत्र घटः पटत्वादिनोक्तः तत्र पुरुषस्य घटत्वव्याप्यधर्मज्ञानं वर्तते । तत्र त्वदुक्तार्थत्वव्याप्यधर्मज्ञानाभावस्य तस्मिन् पुरुषेऽसत्वात्तत्र त्वदुक्तमर्थं न जानामीति प्रत्ययानुपपत्तिरिति शङ्क्यम् । तत्र घटस्य पटत्वेन त्वदुक्तत्वाग्रहेण भ्रमात्मकतादृ-शप्रतीतिसम्भवात् । अन्यथा घटविषयकप्रमात्मकज्ञानसत्त्वेन त्वदभिमताज्ञानस्याप्ययोगेन तवाप्यगतेः । एतेन प्रतियोग्यप्रसिद्धिस्थले त्वदुक्तार्थविषयकज्ञाने विशेषप्रकारकत्वाभावः विशेषप्रकारकज्ञाने त्वदुक्तार्थविषयकत्वाभावो वा समवेतवाच्यत्वं नास्तीत्यादाविव व्यधिकरणधर्मावच्छिन्नाभावो वा तत्र प्रतीयत इत्यद्वैतसिध्द्युक्तसमाधानमनुपादेयमेव प्रतियोगिप्रसिद्धेः सर्वत्र प्रदर्शितत्वात्’’ इति ।

तन्न । यत्र त्वदुक्तार्थविशेषं न जानामीत्यभिलापः तत्रागतेः । तत्र व्याप्तधर्मविशिष्ट-त्वेनैवार्थस्य भानात् । न चाभिलापकवाक्यस्य तादृशाकारत्वेऽपि प्रतीतिस्तु पूर्वोक्तार्थ-विषयिण्येव । यथा घटवद्भूतलमिति घटवद्भूतलयोरभेदबोधकशब्दाभिलाप्यप्रात्यक्षिकप्रतीतिः संयोगेन भूतले घटावगाहिनी तथेति वाच्यम् । तत्र घटवतोऽप्यभेदेन भूतले भासमानत्वेन तथाभिलापेऽपि प्रकृते प्रतीतेस्तादृशाकारत्वे मानाभावात् । प्रतीतेरर्थांशे विशेषप्रकारकत्वे व्याघातानिस्तारात् । एवमपि तच्छब्दाभिलाप्यप्रतीतेः ज्ञानांशे विशेषप्रकारकत्व-मभ्युपगम्यार्थांशे विशेषप्रकारकत्वानङ्गीकारेऽनुभवविरोध एव ।

किञ्च त्वदुक्तार्थं न जानामीति धीकाले त्वदुक्तार्थविशेषविषयज्ञानाभावानभ्युपगमे तादृशज्ञानस्यैवाङ्गीकारप्राप्त्या तद्विषयव्यवहाराद्यापत्तिः । तदुपगमे च तादृशज्ञानरूप-प्रतियोगिविषयकज्ञानस्यैवाभावप्राप्त्या तादृशप्रतीतेरेवानुपपत्तिः । भावरूपाज्ञानपक्षे तु प्रतियोगिज्ञानानपेक्षणान्न तादृशप्रतीत्यनुपपत्तिः ।

औतसिद्धौ तु ‘स्वतःप्रामाण्यग्रहपक्षे तद्विशेष्यकत्वे तत्प्रकारकत्वे गृह्यमाणे, विशेष्ये तद्वत्वग्रहस्यावश्यकतया तादृशतत्प्रकारकतद्विशेष्यकत्वस्य तादृशप्रतियोगिज्ञाने सम्भवात् स्पष्ट एव व्याघातः’ इत्युक्तम् । तन्न । स्वतःप्रामाण्यग्रहेऽपि त्वदुक्तार्थविशेष्यकं विशेषप्रकारकं ज्ञानं चैत्रादावस्तीति शब्देन वा तादृशज्ञानव्याप्यकौशल्यवानिति शाब्दपरामर्शादिना शाब्दानुमित्यादिरूपा या प्रतियोग्युपस्थितिस्तस्यास्त्वदुक्तार्थे विशेषप्रकारकत्वे बीजाभावात् ।

यत्तु तट्टीकायां विद्यमानज्ञानवृत्तितादृशप्रकारकत्वग्रहे तादृशप्रामाण्यनियमेऽप्यविद्यमान-ज्ञानग्रहस्थले तदभावमाशङ्क्य ‘पुर्वानुभूतप्रमात्वानुभवाधीनतत्स्मृतिरूपविशेषणज्ञान-सत्त्वात्तत्रापि तद्भानं प्रमात्वाग्रहेऽपि नियतमेव’ इत्यभिहितम् । तदप्यनेन निरस्तम् । उक्तस्थले त्वया शपथे कृतेऽपि शाब्दानुमितिस्थले गत्यभावात् । भासमानवैशिष्ट्य-प्रतियोगित्वस्य प्रकारतारूपत्वेन तद्घटकतया त्वदुक्तार्थे विशेषधर्मभानमिति यथाकथञ्चिदुक्ता-वपि तादृशरीतेः प्रामाण्यपरतस्त्वपक्षेऽपि सम्भवेन प्रामाण्यस्वतस्त्वपक्षग्रहणासङ्गतिरेव ।

यदपि ‘विशेषनिष्ठानवच्छिन्नप्रकारताकत्वघटितोक्तधर्मावच्छिन्नाभावः ‘घटं न जानामि, स्वरूपं न जानामि’ इत्यादौ भासते’ इति । तदपि विशेषविशिष्टविषयकघटज्ञानविरोधस्य तादृशप्रतीतौ भानावगाह्यनुभवविरोधादयुक्तम् । किञ्च स्वरूपं न जानामीत्यादौ स्वरूपनिष्ठानवच्छिन्नविषयताशालिज्ञानाभावभानाभ्युपगमे सोऽहमित्यादिवाक्यजन्यज्ञानस्य स्वरूपनिष्ठानवच्छिन्नविषयताकत्वसत्वेऽपि अवच्छिन्नविषयकत्वेनानुभूयमानायाः स्वरूपं न जानामीति प्रतीतेरपलापप्रसङ्गः । मुक्त्युपघायकत्वादेः पामराद्यज्ञाततया तद्घटितोक्तधर्मा-वच्छिन्नाभावस्य पामरादिसाधारणोक्तप्रतीतिविषयत्वायोगात् । त्वदुक्तार्थादौ किञ्चिद्धर्मस्यान-वच्छिन्नतया भासमानत्वेऽपि त्वदुक्तमर्थं न जानामि घटं न जानामीत्यनुभवानुपपत्तिश्च ।

किञ्च त्वदुक्तविशिष्टत्वव्याप्यधर्मघटितस्य प्रतियोगितावच्छेदकत्वे विसंवादिवाक्य-प्रयोगानन्तरमपि त्वदुक्तमर्थं न जानामीति प्रतीतेर्जायमानत्वात्तत्र त्वदुक्तविशिष्टार्थाप्रसिध्द्या तद्घटितप्रतियोगितावच्छेदकस्याप्रसिध्द्या तादृशप्रतीत्यनुपपत्तिः । यदि च वस्तुगत्या त्वदुक्तत्वव्याप्याज्ञातधर्मभिन्ना ये ये धर्मास्तत्तन्निष्ठानवच्छिन्नविषयताशालिज्ञानत्वावच्छिन्ना-भावो भासत इत्युच्यते तदाप्यगतिरेव । तादृशधर्माणां विशिष्यानुपस्थितत्वेन तद्घटितप्रति-योगितावच्छेदकाग्रहात् ।

किञ्च घटादिविषयकत्वविशिष्टज्ञानत्वावच्छिन्नाभावस्य न साक्षिवेद्यतासम्भवः । साक्ष्य-योग्यधर्मघटितधर्मावच्छिन्नाभावस्य साक्ष्ययोग्यत्वात् । अन्यथा सुखाद्यभावस्येव गुरुतरघट-त्वावच्छिन्नाभावस्यापि चक्षुर्वेद्यतापत्तेः ।

ननु साक्षियोग्यत्वं क्वचित्सहजत एवावरणाभावाद्यथा सुखादौ, क्वचिच्चावरणाभि-भावकप्रत्यक्षवृत्तियोग्यत्वात् । तथा च धर्माधर्मगुरुत्वादेरावृतत्वेन प्रत्यक्षवृत्त्यविषयत्वेन च साक्ष्ययोग्यत्वात्तत्तज्ज्ञानाभावस्य साक्ष्यवेद्यत्वेऽपि घटादेः प्रत्यक्षवृत्तियोग्यत्वेन साक्षि-वेद्यत्वात्तद्विषयकज्ञानाभावस्य साक्षिवेद्यत्वे बाधकाभाव इति चेन्न । घटादिज्ञानत्वस्य घटादिविषयताशालित्वविशिष्टज्ञानत्वरूपतया तत्र सकलपुरुषीयज्ञानानां वैशिष्ट््यस्य घट-कत्वेन तादृशज्ञानसाधारणविषयतानां च घटकतया तदवच्छिन्नाभावानां साक्षियोग्यत्वा-भावावश्यकत्वात् । न हि पुरुषान्तरज्ञानतद्विषयत्वादिकं पुरुषान्तरस्य साक्षिवेद्यं भवति ।

न च विषयतायाः ज्ञानभेदेऽप्यैक्याङ्गीकाराच्च तस्याः सकलपुरुषसाक्षिवेद्यत्वात् घटादि-विषयकत्वज्ञानत्वयोरेकत्र प्रतियोगितायां मिलित्वावच्छेदकत्वमिति वैशिष्ट्यस्यावच्छेदक-शरीरप्रविष्टत्वाच्च नोक्तदोष इति वाच्यम् । विषयतायाः समवायवत् प्रतियोग्यनुयोगिभेदेन भेदस्यावश्यकत्वात् । अन्यथातिप्रसङ्गात् । स्वावच्छेदकधर्मसम्बन्धभेदेनावच्छेदकतायाः भेदावश्यकत्वेन अवच्छेदकतायाः व्यासज्यवृत्तित्वानुपपत्तेः । प्रत्येकस्य चातिप्रसक्त-त्वादवच्छेदकशरीरे उक्तसामानाधिकरण्यरूपवैशिष्ट्यस्य घटकताया आवश्यकत्वात् ।

ननु ज्ञानविशेषणतया सर्वेषां साक्षिभास्यत्ववत् ज्ञानाभावविशेषणज्ञानविशेषणतया सर्वं साक्षिभास्यं किं न स्यादिति चेन्न । ज्ञाननिष्ठेऽज्ञाननिष्ठे च घटविषयकत्वादिधर्मे आवरणाभावेनावरणावच्छेदके साक्षिसम्बन्धसत्त्वात् साक्षिभास्यत्वसम्भवेऽपि घटविषयक-ज्ञानत्वावच्छिन्नाभावत्वेन सामान्यत एवायोग्यत्वकल्पनात्तद्विशेषणतापन्नेष्वपि साक्षि-सम्बन्धाभावेन तद्घटितज्ञानाभावस्य साक्षिभास्यत्वप्रयुक्तव्यवहारासम्भवात् । अन्यथा अवि-द्योपहितस्यैव साक्षित्वेन मय्यज्ञानं साक्षात्करोमीतिवत् पटे घटाऽज्ञानं साक्षात्करोमीति व्यवहारापत्तेः ।

न चाभावे तन्निष्ठघटादिविषयकज्ञानप्रतियोगिकत्वादावन्तःकरणावच्छिन्नचिदनुयोगिकत्व- रूपाभावधर्मेचानावृतत्वं स्वीक्रियते । अतो ‘मयि घटाज्ञानं साक्षात्करोमि’ इति व्यवहारोपपत्तिः । पटाद्यवच्छिन्नानुयोगिताकत्वरूपाभावधर्मे आवृतत्वस्वीकारान्न पटे घटाज्ञानं साक्षात्करोमीति व्यवहारापत्तिरिति वाच्यम् । पटाद्यनन्ताधिकरणावच्छिन्नानु-योगिकत्वानामनन्तानामावरणावच्छेदकत्वकल्पनापेक्षया तादृशाभावस्यैकस्य साक्ष्ययोग्यत्व-कल्पनाया एव वरत्वात् । तस्मात्त्वदुक्तमर्थं न जानामीत्यादिप्रत्यक्षं भावरूपाज्ञाने मानम् ।

एवं ‘एतावन्तं कालं न किञ्चिदवेदिषम्’ इति परामर्शसिद्धं सौषुप्तं प्रत्यक्षमपि भावरूपाज्ञानविषयम् । तत्र जन्यज्ञानान्तराप्रसक्त्या प्रतियोगिज्ञानाद्यभावेन ज्ञाना-भावप्रत्यक्षस्य वक्तुमशक्यत्वात् ।

ननु ‘‘परामर्शोऽनुमितिः स्मृतिर्वा । नाद्यः । अनुमानेनैव सुषुप्तौ ज्ञानाभावानु-मितिसम्भवेन सुषुप्तिकाले अज्ञानप्रत्यक्षानुमानवैयर्थ्यात् । न द्वितीयः । स्मरणस्य संस्कारहेतुकत्वात् संस्कारस्य तादृशज्ञाननाशकाल एव उत्पत्तिनियमात् अविद्योपरक्तचिद्रूप-साक्षिरूपसौषुप्तज्ञानस्य जागरे उपाध्युपधेययोरुभयोरपि अनाशेन साक्षिरूपज्ञाननाशाभावेन संस्कारोत्पत्त्ययोगात् स्मृतित्वानुपपत्तेः । न च अनुभवस्य स्वयं स्मृत्यात्मना जनयितुमशक्यत्वात् संस्कारस्तदुपधायकः । स तु ज्ञानरूप एव लाघवादस्तु । तदन्यः संस्कारः कुतः स्वीकर्तव्य इति वाच्यम् । तावताऽपि प्रकृते स्मृत्यनुपपत्तेर्जागरूकत्वात् । वस्तुतत्वविचारे तु अनुभवनाशोत्तरं स्मृत्युत्पत्तिनिर्वाहाय तज्जननशक्तिमत्किञ्चिदपेक्षितम् । स यद्यनुभवनाशस्तर्हि चरमफलकालरोगादिभिः संस्कारनाशाभावापत्त्या तदुत्तरं स्मृत्याद्यापत्तेः ।

न च संस्कारस्यातिरिक्तत्वेऽपि सर्वदा स्मृतिवारणायोद्बोधकसमवधानस्यावश्यानु-सरणीयत्वेनोद्बोधकानां च फलैकोन्नेयत्वेनोक्तस्थले तत एव दोषवारणसम्भवे तदतिरिक्त-संस्कारोत्पत्तितन्नाशकल्पने गौरवमेवेति वाच्यम् । तथात्वे तत्तदुद्बोधकानामेव स्मृतिहेतुत्वेनैव सामञ्जस्येऽनुभवनाशस्य स्मृतिहेतुत्वाभावप्रसङ्गेन नाशस्य संस्काररूपत्वाभावापातात् ।

न च स्मृतित्वावच्छिन्नं प्रत्यनुगतकारणाभावे स्मृतित्वावच्छिन्नाभावस्यानेकप्रयोज्य-त्वापत्त्या गौरवप्रसङ्गात् तत्कारणत्वं अनुभवनाशस्य स्वीक्रियते । स्मृतिजननशक्तिरेव च संस्कारत्वमिति नातोऽन्यदधिकं कल्पनीयमिति वाच्यम् । अनुभवनाशस्य सत्वेऽपि यत्र रोगादिना स्मृत्यभावः तत्स्थलीयस्मृत्यनुत्पत्तौ नाशाभावस्य प्रयोजकताया वक्तुमशक्यत्वात्, तत्तदुद्बोधकाभावकूटस्य तत्तदभावकूटत्वेन प्रयोजकत्वं वाच्यम् । तत्तदभावमादितः कृत्वा निरुच्यमानकूटत्वत्वेन समनियतानां कूटत्वानां विनिगमकाभावात् प्रयोजकतावच्छेदकत्वस्य तादृशकूटान्तर्गतनानाव्यक्तिषु प्रयोजकत्वस्य च कल्पने महागौरवापातेन तदपेक्षया संस्कारस्यातिरिक्तस्य स्मृतिहेतुत्वमुपगम्य तदभावस्यैव स्मृत्यभावप्रयोजकत्वकल्पने लाघ-वात् । एवमुपेक्षात्मकानुभवोत्तरं स्मृत्यनुत्पत्त्या तत्राप्युक्तरीत्या लाघवम् ।

न च तथाप्युपेक्षात्मकज्ञानस्थले संस्कारानुत्पत्त्यर्थं तत्तदुपेक्ष्यान्यानुभवत्वेन संस्कार-कारणत्वं भवता वाच्यम् । मया तत्तज्ज्ञानान्यानुभवनाशस्य संस्काररूपत्वं स्वीक्रियते । अतो नोपेक्षास्थले भवदुक्तलाघवावकाश इति वाच्यम् । अनुभवनाशस्य संस्कारतापक्षे जन्मान्तरानुभवनाशस्य तत्रानपायात् । मन्मते च कालादिना संस्कारस्य नष्टत्वेनैतज्जन्मनि संस्कारस्यानुत्पन्नत्वेनैव स्मृत्यभावोपपत्तेः । यत्र च संस्कारसत्वेऽपि स्मृत्यनुत्पत्तिः तत्रागत्योद्बोधकाभावस्य प्रयोजकत्वमुपेयते । तावताऽपि बहुस्थलेषु लाघवं निरपवादमेव संस्कारस्वीकारपक्षे ।

किञ्च यत्र प्रत्यभिज्ञा सोऽयमिति जायते तत्र उपनायकस्यावश्यापेक्षायां तत्रोद्बोधक-विशेषाणामदृष्टादीनां तदविषयकत्वेन अनुभवनाशस्यापि निर्विषयकत्वेन तत्र संस्कारस्वीकार आवश्यकः । अन्यथा तादृशबहुस्थलेषु मध्ये स्मृतिव्यक्तीनां कल्पने महागौरवम् । न च तत्र स्मृत्यनुभवात्मकवृत्तिद्वयमेव स्वीक्रियते नैकं विशिष्टज्ञानम् । उपनयस्य सन्निकर्षत्वा-नङ्गीकारात् । अतः क्व गौरवमिति वाच्यम् । तथात्वे पूर्वोत्तराभेदावगाहिप्रत्यभिज्ञाभावापातेन पदार्थानां स्थिरत्वासिध्द्या क्षणभङ्गवादिनिराकरणानुपपत्तेः । सर्वत्रोक्तरीत्या ज्ञानद्वयेनैव सर्वव्यवहारोपपत्त्या भ्रान्त्यभावापातेनानिर्वचनीयासिद्धिप्रसङ्गाच्च । उक्तस्थले एकज्ञानत्वेना-नुभूयमानस्य ज्ञानद्वयात्मकत्वं परिकल्प्य प्रत्येकं तत्प्रागभावध्वंसादिकल्पनागौरवापेक्षया ज्ञानलक्षणायाः प्रत्यासत्तेः संस्कारसाधारणरूपेण कारणत्वाभ्युपगमेन एकज्ञानस्यैवाङ्गी-कर्तुमुचितत्वाच्च । एकस्यैव ज्ञानस्य स्मृतित्वं तत्तावच्छेदेन अनुभवत्वमिदंत्वावच्छेदेन स्वीक्रियत इत्ययुक्तम् । स्मृतिभिन्नज्ञानत्वस्यैवानुभवत्वेन तयोरेकत्र समावेशायोगात् भेदस्य व्याप्यवृत्तित्वात् । तस्य जातित्वे मानाभावात् । तथात्वेऽपि वा तस्याव्याप्यवृत्तित्वादि-कल्पने महागौरवात् ।

न चानुभवनाशस्यैव सविषयकत्वमभ्युपगम्यताम् । धर्मिकल्पनातो धर्मकल्पनाया लघीयस्त्वादिति वाच्यम् । तस्य सविषयत्वाङ्गीकारे नाशतायाः परिभाषामात्रत्वापत्तेः । सविषयकत्वस्यानुभवनाशे स्वीकारे आत्मनिष्ठनाशान्तरेष्वपि विनिगमकाभावेन सविषयकत्व-कल्पनापत्त्या महागौरवापातेनातिरिक्तसंस्कारस्यैव सिद्धेः ।

न चानुभवनाशत्वेन स्मृतिकारणत्वात् तत्रैव सविषयकत्वं कल्प्यते न नाशान्तरेष्विति वाच्यम् । उद्बोधकाभावपरिकल्पनेनैवातिप्रसङ्गं परिहरतो नाशत्वेन कारणत्वाकल्पने-नैवोपपत्तेः । स्मृतिसामान्याभावे उद्बोधकाभावकूटस्यैव प्रयोजकस्य सम्भवात् । अनुभव-नाशस्य स्मृतिहेतुत्वेऽपि उपनायकताप्रयोजकसविषयकत्वस्य नाशान्तरेषु कल्पने बाधकाभावेन तस्याविनिगमकत्वात् । व्यवहितकारणेन कार्योत्पत्तिस्थले यागादौ सर्वत्र तन्नाशस्यैव स्वर्गकारणत्वादेर्वक्तुं शक्यतयाऽपूर्वादेरप्यपलापप्रसङ्गः । ज्ञाननाशस्य यागरूप-क्रियानाशस्य च ‘मयिज्ञानं नष्टं, यागक्रियेदानीं समाप्ता’ इति प्रत्यक्षत एव सिद्धत्वेन संस्कारापूर्वादेरैन्द्रियकत्वापत्तिः ।

न च यागनाशस्यापूर्वत्वापादनानुपपत्तिः । कर्मनाशाजलस्पर्शादेस्तन्नाशकत्वानुपपत्तेरिति वाच्यम् । कर्मनाशाजलसंयोगजनितदुरितापूर्वाभावस्यापि स्वर्गादिरूपफलसामग्रीकोटिनि-विष्टत्वाभिप्रायकत्वेन तद्वचनानां नेतुं शक्यत्वादिति दिक् । तस्मादुत्तरकालिक-परामर्शसिद्धसौषुप्तिकप्रत्यक्षं प्रमाणमित्येतदयुक्तम्’’ इति चेन्न ।

पक्षसाध्यहेत्वादेस्तदा ज्ञातुमुपायाभावेनानुमानत्वासम्भवेन तस्यानुपदं वक्ष्यमाणरीत्या स्मृतित्वस्यैव वक्तव्यतया तन्मूलीभूतप्रत्यक्षसिद्धेः । तथा हि । सम्प्रतिपन्नयोरुदया-स्तमयकालयोरिव सुषुप्तिपूर्वापरकालरूपोदयास्तमयकालयोरप्यन्तरालकालमनुमाय ‘तत्का-लीनोऽहं ज्ञानाभाववान् ज्ञानसामग्रीरहितत्वात् अवस्थाविशेषवत्वात् नियमेनाननुस्मर्य-माणत्वात् अन्यथा तत्कालीनात्मादेरिव स्मरणप्रसङ्गः’ इति रीत्याऽनुमातव्यम् । तन्न घटते सुषुप्तिपूर्वापरकालसूर्योदयास्तमयकालसाधारणोदयास्तमयकालत्वस्य निर्वक्तुमशक्यत्वेन पक्षसिद्धेरभावात् । अवस्थाविशेषवत्वं तु ज्ञानाभावाधिकरणकालत्वं विना निर्वक्तुमशक्यमिति हेतोः साध्याविशिष्टता । प्राज्ञपरिष्वङ्गरूपः स इति चेन्न । पामराणां तादृशप्रतीत्युपा-याभावापातात् । प्राज्ञानामपि सुषुप्त्युत्तरं नियमेन तत्प्रतिसन्धानस्यानुभवविरुद्धत्वाच्च । ज्ञानसामग्रीविरहश्च ज्ञानाभावेनैवानुमेय इत्यन्योन्याश्रयः ।

न चेन्द्रियप्रसादेन पूर्वकालीनतदुपरममनुमाय सामग्रीविरहानुमानम् । इन्द्रियप्रसादस्य सुखानुभवहेतुकस्य तदुपरमहेतुकत्वासिद्धेः । नियमेनाननुस्मर्यमाणत्वं च ज्ञानवत्वप्रकारक-ज्ञानविषयत्वत्वावच्छिन्नाभावो वा सुषुप्तिकालावच्छिन्नज्ञानवत्वेन स्मर्यमाणत्वाभावो वा । नाद्यः। सुषुप्तिकालावच्छिन्नोऽयं ज्ञानवानिति परेषां भ्रमाधीना या स्मृतिस्तद्विषयत्वेनासिद्धेः। द्वितीये सुषुप्तिमात्रस्याव्यावर्तकत्वेन पक्षीयसुषुप्तेरेव निवेश्यतया पक्षस्य तदीयसुषुप्तिकालीन-ज्ञानवत्वेनाननुभूतत्वेन तेन रूपेण स्मर्यमाणत्वाभावेनासिध्द्यभावेऽपि, यः यत्कालीन-यद्विषयकज्ञानवत्वेन न स्मर्यते स तत्कालीनतद्विषयकज्ञानाभावाश्रयः, यथा प्रातर्घटज्ञान-वत्वेनास्मृतोऽहं प्रातर्घटज्ञानाभाववानिति सामान्यतो व्याप्तिर्वाच्या । विशेषव्याप्तौ दृष्टान्ताभावात् । तत्रापेक्षात्मकज्ञाननिवेशे तदभावस्यैव सिद्धिप्रसङ्गेन ज्ञानसामान्याभावा-सिद्धिप्रसङ्गात् । ज्ञानसामान्यनिवेशे च ज्ञानविषयोपेक्षणीयज्ञानघटिते व्यभिचारः । तादृश-ज्ञानवत्वेनास्मर्यमाणेऽपि तादृशज्ञानाभावासत्वात् ।

न च प्रातरनुभूतचत्वरे गजज्ञानाभावः कथमिति वाच्यम् । ज्ञानानुपलब्ध्येत्यवेहि । अनुपलब्धिज्ञानं च अभावरूपाज्ञानेन । तथा हि । पूर्वकालीनोऽहं, चत्वरे गज इति ज्ञानाभाववान् इदानीं चत्वरे गजज्ञानाभाववत्वात् यो नैवं स नैवं यथा गजज्ञानवानयमिति । एवं सर्वत्राज्ञानस्य ज्ञानाभावव्याप्यत्वेन तदनुमापकत्वम् ।

न च स्मरणपक्षे संस्कारानुपपत्तिः । अविद्यावृत्तिप्रतिबिम्बितसाक्षिभास्यत्वादेवाज्ञानस्य वृत्तिनाशादेव संस्कारोपपत्तेः । अविद्यावृत्तिप्रतिबिम्बितस्यैव साक्षित्वात् । न च जागरेऽप्यज्ञानस्य वृत्तिवेद्यत्वे वृत्त्यभावदशायां संशयाद्यापत्तिरिति वाच्यम् । अज्ञानविषय-काज्ञानाभावेन तदयोगात् । संशयादेस्तत्कारणीभूताज्ञानसमानविषयत्वनियमात् । भाव-त्वादिना संशये त्विष्टापत्तिरेव । भावत्वादेः साक्षिवेद्यत्वाभावेनाज्ञानविषयत्वात् । अज्ञानस्य स्वरूपेणैव साक्षिवेद्यत्वात् ।

ननु तदा ज्ञानाभावोऽपि स्वरूपेणैव भासताम् । सप्रतियोगिकत्वेनाभावत्वेन च ज्ञान एव प्रतियोगिज्ञानस्य हेतुत्वात् । अन्यथा प्रमेयत्वेन न भासेतेति चेन्न । साक्षिणा तावन्नाभावस्य ज्ञानम् । तस्य साक्षात् साक्ष्यवेद्यत्वात् । नापि शब्दादिना । तेषां तदानीमभावात् । नाप्यनुपलब्ध्या । तस्याः प्रतियोगिज्ञाननिरपेक्षाया अजनकत्वात् । अन्यथा नेत्याकारप्रतीत्यापत्तेः । न च दृष्टाभावान्तरविलक्षणस्वभावोऽयमभाव इति स्वरूपेण साक्षिवेद्योऽस्त्विति वाच्यम् । निर्विकल्पकवेद्यत्वे भावत्वस्यैवोचितत्वात् । अन्यथा परिभाषामात्रत्वापत्तेः ।

ननु सविकल्पकवृत्तेरन्तःकरणकार्यत्वेन सुषुप्तौ ज्ञानविरोधसविषयकत्वयोरज्ञाने भास-मानत्वाभावान्न किञ्चिदवेदिषमिति स्मरणे कथं तद्भानम् ? अत एवोक्तं सिद्धान्तबिन्दौ ‘अहङ्काराभावाच्च नैका विशिष्टवृत्ति’रिति । इति चेन्न । जागराद्यक्षणे द्रष्टर्यन्तःकरण-तादात्म्याध्यासेनाहमुल्लेखवत् ज्ञानविरोधित्वसविषयकत्वयोरप्यज्ञाने जागर एव भानेन तदंशे स्मृतित्वानङ्गीकारात् । द्रष्टुरेव स्मर्तृत्वेनाविद्योपहितसाक्षिरूपद्रष्टुरेवाज्ञानविषयकवृत्तिरूप-स्मरणाश्रयत्वम् । प्रमाया एव मनःपरिणामत्वेनान्तःकरणावच्छिन्नचित एव प्रमातृत्वम् ।

वस्तुतस्तु ज्ञानत्वसविषयकत्वाभ्यामेव ज्ञानभाननियमवत् अज्ञानस्यापि ज्ञान-विरोधित्वसविषयकत्वाभ्यामेव भानं सुषुप्तावपि । ज्ञानस्येवाज्ञानस्यापि सविषयकत्वेनैव वेद्यत्वात् । तथा तदन्यप्रकारकज्ञानस्यैव सुषुप्तावभावनियमात्तादृशं ज्ञानं प्रत्येवाहङ्कारस्य हेतुतेत्यवधेयम् ।

नन्वज्ञानवृत्तिप्रतिबिम्बितचैतन्यरूपस्य अज्ञानानुभवत्वादनुभव इति वक्तव्यम् । कथं स्मरणमित्युक्तम्? सत्यम् । सुषुप्त्याख्यायास्तामस्या अज्ञानवृत्तेर्नाशेन जाग्रति तद्विशिष्टा-ज्ञानस्य साक्षिणानुभूयमानत्वाभावेन सुषुप्तिविशिष्टाज्ञानस्वरूपं संस्कारजन्याविद्यावृत्त्या भासते । शुद्धाज्ञानस्वरूपे तु तुल्यसामग्रीकत्वाद्घारावगाहिकैव वृत्तिः । विशिष्टकेवलाज्ञान-द्वयविषयिणी विशिष्टांशे स्मृतिरूपा केवलांशेऽनुभवरूपा एकैवानिर्विकल्पकवृत्तिरिति न कोऽपि दोषः ।

नन्वेतद्वार्तिकविरुद्धम् । वार्तिके कार्योपाधिविनाशसंस्कृतं विनाशरूपसूक्ष्मावस्था-युक्तमिति यावत् केवलाज्ञानमात्रं प्रलयोपमं सुषुप्तिः । न तु सुषुप्तिकालमात्रगता काचन वृत्तिरभ्युपगम्यत इत्यभिप्रेत्य सौषुप्ताज्ञानस्मरणस्यापाकृतत्वात् । तथा च वार्तिकम् ।

न सुषुप्तिगविज्ञानं नाज्ञासिषमिति स्मृतिः ।

 कालिकाव्यवधानत्वान्न स्वात्मस्थमतीतभाक् ।।

 न भूतकालस्पृक् प्रत्यङ् न चागामिस्पृगीक्ष्यते ।

 स्वार्थदेशः परार्थः स विकल्पस्तेन संस्मृतः’ ।। इति ।

‘‘न सुषुप्तिगविज्ञानं सुषुप्तिकालमात्रगता एका वृत्तिर्नास्त्येव । यन्नाशात् स्मरणं स्यात् । किन्तु सुषुप्तिपूर्वापरकालस्थायिनी एकैवाविद्यावृत्तिः । अथ वा प्रलयोपममित्युक्तत्वात् ‘न सुषुप्तिगविज्ञानं’ इत्यस्य जन्यज्ञानं सुषुप्तौ नेत्यर्थः ।

ननु तर्हि न किञ्चनाज्ञासिषमिति स्मृतेरनुपपत्तिः । सौषुप्तिकवृत्तिनाशात्मकसंस्कार-रूपकारणाभावादित्यत आह ।। नेति ।। तस्य स्मृतित्वमेव न स्वीक्रियते । यदनुपपत्त्या संस्कारोऽङ्गीकार्यः । तत्तोल्लेखाद्यभावात् । स्मृतित्वाङ्गीकारे बाधकमप्याह ।। कालेति ।। जाग्रत्कालसुषुप्तिकालयोः कालकृतव्यवधानाभावादिति भावः । उक्तज्ञानं हि जाग्रदाद्यक्षणे जायते । स च सुषुप्त्यव्यवहितोत्तरक्षण एव । तथा चानुभवाव्यवहितोत्तर-क्षणोत्पन्नतत्समानविषयज्ञानस्य धारावगाहिस्थलेऽनुभवत्वस्यैव दर्शनात्तादृशस्य ज्ञानस्य न स्मृतित्वम् । नाज्ञासिषमिति व्यवहारस्तु धारावगाहिस्थले यथैतावन्तं कालं घटमपश्य-मिदानीमपि पश्यामीति तथा कालातीतत्वादिविवक्षया युज्यत इति भावः ।

ननु किमनया कल्पनया? सुषुप्तिकालोत्पन्नवृत्त्यभावेन तन्नाशरूपसंस्काराभावेऽपि जागराद्यक्षणे सौषुप्तविषयनाशेन तादृशविषयावच्छिन्नचिद्रूपस्य तज्ज्ञानस्य नाशमभ्युपगम्य तस्य संस्काररूपतामुपेत्य सुषुप्त्युत्तरक्षणविलम्बेनोक्तज्ञानं स्वीकृत्य तस्य स्मृतित्वमभ्युप-गम्यताम् । तत्तानुल्लेखेऽपि बाधकाभावात् । इत्यत आह ।। न स्वात्मस्थमिति ।। स्वात्मस्थं स्वात्मनि विद्यमानविषयभूतमज्ञानं नातीतभाक् । भावप्रधानोऽयम् । तादृक्कालवाची वा । नातीतत्वभाक् न नश्यतीत्यर्थः । तथा चाज्ञानस्वरूपविषयस्य विशेषणस्य नाशाभावान्न विशिष्टचिद्रूपतज्ज्ञाननाशात्मकसंस्कारसम्भव इति भावः ।

तन्नाशाभावः कुत इत्यत आह ।। न भूतेति ।। प्रत्यक् अज्ञानोपहिता चित् भूतकालमात्रसम्बद्धा न । न नश्यतीत्यर्थः । अनाद्यविद्योपहितचित एव अज्ञानज्ञानत्वेन तदनाशे प्रतिभासमात्रशरीरमज्ञानमपि न नश्यति इत्यर्थः ।। नाशाङ्गीकारे बाधकमाह ।। न चागामीति ।। यदि नश्यति तदुत्तरकालेऽहमज्ञ इति प्रतीतिनिर्वाहाय नाशापेक्षयाऽगामि-कालसम्बन्धरूपोत्पत्तिर्वाच्या । न चैवं दृश्यतेऽतो न नश्यतीत्यर्थः ।

एवं नाज्ञासिषमिति प्रत्ययस्य स्मृतिरूपतां निराकृत्याज्ञानांशे निर्विकल्पकतामपि निराकरोति ।। स्वार्थेति ।। स्वं उक्तप्रतीतिः । तस्य योऽर्थो विषयीभूतमज्ञानम् । तदेव देशोऽधिकरणं यस्याज्ञाननिष्ठप्रमाविरोधित्वाज्ञानत्वादेः सोऽर्थस्तद्रूपोऽर्थः । परार्थः परः अज्ञानभिन्नः प्रकारतया स्वविषयः । तच्छब्दयोगाद्यस्येति लभ्यते । यस्यैतादृशो विषयो भवति स नाज्ञासिषमिति प्रत्ययः तेन निमित्तेन विकल्पः विविधप्रकारविषयकः । अतः सविकल्पक एव न निर्विकल्पकः’’ इत्युक्तवार्तिकस्याद्वैतचन्द्रिकोक्तदिशार्थ इति चेन्न ।

अस्मदुक्तस्योक्तज्ञाने स्मरणात्मकत्वस्य विवरणानुसारिपक्षान्तरत्वेनैतत्पक्षस्याप्यनुपदं वक्ष्यमाणरीत्या वार्तिककृत्सम्मतत्वेन च तद्विरोधविरहात् । तथा हि । अभावप्रत्ययालम्बना वृत्तिर्निद्रेति योगसूत्रानुसारेण तमोगुणात्मकावरणमात्रावलम्बिनी काचिद्वृत्तिः सुषुप्तिरित्य-भिप्रेत्य तदुपरक्तचैतन्यस्य तन्नाशेनैव नाशात्तत्कालीनाज्ञानानुभवजनितसंस्कारवशेन विवरण-कृता स्मरणं जायत इत्यभ्युपगतम् ।

अभावः प्रमाणजन्यवृत्त्यादिरूपाणां स्वजन्यवृत्त्यतिरिक्तानामभावः । तस्य प्रत्ययः तस्य कारणम् । उद्रिक्ततमोगुणः प्रतीयते प्राप्यते कार्यमनेनेति व्युत्पत्त्या प्रत्ययपदस्य कारण-परत्वात् । स आलम्बनं यस्याः सुषुप्तिरूपवृत्तेः । तमोगुणोद्रेके सत्वगुणपरिणामरूपा तमोगुणविषयिणी सुषुप्तिरूपा वृत्तिर्जायते । न तु तमोगुणस्यैव परिणामः । ‘सत्वात् सञ्जायते ज्ञानं’ इत्युक्तेः । उक्तवृत्तिर्निद्रेति योगसूत्रार्थः । प्रत्ययपदस्य कारणत्वार्थकत्वतात्पर्येण भामत्यामीक्षत्यधिकरणे स्वपितिनिरुक्तोपपादनावसरे ‘वृत्त्यन्तराभावकारणतमोगुणमात्राव-लम्बनावृत्तिः’ इत्युक्तम् । मात्रपदं ज्ञानविरोधादिधर्मस्याज्ञाने विशेषणताव्यवच्छेदकं न तु तमोगुणातिरिक्तसामान्यव्यवच्छेदकम् । गुणत्रयात्मकाज्ञानविषयकत्वस्य तद्वृत्तौ पूर्वं प्रसक्तत्वेन तद्विरोधापत्तेरिति ध्येयम् ।

विवरणमतनिष्कर्षस्तु पूर्वमुपपादित एव । न च जागरे बाधाभावात् आगन्तुकदोषाभावच्च कथं सुषुप्तिरविद्यावृत्तिरिति वाच्यम् । देहात्मैक्यसुखादिविषयकाविद्यावृत्तेर्ब्रह्मज्ञानेतरा-बाध्यत्वस्य आगन्तुकदोषजन्यत्वाभावस्य च सत्वेनाविद्यावृत्तेरिदानीं बाध्यत्वागन्तुकदोष-जन्यत्वनियमाभावात् । विवरणोक्तपक्षान्तरमपि वार्तिककृत्सम्मतम् । अत एव चोक्त-मुपास्तिब्राह्मणे वार्तिककृता ।

न चेदनुभवव्याप्तिः सुषुप्तस्याभ्युपेयते ।

नावेदिषं सुषुप्तेऽहमिति धीः किं बलाद्भवेत् ।। इति ।

सुषुप्त्यवस्थायां स्वरूपे सुखे चानुभवव्याप्तिः वृत्तिरूपानुभवविषयत्वं न चेदभ्युपगम्यते तदा सुखमहमस्वाप्सं नावेदिषमिति धीः तदुभयविषयिणी किं निबन्धना स्यादित्यनेन तदुभयस्मरणार्थं तदुभयविषयकवृत्तिरावश्यकी । तस्यामेव सुखविषयकत्वस्येवाज्ञान विषय-कत्वस्याप्यनुभवसिद्धस्योपपादनसम्भवात्तदपलापो न कर्तव्य इति वार्तिकार्थः । वार्तिके सुषुप्ते इत्येतत् न ज्ञानाकारान्तर्गतम् । वृत्तेः सविषयकत्वापत्तेः । किन्तु सुषुप्तनिष्ठा धीरित्यर्थः । साक्ष्यज्ञानसुखाकारास्तिस्रो वृत्तयः । सुषुप्त्याख्यैका निर्विकल्पकवृत्तिरित्यन्यदेतत् । उक्तनिर्विकल्पकानुभवस्य सविषयकस्मृतिजनकत्वं कथमिति चेत् आकाशे गृहीतशक्ति-काकाशपदान्निर्विकल्पकाकाशस्मृतेरिव निर्विकल्पकानुभवादपि सविषयकस्मरणोत्पत्तौ बाधकाभावात् । सप्रकारकज्ञानं प्रत्यहङ्कारस्य हेतुत्वेन तदभावादेव देशकालसंसर्गरूप-तत्ताभानस्य सुषुप्तावभावात् तदुत्तरकाले स्मरणे तदभानं युक्तम् ।

ननु निखिलकार्यनाशोत्तरं तत्संस्कारोपहितचैतन्यज्ञाने जाग्रदवस्थायां पूर्वोक्तस्यैव तत्संस्काररूपतया तद्बलाज्जागरे स्वरूपसुखस्मरणसम्भवात् सुषुप्तौ वृत्त्यभ्युपगमे प्रयोजनाभाव इति चेन्न । तादृशज्ञाननिष्ठकार्यनाशरूपसंस्कारस्य स्वरूपसुखोभयविषयकत्वे खलु जाग्रत्का-लीनतन्नाशस्य तदुभयविषयकसंस्काररूपत्वेन स्मृतिजनकता स्यात् । तस्यैवाभावेन उक्तरीत्ययोगात् ।

अथोभयप्रकाशकचैतन्यतादात्म्यस्यापि सुषुप्तौ कार्यसंस्कारेऽभ्युपगमात्तस्योभयविषयकत्वं सिद्ध्यतीति चेन्न । वृत्तिचैतन्ययोरेकजातीयविषयत्वासम्भवेन तद्घटनाय संस्कारस्य स्मरणहेतुतासम्भवात् । वृत्तेर्हि विषयत्वमाकाराख्यम् । चैतन्यस्य तु तादात्म्यम् । न च कारणकोटावाकाराख्यविषयत्वमनिवेश्य संस्कारस्मरणयोः कार्यकारणभावः कल्प्यतामिति वाच्यम् । अनुमित्यादिसंस्कारेषु उक्ततादात्म्यरूपविषयत्वाभावेन तत्साधारणरूपेण स्मरण-संस्कारयोः कार्यकारणभावस्यायोगेन तत्राकाराख्यविषयतां निवेश्य कारणत्वान्तरस्यावश्यक-त्वेनोक्तकार्यकारणभावस्याप्रामाणिकत्वात् ।

किञ्च चित्स्वरूपस्यैव सुखत्वे जागरमध्येऽपि तत्स्मृतिसम्भवेन सुषुप्त्युत्तरमेव सुख-मासमिति स्मृतौ बीजाभावः स्यात् । तस्मात्सुषुप्तौ सुखाकारा वृत्तिरावश्यकी सैवाज्ञानाकारा सुषुप्तिः । स्वाविषयकत्वेऽपि तस्याः तत्सूक्ष्मावस्था तद्विषयकस्मृतिं जनयति । वृत्तिनाशसामान्ये स्वप्रतियोगिभूतवृत्तिविषयविषयकस्मरणजनकत्वस्येव स्वप्रतियोगिवृत्ति-विषयकस्मरणजनकत्वस्यापि कल्पनात् । अत एव भामत्यामध्यासभाष्यस्थायां ‘ज्ञातत्वेनैव हि सर्वं स्मर्यते’ इत्युक्तम् । तस्मान्नावेदिषमिति स्मृतिसिद्धं प्रत्यक्षमप्यज्ञानविषयकं सिद्धमिमिति कथं भावरूपाज्ञाने मानाभावः’’ इति ।

।। भावरूपाज्ञानस्य प्रत्यक्षविषयत्वखण्डनम् ।।

अत्रोच्यते । यत्तावदुक्तं ‘न जानामीति प्रत्यक्षं भावरूपाज्ञानविषयकं’ इति तन्न । विचाराक्षमत्वात् । तथा हि । न जानामीति व्यवहारेण खलु भावरूपाज्ञानविषयकं वा ज्ञानाभावविषयकं वा प्रत्यक्षमनुमेयम् । तादृशव्यवहारस्य यादृशार्थविषयकत्वं तादृशार्थ-विषयकत्वं प्रत्यक्षस्य वक्तव्यम् । तथा च तादृशव्यवहारे भासमानमज्ञानं प्रमाणवृत्ति-सामान्यविरोधि वा नियतप्रमाविरोधि वा । नाद्यः । तादृशवाक्यप्रयोगपूर्वकाले तत्कारणीभूत-कण्ठाभिघाते इष्टसाधनताज्ञानादेस्तत्काल आवश्यकत्वेन तेन तस्य नष्टत्वान्न जानामीति वर्तमानतया बोधनायोगः । नाज्ञासिषमित्येव स्यात् ।

अपि च बहिरिन्द्रियजन्यवृत्तिकालीनावस्थाया एव जाग्रत्वात् त्वन्मते जाग्रत्सुषुप्ति-त्वेनाङ्गीकृतभ्रमदशायामपि इन्द्रियवृत्तेरावश्यकत्वेन तया तस्य नष्टत्वात् । विषयस्यैव नष्टत्वेन जागरे तत्प्रत्यक्षस्य क्वावसरः ? एतेन अव्यवह्रियमाणमपि प्रत्यक्षमनुभवसिद्धमित्यपास्तम् । यदेन्द्रियवृत्तिसामान्यं नास्ति तदा प्रत्यक्षीक्रियत इत्यसत् । जागरे तादृशदशाया अभावात् । आग्रहकरणे यदेन्द्रियवृत्तिर्नास्ति तदा तस्योत्पत्तिश्चेत् तदा तस्यानादिभावरूपत्वाभावात् लक्षणाभावेन भावरूपाविद्यात्वानुपपत्तिः । प्रतिसमयमुत्पत्तिनाशकल्पने अनन्ताप्रामाणिक-व्यक्तिकल्पनमहागौरवं च । अज्ञानानामनादित्वे पुरुषस्योत्पत्तिक्षणानन्तरमेवेन्द्रियवृत्तेः सत्वेन सर्वेषां युगपन्नष्टत्वेन कस्याप्यवस्थानायोगः ।

अपि च जन्मनामनादित्वेन इन्द्रियवृत्तीनामपि प्रवाहतोऽनादित्वान्न कदापि तादृशा-ज्ञानावस्थानमिति तेषामप्रामाणिकत्वमेव । प्रतिनियतेन्द्रियवृत्तिनाश्यत्वाङ्गीकारे प्रमासा-मान्यविरोधित्वायोगः । अस्येयं नाशिकेति ग्राहकप्रमाणाभावेन तत्कल्पनायोगश्च ।

ननु भवदभिमततत्प्रागभावानां स्थानेऽस्माभिरज्ञानस्याङ्गीकारान्नाधिककल्पनादिदोष इति चेन्न । प्रागभावानङ्गीकारेण तत्स्थानेऽज्ञानकल्पनेऽस्माकं क्षतिविरहः । प्रागभावाना-मेवाज्ञानमिति परिभाषितत्वात् । जानातिसमभिव्याहृतनञः प्रागभावत्वावच्छिन्नलक्ष-कत्वाङ्गीकारेण तत्र ज्ञानस्य शुद्धप्रतियोगितासम्बन्धेन भानमङ्गीकृत्य ज्ञानप्रतियोगिकप्राग-भाववानित्याकारकत्वस्य तद्वाक्यजन्यशाब्दबोधप्रत्यक्षयोरङ्गीकारात् । प्रागभावत्वेन भानस्थले शुद्धप्रतियोगित्वमनुयोगित्वं वा संसर्गतया भासत इत्यभ्युपगमे क्षतिविरहात् । अविद्यात्वजात्यवच्छिन्ने जानातेर्लक्षणामुपेत्य नञ्वैयर्थ्यापेक्षयोक्तरीतेरेव युक्तत्वात् । तत्र भासमानाज्ञाननाशस्य तत्प्रमातिरिक्तस्य कल्पने गौरवान्मानाभावाच्च प्रमाया एव तन्नाशतासिद्धौ भावरूपध्वंसप्रतियोगित्वेन तत्प्रागभावरूपताया दुष्परिहरत्वाच्च । एतेन अज्ञानस्योत्पत्त्याद्यभावेऽपि तच्छक्तिविशेषाणामेव तथात्वान्न जानामीति प्रत्यक्षे तादृशशक्ति-विशिष्टाज्ञानस्यैव भानमित्यपास्तम् । शक्तीनामनादित्वेन्द्रियवृत्तिविरोधित्वाभ्युपगमेऽज्ञान-पक्षोक्तदोषाणामविशेषात् । उत्पत्तिविनाशशालित्वे त्वप्रामाणिकानन्तव्यक्तिकल्पनापातेन महागौरवात् । एतेनावस्थाविशेषविशिष्टाज्ञानभानमित्यपास्तम् । अवस्थाया अज्ञानस्वरूपा-स्वरूपत्वाभ्यां विकल्पेन पूर्वोक्तदोषानिस्तारात् ।

नापि न जानामीति प्रमाविषयाज्ञानं नियतप्रमाविरोधीति पूर्वविकल्पितद्वितीयः पक्षः । प्रमाणाभावेन तादृशव्यक्तेर्निरूपयितुमशक्यत्वात् । अपि चैवमज्ञानं सर्वविषयकं नियतैक-व्यक्तिविषयकं निर्विषयकं वा । तृतीयस्त्वयुक्त एव । अज्ञानस्य विषयाश्रयनियमात् । विषयाभावे चैतज्ज्ञानेनेदं निवर्तत इत्यत्र नियामकाभावेन ज्ञानानिवर्त्यत्वं वा अन्यनिवर्त्यत्वं वा स्यादिति ज्ञाननिवर्त्यत्वलक्षणाभावादिविद्यात्वानुपपत्तिः । ब्रह्मज्ञानरूपचरमवृत्त्यैव तन्निवृत्त्यङ्गीकारे मोक्षपूर्वकालपर्यन्तमवस्थायिभिर्ब्रह्मज्ञानेनैव नश्यमानैः प्रागभावैरविशेषा-पातेन अभावविलक्षणतया भावरूपत्वे मानाभावः ।

न प्रथमः । सर्वविषयकत्वे घटाद्येकैकज्ञानस्य सर्वत्वावच्छिन्नविषयकपरोक्षज्ञानस्य वा तन्निवर्तकत्वे जन्मनामनादित्वेन तादृशज्ञानानां सत्वात्तादृशाज्ञानावस्थानस्यायोगः । सर्वत्वावच्छिन्नापरोक्षज्ञाननिवर्त्यत्वं त्वप्रसिद्धेरयुक्तम् । अस्मदादिषु योगीश्वरादिष्वपि लौकिकसन्निकर्षजतादृशज्ञानाभावात् । परोक्षज्ञानानिवर्त्यस्य अपरोक्षज्ञाननिवर्त्यस्य तस्या-भावापादकाज्ञानत्वेन विषयावच्छिन्नचिदाश्रितत्वेनाहं न जानामीति प्रतीत्यनुपपत्तेः । निमीलितनयनेनापि तादृशव्यवहारकरणेन इन्द्रियद्वारा बहिर्निर्गतान्तःकरणावच्छिन्नचिद्विषया- वच्छिन्नचितोः तादात्म्यापन्नतया तथा प्रतीतिरित्युक्त्ययोगः । इन्द्रियद्वाराऽन्तःकरणस्य बहिर्निर्गमने तादृशाज्ञाननाशकवृत्तेरेवोदयेनाज्ञानस्य नष्टत्वादेव तत्प्रतीत्यसम्भवः ।

न द्वितीयः । सा नियतैकव्यक्तिः घटाद्यवच्छिन्नचिद्रूपा वा चिन्मात्रं वा । नाद्यः । विनिगमकप्रमाणाभावेनैवमेवेति निर्णेतुमशक्यत्वात् । न द्वितीयः । तस्य यथाकथञ्चिज्जाय-मानचिन्मात्रविषयकज्ञाननिवर्त्यत्वे ‘जडान्या चिदिति’ लक्षणवाक्येन वा सेयं चिदिति संस्कृतेन प्राकृतेन वा सर्वेषामनादिजन्मपरम्परामध्ये कदाचित्तादृशज्ञानोत्पत्तिसम्भवेना- ज्ञानस्यैवावस्थानासम्भवेन तत्प्रत्यक्षस्य दूरापास्तत्वम् । जगन्निवर्तकचरमवृत्तिमात्रनिवर्त्यत्वे जीवस्य संसारापादकमेवाज्ञानं ‘न जानामि, अहमज्ञः’ इति प्रत्यक्षे भासत इत्यागतम् । अस्तु को दोष इति चेत् । प्रमाणवृत्तिसामान्याविरोधिनो विषयस्य भानाभ्युपगमे तव उक्तप्रत्यक्षस्य नित्यसाक्षिरूपतामङ्गीकृत्य तत्र विशेषणज्ञानाद्यनपेक्षाव्युत्पादनप्रयास- वैयर्थ्यापत्तेः । प्रमाणवृत्तिरूपविशेषणज्ञानानामुक्ताज्ञाने विरोधित्वाभावेन तदङ्गीकारेऽपि बाधकविरहात् ।

किञ्च ज्ञानस्य सविषयकत्वज्ञानत्वे विना प्रत्यक्षाविषयत्ववत् अज्ञानस्यापि सविषयक-त्वज्ञानविरोधित्वे विना प्रत्यक्षाविषयत्वस्य त्वयैवोक्तत्वेन विषयं विना कथं तादृशा-ज्ञानभानम् ? तज्ज्ञानाङ्गीकारे च विषयविशेषिताज्ञानप्रत्यक्षादस्य विशेषाभावेन अस्य विषयाविशेषिताज्ञानप्रत्यक्षत्वेन प्रमाणतयोपन्यासायोगः ।

किञ्च ज्ञानविरोधिताभानमपि इतरज्ञानविरोधित्वाभावात् उक्तज्ञाने चरमवृत्तिविरोधि-त्वमेव भासत इति वाच्यम् । तथा च चरमवृत्तेरुपस्थित्यभावात् कथं पामरादीनामपि तादृशप्रत्यक्षम् ? भाविनोऽपि ज्ञानस्य साक्षिणा विरोधांशे तद्व्यक्तित्वेन भानाङ्गीकारे तादृशसाक्षिरूपप्रतियोग्युपस्थित्या तदभावस्यैव साक्षिणा अनुपलब्ध्या वा भानसम्भवेनोक्त-प्रतीतेरभावविषयकत्वनिराकरणायोगः । स्वोक्तनियममपि परित्यज्य विषयविरोधयोरुभयोरपि भानाभावमङ्गीकृत्योक्ताज्ञानस्वरूपमात्रं भासत इत्युक्तौ विरोधमात्रस्य भानाभावोक्तावुक्त एव दोषः । एतदज्ञानस्य विषयादिविनिर्मोकेन भानवत् मोक्षहेतुभूतब्रह्मज्ञानाभावव्यक्तेः स्वरूपेण तमोवदिदंत्वेन भानसम्भवात् । न ह्यज्ञानत्वसाम्येऽपि इतराज्ञानविलक्षणतयाऽस्य प्रतीतिः, उक्ताभावस्य तु प्रतियोग्यादिनिर्मोकेन भानं नास्तीत्यत्र किञ्चिन्नियामकमस्ति । तथात्वे तस्याभावत्वं पारिभाषिकं स्यादिति चेत्, तवापि अज्ञानत्वं पारिभाषिकं स्यादिति साम्यात् । प्रतियोगिन उक्ताभावप्रत्यक्षे भासमानत्वाभावे कथं न जानामीति सप्रति-योगिकत्वेन अभावाभिलाप इति चेत्, तर्हि तवापि ज्ञानविरोधित्वेन कथं तदभिलापः ? न ज्ञानविरोधित्वं तत्र भासते । किन्तु नञ्समभिव्याहृतजानातेरविद्यात्वजात्यवच्छिन्ने निरूढ-लक्षणयाऽविद्यात्वजात्यवच्छिन्नमेव भासत इति चेत्, ममापि जानातिसमभिव्याहृत-नञोऽस्मदुक्ताभावनिष्ठतद्व्यक्तित्वावच्छिन्ने निरूढलक्षणास्वीकारेण तादृशाभावनिष्ठतद्व्यक्ति- त्वेनैव तद्वाक्येन बोधो न तु ज्ञानप्रतियोगिकत्वादिनेति वक्तुं शक्यत्वात् । यदि विरोधमात्रस्य प्रत्यक्षे भानमस्वीकृत्य चैतन्यविषयकत्वमात्रभानं स्वीकृत्याभिलापकवाक्ये तद्वाचकपदाप्रयोगेऽपि तद्विषयकाविद्यायामेव लक्षणेत्युच्यते तर्हि चैतन्यविषयकवृत्ति-ज्ञानत्वावच्छिन्नाभाव एव विषयः । अभिलापकवाक्ये तद्बोधो लक्षणया निर्वाह्यः । पूर्वानुभूततादृशप्रतियोगिविषयकत्वेनेदानीमभिव्यक्तं साक्षिज्ञानमेव प्रतियोगिज्ञानम् । साक्षिणस्तथाऽभिव्यक्तावुद्बोधकविशेषो हेतुरतो न व्याहतिरिति मयाऽपि वक्तुं शक्यत एव ।

वस्तुतस्तु न जानामीति वाक्यं नेत्येव वाक्यवत् निराकांक्षबोधजनकं नानुभूयत एव । नेत्युक्तौ किं कुत्रेत्याकाङ्क्षाया नियमेनोदयवत् न जानामीत्युक्तौ किं न जानासीति श्रोतुर्नियमेनाकाङ्क्षोदयेन तत्र प्रतियोग्यनुयोगिपदबोधकपदप्रयोगानन्तरमेव वाक्यस्य परिसमाप्तिवत् अत्र इदमिति विषयनिर्देशेनैवैतद्वाक्यपरिसमाप्तिदर्शनात् । ‘मयि ज्ञानं नास्ति, अहमज्ञः’ इत्यत्राप्येषैव रीतिरनुभवसिद्धा । तथा चोक्तवाक्यमपि घटं न जानामीति वाक्यतुल्यमिति तदभिलाप्यप्रत्यक्षमपि घटं न जानामीत्याद्याकारकप्रत्यक्षसमानाकारकमेवेति न केवलाज्ञानविषयकतयोपन्यासार्हम् ।

किञ्च न जानामीति प्रत्यक्षे प्रमासामान्यविरोध्यज्ञानभानस्य पूर्वं निरस्तत्वेन इतरप्रमादिकालेऽपि विद्यमानं किञ्चिदज्ञानं त्वया वाच्यम् । यत्किञ्चित्प्रमाविरोधभानमेव तज्ज्ञानपक्षे वाच्यम् । इत्थं च मयाऽपि तदा तत्प्रमाभावो न बाधितः स एव भासत इत्युच्यते । अभिलापकवाक्ये जानातेर्यत्किञ्चित्प्रमालक्षकत्वस्य त्वयाऽपि वाच्यत्वात् मयाऽपि तथाङ्गीकारे बाधकाभावात् । विरोधो न भासत इत्युक्तस्थले जानातेर-विद्यात्वावच्छिन्ने निरूढलक्षणेति मन्निष्कर्ष इति चेन्न । तादृशलक्षणादिकल्पनायां मानाभावात् तस्या अविद्यासिध्द्युत्तरकालीनत्वाच्च । मयाऽपि विशेषासमभिव्याहारस्थले न जानामीति वाक्यस्य यत्किञ्चिज्ज्ञानाभावबोध एवानादितात्पर्यं परिकल्प्य तदनुसारिलक्षणया यत्किञ्चिज्ज्ञानत्वावच्छिन्नाभाव एव प्रतीयत इति निष्कर्षस्य कर्तुं शक्यत्वाच्च ।

किञ्च प्रमारूपप्रतियोगिस्मृत्या प्रमात्वावच्छिन्नाभाव एव तादृशप्रत्यक्षविषयः । यथा ज्ञानसविकल्पकं प्रति नैयायिकमते पूर्वकालवृत्तितयैव ज्ञानरूपविषयस्य कारणत्वम् । पूर्वकालवृत्तितामात्रेण ‘इदानीं घटं जानामि’ इत्यभिलापकवाक्ये कालबोधकपदान्तरेण प्रत्ययेन वा यत्काले ज्ञानं स एव सन्निहितकाले तात्पर्यवशात् प्रत्याप्यते । न तु शब्दप्रयोगाधिकरणकालः । तदा ज्ञानस्य नष्टत्वात् । अन्यथा तद्वाक्याप्रामाण्यापत्तेः । तथा प्रकृते प्रमाभावरूपो विषयः पूर्वकालवृत्तितयैवोक्तप्रत्यक्षे अनुपलब्धिजन्यज्ञाने वा विषयोऽस्तु । उक्तज्ञानाव्यवहितप्राक्क्षणसम्बन्धावगाह्येव न जानामीत्यनुभवः । न च व्याहतिः । अतिरिक्ताविद्यायाः विषयत्वकल्पनापेक्षया कार्यलिङ्गेनैव पूर्वं कारणभूतायाः प्रमास्मृतेः कल्पने गौरवविरहात् । एवं सति न जानामीति व्यवहारस्थले ज्ञानाभाववान् ज्ञानशून्यो ज्ञानेन रहितोऽहमिति व्यवहाराणामपि प्रामाण्यं सम्भवति । अन्यथा तत्र ज्ञानविरोधबोधकपदाभावात् त्वदुक्तरीत्या ज्ञानादिपदानामविद्यालाक्षणिकत्वाङ्गीकारे रहितादिपदानामन्वितार्थकत्वापातात् एतादृशनानासमभिव्याहारस्थले लक्षणायामनादि-तात्पर्यकल्पने गौरवाच्च तदभावे तादृशवाक्यानामप्रामाण्यापत्तेः । घटवत्यपि घटविशेषा-भावमादाय तादृशव्यवहारापत्तिवारणाय नञ्समभिव्याहारस्थल इव शून्यादिपदसमभि-व्याहास्थलेऽपि समभिव्याहृतपदतात्पर्यविषयतावच्छेदकावच्छिन्नप्रतियोगिताकाभावबोधकताया व्युत्पन्नत्वेन विशेषाभावबोधनेन प्रामाण्यस्य निर्वोढुमशक्यत्वात् । अत एव घटो न जानातीत्यादेर्विषयभेदकल्पनाऽप्युक्ता । अत्रापि वृत्तिज्ञानसामान्याभावज्ञानप्रकारकस्य साक्ष्यात्मकाभिव्यक्तप्रतियोगिज्ञानेन सम्भवात् ।

किञ्च लौकिकपरीक्षकव्यवहारे अज्ञपदेन भावरूपाज्ञानवतो न प्रतीतिः । ‘अयमज्ञोऽयं कुशलः’ इति विविच्य व्यवहारानुपपत्तेः । कुशलस्यापि तादृशाज्ञानवत्वानपायात् । किन्तु कौशल्यरूपविशेषज्ञानाभाववत्परमेव । अतस्तादृशशब्देनाभिलप्यमानप्रत्यक्षादौ कुतो भाव-रूपाज्ञानविषयत्वप्रत्याशा ? तस्माद्विषयाविशेषिताज्ञानावगाहिप्रत्यक्षप्रमाणोपन्यसनमयुक्तम् ।

नापि घटं न जानामीत्यादिकम् । तत्र घटविषयकज्ञानत्वावच्छिन्नाभावबोधने हि व्याहतिः स्यात् । नैवम् । किन्तु स्वातिरिक्तघटज्ञानविशेषनिष्ठवैलक्षण्यवद्घटज्ञानत्वा-वच्छिन्नाभावस्तद्रूपावच्छिन्नप्रतियोगिज्ञानसहकृतानुपलब्ध्या साक्षिणा वा मनसा वा प्रतीयते । तादृशवैलक्षण्यवद्घटज्ञानस्य स्वस्मिन्नसत्वान्न व्याहत्यादिप्रसक्तिः । तादृशवैलक्षण्यं कीदृशं कथं च तज्ज्ञानमिति चेत् घटादौ विषये स्वीयोपदेशादिव्यवहाराभावस्य, अन्यस्य तादृशव्यवहारस्य च दर्शनेन स्वकीयज्ञानाविद्यमानं तादृशव्यवहारानुकूलशक्तिमत्त्वमनुमीयते । तादृशवैलक्षण्यं सप्रपञ्चं वक्तुमशक्यमपि नापलापार्हम् । अन्यथा स्वानुद्धरणीय-शिलोद्धरणादिना चैत्रमैत्रादिषु विजातीयबलमनुमाय स्वस्मिंस्तादृशबलाभावं ज्ञात्वा ‘चैत्रसदृशबलं मयि नास्ति, मैत्रे वर्तते’ इति व्यवहारप्रामाण्यस्य सर्वानुभवसिद्धस्य परित्यागापातात् । तत्रापि चैत्रबलसादृश्यस्य प्रमेयत्वादिना स्वबलेऽपि सत्वात् विशेषरूपस्य विविच्य वक्तुमशक्यत्वात् तदवच्छिन्नाभावबोधनानुपपत्तेः । तत्र सामान्यवाचिसदृशपदेनैव तात्पर्यवशात् अनुमित्यादिसिद्धतादृशवैलक्षण्यं बोध्यत इति चेत् प्रकृतेऽप्येतत्सममेव ।

किञ्च स्वमात्रबोधकशब्देन बोधनानर्हाः सामान्यशब्दैरेव व्यवह्रियमाणाः पदार्था अनुभवसिद्धा बहुलमुपलभ्यन्ते । यथा चूतफलविशेषनिष्ठमाधुर्यपुरुषविशेषध्वनिनिष्ठवैजात्या-दयस्तथा प्रकृतेऽपीति किमनुपपन्नम् । अत एव ‘अहं घटं न जानामि, स्वरूपं न जानामि’ इति केनचिदुक्ते अन्येन हि ‘घटं जानासि त्वं अन्यथा कथं व्यवहरसि’ इति छलेन चोदिते ‘चैत्रो यथा जानाति तथा सम्यङ्न जानामि इति तादृशवैलक्षण्यबोधकव्यवहाराः सङ्गच्छन्ते । अन्यथा घटाज्ञानस्य प्रथममेव बोधितत्वात् साक्ष्यात्मकघटज्ञानेन तस्य व्याहत्यभावात् छलेन तदाक्षेपासङ्गतिः । पुनरपि तादृशाज्ञानस्यैव बोधितत्वे तद्धिवरणरूपत्वानुपपत्तिश्च ।

किञ्च घटज्ञानमनुभूय विशेषतो घटज्ञानेच्छया को घट इति पृच्छति । तत्र घटविशेषजिज्ञासा हेतुः । तत्रासिद्धत्वज्ञानं हेतुः । तस्यासिद्धत्वं च स्वस्मिंस्तत्सिद्धित्वा-वच्छिन्नप्रतियोगिकाभावः तत्सिद्धित्वे स्वनिष्ठाभावप्रतियोगितावच्छेदकत्वं वा । तज्ज्ञान-मपेक्षितम् । इत्थं च घटज्ञानमसिद्धं विशेषतो घटज्ञानमसिद्धमित्यादिग्रहविषयतावच्छेदक-धर्मोपस्थित्यावश्यकत्वे त्वदुक्तरीत्या तन्मात्रेणैव तद्रूपावच्छिन्नस्य सिद्धत्वप्राप्त्या असिद्धत्वव्याहत्या जिज्ञासानुदयेन प्रश्नाद्युच्छेदप्रसङ्गः स्यादतो मदुक्तिरेवानुसर्तव्या । तथात्वे चानुमिततादृशवैलक्षण्यावच्छिन्नज्ञानाभावग्रहेण तादृशवैलक्षण्यविशिष्टज्ञानरूपप्रतियोगिनि इष्ट-साधनत्वग्रहेण जिज्ञासया प्रश्नाद्युपपत्तेः ।

न चाज्ञाननिवृत्तावेवासिद्धत्वग्रहेण तदिच्छयैव प्रश्नो घटत इति वाच्यम् । प्रश्नवाक्यस्थ-किंशब्दस्य जिज्ञासाविषयार्थकत्वेन जिज्ञासाया आवश्यकत्वात् । अन्यथा तद्वाक्या-प्रामाण्यापत्तेः । इच्छाविषयीभूतनिवृत्तिप्रतियोग्यज्ञानविषयत्वावच्छिन्न एव प्रश्नवाक्यगत-किंशब्दार्थ इति चेत् सामान्यतः अज्ञानविषयत्वबोधने अज्ञानानां नानाविधत्वाद्वक्तुः कीदृशार्थबोधनेन कीदृशाज्ञानं निवर्तनीयमित्याकाङ्क्षायां तन्निश्चयाभावे उत्तरवाक्ये प्रवृत्त्ययोगात्तन्निर्वाहाय विशेषधर्मप्रकारकत्वादिना स्वीयाज्ञानं बोधनीयम् । तदर्थं तादृशतादृशधर्मविशेषविशिष्टतयाऽज्ञानांशे घटभानमावश्यकम् । अन्यथा वाक्यार्थज्ञानाभावे तन्मूलकवाक्यप्रयोगानुपपत्तेः ।

एवं सामान्यत अज्ञाननिवृत्तीनां सिद्धत्वादिष्टसाधनत्वाभावाच्च धर्मविशेषविशिष्टघट-विषयकाज्ञाननिवृत्तिः इष्टसाधनमसिद्धा चेत्याकारकज्ञानं तादृशाज्ञाननिवृत्तीच्छां प्रति कारणमिति वक्तव्यम् । तथा च तस्यैव तादृशविशेषधर्मप्रकारकज्ञानरूपत्वेन तेनैवाज्ञाननाशेनाज्ञाननिवृत्तीच्छादेर्व्याहतिरेव ।

न च साक्ष्यात्मकत्वात्तज्ज्ञानस्य नाज्ञाननिवर्तकत्वमिति वाच्यम् । साक्षिणा ज्ञाना-वच्छेदकतयैव पदार्थानां विषयीकरणेऽपि विविच्य व्यवहारादौ तस्याप्रयोजकत्वात् । अन्यथा सर्वेषामपि विशिष्टाविशिष्टरूपेण अज्ञानावच्छेदकतया साक्षिवेद्यत्वात्तन्मात्रेण सर्वव्यवहार-निर्वाहेणाज्ञाननिवृत्तेरनपेक्षिततया प्रमाणवैयर्थ्यापत्तेः ।

न च सुखादिव्यवहारः कथमिति वाच्यम् । साक्षात् साक्ष्यवेद्ये प्रमाणवेद्ये तदङ्गीकारात् । अन्यथोक्तानुपपत्तेः । इष्टसाधनताज्ञानादेः साक्षिरूपत्वं वक्तुमयुक्तमेव । अनुमानसाध्यत्वात् अज्ञानानवच्छेदकतया तद्विषयीकारित्वात् अज्ञाननिवृत्तेः प्रश्नकाले सत्वाभावेन साक्षि-सम्बन्धाभावाच्च ।

तथा च यद्धर्मावच्छिन्नविषयकमज्ञानं तद्धर्मविशिष्टविषयकत्वेन तद्बोधनार्थं तादृशविशिष्ट-विषयकाज्ञाननिवृत्तौ इष्टसाधनताग्रहार्थं च तद्धर्मविशिष्टविषयकप्रमोत्पत्तेरावश्यकत्वेन तयैवा-ज्ञाननाशापत्तेः । यदि च विलक्षणमेव ज्ञानं तन्निवर्तकमुच्यते तदा मया तादृशवैलक्षण्य-विशिष्टाभावः प्रतीयत इत्युक्तौ किं बाधकम् ?

अपि चाज्ञाननिवृत्तीच्छया प्रश्न एव क्रियते भोजनादिकं न क्रियते । तत्कस्य हेतोः? भोजने तत्साधनत्वाग्रहात् । ज्ञाने च तत्साधनताग्रहादिति वक्तव्यम् । तथा च तादृशाज्ञान-निवृत्तिसाधनत्वं न घटज्ञानत्वावच्छिन्नमात्रे गृह्यते । तदा विद्यमानघटज्ञानादौ तददर्शनात् । किन्तु तदानीं विद्यमानस्वकीयज्ञाने अविद्यमानचैत्रादिज्ञानगतवैलक्षण्यावच्छिन्ने अज्ञाननिवृत्तिसाधनताग्रहेण तद्रूपावच्छिन्नाभावस्य स्वस्मिन् ग्रहरूपासिद्धताज्ञानेन तदवच्छिन्नायाः प्रतीतेस्त्वयाऽपि वाच्यत्वेन घटज्ञानं नास्तीत्यत्र तद्धर्मावच्छिन्नाभावविषय- कत्वस्यैव तादृशप्रत्यक्षेऽङ्गीकारे न किञ्चिद्बाधकम् । एवं त्वदुक्तमर्थं न जानामीत्यादावेषैव गतिरनुसन्धेयेति न किञ्चिदपि भावरूपाज्ञानविषयकम् ।

यत्तु ‘प्रतियोगितावच्छेदकशरीरे घटविषयकत्वज्ञानत्वयोः सामानाधिकरण्यघटकानां पुरुषान्तरज्ञानानां पुरुषान्तरप्रत्यक्षाविषयत्वेन सर्वथा प्रत्यक्षयोग्यत्वाभावात्’ इति घटविषय-कज्ञानत्वावच्छिन्नाभावस्य साक्षियोग्यत्वखण्डनं तदशुद्धम् । स्वाप्रत्यक्षवस्तुघटितत्वमात्रेण प्रतियोगितावच्छेदकस्य, तादृशाभावायोग्यतानियामकत्वे, महत्वोद्भूतरूपविशिष्टद्रव्यत्वा-वच्छिन्नाभावोऽपि सर्वेषामयोग्यः स्यात् । स्वासमानदेशकालिकघटादिरूपादीनां स्वप्रत्यक्षाविषयत्वात् । प्रतियोगिसत्वेत्यादिना निरुच्यमानयोग्यानुपलब्धेरेव तत्प्रत्यक्ष-नियामकत्वे अत्रापि सा वर्तत एव । मयि विद्यमानं ज्ञानं यदि घटविषयकं स्यात्तर्हि तथात्वेन साक्षात्क्रियेतेत्यापादनस्य सर्वानुभवसिद्धत्वात् । अन्यथा घटविषयकज्ञानाभावस्य प्रत्यक्षावेद्यत्वे अभावग्राहकप्रमाणान्तरस्य सर्वत्रानैयत्येन अहं घटज्ञानवान्वा न वेति संशयापत्तेः । न हि स्वनिष्ठसुखदुःखज्ञानादिविषये कस्यापि कदापि संशयोऽस्ति । सर्वदा तादृशाभावग्राहकपरामर्शादेर्नियमेनात्मनि कल्पने महागौरवात् ।

एतेनाविद्योपहितचैतन्यस्य साक्षित्वपक्षे घटे पटाज्ञानमिति प्रत्यक्षापत्तिरित्यारभ्य यद्गौरवमुद्भावितं तदशुद्धम् । त्वन्मतेऽपि गौरवस्य तौल्यात् । आनुभाविकार्थे गौरवस्या-किञ्चित्करत्वाच्च । घटविषयकत्वज्ञानत्वयोर्धर्मितावच्छेदकविशेषणभावापन्नयोरेकत्रावच्छेदकत्वे वैशिष्ट्यस्याघटकतया त्वत्कुसृष्टेरनवसराच्चेत्यलम् ।

केचित्तु घटविशेषं न जानामीत्यादिस्थले घटत्वव्याप्यधर्मवन्निष्ठविशेष्यताकस्वगृहीत-घटत्वादिधर्मभिन्ननिष्ठानवच्छिन्नप्रकारताशालिज्ञानत्वावच्छिन्नाभाव एव प्रत्यक्षविषयः । अभिलापकशब्दे च विशेषपदसमभिव्याहाराज्जानातेरेव तादृशप्रकारताशालिज्ञाने लक्षणा । अतो घटे तादृशधर्मावगाह्यनुभवविरोधस्याप्रसक्तिः । नापि ‘‘त्वदुक्तं घटं न जानामि’ इत्यत्र कर्मत्वांशे विशेषणीभूतघटस्य स्वरूपतो घटत्वेन पूर्वं ज्ञानमपेक्षितं विशेषणज्ञानविधया । तद्वदेव घटविशेषं न जानामीत्यत्र विशेषाणां स्वरूपतो भानात् पूर्वं स्वरूपतस्तद्भानावश्यक-त्वात्तन्निषेधे व्याहतिः’’ इति परोक्तव्याहतिरपि । उक्तरीत्या व्याप्यधर्माणां व्याप्यधर्मत्वेनैव घटांशे भानाङ्गीकारात् इत्याहुः ।

नापि सौषुप्तं प्रत्यक्षं परामर्शसिद्धं प्रमाणम् । तत्र बहिःपदार्थविषयकमनोवृत्तिरूप- ज्ञानत्वावच्छिन्नाभावस्य साक्षिणा भाने बाधकविरहात् । न च प्रतियोगिज्ञानाभावात्कथं तदुत्पत्तिः? साक्षिणो नित्यत्वेन तदनपेक्षणात् ।

न च निर्विकल्पकवेद्यत्वे स भाव एवेति वाच्यम् । को घटाभाव इति पृष्टे घटो नास्तीति प्रमाविषयः स इति लक्षणेऽभिहिते तेन तत्स्वरूपमात्रावगाहिनिर्विकल्पकस्यैव त्वन्मतसिद्धत्वेनैतदुक्त्यसम्भवात् ।

न च प्रत्यक्षरूपमभावनिर्विकल्पकं नास्तीति वाच्यम् । तत्रैतादृशाभावस्येन्द्रिय-सन्निकृष्टत्वे दशमस्त्वमसि इत्यादिनेवात्राप्यपरोक्षप्रतीतेरेव जननसम्भवात् । वस्तुतस्तु न किञ्चिदवेदिषमिति स्वप्नजागरानुभूतपदार्थविषयकवृत्तिज्ञानत्वावच्छिन्नाभावत्वेनोत्तरत्र स्मर्य-माणत्वात्तेनैव रूपेण तथाभिव्यक्तसाक्षिरूपज्ञाने भानमतो न निर्विकल्पकज्ञानप्रसक्तिः ।

न च अनुपलब्धिविरहात् न साक्षिणा ज्ञानाभावस्य भानं युक्तमिति वाच्यम् । किमभावमात्रस्य अनुपलब्धिमुपगम्येदमुच्यते ज्ञानाभावस्यैव वा? नाद्यः । तस्यान्यत्र निराकृतत्वात् । न द्वितीयः । ज्ञानाभावस्यैव तथात्वे बीजाभावात् । अस्तु वा । तस्याः कारणत्वं स्वरूपसत्याः ज्ञाताया एव वा । नाद्यः । तथात्वे प्रकृते क्षत्यभावात् । सुषुप्तौ अन्तःकरणवृत्तीनामभावेन तदनुपलब्धेः सत्त्वेन तत्सहकृतसाक्षिरूपज्ञानाभिव्यक्तेर्मन्मते सम्भवात् । त्वन्मते तादृशानुपलब्धेरविद्यावृत्तिरूपोक्ताभावग्रहं प्रति हेतुत्वोपपत्तेः । घटवति घटोपलम्भकाले घटाभावभ्रमानुदयेन दोषादिना तदसत्वे च घटाभावविषयकाविद्यावृत्ति-रूपभ्रमोदयेनाविद्यावृत्तिरूपभ्रमं प्रत्येतस्या अन्वयव्यतिरेकाभ्यां हेतुत्वात् ।

न चान्तःकरणसाहित्येनैवाविद्यावृत्तेर्विशिष्टविषयिण्या जनिका सा न केवलेति वाच्यम् । उक्तस्मरणे उक्ताविद्याया विषयत्वं परिकल्प्योक्ताप्रामाणिकनियमसंरक्षणापेक्षया तत्परित्यागेन ज्ञानाभावविषयकत्वं स्वीकृत्य तदनुरोधेन सुषुप्तावन्तःकरणवृत्तिरूपज्ञानसामान्याभाव-विशिष्टात्मविषयकाविद्यावृत्त्यभ्युपगमे क्षतिविरहात् । त्वदीयवार्तिककारेण सुषुप्तौ विरोधादि-विशिष्टविषयकाविद्यावृत्तेरभ्युपगतत्वाच्च । ‘अभावप्रत्ययावलम्बना’ इति योगसूत्रस्यापि ‘समस्तान्तःकरणवृत्त्यभावविषयकाविद्यावृत्तिरूपप्रत्ययमवलम्ब्य वर्तमाना तत्सम्पादिकेति यावत्’ इति रीत्या अर्थसम्भवेन वाचस्पत्युक्तार्थस्वीकारे प्रत्ययपदस्य क्लिष्टत्वापातेन योगसूत्रानुसारेणापि विशिष्टवृत्तेरेव प्राप्तेः । न च सुषुप्तावेव तथोक्तौ बीजाभावः । सुषुप्तावेवान्तःकरणवृत्त्यात्मकज्ञानसामान्याभावसम्भवात् । न च सुषुप्तौ द्वेषेच्छाभावादि-विषयिण्यपि तादृशवृत्तिः स्यादिति वाच्यम् । इष्टत्वात् । अत एव सुप्तोत्थितो ‘न किञ्चना-वेदिषम्’ इतिवत् ‘न किञ्चनाद्विषं, न किञ्चनाशासिषं, सुखमेव सुप्तोऽस्मि’ इति व्यवहरति ।

न च भावरूपाज्ञानवादमते ज्ञानाभाव एवाक्लृप्त इति उक्तप्रतीतीनां भावरूपाज्ञानविषय-कत्वमेवास्त्विति वाच्यम् । जडे भावरूपाज्ञानाभावेन घटो न जानातीत्यादौ ज्ञाना-भावविषयकत्वाभ्युपगमस्यावश्यकत्वेन तस्य क्लृप्तत्वात् । सुषुप्तावनुपलब्ध्या सदने घटाभावः कुतो न प्रतीयत इति चेत् । अनुपलब्धिसहकारेण चक्षुषा रसाभावोऽपि कुतो न साक्षात्क्रियते ? प्रतियोगिग्राहकेन्द्रियमेवानुपलब्धेः सहकारीति न चक्षुषा रसाभावग्रह इति चेत् घटादीनां साक्षात् साक्ष्यविषयत्वात् प्रकृतेऽपि तथाऽस्तु ।

नापि ज्ञातानुपलब्धिरभावग्रहहेतुरिति द्वितीयः पक्षः । अनुपलब्धेरननुसन्धानदशायामपि प्रतियोगिस्मरणादिसहकृतेन्द्रियेणैवाभावग्रहानुभवात् । किञ्च सा स्वरूपतो ज्ञायमानाऽभाव-प्रत्यक्षहेतुस्तद्व्याप्यत्वेन गृह्यमाणा वा । नाद्यः । अनुभवविरोधात् । द्वितीये सैवाभाव-धीहेतुरुतान्यदपि । द्वितीये त्विष्टापत्तिः । अस्माकमप्रतिकूलत्वात् । आद्ये लिङ्गभूतानुप-लब्धिज्ञानमपि तद्विषयकानुपलब्धिज्ञानान्तरेणेत्यनवस्था । तज्ज्ञानानुपपत्तावभावग्रह-मात्रोच्छेदापत्तेः ।

न चानुपलब्धिर्घटाद्यभावग्राहिका । घटज्ञानाभावरूपानुपलब्धिस्तु घटाज्ञानेन भावरूपे-णानुमीयत इति वाच्यम् । तेषामद्याप्यसिद्धेः । तेषामनुपलब्धिनिरूपितव्याप्त्याद्यग्रहे तदनुमापकत्वानुपपत्तिः । तद्ग्रहार्थं पुनः अनुमानान्तरापेक्षायामनवस्थाया दुर्वारत्वात् ।

न चोभयोर्व्यतिरेकव्याप्तिरेव गृह्यते । व्याप्तिज्ञाने चानुपलब्ध्यभाव उपलब्धित्वेनैव गृह्यते इति नानवस्थादिदोष इति वाच्यम् । व्यतिरेकव्याप्तिशरीरेऽज्ञानरूपहेत्वभावभानस्यावश्य-मपेक्षिततया तदादायैव अनवस्थाया दुष्परिहरत्वात् । अज्ञानस्य साक्षिवेद्यत्वात्तदभावः साक्षिवेद्यश्चेत् प्रमाभाव एव तथाऽस्तु व्याहत्यादेः तत्राप्रसक्तेः । अतः सुषुप्तौ ज्ञानाभावभाने न किञ्चिद्बाधकम् ।

न च सुषुप्त्यव्यवहितोत्तरक्षणे कथं स्मृतिः । कालव्यवधानाभावादिति वाच्यम् । काल-स्यातिसूक्ष्मत्वेन दुर्ज्ञेयतया सुषुप्त्यव्यहितोत्तरक्षण एव जायत इत्यत्र मानाभावात् । किञ्चित्क्षणविलम्बेन तदुत्पत्तिस्वीकारात् । संस्कारोत्पत्तिस्तु जागराद्यक्षण एव मनसि तादृश-साक्षिसम्बन्धादिति ब्रूमः । न्यायामृते तु स्मरणानुपपत्तिरुक्ता परमते । तेषामयं भावः । ‘‘अविद्योपहितचैतन्यमेव साक्षी, न तद्वृत्तिप्रतिबिम्बितचैतन्यम् । वृत्तीनां सादित्वेन तत्प्रतिबिम्बितचैतन्यरूपसाक्षिणामपि सादित्वापत्त्या वृत्तिसमसङ्ख्याकसाक्षित्वापत्त्याऽनेक-साक्षिकल्पनापत्तिः । पूर्वानुभूतसुखादेरिदानीं स्मरणानुपपत्तिः । द्रष्टुरेव स्मर्तृत्वेन पूर्ववृत्ति-प्रतिबिम्बितचितः एतद्वृत्तिप्रतिबिम्बितचितश्च दर्पणभेदेन मुखप्रतिबिम्बानामिवात्यन्त-भिन्नत्वात् । वृत्त्युपहितस्य साक्षित्वेऽप्येष एव दोषः । उपाधिभेदेन तेषामपि भेदस्यावश्य-कत्वात् । तत्तद्वृत्त्यात्मना परिणम्यमानाविद्याया एकत्वात् तदुपहितचैतन्यस्यैकत्वात् स्मरण-मित्यप्यसत् । तथात्वे चिदैक्याच्चैत्रानुभूतसुखादेः मैत्रादीनां स्मरणापत्तेः । प्रतिभासमात्र-शरीरत्वादविद्याया वृत्तिभेदेन तद्द्रष्टृसाक्षिभेदे एकत्वस्य वक्तुमशक्यत्वाच्च । क्षणभेदेन साक्षिभेदापत्त्या क्षणिकविज्ञानवादापत्तेश्च । न च क्षणभेदेन वृत्तीनां न भेदः । यथायोग्यं बहुकालस्थायिन्योऽपि भवन्ति वृत्तय इति वाच्यम् । तत्र सामग्रीविशेषस्य वक्तुमशक्यत्वाद-प्रामाणिकत्वाच्च तासामाकस्मिकत्वापत्तेः ।

किञ्च तद्वृत्तिनाशक्षण एव वृत्त्यन्तरं जायते, किञ्चित्क्षणादिव्यवधानेन । आद्येऽपि जायमानवृत्तिं प्रतिपूर्वाविद्यैवोपादानं, उत तद्वृत्तिप्रतिबिम्बितसाक्षिभास्याऽविद्या । नाद्यः । तादृशवृत्तिप्रतिबिम्बितसाक्षिरूपपूर्वाविद्यावभासनाशेन तन्मात्रशरीरकाविद्याया अपि नष्टत्वेनोत्तरवृत्त्यात्मना परिणामायोगात् । न ह्यविद्यांशवती । येन स्थूलरूपेण नाशेप्यंशरूपेण परिणमत इति वक्तुं युक्तम् । अंशाङ्गीकारोऽप्ययुक्तः । तस्यापि क्वचिदध्यासावश्यक-त्वेऽविद्योपहिते तदध्यासे अविद्यानाशकाले तत्सत्ताऽयोगः । चिन्मात्रस्य तत्साक्षित्वे चिन्मात्रानुबन्धिनो निवृत्त्यभावापत्तेः । तथैव चिन्मात्रस्यैवान्यं प्रति साक्षित्वसम्भवे उक्तकुसृष्ट्ययोगश्च । एतेन तत्संस्कारस्य परिणामपक्षोऽप्यपास्तः ।

न द्वितीयः । वृत्तिसिद्ध्यनन्तरं तत्प्रतिबिम्बितसाक्षिरूपाविद्याध्याससिद्धिः । तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयात् । न तृतीयः । परिणामिकारणाभावेन किञ्चित्कालोत्तरं तदुत्पत्तेरयोगात् । मध्ये च वृत्त्यभावेनाविद्याभावेन मुक्तत्वापत्तेश्च ।

न च त्वन्मते स्वातन्त्र्यभ्रमपरम्पराया एव संसारहेतुत्वात् सुप्तिप्रलययोर्मनोवृत्त्यभावाद- विद्यावृत्तेस्त्वया अनङ्गीकारान्मुक्त्यापत्तिस्तवापि तुल्येति वाच्यम् । मन्मते परमेश्वरेच्छाया-स्तदनुगृहीतसत्यभूतप्रकृत्यादीनामेव बन्धकत्वेन परमेश्वरप्रसादस्यैव मोचकत्वेनोक्तभ्रम-परम्पराविच्छेदेऽपि मोक्षापत्त्ययोगात् । तव त्वविद्योच्छेदस्यैव मोक्षत्वेनोक्तरीत्या तदापत्तौ मुक्तत्वापत्तेर्दुर्वारत्वात् । तस्मादविद्यावृत्तिप्रतिबिम्बितचैतन्यस्य साक्षित्वस्य वक्तुमशक्यत्वात् कथञ्चिदनाद्यविद्योपहितचिदेव साक्षीति पक्ष एवापाततो रमणीयः’’ इति ।

औतसिद्धिकारेण तु ‘वृत्तिप्रतिबिम्बितचैतन्यस्य साक्षित्वे वृत्त्यभावदशायामज्ञान-विषयकानुभवाभावात्तत्र संशयापत्तिमाशङ्क्य अज्ञानविषयकाज्ञानाभावात्तत्स्वरूपे न संशयः । संशयं प्रत्यज्ञानस्य हेतुत्वात् । भावत्वादिविशिष्टरूपेण तथानुभवाभावकाले संशयस्त्विष्ट एव । विशिष्टरूपस्य साक्ष्यवेद्यत्वेनाज्ञानविषयत्वात्’ इत्युक्तम् । तत्तुच्छम् । वृत्त्यभावकाले अज्ञानसाक्षिणोऽभावेन प्रतिभासशरीरस्य तस्य स्थितेरेवायोगेन तत्र संशयादिकथाया दूरोत्सारितत्वात् ।

न च शुक्तिरूप्यादेर्बाधात्पूर्वं स्वप्रत्यक्षाभावकाले अनुच्छिन्नस्यैव तिरोधानवत् अस्यापि स्वसाक्ष्यभाववेलायां तिरोधानमेवास्त्विति वाच्यम् । तत्र शुक्त्यवच्छिन्नाविद्यारूपकारणस्य सत्वेन तद्रूपेणावस्थानसम्भवेऽपि अस्याः कारणात्मना स्वसत्ताया अपि स्वज्ञानातिरिक्ताया अभावे तस्या अप्ययुक्तेः । स्वज्ञानाभावेऽपि स्थित्यङ्गीकारे घटादितुल्यत्वेन व्याव-हारिकत्वाय घटादिवदेव कादाचित्कभाननिर्वाहायाज्ञानस्वरूपस्यावृतत्वाङ्गीकारा- पत्त्याऽज्ञानस्वरूपविषयकाज्ञानादिकल्पनापत्त्याऽऽत्माऽन्योन्याश्रयचक्रकाद्यापत्तिः । शुक्ति-काद्यवच्छिन्नचिद्विषयकाज्ञानानां भ्रान्त्युपादानत्वकल्पनापक्षे प्रतिभासाभावकाले स्थित्यनुप-पत्तिरावृतत्वापत्तिश्चेत्यादयो दोषा अनुसन्धेयाः । ईश्वरस्य सर्वदा अध्यस्ता इति चेन्न । तदध्यस्तानां तदीयज्ञानादीनामिवास्मत्प्रत्यक्षागोचरत्वेनास्मदध्यासोपादानत्वानुपपत्तेः । अस्मद्बाधेन तदुच्छेदानुपपत्तेश्च ।

न च अविद्योपहितचैतन्यवृत्त्यभावकालेऽविद्याद्रष्ट्रभावोऽस्त्विति वाच्यम् । तर्हि तस्यैव साक्षित्वसम्भवे वृत्तिकल्पनावैयर्थ्यात् । साक्षिवेद्यविषयकसंस्कारसिद्ध्यर्थं वृत्तिकल्पनमिति चेत् वृत्तेर्वृत्त्यन्तरकल्पनेऽनवस्थाभयेन तदनङ्गीकारेऽपि स्वस्याः स्वाविषयकत्वेऽपि च स्वनाशस्यैव स्वसंस्कारत्वेन स्वस्मरणहेतुत्वात् सुखादीनामविद्योपहितचिद्रूपसाक्षिवेद्यत्वेऽपि तन्नाशस्यैव तत्कारणत्वकल्पनेन तत्स्मृत्यादिसम्भवे वृत्तेर्वैयर्थ्यात् । अविद्यास्थले का गतिस्तस्या नाशाभावादिति चेन्न । इदानीं तत्स्मरणविषय एव विवादस्य प्रक्रान्तत्वेन तदन्यथानुपपत्तेरयोगात् । सुषुप्तौ ज्ञानस्यावृत्तेः अप्रामाणिकतया तन्नाशविशिष्टाज्ञानांशे स्मृत्यात्मकस्य, केवलाज्ञानांशेऽनुभवरूपज्ञानस्य जाग्रत्कालीनस्य चाप्रामाणिकतया च तदनुरोधेन वृत्त्यादिकल्पनाऽयोगाच्च । तथा चाविद्यांशे स्मरणाभावापादकयुक्तिसत्त्वात्त्व-द्वार्तिककारादिसम्मतत्वाच्च तत्स्मरणपक्षोऽनुपपन्न इति ।

न्यायामृतोक्तानुमानपक्षदूषणमप्यद्वैतसिध्द्युक्तमसदेव । लोके प्रायः सूर्यास्तमय-कालोत्तरमेव स्वापस्य, उदयात्प्रागेवोत्थानस्य शिष्टानां सत्वेन तावेव गृहीतौ । तथा च स्वापदिवसीयसूर्योदयास्तमयकालावेव पक्षीकृत्य स्वकीयजागरदिवसीयसूर्योदयास्तमयकालौ दृष्टान्तीकृत्यान्तरालिककालमनुमीयते । एवमन्यदाऽपि यदा सुप्तो भवति तादृशं दिवससम्बन्धिनं प्रहरादिकालं सुप्त्यनन्तरं स्मृत्वा तदानीं विद्यमानदिवससम्बन्धि-कालभागमनुभूय तदुभयं पक्षीकृत्य सम्प्रतिपन्नतादृशभागौ दृष्टान्तीकृत्य कालं मध्यगतमनु-मिमीतेऽतो न पक्षविशेषणकालाप्रसिद्धिः । ज्ञानाभावे च ज्ञानवत्वेनास्मर्यमाणत्वं पूर्वपक्षकाले परिष्कृतमेव ग्राह्यम् ।

न च तत्र दोष उक्त एवेति वाच्यम् । अपेक्षणीयज्ञानाभावसिद्ध्यनन्तरमुपेक्ष-णीयज्ञानाभावस्य तादृशज्ञानप्रमाणाभावादेव सिद्धेः । यद्वाऽन्यविषयकोपेक्ष-णीयज्ञानसम्भवेऽपि आत्मधर्मभूतज्ञानसुखादिविषये उपेक्षात्मकज्ञानसद्भावे मानाभावः । तेषां ज्ञातैकसत्ववत् तज्ज्ञानादीनां संस्कारविषयत्वाङ्गीकारात् । वस्तुतस्तु सुषुप्तिज्ञानसद्भावे प्रमाणान्तराप्रसक्त्या स्मरणरूपज्ञानमेवान्ततोऽनुसर्तव्यम् । न च तदपि वर्ततेऽतः प्रमाणसामान्यमेव नास्तीत्यभिप्रायेणास्मर्यमाणत्वादित्युक्तिः । तथा च ज्ञानवत्वेप्रमाणा-भावादिति हेतुपर्यवसानं कृतम् । तत्र न कोऽपि दोषः । न च प्रमाणाभावस्य परामर्शाद्य-भावसिद्धिमूलकत्वात्तत्सिद्धिरेव दुर्घटेति वाच्यम् । अवश्यमनुसर्तव्यलिङ्गादेरस्मर्यमाणत्वेनैव तद्विषयकज्ञानाभावसिद्धेः । अवश्यमेवैषा रीतिरन्यत्रापि वक्तव्या । अन्यथा प्रातर्गजाद्यभा-वासिद्धिप्रसङ्गात् । न च तत्र गजवत्वेनास्मर्यमाणत्वं हेतुरिति युक्तम् । स्वादृष्टतया, स्थितत्वेऽप्यस्मरणसम्भवेन तस्य तदव्याप्यत्वात् । न चेदानीं स्मरणयोग्यत्वे सति अस्मर्यमाणत्वं हेतुरस्त्विति वाच्यम् । तत्काले निश्चेतुं योग्यस्य योग्यत्वस्य निर्वक्तुमशक्यत्वात् ।

ननु गजानुपलब्ध्या गजाभावोऽनुमीयतेऽनुपलब्धिश्च साक्षिप्रत्यक्षसिद्धगजाज्ञानलिङ्गेनेति चेन्न । स्वकीयाज्ञानेन स्वकीयज्ञानाभावानुमानं स्यान्न ज्ञानसामान्याभावानुमानम् । स्वाज्ञानसत्तायामप्यन्येषां ज्ञानसम्भवात् । न ह्यन्याज्ञानमपि स्वप्रत्यक्षसिद्धम् । येनान्यदीय-ज्ञानाभावोऽप्यनुमातुं शक्यः स्यात् । स्वज्ञानाभावमात्रं तु न वस्त्वभावव्याप्यमिति अनुपलब्ध्या तत्सिद्ध्ययोगात् ।

किञ्चोपेक्षात्मकज्ञानस्य अज्ञानविरोधित्वे समुदायान्तर्गततयोपेक्षात्मकज्ञानविषये वस्तुनि इदं न जानामि इति प्रत्ययानुपपत्तेरपेक्षात्मकज्ञानस्यैवाज्ञानविरोधिता वाच्या । तथा चाज्ञानेनापेक्षात्मकज्ञानाभावसिद्धावपि तद्विषयकज्ञानसामान्याभावासिद्ध्या कथं तेन वस्त्वभावः सिद्ध्येत् ? तस्मात् कथञ्चिद्गृह्यमाणप्रमाण सामान्याभावहेतु(त्वे)नैव गजाभावादिनिश्चयो जायत इति वक्तव्यम् । तद्वत्प्रकृतेऽपीति ।

ज्ञानसामग्रीविरहादपि सुषुप्तौ ज्ञानाभावोऽनुमातव्यः । तत्सिद्धिश्च, परामर्शशब्दज्ञानानां अस्मर्यमाणत्वादिनाऽभावसिद्धौ इन्द्रियकार्यस्य च, स्वविषयकस्मरणसामान्याभावस्य अस्मर्यमाणविषयकोपेक्षादिज्ञानकल्पनागौरवादेश्च प्रतिसन्धानेनाभावसिद्ध्या तज्जनकेन्द्रिय-घटितसामग््रयभावसिद्धौ च विशेषाभावकूटेनैव । अतो ‘ज्ञानाभावेनैव तु तदनुमानेऽन्योन्या-श्रयः’ इत्यादिदूषणानवकाशः ।

एवमवस्थाविशेषवत्त्वलिङ्गेन ज्ञानाभावसिद्धिः सुषुप्तौ । न च तत्र तत्सिद्धिर्दुर्घटा । जाग्रति बहिरिन्द्रियाणां व्यापृतत्वेन तज्जन्यज्ञानस्य स्वप्ने च मनोजन्यज्ञानस्य सत्वेन तदनुकूलतयेन्द्रियव्यापारसाध्यदुःखवत्वेन अस्मर्यमाण(त्व)लिङ्गेन तादृशदुःखाभावसिद्धौ तादृशदुःखाभावाधिकरणकालसम्बन्धित्वरूपावस्थाविशेषज्ञान सम्भवात् । यद्वा श्रमहेतुस्व-कीयव्यापारसामान्याभाववत्कालोत्तरसम्बन्धरूपेन्द्रिय निष्ठप्रसादेन तादृशव्यापारानुकूलकृति-सामान्याभावविशिष्टत्वरूपावस्थाविशेषस्यानुमातुं शक्यत्वात् । न चावस्थाविशेषस्य प्राज्ञपरिष्वङ्गरूपतोक्तिविरोधः । वस्तुतस्तदा तत्सत्वेन पण्डितबोधनार्थमेवाचार्याणां तत्परि-चायकोक्तिसम्भवात् । तस्माद्भावरूपाज्ञाने न किञ्चिदपि प्रत्यक्षं प्रमाणम् ।

वनमालमिश्रास्तु अहमज्ञ इति प्रत्यक्षं न त्वया भावरूपाज्ञानविषयकं वाच्यम् । चित एव त्वन्मते अज्ञानाश्रयत्वेनाहं पदार्थे तदयोगेन ज्ञानाभावविषयकताया एव वाच्यत्वात् । नन्वेकचिति अहमर्थभूतान्तःकरणस्य अज्ञानस्य च तादात्म्येनाध्यासात् सामानाधिकरण्येन व्यवहारः । वस्तुतः शुद्धचित एवाहमज्ञ इति प्रतीतावज्ञानाश्रयत्वेन भानमतो न तदुपन्यासो युक्त इति चेन्न । अस्य स्पष्टमहमर्थविशेष्यकत्वेन भासमानप्रत्ययस्य ज्ञानाभावविषयकत्व-मेवेत्यभिहिते तस्य चित्यज्ञानविषयकत्वमभ्युपेत्याह मित्युल्लेखगतिकथनस्यासङ्गतत्वात् । न च चिन्मात्रेऽज्ञानावगाहिसौषुप्तिकप्रत्यक्षानुरोधादस्या अपि तद्विषयकत्वं कल्प्यम् । तत्पक्षस्योक्तरीत्या दूषितत्वात् । तत्रापि नाहमज्ञासिषमित्यहमर्थस्यैव विशेष्यतयाऽनुभवेन तत्प्रत्यक्षस्याप्येतत्तुल्यत्वाच्च । न च ज्ञानाभावविषयकत्वानुपपत्त्या एतत्कल्प्यम् । व्याहति-परिहारस्योक्तरीत्योपपादनसम्भवादित्याहुः ।

।। पररीत्या अनुमानेन भावरूपाज्ञानसमर्थनम् ।।

‘‘अथानुमानान्येव भावरूपाज्ञाने मानानि । विवादपदं प्रमाणज्ञानं स्वप्रागभावाति-रिक्तस्वविषयावरणस्वनिर्वर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम् । अप्रकाशितार्थप्रकाशकत्वात् । अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामज्ञाननिवर्तिकायां बाधवारणाय । धर्म्यंशे प्रमाणवृत्तेरिदमित्याकारिकायाः अज्ञानानिवर्तिकायाः पक्षबहिर्भावाय विवादपदमिति विशेषणम् । विशेषाकारा प्रमाणवृत्तिरिति फलितोऽर्थः । विशेषाकारत्वं चेदन्त्वान्यप्रकारकत्वम् । तेन पुरोवर्तिनिष्ठे-दन्त्वस्यापि विशेषत्वेनोक्तविशेषणेनाबहिर्भाव इति निरस्तम् । प्रमा(ण)त्वं चेन्द्रियादि-जन्यवृत्तिमात्रनिष्ठो जातिविशेषः । परोक्षप्रमाया अपि प्रमातृगतस्वविषयविषयका-सत्वापादकाज्ञाननिवर्तकत्वान्न तदंशे बाधः । यदि, धर्म्यंशे संशयविपर्ययरूपकार्या-दर्शनेऽप्यज्ञातज्ञापकत्वरूपप्रामाण्यस्य तज्ज्ञानेऽपि निर्वाहायैव तदाकारस्य प्रमातृगताज्ञानस्य अनुभवबलादङ्गीकारे तत्रापि साध्यसम्भवात्तस्याः पक्षबहिर्भावो न कार्यः, तदा विवादपदमिति विशेषणं न देयमेव । इदमाकारज्ञानस्य व्यवहारकालाबाध्यविषयकत्वमात्रेण सुखादिज्ञानवत् प्रमात्वम् । न तत्र संशयविपर्ययजनकाज्ञानाङ्गीकारोऽपि । ‘सर्वं ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्ययः’ इत्यभियुक्तोक्तेरिति पक्षे तादृशवृत्तेः अज्ञानानिवर्त-कत्वाद्बाधवारणाय विवादपदं देयमेव ।

अत्र पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्या । अन्यथा प्रमाणवृत्त्यन्तरेष्विव पक्षीकृतायामपि कस्याञ्चिद्व्यक्तौ साध्याभावोऽस्त्वित्यप्रयोजकताशङ्का स्यात् । धारावगाहनस्थले तत्तत्क्षणानां पूर्वज्ञानाविषयीभूतानां उत्तरज्ञाने भानाङ्गीकारात्तत्तदवच्छिन्न-घटादीनामज्ञातत्वात्तत्रापि न बाधः । अनात्माकारप्रमाणवृत्तीनां तदवच्छिन्नचिद्विषय-काज्ञाननिवर्तकत्वान्न तत्रापि बाधः । चित्त्वेनैव प्रकाशप्रसक्तिर्न त्वनवच्छिन्नचित्त्वेन गौरवात् । अतस्तदावरणार्थमज्ञानमावश्यकम् । अत एवाज्ञानाभावोपहितचिद्रूपसत्ता वस्तुनि भासते । ज्ञानसामान्यसामग््रया एव तत्तदर्थोपहितचिद्रूपसत्ताविषयकत्वप्रयोजकत्वात् । अत्र स्वप्रागभावं, स्वजनकादृष्टं, स्वप्रतिबन्धकादृष्टं, विषयगताज्ञातत्वं चोपादायोद्देश्यासिद्धि-वारणाय क्रमेण विशेषणानि । प्रतियोगिना प्रागभावो निवर्तत इति मते प्रागभावव्यतिरिक्तेति विशेषणम् । प्रतियोग्येव प्रागभावनाशो ज्ञानमेवाज्ञाननिवृत्तिरिति मते तु स्वजन्यध्वंस-प्रतियोगित्वरूपनिवर्त्यत्वस्य निवेशायोगात् तद्द्वयसाधारण्याय स्वद्वितीयक्षणवृत्त्य-भावप्रतियोगित्वादिरूपं निर्वाच्यम् ।

न च तर्हि प्रतिबन्धकादृष्टस्यापि उक्तनिवर्त्यत्वानपायात्तेन तद्वारणायोग इति वाच्यम् । स्वाव्यवहितप्राक्क्षणवृत्तित्वसहितस्य तस्य निवेशनीयत्वात् । अत्र स्वविषयावरणत्वं स्वविषयविषयकव्यवहारानुत्पादप्रयोजकत्वम् । तच्च चाक्षुषवृत्तिप्रतिबन्धद्वारा ज्ञानप्रति-बन्धद्वारा वा व्यवहारकारणीभूतज्ञानाभावरूपतया ज्ञानप्रागभावस्य यथा वर्तते तथा व्यवहारानुकूलकृतिप्रागभावस्याप्यक्षतम् । अतस्तदादायार्थान्तरतावारणायानिवर्त्यत्वशरीरे स्वद्वितीयक्षणेत्यादिनिवेशः । स्वाधिकरणक्षणत्वेनैव तन्निवेशः । द्वितीयत्वेन निवेशे प्रयोजनाभावात् । अत्र सर्वत्र ज्ञानद्वितीयक्षण एव व्यवहारानुकूलेच्छाकृतिजनकेष्ट-साधनताज्ञानोत्पत्तौ मानाभावात् पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वान्न तादृशेष्ट-साधनताज्ञानप्रागभावमादायार्थान्तरता । स्वचरमफलरूपज्ञाननिवर्त्यस्यादृष्टस्य प्रागभाववत् कारणाभावरूपत्वाभावेन स्वव्यवहारविरोधित्वरूपस्वविषयावरणत्वाभावात्तेन तद्वारणम् ।

न च यददृष्टं स्वं प्रति कारणं स्वसमानविषयकज्ञानान्तरप्रतिबन्धकविधया तत्साध्य-व्यवहारविरोधि न तदादायार्थान्तरमिति वाच्यम् । तादृशादृष्टसत्वे मानाभावात् । वस्तुत आलोकनिरूपितविषयत्वाप्रसिद्ध्या दृष्टान्ते साध्यवैकल्यपरिहाराय स्वविषयावरणेत्यस्य स्वप्रयुक्तव्यवहारप्रतिबन्धकार्थत्वम् । आलोकजन्यचाक्षुषद्वारकव्यवहारं प्रति तमसो विरोधि-त्वान्न दृष्टान्ते साध्यवैकल्यम् । एवं चोक्तादृष्टे स्वप्रयुक्तव्यवहारविरोधित्वाभावान्न तदा-दायार्थान्तरता । अज्ञानमपि तम इव ज्ञानप्रयुक्तव्यवहारविरोध्येवेति तदादाय पक्षे साध्यपर्यवसानम् ।

ननु चरमसाक्षात्कारप्रतिबन्धकादृष्टस्य चरमसाक्षात्कारेणानिवृत्तौ तस्य मिथ्यात्वासिद्धि-प्रसक्त्या तन्नाश्यत्वेऽवश्यं वक्तव्ये तद्व्युदासोऽशक्यः । न च चरमसाक्षात्कारे तमादाय साध्यपर्यवसानेऽपि वृत्त्यन्तरेष्वज्ञानं विना साध्यपर्यवसानायोगात् पक्षतावच्छेदकावच्छेदेनेदानीं साध्यसिद्धेरुद्देश्यत्वान्नार्थान्तरतोद्भावनार्हेत्यतद्व्युदासेऽपि का क्षतिरिति वाच्यम् । तत्र तथा पर्यवसानसम्भवेऽन्यत्रापि तद्दृष्टान्तेन तथाविधादृष्टपरिकल्पनयैव साध्यपर्यवसानशङ्कया नोद्देश्यसिद्धिः स्यादिति चेन्न ।

प्रतिबन्धकापगमं विना चरमसाक्षात्कारस्योत्पत्तुमनर्हत्वात्तन्नाशोऽन्येनावश्यकः । मिथ्यात्वलक्षणे च यदीयावस्थात्वावच्छिन्नाभावो ज्ञानप्रयुक्त इत्येव निवेशः । तथा च चरम-साक्षात्कारविरोध्यदृष्टीयस्थूलसूक्ष्मावस्थासामान्यप्रतियोगिकाभावस्य चरमसाक्षात्कारप्रयुक्त-त्वेऽपि तन्मात्रप्रतियोगिकध्वंसस्य तदजन्यत्वात् स्वनिवर्त्यपदेनैव तद्वारणान्न तदादायार्था-न्तरप्रसक्तिः ।

ननु विषयगताज्ञातत्ववारणाय स्वसमानदेशत्वमुक्तम् । अज्ञातत्वं यदि अज्ञानविषयत्वं तदाऽज्ञानसिद्धेः प्राक् तद्विषयत्वमादायार्थान्तरानवकाशः । यदि ज्ञानप्रागभावः तदा प्राग-भावान्यत्वेन वारणम् । यदि च ज्ञानात्यन्ताभावः तदा स्वनिवर्त्यत्वेनैव वारणमिति चेन्न । उत्पादविनाशशाली सामयिकोऽयमत्यन्ताभाव इति मते तादृशज्ञानाभाववारणार्थत्वात् ।

ननु समानदेशत्वं नाम तत्प्रतियोगिकतादात्म्यप्रतियोगित्वमेव । अन्यस्यानतिप्रसक्तस्य पक्षदृष्टान्तसाधारण्येन वक्तुमशक्यत्वात् । आलोकतमसोर्वृत्त्यज्ञानयोश्चैकचिति तादात्म्येन सत्वात् । तथा चोक्तज्ञातत्वाभाववृत्त्योर्विषयचिति तादात्म्येनैव सत्वात् कथं तद्वारणमिति चेन्न । स्वसमानदेशत्वस्य स्वाधिकरणतानवच्छेदकावच्छिन्नाधिकरणताकान्यत्वरूपस्य विवक्षितत्वात् । विषयगताज्ञातत्वस्य ज्ञानाभावरूपस्य सामयिकस्य घटविषयकवृत्त्यन-वच्छेदकपटाद्यवच्छेदेन वृत्तित्वेन तद्व्युदासात् । अज्ञानं तु वृत्तिनाश्यत्वात् तदवच्छेदक-देशेनैवावच्छिद्यत इति तदादाय पक्षे साध्यनिर्वाहः ।

ननु तर्हि दृष्टान्ते साध्यवैकल्यम् । आलोकाधिकदेशावच्छेदेन तमसश्चिति सत्वात् । न चालोकानधिकनेशवृत्तितमोऽवयवमादाय साध्यमुपपादनीयमिति वाच्यम् । पटादि-वत्खण्डोत्पत्तिद्वारा महावयविरूपतमस उत्पत्तेरनुभवविरुद्धत्वेन तादृशावयवसत्वे माना-भावादिति चेन्न । तमःसमानदेशवृत्त्यालोकस्यैव दृष्टान्तत्वसम्भवात् ।

अथ अन्तःकरणस्याज्ञानोपादानकत्वेन अज्ञानोपहित एवाज्ञानस्य सत्वात् अज्ञानस्य स्वोपहितवृत्तित्वपक्षे वृत्तेरपि स्वोपहित एव सत्वात्कथं ज्ञानाज्ञानयोः  समानदेशत्वमिति चेन्न । पक्षद्वयेऽपि दोषाभावात् । अज्ञानस्य शुद्धाश्रयत्वपक्षे शुद्धस्यैवाधिष्ठानत्वेन तत्तदु-पाधिसम्बन्धात्तदाश्रितत्वं ज्ञानस्यास्त्येव । अज्ञानस्य स्वोपहितवृत्तित्वपक्षेऽपि अज्ञानोप-हितस्यैव वृत्त्युपहितत्वेन स्वोपहितवृत्त्यपि ज्ञानं अज्ञानोपहितवृत्ति भवत्येव । यथा तार्किकमते कर्णशष्कुल्यवच्छिन्नाकाशस्य शुद्धाकाशान्यत्वेऽपि तद्धर्मः शब्दः शुद्धाका-शस्यापि धर्मोऽन्यथा  शब्दाश्रयत्वेनाकाशानुमानं तेषां न स्यात् । तथा किञ्चिदुप-हितचिदाश्रितमपि ज्ञानं शुद्धचिन्निष्ठं भवत्येव । उपहितचिति शुद्धचितोऽनुगमात् । ‘तमेव भान्तमनुभाति सर्वम्’ इति श्रुत्या तत्प्रतीतावेव प्रतीतेश्च । दृश्यत्वादिकन्तूपहितचिन्निष्ठमेव न केवलचिन्निष्ठम् । शुद्धचिता तादात्म्यरूपत्वात्तस्य । अत्यन्ताभेदे सम्बन्धायोगात् । विषयावच्छिन्नचिता सहैकीभावापन्नान्तःकरणावच्छिन्नचित्तादात्म्यापन्नस्य वृत्तिरूपस्य तत्प्रतिबिम्बितचिद्रूपस्य वा ज्ञानस्य विषयावच्छिन्नचिदभानापादकाज्ञानसमानदेशत्व-मुक्तरूपमस्त्येव । इदं चोपहितनिष्ठस्य शुद्धनिष्ठत्वोपपादनं च यथाश्रुतसमानदेशत्वाभिप्रायेण विवक्षितम् । स्वावच्छेदकदेशान्यानवच्छिन्नत्वरूपं तु घटाद्यवच्छिन्नपल्लवाज्ञान इव मूलाज्ञानेऽप्यस्ति । तस्य शुद्धचित्यनवच्छिन्नतयैव सत्वादिति बोध्यम् ।

अत्र साध्यशरीरे अस्ति प्रकाशत इति व्यवहारानुत्पादं प्रति कारणाभावसम्पादकतया प्रयोजकत्वरूपं प्रतिबन्धकत्वं निविष्टम् (स्वविषयावरणपदेन विवक्षितम्) । तच्च  प्रागभावादिसाधारणमित्याशयेन प्रागभावान्यत्वं निविष्टम् । यदा तु कार्यानुकूल-कारणनिष्ठशक्तिविघटकत्वरूपं निवेश्यते तदा तन्न निवेश्यम् । ज्ञानप्रागभावस्योक्तप्रति-बन्धकत्वानङ्गीकारात् ।

नन्वज्ञानस्यापि कथम् ? इत्थम् । अस्तित्वं नाम घटादावसत्वापादकाज्ञाना-भावोपहितचित् । सा च तादात्म्यसम्बन्धेन घटादिसम्बद्धाऽस्तित्वव्यवहारनिर्वाहिका स्वविषयकाविद्यावृत्तिरूपस्फुरणं प्रति च विषयविधया कारणीभूता । भानं चाज्ञान-सामान्याभावोपहिता चित् । अपरोक्षवृत्तिकाल एव भातीति (प्रकाशत इति) व्यव-हारादिसत्वेन तत्काले प्रमातृगतस्यासत्वापादकस्य, विषयावच्छिन्नस्य चाभानापाद-कस्याज्ञानस्य चोभयोरपि गतत्वात् । सा च तादात्म्येन घटे वर्तत इति घटो भातीति व्यवहारनिर्वाहिका स्वविषयकाविद्यावृत्तिरूपस्फुरणकारणं च । तादृशसत्वभाननिष्ठ-कार्यानुकूलशक्तिविघटकत्चमज्ञानस्यावश्यं वाच्यमन्यथाऽज्ञानकाले व्यवहारस्य स्पुरणस्य चापत्तेः ।

न च ज्ञानाभाव एव प्रतिबन्धकत्वं कल्प्यतामिति वाच्यम् । अविद्यात्वजात्यपेक्षया ज्ञानाभावत्वेन तथात्वाङ्गीकारे गौरवात् । न चाज्ञानकाले तदभावोपहितचिद्रूप-विषयस्यैवासत्वाद्व्यवहाराद्यनुत्पत्तिसम्भवात्तस्य प्रतिबन्धकत्वकल्पनमयुक्तमिति वाच्यम् । मन्मते मिथ्यात्वानुरोधेन तत्सत्वेऽपि तदभावावश्यकत्वात् ।

न च तथापि अज्ञानाभावोपहितचिद्रूपसत्ताप्रतीत्यर्थमुपाधिरूपस्याज्ञानाभावस्य प्रतीतिरावश्यिकी । तत्र चाज्ञानानुपलब्धिर्हेतुः । सा चाज्ञानसत्तायां न घटते । तस्य प्रतिभासमात्रशरीरत्वादिति सामग्न्यभावादेवोक्तव्यवहारादिकार्याभावसम्भवेऽज्ञानस्य प्रतिबन्ध-कत्वमप्रयोजनमिति वाच्यम् । यत्र हि प्रतियोगिस्थितिकालेऽपि तद्वैशिष्ट्यस्य विवक्षि-देशेऽनुपलब्ध्याऽभावधीः तत्र तदनुपलब्धिर्हेतुः यथा घटादिस्थले । प्रकृते चाज्ञानस्थिति-कालेऽज्ञानवैशिष्ट्यानुपलब्धिः सुषुप्तिसमाध्योरेव । तदा तु नाभावव्यवहारादिः । यदा त्वन्यदा अज्ञानस्थितिरस्ति तदा तदनुपलब्ध्या नाज्ञानाभावसाक्षात्कारादिः । अज्ञानना-शोत्तरमेवाभावधीरिति अज्ञानानुपलब्धेर्हेतुत्वकल्पनापेक्षया लाघवादज्ञानस्य तत्र प्रतिबन्ध-कताकल्पनस्यैवोचितत्वात् ।

एवमेव शुक्तिरूप्यादेरपि स्वाभावस्फुरणव्यवहारादौ प्रतिबन्धकत्वमेव । न चाज्ञाना-भावस्यानुपलब्धत्वत्यागे साक्षिभास्यत्वमेवास्तु । तथाऽज्ञानकाले तदभावस्य साक्षिसम्बन्धा-भावादेव व्यवहाराभावाद्युपपत्तौ अज्ञानस्य तत्प्रतिपन्धकत्वमकिञ्चित्करमिति वाच्यम् । मिथ्यात्वानुरोधेनाज्ञानकालेऽप्यज्ञानाभावसत्ताया उक्तत्वात् । तथा चोक्तानुमानवाक्यस्य स्वप्रागभावान्यस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकं स्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तर पूर्वकमिति च साध्यद्वये तात्पर्यम् ।

द्वितीयानुमाने प्रागभावाज्ञातत्वयोः स्वविषयावरणेत्यनेनैव व्यावृत्तिः । न च द्वितीयसाध्ये समानदेशत्वविशेषणं व्यर्थम् । जीवब्रह्मविभागपूर्वकत्वस्य चरमवृत्तौ स्वीकारेणार्थान्तरात् । यद्यप्यवच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् प्रमान्तरेषु तादृश- साध्यपर्यवसानस्याज्ञानं विनाऽयोगात् जीवब्रह्मविभागस्यापि विषयावरणत्वस्योक्तरूपस्या- भावान्न चरमप्रमायामपि साध्यपर्यवसानम् । तथापि एकैकप्रमाया एकैकजीवब्रह्मविभाग- निवर्तकत्वमस्तु स्वविषयावरणत्वमपि तस्यैव स्वीक्रियतामिति रीत्यार्थान्तरसम्भवात् । ससमानदेशत्वस्योक्तौ च यथाश्रुतेन तद्वारणसम्भवेऽपि निष्कृष्टेन तेन तद्वारणात् । भेदस्य प्रतियोगिभिन्नेषु सर्वेषु एकस्यैव सत्वेन स्वपदेनोपादेयतत्प्रमानवच्छेदकदेशावच्छिन्नत्वसत्वात् ।

न च जीवब्रह्मविभागस्य सुषुप्तावभावेनास्फुरणात्तदुत्तरकाले नावेदिषमित्याकारा कथं तत्स्मृतिः सम्भवतीति शङ्क्यम् । सुषुप्तौ स्थूलोपाध्यपगमेऽपि संस्कारात्मना मनोरूपोपाधिसत्वेन जीवेशभेदानपगमेन तस्य निर्विकल्पकरूपमेव सौषुप्तं ज्ञानम् । उत्तरकाले नावेदिषमिति धीस्तु पूर्वोक्तरीत्या कथञ्चिदनुभवरूपैवेति वक्तुं शक्यत्वात् ।

अत्र साध्यद्वये वा एकसाध्यपक्षे  वा स्वप्रागभावातिरिक्तत्वादिविशेषणाक्रान्तभ्रम-मादायार्थान्तरपरिहाराय वस्त्वन्तरपदं स्वनिवर्त्यजन्यभ्रमान्यार्थकम् ।

हेतौ अप्रकाशितार्थत्वं च न प्रकाशत इति व्यवहारगोचरत्वम् । अतः सिद्धान्ते चैतन्यस्य स्वप्रकाशत्वेऽपि अविद्याबलान्न प्रकाशत इति व्यवहारगोचरत्वाद-प्रकाशितत्वोपपत्तिः । प्रकाश(क)त्वं च अनादिसङ्केतेन प्रकाशपदव्यवहृतिविषयत्वम् । तच्चालोके ज्ञाने च वर्तते । तथा च प्रकाशत्वस्यालोकज्ञानोभयसाधारणस्यैकस्याभावेऽपि प्रकाशपदव्यवहारविषयत्वस्य आधुनिकसङ्केतेन लक्षणादिना च सर्वत्र सम्भवेऽपि न दृष्टान्तासिद्धिव्यभिचारादिप्रसक्तिः । अस्तु वेतरसाधारणमेव प्रकाशत्वम् । तथापि तस्याप्रकाशितार्थगोचरेति विशेषणाद्व्यभिचारव्युदासः । तथा च न प्रकाशत इति व्यवहारगोचरो योऽर्थस्तद्गोचरत्वे सति प्रकाशशब्दवाच्यत्वादिति हेतुः पर्यवसितः । न प्रकाशते घट इति व्यवहारोऽन्धकारस्थे घटेऽतः सोऽप्रकाशितोऽर्थः । तद्गोचरत्वमालोके वर्तते । तद्गोचरत्वं च तद्विषयको यः प्रकाशत इति व्यवहारस्तज्जनकत्वम् । तच्च तमोनाशद्वाराऽऽलोकेऽक्षतम् । ज्ञाने च चिद्विषयकाज्ञाननाशद्वारा प्रकाशत इति व्यवहारनिर्वाहकत्वम् । प्रकाशत इति व्यवहारे चित एव विषयत्वं घटादौ तदवच्छेदकतया न प्रकाशत इति च व्यवहृती प्रति गोचरत्वं द्रष्टव्यम् । प्रकाशपदवाच्यत्वं चाऽलोके ज्ञाने चोभयत्र वर्तते । उभयत्राप्यनादितो व्यवहारसाम्यादिति पक्षदृष्टान्तयोर्हेतुमत्तानिर्वाहः ।

द्वितीयादिप्रकाशे धारावगाहनस्थले च द्वितीयादिज्ञानेषु व्यभिचारवारणाय सत्यन्तम् । अत एव विपर्ययस्यापि ज्ञानत्वमात्रेण प्रकाशशब्दवाच्यत्वेऽपि न तत्र व्यभिचारः । तद्विषयस्य प्रातिभासिकस्य तत्समकालत्वेन तत्पूर्वकालसत्तानियताप्रकाशितत्वाभावात् । स्वसत्ताकाले न प्रकाशत इति व्यवहारविषयस्यैवाप्रकाशितशब्दार्थत्वात् । न्द्रियसन्निकर्षादौ व्यभिचारवारणाय विशेष्यदलम् ।

यद्वा अप्रकाशविरोधिप्रकाशत्वादिति वा हेतुपर्यवसानम् । ननु अप्रकाशाधिकरण-कालावृत्त्यप्रकार(श)कत्वमित्यादिरीत्याऽप्रकाशविरोधित्वपरिष्करणे द्वितीयादिज्ञाने व्यभि-चारो दुर्वारः स्यादतोऽप्रकाशनाशकतावच्छेदकरूपवत्त्वमेवाप्रकाशविरोधित्वं तच्च रूपं प्रमात्वमालोकत्वं च । द्वितीयादिज्ञानेऽज्ञातार्थावगाहित्वघटितप्रमात्वाभावान्न व्यभिचार-प्रसक्तिः । तथा च तेनैव सन्निकर्षे भ्रमे च व्यभिचारस्य परिहृतत्वाद्विशेष्यपदं व्यर्थम् ।  सन्निकर्षभ्रमत्वयोरुक्तानाशकतावच्छेदकत्वाभावादिति चेन्न । उक्तार्थतात्पर्यग्राहकत्वमात्राङ्गि- कारेण हेतुघटकत्वानङ्गिकारात् । प्रमादृष्टान्तभूतालोकान्यतरत्वं वा हेतुरिति सूचानार्थत्वाद्वेति ।

न च द्वितीयहेतौ स्मृतौ व्यभिचारः तादृशप्रमात्वरूपनाशकतावच्छेदकाभावादेव वार्यते प्रत्यक्षगृहीतार्थकशाब्दवृत्तावप्येवमेव । आद्यहेतौ कथम् ? प्रत्यक्षगृहीतस्यापि तत्पूर्वम-प्रकाशितत्वात् शब्दवृत्त्या तद्गोचरव्यवहारजननादिति वाच्यम् । न प्रकाशते इति व्यवहारविषयनाशं द्वारीकृत्य तद्गोचरव्यवहारजनकत्वस्य विवक्षितत्वात् । शब्दवृत्तेस्त-दुत्तरकालीनाया अतथात्वान्न व्यभिचारः ।  सन्निकर्षस्यापि स्वजन्यज्ञानद्वारा तादृश-व्यवहारकारणत्वात्तत्र व्यभिचारवारणाय विशेष्यदलम् ।

न चोक्तनाशस्य न व्यवहारजनकत्वं किन्तु प्रकाशस्यैवातस्तादृशद्वारकत्वघटित-हेतोरसिद्धिरिति वाच्यम् । न प्रकाशत इति व्यवहारविषयप्रतियोगिकनाशप्रयोजकत्वादित्येव सत्यन्तार्थः । प्रयोजकत्वं च कालविधया प्रयोजकत्वव्यावृत्तासाधारणरूपं निविष्टमतः कालविधया प्रयोजकत्वमादाय न द्वितीयप्रकाशादौ व्यभिचार इति लाभार्थत्वेन द्वारत्वा-देर्हेतुशरीरानिवेशात् ।

न चाज्ञानसिद्धेः प्राक् प्रक्षे उक्तहेतोरसिद्धिः । न प्रकाशत इति व्यवहाविषयी-भूताज्ञानध्वंसमुपादायैव तत्र हेतोरुपपादनादिति वाच्यम् । न प्रकाशते इति व्यवहार-विषयत्वेन पराभ्युपगतज्ञानप्रागभावनाशमुपादायैव पक्षे हेतोरुपपादनीयत्वात् । अत एव तमोरूपद्रव्यस्यानङ्गीकारेऽपि न दृष्टान्ते साधनसाध्यवैकल्यम् । आलोकप्रागभावना-शादिकमुपादायैव पक्षे हेतोरुपपादनात् । द्वितीयहेतावपि प्रमाप्रागभावरूपाप्रकाशना-शकतावच्छेदकप्र(काश)मात्वमादायैव पक्षे हेतूपपादनान्नासिद्धिः ।

ननु तमोनाशकत्वमुपाधिरिति चेन्न । सौषुप्तिकसुखाकाराविद्यावृत्तौ तत्तत्सुखावरस्वा-प्नबुद्धिनिवर्तिकायां उक्तसाध्यसत्वेन तदव्यापकत्वात् । न चोक्तवृत्त्यादेरस्ति भातीत्यादि-व्यवहाराप्रयोजकत्वेन स्वविषये स्वप्रयुक्तोक्तव्यवहारप्रतिबन्धकत्वरूपस्वविषयावरणत्वस्य स्वनिवर्त्यजन्यभ्रमान्यत्वरूपवस्त्वन्तरत्वस्य च स्वाप्नबुद्ध्यादावभाव इति वाच्यम् । सुखमहमस्वाप्समिति स्मृतिद्वारा सौषुप्तिकसुखमस्तीत्यादिव्यवहारे उक्तवृत्त्यादेः प्रयोज-कत्वात् । स्वाप्नसुखादिवृत्तेर्भ्रमान्यत्वेनैवोक्तवस्त्वन्तरत्वात् । अविद्यावृत्तित्वेन तस्याः स्वानवच्छेदकदेशानवच्छिन्नत्वरूपस्वसमानदेशत्वस्यापि सत्वाच्च ।

न चोक्तानुमानजन्यानुमितिरूपप्रमाणज्ञाने हेतुसाध्यसत्वे अज्ञानविषयका-ज्ञानस्वीकारापत्तिः । उक्तानुमितेरज्ञानविषयकत्वात् । तस्याज्ञानविषयत्वं विना साध्यहेतूप-पादनायोगात् । तत्राज्ञानस्वीकारे तत्राप्यज्ञानान्तरस्वीकारापातेनानवस्थितेरपसिद्धान्त- तापत्तिश्च । उक्तानुमितौ साध्यहेत्वभावे भागासिद्ध्यंशबाधौ स्याताम् । तस्या पक्षबहिर्भावे तद्दृष्टान्तेन प्रमाणज्ञानत्वहेतुना सत्प्रतिपक्षः स्यादिति वाच्यम् । उक्तानुमितौ प्रागभावान्यत्वावरणत्वादिनैवाज्ञानस्य विषयतया तद्रूपविशिष्टविषयकाज्ञानस्वीकारेणोक्तानु-मितावपि हेतुसाध्योपपादनसम्भवात्, स्वरूपेणैवाज्ञानस्याज्ञानविषयत्वानङ्गीकारेणाज्ञान- परम्पराङ्गीकारे प्रयोजनविरहेणापसिद्धान्तानवस्थाद्यभावेन सर्वसाञ्जस्यात् ।

।। भावरूपाज्ञानसाधकपराभिमतानुमाननिरासः ।।

इति चेन्न । प्रमाणज्ञानत्वस्य पक्षतावच्छेदकीभूतस्याबाध्यार्थमात्रविषयकत्वरूपत्वे घटादिज्ञानानामपक्षत्वापत्तिः । तेन रूपेण चरमवृत्तिमात्रस्य पक्षत्वमित्यङ्गीकारे घटादिज्ञानेेषूक्तहेतुसत्वेन साध्याभावस्य निश्चितत्वे वा सन्दिग्धत्वे वा व्यभिचार एव । ब्रह्मप्रमेतराबाध्यार्थविषयकत्वस्य पक्षतावच्छेदकत्वे सुखादिविषयकवृत्तेरपि पक्षतावच्छेद-काक्रान्तत्वाद्बाधवारणासम्भवात् । न च साऽविद्यावृत्तिरेव नान्तःकरणवृत्तित्वरूपपक्षता-वच्छेदकं तत्रेति वाच्यम् । सुखादौ वृत्तेरभ्युपगमे तस्या अज्ञानसिद्धेः प्राक् तद्वृत्तित्व-निश्चयाभावादन्तःकरणवृत्तित्वेनैव गृह्यमाणायां साध्याभावनिश्चयाद्बाधापातात् । न चाविद्यासिद्धेः प्राक् तद्वृत्त्यात्मकसुखादिज्ञाने बाधोद्भावनमशुद्धमिति वाच्यम् । तमोनाश-कत्वरूपैतदनुमानोपाधेः सौषुप्ताविद्यावृत्तौ व्यापकताभङ्गस्य त्वदुक्तस्यापि तथात्वापातात् । स्मरणाद्यनुपपत्त्या वृत्तिस्तावत्सिद्धा । तस्या अविद्यापरिणामित्वकल्पनमात्रं तदुत्तरकालिक-मिति चेत् प्रकृतेऽपि तत्समम् ।

अज्ञातार्थविषयत्वं तु पक्षतावच्छेदकेऽज्ञानसिद्धेः प्राक् न निवेशनार्हम् । स्वसमानाधिकरणस्वसमानविषयकस्वपूर्वकालीनज्ञानविषयत्वाभाववान् यो ब्रह्मप्रमेतराबाध्यः तदर्थविषयकत्वेन निवेशेऽपि सुखाकाराविद्यावृत्तेस्तादृशत्वाद्बाध एव । स्वसत्ताकाले न प्रकाशते इति व्यवहारविषयीभूतो योऽर्थः तादृशोक्ताबाध्यार्थविषयकत्वस्य निवेशेऽपि सुखादौ परकीये परस्य तथा व्यवहारोदयात् तद्विषयकवृत्तिमादाय दोष एव । न प्रकाशत इति व्यवहारे स्वाश्रयपुरुषसम्बन्धित्वनिवेशेऽपि चैत्रस्यासञ्जातबाधभ्रमविषयीभूतो योऽर्थस्त-स्मिन् चैत्रस्य पूर्वं मम न प्रकाशं गतोऽयमर्थ इदानीं प्रकाशते इति व्यवहारोदयात्, भ्रमोत्तरमपि यदा अधिष्ठानादिसन्निकर्षो नास्ति तदपि इदानीं न प्रकाशत इति व्यवहारोदयाच्च तादृशार्थविषयकेषु ज्ञानेेषु देहात्मैक्यभ्रमादिषु बाधस्य दुर्वारत्वात् । अज्ञानसिद्धेः प्राक् अन्तःकरणवृत्तित्वाभावस्यानिश्चयात् प्रत्युत तत्वेनैव निश्चयात् । मन्मते सर्वस्यापि जडज्ञानस्यान्तःकरणवृत्तित्वस्यैवोरीकरणेन मन्मतरीत्या बाधस्य दुर्वारत्वाच्च । न ह्यसञ्जातबाधभ्रमविषयीभूतोऽर्थःब्रह्मप्रमान्येन निवर्तते । तज्जनकाज्ञानस्य ब्रह्मप्रमयैव नाशाङ्गीकारेण तन्नाशाधीनतादृशार्थनाशायोगेन भ्रमाभावदशायां तस्य तिरोधानस्यै-वाङ्गीकारात् । न च देहात्मैक्यं स्वसत्ताकाले  नियमेन प्रकाशसम्भवेनोक्ते न बाधप्रसक्ति-रिति वाच्यम् । जाग्रत्काले ज्ञानान्तरसामग्रीदशायां स्वप्नसुषुप्तिकाले च तदप्रकाश-सम्भवेनोक्तनियमे मानाभावात् । न च तदानीं देहात्मैक्यं नास्स्त्येवेति वाच्यम् । तथात्वे दृष्टिसृष्टिवादापत्त्या घटादिज्ञानेष्वयुक्तसाध्योपपादनायोगेन प्रतिकर्मव्यवस्थामतेनैवोक्तानु-मानप्रवृत्तेरङ्गीकारात् । सत्यमुक्तम् । देहात्मैक्यं घटादिवन्न व्यावहारिकं किन्तु प्रातिभासिकमिति चेत् किं तावता स्वाज्ञानदशायां देहात्मैक्योच्छेदेन संसाराननुवृत्तिप्रसङ्गेन तिरोधानमात्रस्याभ्युपगमेन तदुच्छेदाभावात् ।

उभयसिद्धभ्रमभिन्नान्तःकरणवृत्तित्वमेव पक्षतावच्छेदकम् । उभयपदेन तत्ववादि-मायावादिनावेव ग्राह्यावतोनाननुगमः ।  तत्ववादिना देहात्मैक्यभ्रमानङ्गीकारात् सुखाद्या-कारवृत्तिरूपप्रत्यक्षानङ्गीकाराच्चोभयसिद्धभिन्नत्वमुक्तोभयविषयकाविद्यावृत्तौ वर्तते । साक्षिणस्तत्ववादिना भ्रमत्वानङ्गीकारात् तत्राप्युक्तविशेषणं वर्तत  एवेति तेषां पक्षत्वे बाधः स्यादिति अन्तःकरणवृत्तित्वेन निवेशः इति चेन्न । उभाभ्यामज्ञातलौकिकभ्रमेषु तत्ववादिनो बाधानिस्तारात् ।

किञ्च तत्ववादिमायावादिनोरप्यननुगमात् कथञ्चिन्निवेशेऽपि कदाचित्तयोरपि सर्वत्र भ्रमत्वभ्रमसम्भवेन पक्षदौर्लभ्यापत्तेः । तत्वेन प्रमाविषयान्यत्वनिवेशे भ्रमान्यत्वस्यैव निवेशे पर्यवसानात् भ्रमत्वस्यानुगतस्य निर्वक्तुमशक्यत्वात्तदननुगम एव । अन्तःकरणवृत्तित्वस्यैव पक्षतावच्छेदकत्वे तूक्तमेव ।

अस्तु वा यथाकथञ्जित्पक्षतावच्छेदकम् । तथापि प्राचीनमतरीत्या साध्योक्तौ तावदर्थान्तरतैव । घटादिव्यवहारेषु तद्विरूद्धधर्मज्ञानादीनां प्रतिबन्धकतायाः क्लृप्तत्वात्तस्यैव नियमेन स्वपूर्ववृत्तित्वकल्पनयैवोपपत्तेरज्ञानसिद्धेरयोगात् । न च तद्विरुद्धधर्मग्रहो यदि स्वरूपतस्तद्विषयकस्तदा स न स्वपदार्थभूतघटादिज्ञानसाध्यव्यवहारविरोधी । तस्य घटादिज्ञानप्रतिबन्धद्वारा तदनुत्पादाप्रयोजकत्वात् । यदि विरुद्धत्वेन तद्गूहस्तदातत्काले लौकिकसन्निकर्षजन्यप्रत्यक्षस्य कथञ्चिदङ्गीकारेण साध्योपपादनसम्भवेऽपि अनुमित्यादौ कथं सम्भव इति वाच्यम् । उक्तरीत्या दूषणे विरोधिभ्रमस्यापि अनुमित्यादिप्रतिबन्धकतया अनुमित्यादौ साध्यसिद्ध्ययोगेन पक्षतावच्छेदकावच्छेदेन साध्यसम्भवाप्रसक्तेरर्थान्तरायोगेन भ्रमान्यत्वविशेषणवैयर्थ्यापत्तेः । प्रत्यक्षमात्रस्य पक्षत्वे तेषूक्तहेतुसत्वे सन्दिग्धव्यभिचारापत्तेः ।  असत्वे तद्दृष्टान्तेन प्रमात्वहेतुनैव तदभावसाधनं स्यादिति दोषात् ।

न च साध्यघटकं स्वनिवर्त्यत्वं न स्वजन्यध्वंसप्रतियोगित्वं प्रागभावस्याज्ञानस्य च प्रतियोगिना ज्ञानेन च न निवृत्तिः । किन्तु तन्नाशात्मकत्वमेव तयोरिति मते प्रागभा- वातिरिक्तत्वविशेषणवैयर्थ्यं बाधश्च स्यादतः स्वनिवर्त्यत्वं स्वाधिकरणवृत्त्यभाव-प्रतियोगित्वरूपमन्यादृशमेव वाच्यम् । अतः किञ्चिद्य्ववहितपूर्ववृत्तिभ्रममादायार्थान्तर-ताप्रसक्तिस्तद्वारणाय भ्रमान्यत्वं देयमेव । प्रमाविषयीभूतार्थविरुद्धधर्मज्ञानस्य ग्रहणे तु तस्य भ्रमत्वनियमेन अस्मदुक्तभ्रमान्यत्वविशेषणेनैव तद्व्यावृत्तिरपि भवतीति वाच्यम् । यस्मिन् धर्मे तद्विरुद्धत्वस्य तदभावावच्छेदकत्वस्य वा भ्रमः तदव्यवहितोत्तरतद्धर्मप्रमां स्वाव्यहित-पूर्ववर्तिनीमादायैवार्थान्तरसम्भवात् । तद्धर्मप्रमायाः स्वतृतीयक्षणोत्पन्नप्रमाणज्ञानोत्पत्त्य-धिकरण एव प्रागभाववन्नश्यमानत्वात् ।

किञ्चोक्तज्ञानस्य भ्रमत्वेऽप्यर्थान्तरमेव । तादृशभ्रमजनकाज्ञानस्य घटादिज्ञानेन स्वासमानविषयकेणानिवृत्तेः ।  त्वया तु स्वनिवर्त्यजन्यभ्रमान्यत्वस्यैव निवेशितत्वात् । भ्रमे स्वनिवर्त्यत्वजन्यत्वविशेषणवैयर्थ्यं च ।

न च सर्वज्ञानपूर्वकाले तादृशधर्मज्ञानस्यानुभवबाधितत्वान्न तमादाय साध्यपर्यवसानं भवतीति वाच्यम् ।  भ्रमस्यापि सर्वत्र पूर्ववृत्तिताया अप्यनुभवबाधित्वेन तमादायार्थान्तर-वारणासम्भवात्तद्विशेषणस्याप्यनुपादेयतापत्तेः ।

किञ्चाननुभवस्य विवादग्रस्तत्वात् तादृशधर्मज्ञानस्य प्रतिबन्धकतायाः क्लृप्तत्वात्तस्यैव सर्वत्रैव पूर्ववृत्तित्वं कल्प्यतामित्यर्थान्तरतोद्भाव्यते । यथा साध्यद्वयपक्षे पूर्वमसिद्धमपि एकैकप्रमयैकैकजीवब्रह्मविभागस्य निवर्त्यत्वं स्वविषयावरणत्वमपि क्लृप्तजातीयत्वेनैवा-स्त्वित्युक्त्वाऽर्थान्तरतामुद्भाव्य समानदेशत्वस्य प्रयोजनं वर्णितम् । तथैवास्माभिर्वाच्य-मानत्वात् । एतेन कार्यानुकूलशक्तिविघटकत्वरूपस्वप्रतिबन्धकत्वमाश्रित्य स्वविषयविषय-कस्फुरणशब्दाद्यन्यतमरूपव्यवहारानुकूलशक्तिविघटकत्वरूपस्वविषयावरणत्वविशेषणविकल्पेन साध्यद्वयाङ्गीकारेणोक्तानुमानाभिप्रायवर्णनमप्यपास्तम् । उक्तधर्मज्ञानमादायार्थान्तरताया दुर्वारत्वात् ।

अपि च प्रथमसाध्ये स्वजनकादृष्टं यत्किञ्चिद्धटादिज्ञानं स्वपूर्वस्थितमुपादायार्थान्तरता स्फुटैव । द्वितीयसाध्ये समानदेशत्वप्रयोजनार्थं यज्जीवब्रह्मविभागमादायार्थान्तरमुक्तं तत्समानदेशत्वदानेनापि कथं निरस्तम्? अक्लृप्तस्वविषयावरणत्वकल्पनाय समानदेशत्वमभ्यु-पगम्य तत्रार्थान्तरस्य वक्तुं शक्यत्वात् ।

यदप्येतत्प्रस्तावेऽज्ञानस्य प्रतिबन्धकत्वसमर्थनपूर्वकं साध्यद्वयं वर्णितम् । तदप्ययुक्तम् । प्रमाया एव स्वविषयस्फुरणरूपतया तन्निष्ठव्यवहारानुकूलशक्तिविघटकत्वस्याज्ञानेऽङ्गीकारे तन्नाशं विना प्रमानुदयप्रसङ्गेन तस्य स्वनिवर्त्यत्वानुपपत्तेः । तथा च विज्ञानविलाप्यत्वरूपा- विद्यालक्षणाक्रान्तत्वाभावादनुमानस्यार्थान्तरता निवर्त्यत्वस्यान्यथा परिष्कारेऽपि दुर्वारा ।

यदि चालोकविषयस्याप्रसिद्ध्या दृष्टान्ते साध्यवैकल्यपरिहाराय स्वविषयावरणेत्यस्य स्वप्रयुक्तव्यवहारप्रंितबन्धकत्वमर्थः । व्यवहारश्च शब्दरूप एव साध्येऽनिविष्ट एवेत्युच्यते । तदप्ययुक्तमेव । अज्ञानस्य ज्ञानसाध्यशब्दव्यवहारानुकूलशक्तिविघटकत्वे स्फुरणानुकूलविषय-निष्ठशक्तिविघटकत्वे  च मानाभावात् । यत्कार्यं प्रति यस्य प्रतिबन्धकत्वमुच्यते तदभावाति-रिक्तनिखिलकारणसद्भावे तत्सत्ताकाले तत्कार्यानुत्पत्तिरेव तस्य प्रतिबन्धकत्वं गमयति । न चेह तथाऽस्ति । इन्द्रियसन्निकर्षादिकं विना घटोऽस्तीत्यादिप्रतीत्यनुदयेनेन्द्रि-यसन्निकर्षादेः प्रत्यक्षस्थले, शाब्दादिस्थले च शब्दादेरावश्यकतया तत्सत्ताकालेऽज्ञानाधीनकार्यशक्ति-विघटनस्य कस्याप्यननुभवात् । रजतादिभ्रमहेत्वज्ञानसत्वेऽपि प्रत्युत इदमस्तीदं भाति इति इदमाकारे तज्जननाच्च ।

न चेदंत्वाकारेऽविद्याभावादेव तत्स्फुरणमुपपद्यत इति वाच्यम् । भ्रमव्यावृत्ताकाराभानेऽपि अस्ति भातीत्यादिव्यवहारविषयीभूतास्तित्वभानयोः सामान्याकारनिष्ठयोरेव स्फुरणात् तत्राज्ञानस्य प्रतिबन्धकत्वं निर्युक्तिकम् । शब्दरूपव्यवहारे अविद्यायाः प्रतिबन्धकत्वल्पनं सुतरां निर्युक्तिकम् । तद्विषयकाज्ञाननाशस्यैव तद्विषयकवाक्यादिरूपव्यवहारकारणत्वे तादृशवाक्यप्रयोगेष्टसाधनत्वग्रहतदिच्छादिकं विना वाक्यप्रयोगापत्तेस्तदर्थं तेषामवश्य-कारणत्वाभ्युपगमे कर्तव्ये तद्विषयकेष्टसाधनताज्ञानेच्छादिकाले अज्ञानेन विघट्यमानशक्ति-कस्यकारणस्यादर्शनात् । एवमालोकसंयोगावच्छेदकदेशावच्छिन्नचक्षुःसंयोगादिरूपकारणा-भावादेव घटादिचाक्षुषतत्साध्यव्यवहाराद्यनुत्पत्तिसम्भवे तमसोऽपि तत्रोक्तप्रतिबन्ध- कत्वमयुक्तमेव । तथा च दृष्टान्ते पक्षे च साध्योपपादनाभावाद्दृष्टान्ते साध्यवैकल्यं बाधश्च ।

किञ्च स्वप्रयुक्तव्यवहारेत्यनेन स्वोपधेयव्यवहार इति निवेशोऽथवा स्वनिष्ठस्वरूपयोग्यता-रूपकारणताकव्यवहार इति निवेशः ? नाद्यः । यादृशज्ञानव्यक्तौ सत्यां व्यवहारो न जनितः तादृशप्रमाणज्ञाने पक्षीभूते अभावेनांशे बाधात् । अप्रकाशितार्थप्रकाशकेन यादृशालोकेन व्यवहारो न जातः तादृशाऽऽलोके स्वघटितसाध्याभावेन व्यभिचाराच्च । न द्वितीयः । यादृशादृष्टं स्वजनकस्वसमानविषयकज्ञानान्तरप्रंितबन्धद्वारा तत्साध्यव्यवहारविरोधि तादृश-व्यवहारस्यापि स्वनिष्ठस्वरूपयोग्यताकतया स्वनिवर्त्यतादृशादृष्टमादायोद्देश्यासिद्धेर्दुर्वारत्वात् ।

न च पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्दश्यत्वात् सर्वप्रमाणज्ञाने पूर्वं तादृशादृष्ट-सद्भावे मानाभावात् नोद्देश्यासिद्धिरिति वाच्यम् । तथात्वे सर्वत्र स्वप्रतिबन्धकादृष्टसद्भावे मानाभावेनार्थान्तराभावात् स्वनिवर्त्यत्वविशेषणवैयर्थ्यापत्तेः । एकत्र क्लृप्तजातीयेनैव सर्वत्रोपपत्तौ नापूर्वाविद्यासिद्धिरिति तद्विशेेषणदानमिति चेत् तर्हि तद्दानेऽप्युक्तरीत्या तदसिद्धिर्दुर्वा.रैव ।

किञ्च यादृशमहातमसि अल्पलोकेन किञ्चित्तमोऽपगमेन विषयप्रत्यक्षं तादृशालोके व्यभिचारः । स्वनिवर्त्यमहातमसः स्वानवच्छेदकदेशानवच्छिन्नत्वाभावादधिकदेशावच्छेदेनैव चिति तमसस्तादात्म्येन सत्वात् ।

न च पटस्य भागविशेषस्येव तमसो भागस्यैव तावन्मात्रदेशानवच्छिन्नत्वाभावात्तमादाय साध्यसम्भव इति वाच्यम् । ‘अन्धकारेणार्थान्तरवारणाय स्वनिवर्त्यपदमिति केचित्’ इत्यद्वैतसिद्धिव्याख्यावसरे मतान्तरदूषणार्थं ‘अन्धकारवृत्त्योः समानदेशत्वाभावादेव वारणात्’ इत्युक्त्वा तदुपपादनाय ‘प्रकृते समानदेशत्वं न यथाश्रुतं किन्तु स्वानवच्छेदक-देशानवच्छिन्नत्वत्वंं’ इति परिष्कृत्य ‘तत्प्रकृते न घटत’ इत्युक्त्वा, न च तमोऽवयवस्तथा भवतीति वाच्यम् । तमसः सावयवत्वे मानाभावात् । स्वल्पदेशस्थालोकेन बहुदेशस्थतमो नाश्यते किन्तु तदैवालोकासंयुक्तदेशे तमोन्तरमुत्पन्नं तत्रानुभूयते । दृष्टान्तस्तु स्वान्यूनवृत्तितमोनाशकालोको भविष्यति, इति त्वयैवोक्तत्वेनोक्तरीत्या व्यभिचारस्य परिहर्तुमशक्यत्वात् ।

न च न प्रकाशत इति व्यवहारविषयप्रतियोगिकनाशप्रयोजकत्वे सतीत्यत्र स्वानवच्छेद-कदेशानवच्छिन्नत्वं व्यवहारविषयविशेषणं दीयते । उक्ततमश्च नोक्तालोकानवच्छेद-कानवच्छिन्नमिति न व्यभिचारप्रसक्तिः ।

आलोकप्रागभावज्ञानप्रागभावादीनां तु तथात्वान्नासिद्धिरिति वाच्यम् । एवमप्युक्ता-लोकस्य स्वप्रागभावनाशाकत्वमुपादाय व्यभिचारापरिहारात् । सर्वत्रालोकप्रागभावस्य तावदालोकानवच्छेदकदेशावच्छिन्नत्वं वर्तते । तथाहि । वृक्षे संयोगोत्पत्तेः प्राक् अत्र शाखायामेतद्भागे कपिसंयोगो नास्ति एतद्भागे कपिसंयोगो नास्तीति कपिसंयोगप्रागभावः संर्वभागावच्छेदेन प्रतीयते । तत्प्रतीतेर्बाधाभावात् कपिसंयोप्रागभावस्य सर्वदेशावच्छिन्न-त्वमङ्गीकार्यम् । संयोगोत्पत्त्यनन्तरं च स एकभागावच्छेदेनैव प्रतीयत इति यथा संयोगप्रागभावस्य संयोगानावच्छेदकावच्छिन्नत्वं एवमत्र प्रकाशोत्पत्तेः प्रागेतद्भागे प्रकाशो नास्त्येद्भागे प्रकाशो नास्तीति प्रतीत्या प्रकाशप्रागभावस्यापि तथात्वमवर्जनीयमेव ।

एवं प्रतिदिवसं जाग्रत्सुषुप्त्योरन्तःकरणानामुत्पत्तिविलयाभ्यां भिन्नत्वेनोक्तरीत्येदानीमहं न तादृशज्ञानवान् इत्यादिप्रतीत्या, ज्ञानं यदन्तःकरणावच्छेदेन जायते तदन्यान्तःकरणा-नामपि ज्ञानप्रागभावावच्छेदकत्वं सिध्द्यति । एवं चाज्ञानसिद्धेः प्राक् तादृशज्ञानप्राग-भावालोकप्रागभावादिकमादाय पक्षदृष्टान्तयोर्हेत्वसिद्धिरेव । न चोक्तप्रतीतिरत्यन्ताभाव-विषयिणी । प्रागभावप्रतीतिस्तु अत्रैवं भविष्यतीत्याकारा सामान्यावच्छेदेन जायमाना भ्रान्तिरेवेति वाच्यम् । अज्ञानप्रत्यक्षत्वोपपादनावसरे उक्तप्रतीतेः प्रागभावविषयकत्वस्य त्वयैव निरस्तत्वात् ।

न च नञुल्लेख्यप्रतीतिरव्याप्यवृत्त्यत्यन्ताभावविषयिण्येव भविष्यतीति प्रतीतिरेव प्राग-भावसाधिकेति मतेनैवेदमनुमानमिति वाच्यम् । युक्त्यसहैतन्मतमूलकानुमानस्य सिद्धान्त-सिद्धाज्ञानसाधनाक्षमत्वात् । किं चोक्तप्रतीतिषु नञुल्लेख्यस्याव्याप्यवृत्त्यत्यन्ताभावरूपत्वं चेन्न प्रकाशत इति व्यवहारविषयस्यापि तत्वेन तन्नाशघटितहेत्वसिद्धिः । न च प्रकाशो भविष्यतीति व्यवहारविषयप्रतियोगिकनाशत्वेनैव निवेश्यत इति वाच्यम् । पूर्वोक्ताल्पालोके व्यभिचारापरिहारात् । प्रकाशवत्यपि प्रकाश्यमानप्रकाशान्तरप्रागभावस्यापि तादृशप्रतीति-विषयत्वेन तन्नाशप्रयोजकद्वितीयादिप्रकाशेषु व्यभिचाराच्च । एतेनालोकप्रागभावज्ञान-प्रागभावान्यतरत्वेन निवेशतात्पर्येणेयमुक्तिरित्यपास्तम् ।

किञ्च प्रागभावस्य प्रतियोग्यवच्छेदकदेशाच्छेदेनैव स्थित्यङ्गीकारे कपालाद्युत्पत्तेः प्राक् प्रागभावस्य चित्यनवच्छिन्नवृत्तिव्यस्यैवापातः । तथा च तदुत्पत्त्यनन्तरमपि तथैवावस्थानं स्यात् । उत्तरकाले तदवच्छिन्नवृत्तित्वेमानाभावात् । तदवच्छिन्नवृत्तित्वोत्पादकानुप-लभ्यमानसामग्रीकल्पने गौरवाच्च । न च घट एतत्प्रदेशे प्रकाशो भविष्यतीति प्रतीतिर्मानमिति वाच्यम् । तत्प्रतीतेरुक्तगौरवादिभयेन तद्भागावच्छेदेन विद्यमानप्रकाश-प्रतियोगिकप्रागभावस्य घटवृत्तित्वावगाहित्वोपपत्तेः । नन्वस्तु प्रागभावादेरनवच्छिन्न(वृत्ति)त्वं का क्षतिरिति चेत् तथात्वे प्रागभावे तादृशविशेषणस्याव्यावर्तकत्वापत्त्या हेतौ

तन्निवेशायोग एव ।

किञ्च पूर्वमनुभूतस्यापि कुतश्चित्कारणात् झडिति संस्कारानुद्बोधे इदानीं घटो न प्रकाशते इत्यादिव्यवहारस्य सर्वानुभवसिद्धत्वात् बलवदालोचनाद्यधीनस्मृत्यनन्तरं शाब्दानु-मित्याद्यनन्तरमिव इदानीमर्थप्रकाशो जात इति व्यवहाराच्च स्मृतिप्रागभावस्यापि न प्रकाशत इति व्यवहारविषतया तदुपादाय स्मृतावपि हेतुसत्वात्तत्र व्यभिचारो दुर्वार एव । एवं चक्षुषस्तेजस्त्वात् ज्ञानप्रागभावनाशप्रयोजकत्वाच्च न प्रकाशत इति व्यवहारविषय-प्रतियोगिकनाशप्रयोजकत्वसत्वात् प्रकाशपदवाच्यत्वसत्वाच्च व्यभिचारः ।

न च तेजःसामान्यं न प्रकाशपदवाच्यं, किन्तु तेजोविशेष आलोको ज्ञानं चेत्युभयमेवेत्यत्र किञ्चिन्मानमस्ति । ज्योतिस्तेजःप्रकाशशब्दानां शास्त्रकारैस्तेजस्येव प्रयोगात् । नाशजनकत्वविवक्षया ज्ञानद्वारा परम्परया प्रयोजके चक्षुषि व्यभिचारवारणे सन्निकर्षादावपि तत एवाव्यभिचाराद्विशेष्यपदवैयर्थ्यम् । इष्टापत्तौ च न प्रकाशत इति व्यवहारविषयप्रतियोगिकनाश(जन)कतावच्छेदकरूपवत्वरूपद्वितीयहेतावेव पर्यवसानं स्यात् । तथा च हेतुद्वयकथनमप्ययुक्तमेव ।

द्वितीयहेतुरपि दुष्ट एव । पूर्वौक्तालोकविशेषयोः स्मृतौ च व्यभिचारस्य पूर्वोक्तरीत्या दुष्परिहरत्वात् ।

न च स्मृतित्वं न नाशकतावच्छेदकमिति वाच्यम् । प्रागभावनाशप्रतियोगिनोः कार्यकारणत्वाङ्गीकारपक्षेऽपि तत्प्रागभावनाशं प्रति तत्प्रतियोगिनस्तद्व्यक्तित्वेन कारणतेति रीत्या विशेषकार्यकारणभावस्य, सामान्यकार्यकारणभावापेक्षायां तु कार्यत्वेन स्वप्राग-भावनाशं प्रति स्वस्य कारणता इत्येवं रीत्या सामान्यकार्यकारणभावस्यैव च उचितत्वेन, प्रमाप्रागभवनाशत्वावच्छिन्नं प्रति प्रमात्वेन, एतद्दिवसीयैतत्पुरुषीयप्रमाप्रागभावनाशं प्रत्ये-तत्पुरुषीयैतद्दिवसीयप्रमात्वेनेत्यादिरीत्या अनन्तकार्यकारणभावे मानाभावेन प्रमात्वालोक-त्वादेरपि नाशकतावच्छेदकत्वाभावसाम्यात् । प्रमालोकादिनिष्ठतद्व्यक्तित्वादिकमादाय तत्र हेतूपपादने तथैव स्मृतौ हेतुसम्भवात् । एवमपि मध्यपतितकार्यकारणभावाङ्गीकारे तथैव स्मृतित्वस्य नाशकतावच्छेदकत्वसम्भवात् । स्मृतिप्रागभावस्य न प्रकाशत इत्यादिव्यवहार-विषयत्वमुपपादितमिदानीम् । प्रतियोगिनः प्रागभावनाशकत्वपक्षे उक्तहेत्वसिद्धिरेवाज्ञानसिद्धेः प्रागिति ।

दृष्टान्तीभूतालोकप्रमैतदन्यतरत्वं हेतुरिति त्वत्यन्तासमञ्जसम् । तथात्वे यादृशालोकेषु पदार्थान्तरेषु वा साध्याभावो वर्तते तद्व्यक्तिप्रमान्यतरत्वहेतुना तद्दृष्टान्तेन प्रकृतसाध्याभाव-साधनस्यातिसुलभत्वेनानन्तसत्प्रतिपक्षकवलितत्वात् । त्वदुक्तमर्थं न जानामीत्यादिप्रत्ययानां विषयनिरूपणान्यथानुपपत्तिरूपानुकूलतर्कसचिवस्थापनानुमानमिति चेन्न । तद्विषयस्य निरूपितत्वेन तर्कानुत्थानात् । अत एव पूर्वोक्तहेतवोऽप्रयोजका एव । तृतीयहेतोः आभाससाम्यमपि । सर्वस्मिन्नुक्तरीत्या सर्वस्यापि साधनसौलभ्यात् ।

एवमनुमानत्रयेऽपि तमोनाशकत्वमुपाधिरित्यपि वक्तुं शक्यम् । स्वाप्नभोगानुकूल-कर्मक्षयोत्तरं मनोलये सति स्वसामग्रीवशाज्जायमानायां सौषुप्ताविद्यावृत्तौ स्वाप्नबुद्धेः प्रतिबन्धकत्वे मानाभावेन तद्द्वारा व्यवहारप्रतिबन्धकत्वस्य सुतरामसम्भवेन सुखाकार-सौषुप्तिकवृत्तौ स्वविषयावरणत्वस्वनिवर्त्यत्वघटितसाध्यस्यैवाभावेन साध्यव्यापकत्वभङ्गस्य तत्रोक्त्यसम्भवात् । अन्यथा जागरोत्तरं क्वचित्सुषुप्तेरेव क्वचित्स्वप्नस्यैव क्वचित्स्वप्नोत्तरमेव जागस्य जननात् सर्वत्र सर्वस्यापि प्रतिबन्धकत्वापातेनाप्रामाणिकमहागौरवापत्तेः । पूर्वज्ञानसामग्रीकाले स्वसामग््रयभावमात्रेण पूर्वज्ञानानामुत्तरज्ञानविषयावरणत्वं त्वदुक्त्यैव लभ्यं स्यात् । तथा च सर्वेषु प्रमाणज्ञानेषु स्वपूर्वोत्पन्नयत्किञ्चिज्ज्ञानेच्छाप्रयत्नाद्यन्यतममादाय  साध्योपपादनसम्भवादज्ञानासाधकत्वमुक्तानुमानस्य स्फुटमेव । एवमनुकूलतर्काभावान्न्याया-मृतोक्तप्रतिपक्षाभाससाम्यादिदोषा निराबाधा एवेत्येलम् ।

एतेन तत्वप्रदीपिकोक्ते, चैत्रप्रमा चैत्रनिष्ठप्रमाप्रागभावातिरिक्तानादिनिवर्तिका प्रमात्वात् मैत्रप्रमावत् । विगीतो भ्रमः एतज्जनकाबाध्यातिरिक्तोपादानकः विभ्रमत्वात् सम्प्रतिपन्नवत् । इत्यनुमाने माने । अत्रान्तःकरणवृत्तिनिष्ठवैजात्यमेव प्रमात्वमनुगतं पक्षतावच्छेदकं तेन रूपेणैव साध्यकोटिनिविष्टं च । अतः सुखादिविषयकज्ञानेषु अविद्यावृत्तिरूपेषु न बाधः । नापि विषयाननुगमप्रयुक्तप्रमात्वाननुगमेन पक्षतावच्छेदकालाभश्च । चैत्रनिष्ठत्वं प्रमायां तत्प्रागभावे वा विशेषणम् । न त्वनादिपदार्थे । मैत्रप्रमायाः चैत्रनिष्ठानादिनिवर्तकत्वाभावेन दृष्टान्ते साध्यवैकल्यापत्तेः । साध्यशरीरे प्रमापदं तद्धटितसाध्यसिद्धेरुद्देश्यत्वादेवोक्तम् । नातिप्रयोजनकम् । प्रागभावातिरिक्तत्वोपादानमात्रेणाज्ञानसिद्धेर्निष्प्रत्यूहत्वात् । प्रमाऽभाव-मात्रनिवेशे भेदस्य धर्मिस्वरूपत्वेन सर्वस्यापि प्रमाप्रतियोगिकभेदरूपाभावत्वेन तदतिरिक्ताद्यसिद्धिः । अतः प्राक्पदम् । इदं च प्रागभावत्वमखण्डोपाधिरिति पक्षे ।  यदा तु प्रागभावत्वं स्वप्रतियोगिजनकाभावत्वं तदा प्रागभावत्वशरीरे लाघवेनाखण्डाभावत्वनिवे-शादज्ञानस्यापि स्वाभावाभावरूपत्वेन तादृशाभावत्ववत्वाद्बाधः स्यादतः प्रमापदं प्राक्पदं च । तेन च प्रमारूपस्वप्रतियोगिजनकोऽभाव इति लभ्यतेऽतो न कस्यापि वैयर्थ्यम् । प्रमायाः प्रमाप्रागभावस्य वा चैत्रनिष्ठत्वं चैत्रात्मानुयोगिकाध्यासिकतादात्म्यरूपं वर्तत एव । अन्तःकरणस्य प्रमां प्रत्युपादानत्वमिव तदुपहितात्मनोऽप्युपादानत्वात् । तेन समवायानङ्गीकारेऽपि न क्षतिः । हेतुभूतमपि प्रमात्वं तादृशवैजात्यमेवातो न तत्र कृत्यविचारावसरः ।

भ्रान्तौ व्यभिचारवारणाय हेतौ प्रपदमिति सुधापरिमलकृतः । तेषामयं भावः । साध्ये प्रमापदस्यानतिप्रयोरनकत्वेन तत्परित्यागपक्षे सुखाद्याकाराविद्यावृत्तौ स्मृतौ चैत्रीय-रजतादिविभ्रमे च चैत्रनिष्ठप्रागभावातिरिक्तानादिनिवर्तकत्वरूपसाध्याभावाद्व्यभिचारः । प्रमापदार्थनिवेशेऽप्यनाद्यविद्योपहितचित एव साक्षित्वं तस्या एवाविद्यासुखादिज्ञानरूपत्वेन तस्यानादिनिवर्तकत्वाभावादेव व्यभिचारः । परमते साक्षिणो भ्रमत्वेन भ्रान्तिपदेन तस्यैव विवक्षितत्वात् । प्रपदोपादाने तु अन्तःकरणवृत्तिवैजात्यस्यैव हेतुतावच्छेदकत्वलाभात् न व्यभिचार इति । चैत्रवृत्तिप्रमाभ्रमोभयात्मकज्ञाने  व्यभिचारवारणाय प्रपदम् । तेन भ्रमभिन्नत्वलाभाच्च न व्यभिचार इति केचित् ।

द्वितीयानुमाने च विगीतो भ्रम इत्यस्य चैत्रभ्रम इत्यर्थः । साध्ये चैतद्भ्रमश्चैत्रभ्रमः तज्जनकं यदबाध्यं तदतिरिक्तोपादानक इत्यर्थः । सम्मतवदिति मैत्रीयभ्रमवदित्यर्थः । चैत्रभ्रमजनकमबाध्यं चैत्रात्मरूपं वस्तु, तदन्यो मैत्रात्मा, तदुपादानकत्वं मैत्रभ्रमे वर्तते । उपादानकारणस्यैव नैयायिकैः समवायिकारणत्वेन भाषितत्वात् । पक्षे तत्सिद्धिश्च नाज्ञानं विना घटते । प्रागभावदोषादेर्भ्रमोपादानत्वाभावेनोपादानीभूतस्यात्मातिरिक्ताविद्याख्यवस्तुनः सिद्धेः । दृष्टान्ते मैत्रभ्रमे अबाध्यातिरिक्तोपादानकत्वस्याविद्यासिद्धेः प्रागसिद्धतया दृष्टान्ते साध्यवैकल्यं स्यादतो जनकान्तम् । एतज्जनकान्यत्वमात्रनिवेशे स्वस्मिन्स्वजनकान्यो-पादानकत्वं बाधितं स्यादतोऽबाध्यान्तस्य प्रतियोगिकोटौ निवेशः । स्वप्रतियोगिनः प्रागभावध्वंसजनकत्वमते प्रथमानुमानम् । तदनङ्गीकारे बाधापत्तेर्द्दष्टान्ते साध्यवैकल्या-पत्तेश्च । निवर्त्यत्वस्य पूर्वोक्तरीत्यनुसरणे च प्रमाद्यद्वितीयक्षणयोर्नश्यमानवायुसंयोग-प्रागभावादिकमादायार्थान्तरता स्यादतो द्वितीयानुमानम् । तेन च प्रागभावदोषादि-व्यावृत्तभ्रमोपादानरूपाज्ञानपुरस्कारेणैव तत्सिद्धिः इत्यपास्तम् ।

अनुकूलतर्काभावेनोक्तहेत्वोरप्रयोजकत्वात् । प्रथमानुमाने साधनावच्छिन्ने साध्ये चैत्रासमवेतत्वस्य चैत्रान्यसमवेतत्वस्य वोपाधित्वात् । चैत्रप्रमा चैत्रप्रमाप्रागभावातिरिक्त-चैत्रनिष्ठानादिनिवर्तकत्वाभाववती प्रमात्वात् । मैत्रप्रमावत् । चैत्रप्रमा चैत्रगताभावातिरिक्ता-नादिनिवर्तिका न प्रमात्वान्मैत्रप्रमावत् इति सत्प्रतिपक्षत्वाच्च । अनुमानद्वये अतिरिक्तान्तं चैत्रनिष्ठानादावेव विशेषणम् । विरोधिविषयत्वमात्रेणानयोः सत्प्रतिपक्षता ।

न च प्रथमानुमाने निवर्तकत्वान्तस्य प्रतियोगिनः चैत्रसुखदुःखादौ प्रसिद्धिसम्भवेऽपि द्वितीयानुमाने निवर्तकत्वान्तस्य अज्ञानसिद्धिं विना न प्रसिद्धिरिति वाच्यम् ।  अप्रसिद्धप्रतियोगिकाभाववादेऽभावसाधने प्रतियोगिप्रसिद्धेरनपेक्षणात् । न च मयाऽप्रसिद्धप्रतियोगिकाभावानङ्गीकारान्मम त्वदनुमानान्नानुमितिरिति वाच्यम् । सर्वत्र वादिप्रतिवादिनोः स्वस्वपक्षदृढनिश्चयवतोः परस्परानुमानसाध्यानुमित्यनाश्रयत्वेन मध्यस्था-नुमितिप्रतिबन्धादेरेव साधनदूषणफलत्वेन तस्य भवन्मतमात्रानुसारित्वे नियमाभावेन लोकानां परस्परलौकिकव्यवहारानुसारेणोक्तन्यायप्रयोगोपपत्तेः । न हि लोका नैयायिकं प्रति शशविषाणादिकं नास्तीति न वदन्ति, तछ्रवणेन बोधो वा नैव जायते ।

सत्यम् । शशे विषाणं नास्तीत्यत्रैतद्वाक्यतात्पर्यं कल्पयतीति चेत् तर्ह्यत्रापि चैत्रप्रमाजन्यध्वंसः तत्प्रतियोगिता वा चैत्रनिष्ठो योऽभावान्यः प्रागभावान्यो वा अनादिः तत्प्रतियोगिकत्वाभाववान् तन्निष्ठत्वाभाववती वा प्रमाजन्यध्वंसत्वात् तन्निरूपितप्रतियोगि-तात्वाद्वा मैत्रप्रमाजन्यध्वंसवत् प्रतियोगितावद्वा इत्यत्र तात्पर्यमवैहि । प्रथमसाध्यघटक-पतियोगिप्रसिद्धिश्चैत्रनिष्ठो य आत्मत्वादिस्तत्प्रतियोगिकभेदेऽत्यन्ताभावे चेति न काप्यनु-पपत्तिः । भ्रमपक्षकानुमानेऽप्यनयैव दिशा सत्प्रतिपक्षादिकमूह्यम् ।

किञ्च शुद्धचित एवाबाध्यत्वात्तस्याः किञ्चिदपि प्रत्यजनकत्वात् प्रतियोग्यप्रसिद्ध्या त्वदुक्तसाध्याप्रसिद्धिः । न चान्तःकरणोपहितचितः शुद्धचिदैक्यात्तस्या अप्यबाध्यत्वमिति वाच्यम् । उपहितस्य मिथ्यात्वेन तत्स्वरूपैक्यायोगात् । तत्तादात्म्यमात्रेण तथात्वे अविद्याया अपि चित्यारोपितत्वादेवाबाध्यत्वापत्त्या एतज्जनकाबाध्यातिरिक्तत्वाभावेन मैत्रात्मन एव तथात्वापत्त्या चैत्रीयभ्रमे तदुपादानकत्वाभावाद्बाध एव । एवमुपादानत्वं समवायिकारणत्वं चेत्स्वमतेऽप्रसिद्धिः । परिणामित्वं च नैयायिकस्याप्रसिद्धमिति द्रष्टव्यम् । एवं नवीनाभिमतानि औतसिध्द्युक्त्तानि ‘विमता प्रमा प्रमाप्रागभावातिरिक्त्तस्या- नादेर्निवर्तिका कार्यत्वाद्घटवत्, ज्ञानत्वात् भ्रमवत् । इत्यादीनि अप्रयोजकत्वाभास-साम्यसत्प्रतिपक्षत्वादिदुष्टत्वादनुपादेयानीत्यलम् ।

यत्त्वद्वैतचन्द्रिकाकारेण अनिर्वचनीयवादार्थेऽज्ञानसाधनाय बहूक्तम् । ‘इदं रजत-मित्यादिभ्रमं प्रति रजतभेदवदिदन्त्वावच्छिन्नचाक्षुषनिश्चयत्वावच्छिन्नाभावस्य तादृशनिश्चय-सामग्रीत्वावच्छिन्नाभावस्य च कारणत्वस्य भवतामावश्यकत्वात् तत्रेदंविशेष्यकरजतभेद-प्रकारकत्वतत्प्रकारकेदंविशेष्यकत्वादिना विनिगमकाभावेन प्रतियोगिनिवेशप्रयुक्तबहुतरकार्य-कारणभावापत्तिरतोऽज्ञानमेकं कल्पनीयम् । तथात्वे तादृशनिश्चयकालेऽविद्यारूपकारणा-भावादेव न तदापत्तिः, इत्यादिना । तत्तु अनिर्वचनीयनिराकरणप्रक्रियायां कारणतायाः शक्तिरूपत्वात् तन्निरूपितस्वरूपसम्बन्धरूपावच्छेदकत्वादेरप्रामाणिकत्वेन तत्प्रयुक्तगौरवा-प्रसक्तेरनतिरिक्तवृत्तित्वरूपस्य चावर्जनीयत्वात् तादृशनिश्चयाभावादेः कारणत्वकल्पनमेव वरं अज्ञानरूपव्यक्त्यन्तरस्य तद्ध्वंसादेश्चानयोः कारणत्वकल्पने गौरवमित्यादिरीतिदर्शनेन निरस्तप्रायमेव ।

किञ्चानया रीत्या गौरवभिया पूर्वमक्लृप्तमेव यत्किञ्चिद्वस्तु यदि कारणत्वेन कल्प्यते तदोत्तेजकाभाविशिष्टमण्यभावकारणतायामुक्तरीत्या दोषसद्भावादक्लृप्तमेव किञ्चित्कारणं परिकल्प्यताम् । मण्यादिसमवधाने तदभिभवस्वीकारान्न दाहाद्युत्पत्तिरन्यथा वह्नेस्तत्संयोगस्य कालादृष्टादीनां बहूनां कारणत्वं स्यादिति सर्वत्राज्ञानादिसदृशपदार्थान्तरसिद्ध्यापत्तिः । किञ्च बाधनिश्चयाभावादीनां प्रमानुमितौ हेतुतया तत्रापि त्वदुक्तयुक्त्याऽज्ञानहेतुकताप्रसङ्गेन तस्याः शुक्तिरजतादिज्ञानतुल्यतापत्तिः । वस्तुतोऽप्रामाण्यस्यास्वतस्त्वाद्दोषविशेषादिकाले  कारणेष्वेव चक्षुरादिषु भ्रमजनकशक्तेरुत्पत्या भ्रमो जायते । उक्त्तबाधनिश्चयादिकाले भ्रमस्यैवानुत्पत्त्यातच्छक्तिकल्पने मानाभावात्तच्छक्त्यभावादेव भ्रमानुत्पत्तेः सम्भवे, तत्रोक्त-बाधनिश्चयादेः स्वकारणमात्राधीनस्य प्रमारूपस्य भ्रमजननशक्तिविघटकत्वाप्रसक्तेः तत्स्थ-लीयविनिगमनाविरहादिवारकतयाऽज्ञानकल्पनमसम्बद्धमेवेत्यादिदूषणमतिरोहितमेवेति ग्रन्थगौरवभयादुपरम्यते ।

।। भावरूपाज्ञानेऽर्थापत्तिप्रमाणनिरासः ।।

‘‘नन्वर्थापत्त्याऽज्ञानसिद्धिः । तथा हि । ब्रह्म निरवधिकानन्दात्मकं जीवस्वरूपमिति श्रुत्यादिसिद्धम् । जीवस्वरूपस्य भासमानत्वेप्यानन्दाप्रकाशस्तावदनुभवसिद्धः । तदर्थमविद्या तन्निर्वाहिका कल्पनीया । तथा च निर्भेदेऽपि चैतन्ये स्वरूपमानन्द इति वस्तुद्वय-कल्पनान्नानुपपत्तिः । न च वस्तुन एकत्वात् कथमेतदुक्तिसहमिति वाच्यम् । देहादिभेदस्या-त्मस्वरूपभूतस्य आत्मत्वाकारेण भासमानन्वेऽपि देहादिप्रतियोगिकत्वेनाभानवत् आकार-भेदेन तस्योक्तिसहत्वात् ।

किञ्च भ्रमोपादानत्वान्यथानुपपत्त्यापि तत्सिद्धिः । न चान्तःकरणपरिणामत्वमेवास्तु भ्रमस्येति वाच्याम् । अन्तःकरणपरिणामे प्रमाणव्यापारस्य सहकारित्वात्प्रकृते च प्राति-भासिकरजतस्य भ्रमसमकाल उत्पन्नत्वेन पूर्वं तत्र चक्षुःसंयोगाद्यभावेनान्तःकरणपरिणाम-त्वानुपपत्तेः । न च शुक्तिचक्षुःसंयोगस्यैव दोषसहकृतस्य तथात्वमस्त्विति वाच्यम् । एवमपि भ्रमस्य संयोगपरिणामत्वं दोेषपरिणामत्वमन्तःकरणपरिणामत्वं वेत्यत्र विनिगमकाभावेन भ्रमोपादानतयाऽविद्यासिद्धेर्निष्प्रत्यूहत्वात् । तर्हि प्रधानमेवास्तु तदुपादानमिति न शङ्क्यम् । तस्यमिथ्य•त्वे तस्यैव मायाऽविद्यात्वेन व्यवहृतत्वात् । सत्यत्वे तत्सवयवमुत निरवयवम्? आद्ये उत्पत्तिनाशापत्त्या तत्पूर्वं परतश्र लोके भ्रमानुपपत्तिः । निरंशत्वे ब्रह्मवत्परिणा-मित्वानुपपत्तिः ।

न चाविद्यापक्षेप्येतद्दोषसाम्यमिति वाच्यम् । दोषदुष्टत्वस्य सत्यत्वविरुद्धत्वेन मिथ्यात्वस्यैव साधकत्वात् । न च विवर्तरूपशुक्तिरूप्यादिकं प्रति ब्रह्मणः परिणा-मित्वायोगेन परिणामिकारणान्तरमिव ब्रह्मातिरिक्ताधिष्ठानान्तरं मिथ्याभूतं कल्प्यतामिति । वाच्यम् । परिणामित्वेऽनित्यत्वापत्त्यादिबाधकानामिवाधिष्ठानत्वे कस्यचिद्बाधकस्याभावे-नान्यस्य मिथ्याभूतस्याकल्पनात् ।

न चाविद्याया मिथ्याभूतत्वे दोषप्रयुक्तप्रतीतिविषयत्वमावश्यकम् । तच्च भवतां न सङ्गच्छते । अविद्योपहितचिद्रूपस्य साक्षिणोऽविद्याग्रहरूपस्यानादित्वादिति वाच्यम् । अविद्यावृत्तिप्रतिबिम्बितचित एव साक्षिरूपत्वेन तस्या एवाविद्याग्रहरूपत्वाभ्युपगमात् । अत एवोच्यतेऽविद्या राहुवत्स्वावृतचैतन्यप्रकाश्येति । भ्रमसामान्यस्याविद्यापरिणामतया तस्या एव साधारणदोषत्वेन, उक्तरूपस्य भ्रमस्याविद्यापरिणामत्वेन साधादणदोषजन्यत्वात् असा-धारणदोषजन्यत्वाभावेऽपि उक्तनियमाक्षतेः । अथ वाऽविद्याद्यनादिषु भ्रमजनकतावच्छेदको जातिविशेषः कल्प्यते । तद्विशिष्टाविद्यादिकमेवानादिविषयभ्रमजनकोऽसाधारणो दोषः । सुखादिविषये मन एव स्वपरिणामत्वसम्बन्धेन सुखादिनिष्ठो दोषविधया हेतुः । स्मृति-रूपाविद्यावृत्तिरूपभ्रमे तत्कारणीभूततत्तदुद्बोधकानामेव दोषत्वमुपगम्यत इति न कोऽपि दोषः । न चाविद्योपहितचित एवाविद्याभासकत्वमास्ताम् । किं तत्र वृत्त्यभ्युपगमेनेति वाच्यम् । समाध्यादिकालेऽविद्याभानवारणाय, तद्विषयकस्मृतिजनकसंस्कारसिद्धये च अविद्यावृत्त्यभ्युपगमादित्यविद्याप्रतीतेरप्युपपत्तिः’’ इति चेत् -

मैवम् । जीवस्य ब्रह्मणोऽत्यन्तभिन्नत्वेनानन्दप्रकाशप्रसक्तेरेवाभावेन प्रथमार्थापत्त्य-नवतारात् । किञ्चानन्दस्फुरणं नाम न तावत्तद्विषयकं ज्ञानम् । अखण्डस्वरूपे स्वभावतः सिद्धस्य विषयविषयिभावादेरनभ्युपगमात् । अविद्ययैव तत्प्रसक्त्यङ्गीकारेऽविद्यासदसद्भाव-योश्चित्यणुमात्रविशेषस्य निरूपयितुमशक्यत्वेनावरकत्वोक्तेर्वाङ्मात्रत्वापातात् । अन्यथा काशीस्थान्धकारोऽपि कौशाम्बीस्थघटावरक इति व्यवह्रियेत ।

न चेदानीमानन्दो न प्रकाशत इत्यादिज्ञानव्यवहारादिकार्यान्यथानुपपत्त्या तत्कारणा-ज्ञानकल्पनमिति वाच्यम् । तत्किं सत्यत्वेन गृह्यमाणं सत्कारणविशेषकल्पकमुतासत्वेन गृह्यमाणम् ? नाद्यः । कारणस्य मिथ्यात्वे स्वोत्पत्तेरेवायोगेनाव्रियमाणे विशेषाभावे आवरकत्वायोगेन चैतदन्यथानुपपत्तिसिद्धस्य कारणस्य सत्यत्वेनैव आव्रियमाणे स्वाभाविक-विशेषसत्वेनैव च सिद्धेः । सावयवत्वादिना प्राग्विकल्पितदोषाणां धर्मिग्राहकमानबाधेनैव निरस्तत्वेन प्रधानादिरूपस्य सत्यस्यैव सिद्ध्या त्वदभिमतसद्विलक्षणत्वेनासिद्धेः । कल्पक-कार्यस्य सद्विलक्षणत्वेन ग्रहे तादृशशशविषाणोत्पत्त्यादेः कल्पनानपेक्षत्वेन प्रत्युस कारणानुत्पत्त्यादिदूषणस्य मिथ्यात्वोपपादकत्वेन च कारणाकल्पनस्यैव प्राप्त्या त्वदभि-मतासिद्धेः ।

नापि द्वितीयार्थापत्तिरपि । मनस एव भ्रमरूपवृत्त्युपादानत्वोपपत्तेः । विषय-स्यासत्वेनोपादानानपेक्षणाच्च । न च मनसो वृत्त्युपादानत्वे विनिगमकाभाव उक्त इति वाच्यम् । तथात्वे इच्छां प्रति मनसो प्राणवायोर्वा शरीरगतमांसादेर्वोपादानत्वमिति विनिगमकाभावेनेच्छासामान्ये विसंवादीच्छायां वा अतिरिक्तकारणकल्पनापत्तेः । न च कामः सङ्कल्प इति श्रुत्या मनःकारणकत्वावधारणात्सर्वत्र संवादिविसंवादीच्छादिकं प्रति मनस एवोपादानत्वनिश्चय इति वाच्यम् । मनसो भ्रमहेतुत्वस्यापि तच्छ्रुत्यैव सामान्यतो धीग्रहणेनैव प्रमापितत्वात् कुतोऽन्यावसरः ।

यत्तु ‘आनन्दे प्रकाशमानत्वं नामानावृतत्वम् । तादृशानन्दो मोक्ष एव नेदानीमत आवरणरूपमज्ञानमपेक्षितम्’ इति । तत्तुच्छम् । एतावता अज्ञानं कुतः कल्पयसि? ‘वस्तुनस्तत्सत्वासत्वाभ्यां विशेषाभावात्’ इत्युक्तौ स्वाभावव्यवच्छेदार्थमेव स्वं कल्प्यत इत्युक्तं स्यात् । एवं सर्वत्रापि तादृशानां स्वाभावव्यवच्छेदार्थमेव कल्पनापातेनातिप्रसङ्गात् । एवमविद्यावृत्तिप्रतिबिम्बितचितः साक्षिताया अज्ञानप्रत्यक्षनिरासप्रस्तावे निरस्तत्वात् तदभ्युपमेनाविद्याप्रतीत्युपपादनमप्यसदेव ।

भ्रमस्य मनःपरिणामताया एवोपपादितत्वाद्भ्रमोपादानत्वघटितलक्षणमप्यसम्भवि । एवं ‘अनादित्वे सति भावरूपत्वे सति विज्ञानविनाश्यत्वं तल्लक्षणम्’ ।

अनादिभावरूपं यद्विज्ञानेन विलाप्यते’ ।

इति वचनात् । अत्रोत्तरज्ञानविनाश्यपूर्वज्ञानप्रागभावात्मस्वतिव्याप्तिवारणाय क्रमाद्वि-शेषणानि । न च निवर्त्यत्वमात्रेणात्मव्यावृत्तेः ज्ञानपदं व्यर्थम् । जीवब्रह्मवि-भागाधिकरणताया जीवत्वविशिष्टेश्वरत्वविशिष्टानामनादिभावानामज्ञाननिवृत्तिनिवर्तमानानां व्यावृत्तेर्ज्ञानपदप्रयोजनत्वात् । तेन स्वध्वंसमद्वारीकृत्य ज्ञाननिवर्त्यत्वरूपसाक्षान्निवर्त्यत्व-लाभात्’ इत्यप्यशुद्धम् ।

पटलान्धकारादिघटावरकनिवृत्त्यनन्तरमेव घटज्ञानदर्शनात् अस्यावरकत्वे तन्निवृत्त्य-नन्तरमेव घटज्ञानावश्यकतया ज्ञानेन तन्निवृत्तेरसम्भवदुक्तिकत्वात् । ज्ञानेनाज्ञानं नष्टमिति प्रतीतेर्ज्ञानप्रागभावविषयकत्वात् । न च स्वरूपज्ञानावरणं वृत्तिज्ञानेन नश्यत्येवेति वाच्यम् । स्वरूपे व्यवहारशक्त्याद्यभावेन तद्विघटकत्वादिकृत्याभावेन स्वरूपावरणस्य, वृत्तिज्ञान-विघटनद्वारैव व्यवहारविरोधितायाः कल्प्यत्वात् । एवं भावाभावविलक्षणत्वात्तस्य भावत्वादिकमसम्भवीत्येषा दिक् ।

।। भावरूपाज्ञानस्य श्रुतिस्मृतीतिहाससिद्धत्वनिरासः ।।

नन्वेतत्सर्वमयुक्तम् ? अज्ञानस्य श्रुतिस्मृतीतिहाससिद्धत्वेनोक्तदोषाणां तद्विरोधेनाभा-सीकरणात् । तत्सहितत्वादेव पूर्वोक्तप्रत्यक्षादिभिस्तत्सिद्धिर्भवति । तथा हि । छान्दोग्ये तावदष्टमाध्याये ‘तद्यथाऽपि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा’ इति । अत्रानृतशब्देनानिर्वाच्याविद्याया अभिधानात् । एवं

न तं विदाथ य इमा जजानाऽन्यद्युष्माकमन्तरं बभूव ।

 नीहारेण प्रावृता जल्प्या चाऽसुतृप उक्थशासश्चरन्ति’ ।।

इति ऋग्वेदे । अत्र नीहारशब्दस्य तत्सदृशार्थकतयाऽऽवरणभूताज्ञानसिद्धिः । एवं ‘तम आसीत्’ इति श्रुतिः । अत्र तमःशब्दस्याविद्यापरत्वात् । ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुतिः। ‘अजामेकां लोहितशुक्लकृष्णाम्’ इति श्रुतिः । ‘भूयश्चान्ते विश्वमायानिवृत्तिः’ इति श्रुतिः । अत्र विश्वपदस्य समस्तार्थकत्वात्  । मायापदस्य असत्त्वापादकाज्ञानाभाना-पादकाज्ञानसामान्यग्राहकत्वात् । एवं

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः’ ।

इति श्रुतिः । एवं ‘एषा माया खाव्यतिरिक्तानि परिपूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति’ इत्याद्याः श्रुतयः । ‘विभेदजनकेऽज्ञाने’ ‘तरत्यविद्यां विततम्’

भवत्यभेदो भेदश्च तस्याज्ञानकृतो भवात्’ ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ ।

मायामेतां तरन्ति हि’ इत्याद्याः पुराणेतिहासाः स्फुटमज्ञानप्रतिपादका इति चेन्न ।

 प्रथमवाक्येऽनृतपदेन दुष्कर्मणोऽभिधानात् ।

ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते’ ।

इति वचनेन ऋतशब्दस्य सुकृतवाचित्वेन तद्विरुद्धदुष्कर्मणः अनृतशब्देनाभि-धानसम्भवात् । न च दुष्कर्मण आवरकत्वानुपपत्तिः । न ह्यावरकत्वमत्र पटलादिवद्वेष्ट-कत्वादिकं विवक्षितम् । किन्तु सज्जीवनिष्ठभगवदपरोक्षोत्पत्तिबन्धकत्वम् । तदपि ज्ञानवैराम्यादिविघटकत्वादिनेति किमनुपपन्नम्? अत एव गीतायाम् -

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

 कामरूपेण कौन्तेय दुष्पूरेणानलेन च’ ।।

इति कामस्याप्यावरकत्वमुक्तम् । न च त्वदभिमताविद्याया अपरिच्छिन्नब्रह्मस्वरूपं प्रति जवनिकादिवदावरकत्वं सम्भवति । न च सुषुप्तौ कर्मणां कार्यरूपेण विनष्टत्वात् कारणरूपेण स्थितिर्वाच्या । तादृशकारणरूपमेवाविद्याशब्दितमिति वाच्यम् । सुषुप्तौ कार्यलयादेरप्रामाणिकत्वात् । कर्मणः कारणरूपेणावस्थानेऽपि तस्य भावाभावविलक्षण-त्वज्ञाननिवर्त्यत्वसविषयकत्वादित्वदभिमताविद्यालक्षणवत्त्वेनासिद्ध्या तस्याविद्यात्वे बीजा-भावात् । यथाश्रुतार्थस्यैवाङ्गीकारेण व्यपदेशाच्चेति गुणसूत्रस्यानारम्भ एव स्यात् ।

किञ्चैतं ब्रह्मलोकं न विन्दन्तीत्युक्तवेदनाभावः स्वरूपभूतज्ञानाभाव उच्यते उत वृत्तिरूपज्ञानाभावः ? नाद्यः । स्वरूपभूतज्ञानस्य स्वविषयकत्वप्रसक्त्यभावेन तत्राविद्याया आवरकत्वोक्त्यसङ्गतेः । न द्वितीयः । अविद्यावृत्तिरूपस्य चिद्विषयकस्य सुषुप्तावङ्गीकारेण तद्विरोधित्वानुपपत्तेः ।  अन्यथा स्वरूपसुखादिस्मरणानुपपत्तेः । न चान्तःकरणवृत्तिं प्रति प्रतिबन्धकत्वमिति साम्प्रतम् । अन्तःकरणस्य सुषुप्तौ प्रलीनत्वेन तज्जन्यस्य ज्ञानस्य तदानीमप्रसक्तेः । अन्यथा त्वन्तःकरणोत्पादनद्वारा ज्ञानहेतोस्तद्विरोधित्वानुपपत्तेः । अन्यथा अविद्याया अनादितः सत्वेन चरमवृत्तेरप्यनुत्पत्त्याऽविद्योच्छेदाभाव एव स्यात् । मन्मते च जीवस्वरूपस्य तदानीं अत्यन्तं ब्रह्मसान्निध्येऽपि मुक्ताविव स्वरूपज्ञानेन तत्प्रत्यक्षं कुतो न स्यादिति शङ्कापरिहाराय दुष्कर्मोपलक्षिलिङ्गदेहादीनां विरोधित्वोक्तेरतिश्लिष्टत्वात् ।

एवं ‘न तं विदाथ’ इति श्रुतावपि नीहारपदं नाविद्यावाचकम् । किन्तु नीहारसा-दृश्यादिना अविद्यायां गौणमेव । नीहारेण प्रावृता इवेति तूपमात्वे अन्यत्पदेनैवा-ज्ञानसिद्धिर्वाच्या । तथा च किमप्रसिद्धाविद्यास्वीकारेण? उक्तरीत्या तस्यावरकत्वायोगाच्च । तच्चाज्ञानं ज्ञानविरोधित्वेन कामकर्मादिकमेव ग्राह्यम् ।

‘............................. यथाऽदर्शो मलेन च ।

 यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्’ ।।

इत्यादिनाऽऽवरकत्वस्य सिद्धत्वात् । एवम् ‘अज्ञानेनावृतं ज्ञानम्’ इत्यत्रापि ज्ञानविरोधित्वेन कामकर्मादिकमेवोच्यते । श्रुत्यन्तरसमाख्यानात् ।

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

 तेषामादित्यवज्ज्ञानं प्रकाशयति..........’ ।।

इत्यत्र तृतीयान्तज्ञानपदेन परमात्मैवोच्यते । अन्यथाऽन्योन्याश्रयादिप्रसङ्गात् । ज्ञानपदं परमात्मवाचि । ‘सत्यं ज्ञानमनन्तम्’ इति श्रुतेः । तथा च परमात्मप्रसादेन तद्विषयक-श्रवणादिजनितपरोक्षज्ञानपूर्वकनिष्कामकर्मसाध्येन येषामपरोक्षज्ञानप्रतिबन्धककामादिकं नाशितं तेषां ज्ञानं ज्ञानसाधनमन्तःकरणं प्रकाशयति भगवत्स्वरूपं प्रकटयतीत्यर्थः ।

ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ’ ।

इति श्रुत्यन्तरसमाख्याबलादुक्तार्थो युक्तः । एवं ‘अविद्यायामन्तरे विद्यमाना’ इत्यादावप्युक्तकामकर्मादिपरमेव ।

जीवस्वरूपबन्धिका प्रकृतिर्वा अविद्याऽज्ञानादिपदप्रतिपाद्याऽस्तु ।

तथापि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते’ । इति वचनात् ।

न च सैवास्माकमविद्येति वाच्यम् । त्वदविद्यायाः ज्ञानसमानविषयकत्वेन सदसद्वि-लक्षणत्वेन त्वयाऽभ्युपगतत्वेन च तादृशवस्तुनोऽत्राश्रवणात् । ‘नासदासीत्’ इति वाक्येन तस्य सदसद्विलक्षणत्वं सिध्द्यतीति न च वाच्यम् । तस्याः श्रुतेस्तदर्थकताया निरस्तत्वात् ।

नापि ‘अजामेकाम्’ इति श्रुतिरपि प्रमाणम् । तस्यास्त्रिगुणात्मकप्रकृतिपरत्वेन त्वदभिमताविद्याबोधकत्वाभावात् । भवदभिमतप्रकृतेरेवास्माभिरविद्येति व्यवहारः क्रियत इति त्वनुपदमेव निरस्तम् । त्वयाऽविद्याया ज्ञाननिवर्त्यत्वारोपितत्वयोरङ्गीकृतत्वाच्छ्रुत्युक्तप्रकृतेश्च ‘गौरनाद्यन्तवती’

कालश्च नित्यः पुरुषश्च नित्यः प्रकृतिश्च नित्या किमु देवदेवः’ ?

इत्यादिवाक्यैर्नित्यत्वावगमात् । अत एव ‘माया स्वाव्यतिरिक्तानि क्षेत्राणि’ इति श्रुतावपि मायाशब्दः प्रकृतिपर एव । स्वाव्यतिरिक्तानि क्षेत्राणीति क्षेत्रमद्यात्मना परिणामित्वरूपप्रकृतिलिङ्गात् । एवं श्वेताश्वतरोपनिषदि -

छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।

 अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः’ ।।

इति पूर्ववाक्ये मायिशब्देन परमेश्वरस्य मायायुक्तस्यैव जगत्स्रष्टृत्वमुक्त्वा मायया जडनिर्माणस्यानुपयोगमाशङ्क्य तस्मिंश्चान्य इति वाक्येन स्वाधीनप्रकृत्या बद्धजीवानामर्थ इदं जगद्भवतीत्युच्यते । तत्र स्वस्वरूपभूतजीवबन्धकस्याप्रेक्षावत्वं स्यादित्याशङ्क्यान्य इत्युक्तम् । तदुपरि मायया जगत्प्रवर्तकत्वे ईश्वरस्यैन्द्रजालिकतुल्यतापत्त्या किमाधिक्यम् ? प्रत्युत सत्यदार्थनिर्माणसामर्थ्याभावादपकृष्टत्वमेव स्यादित्याशङ्कापरिहारायोत्तरो मन्त्रः

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।

 तस्यावयवभूतैस्तु व्याप्तं सर्वविदं जगत्’ ।। इति ।

मायानाम नेन्द्रजालविद्या किं नाम? अनाद्यनन्ता प्रकृतिरेव । तत्प्रकर्तकस्तु महेश्वर एवाचिन्त्याप्रतिहतशक्तिमानेव । प्रकृतेर्व्याप्तत्वात्परिच्छिन्नघटद्यात्मना परिणामः कथमित्या-शङ्क्य तस्यावयवभूतैरित्युक्तम् । तत्पदं पूर्वमस्मादिति पदं च प्रकृतिपरामर्शकम् । पुल्लिङ्गन्तु छान्दसम् । तदभिमानिचित्प्रकृतेः पुंवच्छक्तिमत्वेन तदभिप्रायकं वा ।

पुल्लिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती क्वचित्’ ।

इत्युक्तेश्च । तदवयवास्तदंशास्तैः भूतैरुत्पन्नैः प्राकृतैः पदार्थैश्चराचरं व्याप्तमित्यर्थः । यद्वा पूर्वमस्मादिति अत्र तस्येति परमेश्वरपरमेव । अस्मादित्यस्य वेदाः छन्दांसीत्यादि-पूर्वतनेनान्वयः । मायाया जगत्कारणत्वलाभश्च इनिप्रत्ययेन मायाया विशेषणत्वलाभात् सिद्ध्यति । तस्य परमेश्वरस्यावयवभूतैः भिन्नांशभूतैः प्राकृतैः पदार्थैः इत्यर्थः । ‘पादोऽस्य विश्वा भूतानि’ इत्युक्तेः । यद्वा तस्यांशरूपाः भूताः पूर्णाः । विशेषणविशेष्यभावस्य कामचारेण वा कडारादिषु पाठाद्वा भूतपदस्योत्तदनिपातः । नीचोच्चस्थानेषु नियामकतया विद्यमानभगद्रूपाणां न पूर्णत्वहानिरित्येतत्प्रतिपादनपूर्वकं सर्वजगदन्तर्यामित्वादिमहैश्वर्योप-पादकमेवेदम् । इत्थं च जगत्कारणत्वेनाभिमतमायाया उक्तश्रुतौ प्रकृतिरूपत्वाभिधानात् ।

सा वा एतस्य सन्द्रष्टुः शक्ति सदसदात्मिका ।

 माया नाम महाभाग ययेदं निर्ममे जगत्’ ।।

इति भागवते तृतीये जगत्कारणे परमेश्वरस्योपकरणभूतायाः कार्यकारणात्मिकायाः प्रकृत्यात्मकशक्तेरेव मायाशब्दमभिधेयत्वस्य प्रतिपादनाच्च । इत्थं च मायाया जडभूताया ईश्वरनियताया अनादिजीवोत्पादकत्वस्य श्रुत्यर्थत्वायोगात् ‘आभासे स्वकार्यकोटौ जीवेशौ न करोति’ इत्यादिपूर्वोक्तरीत्यैव श्रुत्यर्थः । तेनाविद्याबिम्बत्वमीश्वरत्वं प्रतिबिम्बत्वं जीवत्वमित्यपि प्रत्युक्तम् । अप्रामाणिकत्वात् । यत्तूक्तश्रुतौ माया चाविद्या च स्वयमेव भवतीत्युक्तत्वात् प्रकृतेरेवाज्ञानरूपत्वं सिद्धमिति चेन्न । स्वयंपदस्य स्वयम्भूरित्यादिघटकस्येव परमात्मवाचितया स्वयमेव परमेश्वरेण कर्त्रैवाविद्या जीवस्य भगवज्ज्ञानेऽसति विरोधिनी-त्यर्थस्यात्राभिप्रेतत्वेन त्वदभिमतजीवेश्वरस्वरूपतद्भेदेश्वरनिष्ठसर्वज्ञत्वसर्वेश्वरत्वादिगुण-सम्पादकानिर्वाच्याज्ञानस्योक्तवाक्येनालाभात् । स्वयमेवेत्यस्येतरनैरपेक्ष्येणेत्यङ्गीकारे ‘स हि सर्वस्य कर्ता सर्वस्येशानः सर्वस्याधिपतिः’ इत्यादीश्वरस्वातन्त्र्यावेदकबहुवाक्यविरोधस्य स्फुटत्वात् । माया चाविद्या चेत्यत्राद्यश्चस्त्वर्थः स्वयमेव विद्याविरोधित्वादिसामर्थ्य-शून्यत्वादिविशेषसूचकोऽतो न वैयर्थ्यम् ।

न च ‘विभेदजनकेऽज्ञाने’ इति वाक्यान्तरोक्ताज्ञानमेवात्रोच्यत इति वाच्यम् । उक्त-वाक्यस्य विरुद्धमतिजनकत्वपरत्वेन पूर्वमेव सम्यग्व्याख्यातत्वेन भवदभिमतस्य तद्वाक्येऽप्य-सिद्धेः । एवं च श्रुत्यन्तरेष्वविद्यापदस्य प्रकृतिपरत्वान्न त्वन्मतसिद्धानिर्वाच्याविद्यासिद्धिः । ‘भूयश्चान्त्ते’ इति श्रुतावपि मायाशब्दः प्रकृतिपर एव । विश्वस्य जगत उत्पादिका बन्धिका प्रकृतिस्तन्निवृत्तिरित्यर्थः । अधिकं तु जगतः अविद्यासंस्कारोपादानकस्य पुनः सत्ताङ्गी-कारनिरासप्रस्तावे वक्ष्यते ।

ननु

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।

 तद्विद्यादात्मनो मायां यथाऽभासो यथा तमः’ ।।

इति भागवतवाक्येेनार्थं विना प्रतीतिविषयस्य बाधिततया मृषापदार्थभूतस्यैव मायापदवाच्यत्वाभिधानात् कथं सत्यभूतप्रकृत्यादेस्तत्पदवाच्यत्वमाशास्यते ? न च ‘माया वयुनं ज्ञानम’् इति वेदनिघण्ट्वदौ ज्ञाननामसु पठितत्वात्कथं तत्पदं मृषावस्तुन्येव रूढमिति वाच्यम् ? अविद्यायाः सत्वादिगुणात्मकत्वेन मायाशब्दवाच्याविद्यात्मकसत्वगुणपरिणाम-तयोपचारेण ज्ञाने तादृशप्रयोगात्तद्विवक्षया तादृशनामसु पाठसम्भवेन शक्त्यगमकत्वात् । न च सुखादावप्यज्ञानपरिणामिनि  तादृशव्यवहारापातः । घटचेष्टायामिति धातुजस्यापि घटशब्दस्य पटादावव्यवहारवदुपपत्तेः ।  न च विचित्रशक्तिमति तादृशशक्ति-प्रवृत्तिनिमित्तकस्य विनिप्रत्ययान्तमायाविशब्दस्य प्रयोगबलात् तत्र मणिमन्त्रादौ प्रयोगात्, ‘तत्रैवं मायाछद्म’ इत्युज्वलदत्तवृत्तौ व्याख्यानात् तत्र ‘माया स्याच्छाम्बरीबुद्ध्योः’ इति मेदिनीकोशात् शाम्बरविद्यायां ज्ञाने च शक्तेः सिद्धत्वात् कथमुच्यतेऽज्ञान एव शक्तिरिति वाच्यम् ? अविद्याया दुर्घटकार्यकारित्वेन तादृशगुणयोगेन विचित्रशक्त्यादौ मायादिशब्द-व्यवहारतादृशाभिधानाद्युपपत्तौ तत्र शक्तिकल्पकाभावात्तत्कल्पने गौरवाच्च । ज्ञाने मायाशब्दगतिरुक्तैव । न च शुक्तिरूप्यादौ मायाशब्दाप्रयोगात् न मृषार्थकत्वमिति वाच्यम् । वज्रादौ पृथिवीशब्दस्येव व्यञ्जकदशयां तथा व्यवहारस्येष्टत्वात् । अविद्याया एकस्या एव अविद्यामायाशब्दवाच्यत्वे आवरणशक्तिनिमित्ते इति न कोऽपि दोषः । इति चेन्न ।

यतोऽनेन श्लोकेन मायाशब्देन मृषावस्तु नैवाभिधीयते । प्रकृतिश्च मायाशब्दवाच्येति सैवाविद्येति पर्यवसानम् । किं वा? मृषावस्तुनो वाच्यात्वस्यैवाप्रतिभासात् । तथा हि । यत् आत्मनि जीवे प्रतीयेत न प्रतीवेत चांशभेदेन, अर्थं विनैव परमप्रयोजनं मोक्षं विनैव  मोक्षाभावव्याप्यस्वसत्ताकमित्यर्थः, मोक्षश्च आविर्भूतस्वरूपानन्दः, तद्वस्तु आत्मनः परमात्मनो मायां परमात्मसम्बन्धिनीं जीवबन्धकशक्तिं तदधीनतया बन्धिकां प्रकृतिं च मायाशब्देन श्रुतिपुराणादौ व्यवह्रियमाणां विद्यादित्यर्थः । मायायाः किञ्चिदंशे बन्धक-त्वादिरूपस्वकार्यकारितया प्रतीतिः किञ्चिदंशे नेति कुतः स्वीकार्यमित्यत उक्तं यथाऽऽभासो यथा तमः’ इति । योग्यत्वानुसारेण जीवस्वरूपस्य जाग्रदादौ सुषुप्तौ स्वरूप-सुखस्य यक्तिञ्चिदवभसोऽस्ति । योग्यतानुसारेणानवभासोऽप्यस्ति । सर्वसुखादिगुणानामनभिव्यक्तेः । अत उभयत्र चशब्दो यस्मादित्यर्थक आवर्तते । तत इत्यध्याहारः । भवन्मते तथा शब्दाध्याहारस्यावश्यकत्वात् । ततो जीवेंऽशभेदेन स्वकार्यकारितया प्रतीयते न प्रतीयते चेति सम्बन्धः । उक्तरीत्योक्तश्लोकार्थाङ्गीकारे पूर्वोदाहृतश्वेताश्वतरवाक्यसंवादोऽपि घटते ।

भवद्रीत्या व्याख्याने विषयं विना प्रतीतिविषयीभूतत्वरूपबाधितत्वप्रतिपादनानन्तरं ‘यथाऽऽभासः’ इत्यादिदृष्टान्तवाक्यस्येत्थमाकांक्षा वक्तव्या । ‘‘ननु बाधितं वस्तु कथं प्रतीयत इत्यतो यथाऽऽभासः यथा द्विचन्द्रादि प्रतीयते तथेत्यर्थः । नन्वविद्याया आवरणत्वं कथं सङ्गच्छत इत्यतो यथा तम इति । प्रसिद्धतमःसदृशीमित्यर्थः ।

यद्वा प्रकाशात्मकात्मनि तद्विरुद्धस्वरूपस्योक्तवस्तुनः कथं प्रतीतिरुपपन्नेत्यतो यथा तम इति । प्रचण्डमार्तण्डमण्डले घूकबुद्धिकल्पितं तम इवेत्यर्थः । अविद्याकल्पनात् पूर्वमविद्याकल्पितप्रतीत्ययोगेऽविद्यायाः स्वात्मस्वरूपस्यासङ्गतत्वेन कथं तद्भानमित्यतो वा यथा तम इति । तमो राहुः । राहुर्यथा स्वावृतचन्द्रप्रकाश्यं तथैवेदमपि’’ इति ।

एतत्सर्वमप्ययुक्तम् । भ्रमविषयाणां बहूनां सुप्रसिद्धत्वेन दृष्टान्तपूर्वकोप-पादनानपेक्षणात् प्रथमदृष्टान्तानर्थक्यात् । बाधिततया निःस्वरूपस्य सकलसामर्थ्यवैधुर्यस्यैव सुप्रसिद्धतया तत्रावरणत्वमङ्गीकृत्य तत्कथमित्याकांक्षानुदयात् कथञ्चित्तदुपपादनेऽपि सत्यभूततमोदृष्टान्तेन तत्परिहारायोगः । घूकारोपहेतुदोषसत्वात्तस्य तथा आरोपसम्भवेऽपि प्रकृतेऽविद्यासिद्धेः प्राक् कस्यापि दोषविशेषस्यारोपयितुश्चाभावेनोक्तार्थानुपपादनात् द्वितीय-दृष्टान्तयोजनाप्ययुक्ता । राहोः पूर्वसिद्धत्वेन तत्र सम्भवेऽपि प्रकृते स्वस्वरूपस्यैवासिद्धत्वेन तद्रीतेरसम्भवात् तृतीययोजनाप्ययुक्तैव । तस्मात् ‘मायाशब्दवाच्यत्वं मृषाभूतस्य’ इत्यादिकमयुक्तमेव ।

यदप्युक्तं ‘कोशनिघण्टुव्याकरणनिरुक्त्यादिभिर्बहुव्यवहारैश्च सिद्धस्य मायाशब्दस्य ज्ञानछद्मादावमुख्यत्वं कोशादिभिरसिद्धस्य कुत्रापि मृषार्थकत्वेनाप्रयुक्तस्य तदर्थकत्वादि-कल्पनम्’’ तत् प्रेक्षावतां संसदि बहु शोभते । न हि त्वदुक्तरीत्योक्तश्लोाकर्थाङ्गीकारे परमात्मसम्बन्धिन्याः मायारूपाविद्यायास्तच्छब्दव्यवहारविषयत्वमात्रसिद्धावपि तत्रैव शक्ति-र्नान्यत्र कुत्रापीत्येषोऽर्थोऽनेन श्लोकेन सिद्ध्यति । तस्मादिदं मृतमारणतुल्यमेवेत्युपरम्यते । तस्मान्न कोऽप्यागमो भवदभिमतानिर्वाच्याविद्यायामस्तीति सिद्धम् ।

किञ्चाविद्यायाः सर्वमानावेद्यत्वस्य त्वदभ्युगतत्वात् तत्साधनाय प्रमाणोपन्यासायोगः । न च तत्स्वरूपमात्रस्य सविषयकत्वादिरूपेण साक्षिवेद्यत्वेन प्रमाणाविषयत्वमस्त्येव । प्रमाणविषयता तु अभावविेलक्षणत्वासद्य्वावृत्तत्वादिरूपेणेति वाच्यम् । केवलस्वरूपेण प्रमाणविषयत्वस्य कुत्राप्यभावेन घटादितुल्यतापत्त्या अविद्याया एव विशिष्य मानागम्य-त्वोक्त्ययोगात् । न हि घटादिभासकप्रमाद्यनन्तरं असद्व्यावृत्तिविषये संशयो जायते । किं वा साक्षिणाऽज्ञानप्रतीत्युत्तरं ममाज्ञानं नास्त्यस्ति वेति कस्यचित्संशयो भवति । अज्ञाने भावत्वादिना वादिविवादवेलायां प्रमाणेन तन्निश्चय इव घटादावप्यभौतिकत्वादिना विवादवेलायां प्रमाणेन तन्निश्चयो भवतीति सर्वांशे साम्यात् ।

किञ्च परमते अज्ञानस्याश्रयविषययोरप्यनुपपत्तिः ।

।। पररीत्या भावरूपाज्ञानस्याश्रयविषयसमर्थनम् ।।

ननु कथमज्ञानस्याश्रयानुपपत्तिः ? शुद्धचित एव तदाश्रयत्वोपपत्तेः । न चैवं शुद्धचित्त एव ब्रह्मत्वेन तत्राज्ञानसत्वे तत्रैव संसारापत्त्या शुद्धत्वहानिः । अविद्यारूपोपाधिं प्रति जीवस्य प्रतिबिम्बत्वं ब्रह्मणो बिम्बत्वं चिन्मात्रं तु बिम्बप्रतिबिम्बानुगतम् । चित्त्वं तूभयत्र धर्मतयाऽनुगतम् । चिन्मात्रं तु धर्मितया । यथा  दर्पणरूपोपाधिं प्रति तदन्तःपरिदृश्यमानं प्रतिमुखं प्रतिबिम्बम् । आभिमुख्येन प्रतीयमानं बिम्बम् । अधिष्ठानतया उभयानुगतं मुखमात्रम् । तत्र बिम्बप्रतिबिम्बयोरैक्येऽप्युपाधिकल्पितभेदसत्वादयं बिम्बोऽयं प्रतिबिम्ब इति पृथग्व्यवहारः । उपाधेः प्रतिबिम्ब एव विशेषतः स्वकार्यकारित्वस्वाभाव्यात् प्रतिमुख एव मालिन्यह्रस्वपरिमाणादि । न त्वभिमुखतया स्थिते बिम्बभूते मुखे । किन्तु तत्र बिम्बत्वप्रतिबिम्बभेदादिकिञ्चिद्धर्मसम्बन्धः । एवं जीवरूपप्रतिबिम्बब्रह्मरूपबिम्बयोर्भेदः अविद्योपाधिकस्तत्र जीवे दुःखात्मकसंसारादिकं करोति न ब्रह्मणि ।

यद्यपि ब्रह्मण्यप्याकाशादिरूपनिखिलकार्यसर्वज्ञत्वादिधर्मजनको भवतीति प्रतिबिम्ब एव जायमानकार्यस्यातिशय इति न परिगणना सम्भवति । तथापि बिम्बभूतेशं प्रति न स्वविषयीभूतपूर्णानन्दादिस्वरूपाच्छादकोभवत्युपाधिः । जीवे तु भवतीत्ययमेव विशेषः । तन्निमित्तेनैव प्रकृत उपाधेः प्रतिबिम्बपक्षपातित्वव्यवस्था । सर्वत्रोपाधिभिरेकजातीयैर्भा-व्यमित्यत्र नियामकाभावेन दर्पणादावन्यादृशस्यात्रान्यादृशस्य सत्वे क्षतिविरहात् । अत एवेशे मनस्तत्परिणामभूतज्ञानेच्छादिसत्वेऽपि न जीवस्येव संसारित्वम् । वीतरागत्वश्रुतयस्तु जीवन्मुक्तस्य नीरागत्वश्रुतिवदुत्कटतदभावदृष्टिमाश्रित्य नेयाः । एवं च बिम्बप्रति-बिम्बनिष्ठविरुद्धधर्मान् सर्वज्ञत्वाल्पज्ञत्वसर्वशक्तित्वाल्पशक्तित्वादिकानुपादाय तयोर्वैलक्षण्य-बोधकानां द्वासुपर्णेत्याद्यागमानां द्वाविमौ पुरुषौ लोक इत्यादिपुराणचसां जीव-विशेषेन्द्रादिपूर्वपक्षनिरासपूर्वकं परमेश्वरे समन्वयपरसूत्र•णां च तथा तद्भाष्याणां च न कोऽपि विरोधः ।

नन्वेतदयुक्तम् । चिन्मात्रस्य प्रकाशरूपस्याज्ञाननिवर्तकस्य कथमज्ञानाश्रयत्वम् ? प्रकाशे तन्निवर्त्यतमःसम्बन्धादर्शनादिति चेन्मैवम् । यद्वृत्त्यवच्छिन्नचितो यदज्ञान-निवर्तकत्वं तदवच्छिन्नत्वाभाववच्चितः तदज्ञानानिवर्तकत्वेन प्रत्युत तदवभासकत्वेन तत्त्वमस्यादि-वाक्योत्थाज्ञाननिवर्तकवृत्त्यभावयुतचित्यज्ञानसंसर्गे बाधकाभावात् । नन्वेवमपि ‘निरनिष्टो निरवद्यः’, यो ‘अशनायापिपासे शोकं मोहं जरां मृत्युमत्येति,’

अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः’ ।

इत्यादिश्रुतिस्मृतिविरोधोऽज्ञानस्य चिन्मात्राश्रितत्वे । न ह्यज्ञानरूपदोेषकलुषिते नित्यमुक्तत्वनिर्दुष्टत्वश्रुतिप्रामाण्यं घटते । न च चिन्मात्रस्य तथात्वेऽपि बिम्बभूतब्रह्म-विषयैवास्त्विति वक्तुं शक्यम् । शुद्धे मुखे विद्यमानस्य कार्ष्ण्यादेः बिम्बे मुखे नियमेन दर्शनेन ब्रह्मणि मौढ्यादेरवर्जनीयत्वेन तद्विषयतायाः श्रुतीनां वक्तुमशक्यत्वात् । न च सत्यभूतदोषाभावपरेयं श्रुतिरिति वाच्यम्? त्वन्मते सत्यभूतदोषाप्रसक्तेस्तन्निषेधानर्थक्यात् । सत्यभूतदोषाभावस्य जीवब्रह्मणोः समानत्वेन जीवेशयोः सावद्यत्वनिरवद्यत्वप्रतिपादक-श्रुतिव्यवस्थानुपपत्तेरिति चेन्न । चिन्मात्रस्थितस्यैवाज्ञानस्य प्रतिबिम्बभूते जीव एवाहङ्कार-तत्परिणामदुःखादिकार्यसम्पादकत्वेन दोषरूपतया ब्रह्मणि स्वकार्याजकत्वेनाविद्य-मानतुल्यतया तद्विवक्षया श्रुतिव्यवस्थोपपत्तेः ।

नन्वहमज्ञ इति प्रत्यक्षेणाहङ्कारास्पदनिष्ठत्वेनाज्ञानस्य विषयीकरणात् कथं चिन्मात्रा-श्रितत्वमज्ञानस्येति चेन्न । अहङ्कारस्याज्ञानावच्छिन्नचिदाश्रितत्वेनाध्यस्तयाऽहमज्ञ इति प्रतीतिव्यवहारयोरुपपत्तेः । स्थौेल्याश्रयदेहैक्यस्याहङ्कारावच्छिन्नेऽध्यासादहं स्थूल इतिवत् । यद्यप्यज्ञानं नाज्ञानावच्छिन्नचिन्निष्ठम् । आत्माश्रयापातात् । एवं चेदवच्छिन्नाज्ञान-परिणामभूतरजतस्येदंपरिच्छिन्नत्वेनेदं रजतमितिवदहङ्कारस्याज्ञानावच्छिन्नत्वायोगादुक्ता- सम्भवः । तथापि मृदादिपरिणामभूतघटादेर्मृदवच्छिन्नचितीवाज्ञानपरिणामभूताहङ्कारस्या-ज्ञानावच्छिन्नचिदध्यासात् तत्प्रत्ययोपपत्तिः ।

यदि नाज्ञानमहङ्कारादिकार्योपादानं विषयतया दोषविधयैवारोपहेतुः । विवर्तोपादानं चिदेव । परिणाम्युपादानं तु नास्त्येव । तदभावेऽपि क्षत्यभावात् । अथ वा मायाऽविद्ययो-र्भेदान्मायैवेश्वाराश्रितोपादानमहङ्कारादिकं प्रतीत्युच्यते । तदाऽग्न्ययसोस्तादात्म्याध्यासात् अग्निनिष्ठदग्धृत्वस्यायसि अयोनिष्ठवर्तुलत्वपिण्डत्वादेरग्नौ अध्यासेन अयो दहति पिण्डी-भूतोऽग्निरितिवत् अज्ञानाश्रयचिति तादात्म्येनाहङ्कारस्याध्यासात् अहङ्कारधर्माणां कर्तृत्वा-दीनां चिति चिद्धर्माणामज्ञानाश्रयत्वप्रेमास्पदत्वादीनामहङ्कारेऽध्यासेनाहमज्ञोऽहं करोमी-त्यादिप्रतीतिव्यवहाराणामुपपत्तेः ।

ननु कुत एवं कल्प्यते? अहङ्कारास्पदस्यैवाज्ञानाश्रयत्वं कुतो न कल्प्यते? न च वाच्यमन्तःकरणादे; अज्ञानकार्यत्वेनाज्ञानाश्रितस्याज्ञानाश्रयत्वानुपपत्तिः । जडस्याप्रकाश-त्वेन तत्राज्ञानवैयर्थ्यम् । रजतादिहेतुभूताज्ञानापादकाज्ञानस्य स्वाश्रयीभूतशुक्त्य-वच्छिन्नचिद्विषयकापरोक्षेण निवृत्तस्येव चिन्मात्रविषयकापरोक्षज्ञाननिवर्त्यस्याभानापादक-मूलाज्ञानस्य चिदाश्रयत्वमेव युक्तमिति । अविद्यायामनुपपत्तीनां त्वन्मतेऽलङ्कारत्वेनोक्त-दोेषाणामपरिगणनीयत्वादिति चेन्न । सर्वथा परिहर्तुमशक्यानामनुपपत्तीनां तदनिर्वचनीयत्व-ख्यापकतयाऽलङ्कारत्वेऽपि परिहर्तुं शक्यानां परिहाराकरणस्य कुलधर्मत्वाभावात् ।

न च चिन्मात्रस्याज्ञानाश्रयत्वे प्रमाणाभावात् कल्पनेयं निर्मूलेति वाच्यम् ।

मायां  तु प्रकृतिं विद्यान्मयिनन्तु महेश्वरम्’ ।

इति श्रुतेरेव शुद्धचित अज्ञानवत्वे प्रमाणत्वात् । मायिनमिति चितमनूद्य तस्य महेश्वर-त्वोपहिततादात्म्यविधानात् । जीवस्य मायिपदेनानुवादे तत्र महेश्वरत्वोपहिततादात्म्या-भावादसङ्गतिप्रसङ्गात् । न च मायाश्रयीभूतकेवलचित्तादात्म्यस्य जीवे सत्वात्तत्र माया-व्यवहारापत्तिः । इष्टापत्तेः । ‘अत एव मायया सन्निरुद्धः । मायया मूढ इव व्यवहरन्नास्ते’ इत्यादिश्रुतौ जीवे मायासम्बन्धव्यवहारः । न हि निगडासम्बद्धे ‘निगडेन बद्धः’ इति कुठाररहिते कुठारेण छिनत्तीति व्यवहारः सम्भवति ।

न च ‘ज्ञाज्ञावजावीशानीशौ’ इति श्रुतौ अज्ञानाश्रयत्वेन जीवस्य प्रतिपादनात् जीवस्यैवाज्ञानाश्रयत्वम् । मायिनमित्यत्रेनिप्रत्ययेन ब्रह्मणो मायाविषयत्वप्रतिपादनमस्तु । एवं सति ‘ज्ञातुरर्थाप्रकाशरूपम्’ इत्यज्ञानस्य विवरणे ज्ञातृत्वसामानाधिकरण्य-मज्ञानेऽभिहितं सङ्गच्छते । एवं स्वनिवर्तकज्ञानेन स्वकार्येण भ्रान्त्या स्वसमानयोगक्षेमेण ज्ञानप्रागभावेन च सामानाधिकरण्यं प्रतीयमानमपि सङ्गच्छत इति वाच्यम् । ज्ञाज्ञाविति श्रुतौ अज्ञपदस्याज्ञानकार्यविशेषपरत्वेन वा ज्ञपदोक्तं यद्ब्रह्मनिष्ठं सर्वज्ञत्वं तदभावपरत्वेन वा सामञ्जस्येन जीवाज्ञानाप्रतिपादकत्वात् । केवलचित अज्ञानाश्रयत्वेऽपि ज्ञातुः साक्षिणस्तादात्म्यात् अज्ञानस्य ज्ञातृत्वभ्रान्त्यादिसामानाधिकरण्यं च सङ्गच्छते । विवदणवाक्ये ज्ञातुरिति षष्ठ्या आधेयत्वार्थकत्वं तस्य चाप्रकाशपदार्थभूताज्ञानेऽन्वयं परित्यज्य प्रकाशपदार्थ एवान्वयाङ्गीकारे ज्ञातृसम्बन्धिप्रकाशविरोधितामात्रलाभेन ज्ञातृ-निष्ठत्वालाभाच्च । तादृशं चाभानापादकाज्ञानं स्वकार्यनिर्वाहाय स्वविषयाश्रितमेव शुक्त्याद्यज्ञानस्थले क्लृप्तमिति स्वविषयीभूतशुद्धचिदाश्रितमेव ।

मुखमात्रनिष्ठस्याप्युपाधेः प्रतिबिम्बे मालिन्यादिकार्यकारित्वादिकमिव प्रकृतेऽपि ज्ञाज्ञाविति श्रुतौ अज्ञपदमज्ञानाश्रयपरमेव नाज्ञानाश्रयीभूतकेवलतादात्म्यादेव जीवेषु युज्यते इति तु न सत् । ब्रह्मण्यपि सत्वेन श्रुतौ तद्विरुद्धार्थकज्ञपदेन ब्रह्मग्रहणानुपपत्तेः । ब्रह्मण एवेशानीशावित्यत्रेशपदेनोक्तत्वात् । न चैवमज्ञानस्य ज्ञातृत्वभ्रान्तिज्ञानप्रागभावादि-सामानाधिकरण्यस्योक्तरीत्योपपादने तथैव कर्तृत्वभोक्तृत्वादिसामानाधिकरण्यप्राप्त्या जीवा-श्रिताज्ञानपक्ष एव प्राप्त इति वाच्यम् । यतो मनोवच्छिन्नचित्वं जीवत्वं तस्य तु अज्ञानाश्रयतां प्रत्यवच्छेदकत्वं तत्सत्तायां चोपाधित्वं च न सङ्गच्छते मनसोऽज्ञान-कार्यत्वेनान्योन्याश्रयापत्तेः । अज्ञानस्य सिद्ध्यनन्तरं तत्कार्यमनस उत्पत्या तदवच्छिन्ने वा तदुपहिते वाऽज्ञानसत्वं ततश्च तत्र मनस उत्पत्तेः । एवमज्ञानस्य मनोऽवच्छिन्नचिदाश्रितत्वं तादृशविशिष्टस्याज्ञानकार्यत्वादज्ञानाश्रितत्वमिति स्थितावन्योन्याश्रयाच्च । इत्थं च भोक्तृत्वादिसामानाधिकरण्यं तूक्तरीत्या विशेष्यांशैक्यमादायैवेति नोक्तजीवाश्रितत्वप्रसक्तिः ।

तर्हि वा वाचस्पतिपक्षे कथं जीवाश्रितत्वम् ? इत्थम् । ‘अविद्यावच्छिन्नचैतन्यं जीवः । तादृशजीवत्वमविद्याश्रयतावच्छेदकम् । स्वस्य स्वावच्छेदकत्वे आत्माश्रयस्योत्पत्तिज्ञप्त्य-विरोधित्वेनादोषत्वात् । यदि च मूलाग्रादिवत्तस्यावच्छेदकत्वे मानाभाव उच्यते तदा तस्योपाधित्वमेव । स्वोपहित एव स्वस्य सत्वात् । स्वसत्तायां स्वस्य विशेषणत्वानभ्युप-गमात् न स्वस्य स्वाश्रयत्वापत्तिः । ज्ञाज्ञाविति श्रुतेरेवाज्ञानस्य जीवाश्रितत्वे प्रमाणत्वम् । मायिनमिति श्रुतिस्तु मायाविषयत्वमीश्वरस्य बोधयति । निर्धर्मिकत्वश्रुत्यनुरोधान्न शुद्धचित्यज्ञानस्वीकारः’ इति वाचस्पतिसिद्धजीवाश्रयत्वपक्षः । मनोवच्छिन्नचिद्रूपजीवा-श्रयत्वपक्षस्तूक्तदोषान्न स्वीक्रियत इति ।

शुद्धचैतन्याश्रितत्ववादिनां पुनदयमभिप्रायः । निर्धर्मकत्वश्रुतीनां स्वसमानसत्ताक-धर्माभावपरत्वेन तद्विरोधाभावात् स्वोपहिते स्वावच्छिन्ने वा स्वसत्ताङ्गीकारे गौरवाच्छुद्धचित एवाश्रयत्वमिति । ननु चैतन्यस्याज्ञानाश्रयत्वे तस्य सर्वज्ञत्वानुपपत्तिः । न च बिम्बत्वविशिष्टब्रह्मण एव सार्वज्ञ्यं न शुद्धचित इति वाच्यम् । ‘तुर्यं तत्सर्वदृक् सदा’ इति श्रुत्या अवस्थात्रयातीतचैतन्यमात्ररूपतुरीयस्य स्वाभाविकसार्वज्ञ्यस्य प्रतीतेः । सदेतिपदादेव स्वाभाविात्वावगतेरिति चेन्न । सर्वदृगित्यस्य सर्वेषां दृक् ज्ञानरूपमित्यर्थकत्वेन सर्वविषयकज्ञानात्मकत्वस्यैव लाभेन सर्वविषयकज्ञानाश्रयत्वालाभात् ।

न च सर्वेषां दृक् ज्ञानं यस्येति बहुब्रीहिणा सर्वविषयकज्ञानाश्रयत्वमपि श्रुत्यर्थः किं न स्यादिति वाच्यम् । तत्पुरुषापेक्षया अन्यपदार्थप्रधानकबहव्रीहेर्जघन्यत्वेनानाश्रयणीयत्वात् । तत्पुरुषस्य ‘तमेव भान्तमनुभाति सर्वं’ इति श्रुतिसंवादित्वाच्च । तत्र भान्तं प्रकाशात्मकं तमनु तत्समबन्धेन सर्वं भातीत्युक्त्या ब्रह्मणः सर्वविषयकज्ञानात्मकत्वस्य लाभात् ।

वस्तुस्थितिमनुरुध्येदमुदितम् । वक्ष्यमाणरीत्या चित्येव सार्वज्ञ्याङ्गीकारोऽपि घटते । न च बिम्बभूते विशिष्ट एव सार्वज्ञ्यमिति मतं कथम् ? विशिष्टत्वेन जीववदनुपपत्तेरिति वाच्यम् । उपाधिरूपाज्ञानस्य प्रतिबिम्बपक्षपातित्वस्योक्तत्वेन तत्प्रत्येवावरकत्वात् । तन्निष्ठं च सर्वज्ञत्वमज्ञानं विना न घटत एव । तथा हि । सर्वविषयकं ज्ञानं प्रमाणं वा भ्रान्त्यात्मकं वा सर्वविषयकं स्वरूपज्ञानं कल्पितभेदेनाधेयत्वापन्नं वा स्यात् । पक्षत्रयेऽप्यज्ञान-मावश्यकम् । ईश्वरस्य देहमन आदेरभावात् मनोवृत्त्यात्मकं प्रमारूपं वक्तुं न शक्यम् । एवमीशस्य भ्रान्तिसत्वेऽस्मदादिसाम्येन दोषित्वापातात् भ्रान्तिरपि न यथाश्रुता । अतः प्रमापदेन विद्यमानगोचप्रत्यक्षात्मकं भाविगेचरानुमित्यात्मकमविद्यावृत्तिरूपमेव ज्ञानं भ्रान्ति-पदेन नष्टगोचरस्मृत्यात्मकमविद्यावृत्तिरूपमेवेति वाच्यम् । तत्र चाविद्याया आवश्यकत्वं स्फुटमेव । स्वरूपज्ञानस्य तु ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्या सर्वासङ्गितया श्रूयमाणत्वेन जगता सह विषयविषयिभावसम्बन्धस्य स्वतोऽसम्भवात् । तादृशकाल्पनिकसम्बन्धनिर्वाहाय स्वस्यैव स्वाश्रयतानिर्वाहकभेदकल्पनार्थं चाविद्यापेक्षितैवेति । तदुक्तम् -

स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा मतम् ।

 तच्चोभयं विनाऽविद्यासम्बन्धं नैव सिद्ध्यति’ ।। इति ।

अत्र प्रमाणैरित्यस्य अविद्यावृत्तिभिरित्यर्थः । तेनोक्तस्मृत्यनुमित्यादीनां सङ्गृहीतत्वा-न्नोक्तार्थविसंवादित्वमस्य श्लोकस्येति ध्येयम् ।

कश्चित्तु ‘मायिनं तु महेश्वरम्’ इति श्रुत्या महेश्वरपदार्थे ब्रह्मण्येवाज्ञानस्य श्रुत्या बोधितत्वाद्ब्रह्माश्रितमेवाज्ञानं जीवं प्रत्यावरकम् । चैत्रासम्बद्धापि जवनिका मध्यस्थतया यथा चैत्रं प्रत्यावरका तथैवेत्याह । स तु न युक्तः । मायावच्छिन्नस्य वा मायाबिम्बस्य वा ब्रह्मणो मायानिवृत्त्यधीननिवृत्तिकत्वेनाज्ञानप्रयोज्यस्य मायाश्रयत्वायोगात् ।

अन्ये तु चिन्मात्र एवाज्ञानम् । चिदेव ब्रह्मशब्दाभिधेया । सर्वविषयकज्ञानमपि स्वरूपभूतमेव । कल्पितभेदेनाश्रयाश्रयिभावः । न च सर्वज्ञस्याज्ञानानुपपत्तिः । प्रमाणजन्य-ज्ञानस्यैवाज्ञाननिवर्तकत्वेन स्वरूपभूतज्ञानस्याज्ञानानिवर्तकत्वात् । न च ब्रह्मप्रत्य-ज्ञानस्यावरकत्वे तस्योक्तसार्वज्ञ्यमकिञ्चित्करमिति वाच्यम् । जीवं प्रत्येव तस्यावरकत्वाभ्युप-गमात् । इत्थं च शुद्धचिद्रूपब्रह्मण एव स्वरूपभूतज्ञानेन सर्वज्ञत्वाङ्गीकारात् । ‘तुर्यं तत्सर्वदृक् सदा’ इत्यत्र सर्वदृक् पदं बहुव्रीहिसमासरूपमेव समञ्जसं भवति । अन्यथा-

नात्मानं न परांश्चैव न सत्यं नापि चानृतम् ।

 प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा’ ।।

इत्यत्र प्राज्ञतुर्ययोः सर्वविषयाज्ञानज्ञानकृतवैलक्षण्यमत्र  प्रतिपादितं न स्यात् । न हि सर्वविषयकज्ञानशून्यत्वतादृशज्ञानात्मकत्वे परस्परव्यावर्तके । सर्वविषयकवृत्तिज्ञान एव तदु-भयसत्वात् । नापि सर्वविषयकभावरूपाज्ञानवत्वतादृशज्ञानरूपत्वे । प्राज्ञस्वरूपभूतचित

एव तदुभयवत्वात् । न च चिद्रूपब्रह्मण्यज्ञानाङ्गीकारे ब्रह्माज्ञं ब्रह्मण्यज्ञानमिति व्यवहारप्रसङ्ग इति वाच्यम् । यतोऽज्ञादिपदसमभिव्यहृतविशेष्यवाचकपदस्य व्युत्पत्तिवैचित्र्यात् द्वेधा भानमुपेयते । अज्ञपदार्थघटकीभूतज्ञाने आधेयतयाऽज्ञपदार्थविशेष्यतया च । एवमत्राज्ञान-मित्यत्र सप्तम्यर्थाधेयत्वस्याज्ञानपदार्थैकदेशज्ञान एवान्वयः । आधेयत्वविशेषणतापन्न-प्रकृत्यर्थस्य धर्मिपारतन्त्र्येणाज्ञानपदार्थ एवाधेयतया भानम् । तथा च चैत्रोऽज्ञ इत्यनेन  चैत्रवृत्तिज्ञानविरोध्यज्ञानवान् चैत्र इति, चैत्रेऽज्ञानमित्यनेन चैत्रवृत्तिज्ञानविरोध्यज्ञान-माधेयतया चैत्रविशिष्टमिति बोधो जायते । प्रकृते च ब्रह्मवृत्तिब्रह्मस्वरूपभूतज्ञान-विरोधित्वस्य तन्नाश्यत्वरूपस्याज्ञाने बाधितत्वान्न तथा व्यवहारः । एतन्मते बिम्बभूते ईशे न स्वरूपभूतज्ञानसार्वज्ञ्यम् । किन्तु यथायथं प्रत्यक्षानुमित्यादिरूपवृत्त्यात्मकमेव । ईशोऽप्यविद्याबद्ध एव तद्वशीकरणावशीकरणाभ्यामीशजीवयोर्विशेष इत्याहुः ।

भामतीकारस्त्वविद्यां जीवाश्रितां मन्यते  नन्वविद्याप्रतिबिम्बितचैतन्यं वा अविद्या-वच्छिन्नचैतन्यं वा अविद्याकल्पितभेदं, जीव इत्युच्यते । तस्याविद्याधीनसिद्धिकत्वादन्यो-न्याश्रयादीति चेन्न । उत्पत्तौ स्थितौ ज्ञप्तौ वाऽन्योन्याश्रयो वाच्यः । त्रयमपि न सम्भवति । अविद्यायास्तदाश्रयीभूतजीवस्य तन्निष्ठभेदस्य चानादित्वेन कस्या अप्यनुपपत्तेरभावात् । न च भेदादीनामाविद्यकत्वानुपपत्तिः । अविद्यानाशाधीनस्वनाशकत्वेनाविद्याप्रयोज्यतयाऽऽविद्य- कत्वोपपत्तिः । नापि स्थितौ । अविद्याया जीवाश्रितत्वेऽपि जीवस्य विशिष्टरूपस्य चिदुपादानकस्य चिन्मत्राश्रितत्वाभ्युपगमात् । न चैवं जीवाविद्ययोरन्योन्याधीनत्व-मतहानिः । अविद्यानाशस्य जीवनाशव्यापकत्वेन जीवनाशस्य तद्व्याप्यत्वेन जीवस्याधीनत्व-व्यवहारः । अविद्यां प्रति जीवस्य व्यापकत्वेनाविद्याया जीवाधीनत्वव्यवहारः । यदा यदाऽविद्या तदा तदा जीव इति व्याप्तेः ।

यद्वाऽविद्याया जीवोपाधित्वाज्जीवस्य तदधीनत्वव्यवहारः । अविद्यायाः स्वोपहिते जीवे सत्वेनाविद्याया जीवाधीनत्वव्यवहारः । स्वसत्तायां स्वस्यावच्छेदकत्वरूपोपाधित्वमात्रं स्वीक्रियते न तु विशेषणत्वमाश्रयत्वरूपमङ्गीक्रियते इति न कोऽपि दोषः । यथोक्तम् -

स्वेनैव कल्पिते देशे व्योमि्न यद्वद्घटादिकम् ।

 तथा जीवाऽश्रिताविद्यां मन्यन्तेऽज्ञानकोविदः’ ।। इति ।

नापि ज्ञप्तावन्योन्याश्रयः । अज्ञानस्य साक्षिरूपचिद्भास्यत्वेऽपि चिद्रूपस्य जीवस्य स्वप्रकाशत्वेनाविद्याधीनज्ञप्तिकत्वाभावात् । न चेश्वरजीवयोरीश्वरजीवकल्पितत्वे आत्मा-श्रयः । जीवेश्वरकल्पितत्वे चान्योन्याश्रयः । न च शुद्धचित्कल्पिका तस्या अज्ञानाभावादिति वाच्यम् । यतो जीवेशकल्पकत्वं नाम जीवेशविषयककल्पनां प्रति हेतुत्वं वा जीवेशजनकत्वं वा तौ प्रति द्रष्टृत्वं वा स्यात् । द्वितीयन्तु नास्त्येव । उभयोरप्यनादित्वेन तौ प्रति जनकत्वानङ्गीकारात् । आद्यं तृतीयं च युज्यत एव । अविद्यावृत्तेरेव कल्पनापदार्थतया तां प्रत्यविद्याया उपादानविधया दोषतया च हेतुत्वात् । तृतीयं तु, उभयोरपि स्वरूपतः प्रकाशत्वं न तु दृश्यत्वं, अविद्याविषयत्वेन स्वस्य, तस्य ज्ञानविषयत्वरूपत्वाभावात् । जीवस्य द्रष्टृत्वमविद्याश्रयत्वादिना । ईशे स्वरूपजैतन्येन न त्वविद्यावृत्त्या । तस्याविद्याऽनाश्रयत्वात् । स्वरूपे चाविद्याविषयत्वेनैव द्रष्टृटत्वम् । अविद्याश्रयजीवादिकं प्रति विषयतासम्बन्धेनाविद्याया जगत्प्रति दोषविधया निमित्तत्वमेव । नोपादानत्वम् । अतोऽविद्याविषयीभूतचिन्मात्ररूपब्रह्मणः प्रपञ्चाधारत्वोपपत्तिः ।

यद्वाऽविद्याजीवावेव प्रपञ्चं प्रति परिणामिविवर्तोपादानभूतौ  जीव एव प्रपञ्चाधारः । ब्रह्म तु वास्तवजीवस्वरूपत्वात् प्रपञ्चाधारतया निगद्यते । ब्रह्मणो जगत्कारणत्व-प्रतिपादकवाक्यानां जगत्कारणीभूताविद्याविषयत्वरूपार्थप्रतिपादकत्वात् यतो वेत्यादेर्ब्रह्म-लक्षणपरत्वम् । अत एवाविद्यैव शुद्धब्रह्माश्रितजगदुपादानं न तु ब्रह्म जीवो वेति पक्षे तथैव स्वीक्रियत इति । अविद्याविषयश्च शुद्धचैतन्यमेव । न च शुद्धचैतन्यमविद्याविषयश्चेत् तदाऽऽवृतं स्यात् आवृतस्यैव विषयत्वात् । अन्यथा शुक्त्यज्ञानस्येदंत्वमपि विषयः स्यात् । तथा च चैतन्यस्वरूपस्यैवावृतत्वेन तत्प्रकाशाभावेन जगत्प्रतीत्यनुपपत्तिः । अधिष्ठान-प्रकाशस्याध्यस्तप्रकाशहेतुत्वेन तद्व्यापकत्वात् । अन्यथा शून्यवादापातात् । अहमित्य-वस्थात्रयेऽपि असन्दिग्धाविपर्यस्ततया चैतन्यानुभावाच्च । नापि तद्धर्माणामद्वितीय-त्वादीनामावृतत्वम् । तेषां तत्र निर्धर्मिके स्वतोऽभावेनाविद्याकल्पितानामेव वक्तव्यतया अविद्यास्वकल्पितार्थविषयिण्येवेत्यागतम् । तथा च जडस्यैव विषयत्वापत्त्या शुद्धचैतन्य-विषयकत्वोररीकरणायोग इति वाच्यम् । पूर्णानन्दस्य चित्स्वरूपत्वेन तस्यावृतत्वाभ्युपगमे उक्तदोषविरहात् । न च पूर्णनन्दस्य चिदात्मकत्वे प्रकाशमानत्वादावृतत्वानुपपत्तिः । प्रमाणजन्यज्ञानस्यैवाज्ञाननाशकत्वेन स्वरूपप्रकाशस्य तदनिवर्तकत्वेन तत्र आव्रियमाणत्व-सम्भवात् । चरमवृत्तेरेव प्रमाणजन्यतया मूलाज्ञाननाशकत्वादिदानीं न प्रकाशत इति व्यवहारविषयत्वादिरूपं वक्ष्यमाणावरणकृत्यं शुद्धचित्यस्त्येव । आत्माऽस्त्यहमस्मीत्यादि-व्यवहारे तु विशिष्टचिदेव भासत इत्यदोषः । यदि चैवमपि विरोधादेकत्रावरणप्रकाशौ विरुद्धावित्याग्रहः क्रियते । तदा अनादित आविद्यकभेदाश्रयश्चैतन्यस्वरूपं पूर्णानन्दांश एवावृतः सदाद्यंशस्त्वनावृतः । इत्थं चाहमस्मीत्यादौ शुद्धचिद्धानेऽप्यदोषः ।

ननु शुद्धचिति वा पूर्णानन्दांशे वा किमावरणकृत्यम् ? सिद्धप्रकाशलोपो वा असिद्धप्रकाशोत्पत्तिर्वा सतः प्रकाशस्य विषयासम्बन्धो वा प्राकट्याख्यकार्यपतिबन्धो वा नास्ति न प्रकाशत इति व्यवहारो वा अस्ति प्रकाशत इति व्यवहाराभावो वा नास्तीत्यादिव्यवहारयोग्यत्वं वा अस्तीत्यादिव्यवहारायोग्यत्वाभावो वा । नाद्यद्वितीयौ । स्वप्रकाशस्य नित्यसिद्धत्वेन तन्नाशोत्पत्त्यसम्भवात् । अन्यस्व स्वप्रकाशे तस्मिन्नन-पेक्षणात् । न तृतीयः । ज्ञानस्य विषयसम्बद्धस्यैव भावेन स्वरूपहान्यापत्तेः । त्वदभ्युपगते शुद्धचैतन्ये विषयसम्बन्धानपेक्षणाच्च । नापि चतुर्थः । त्वन्मते चैतन्यातिरिक्त-प्र•ट्यानङ्गीकारात् । चैतन्ये च तदभावात् । नापि पञ्चमः । सुषुप्तौ व्यवहाराभावेना-नावरणापातात् । नापि षष्ठः । व्यवहारस्याभिज्ञात्वे स्वरूपाभिज्ञाया इदानीमपि सत्वात् तदभावाभावेनेदानीमनावरणप्रसङ्गः । वृत्तिरूपत्वे तस्या मोक्षेप्यसत्वेनावरणं विना तदयोगात् इति चेन्न ।

अस्ति प्रकाशत इति व्यवहाराभावयोग्यत्वस्य नास्ति न प्रकाशत इति व्यवहारयोग्यत्वस्य चावरणकृत्यत्वाङ्गीकारात् । न च तत्रापि दोष उक्त एवेति वाच्यम् । उक्तयोग्यतयोरज्ञानसम्बन्धरूपतया सुषुप्तिसाधारण्यस्य मोक्षव्यावृत्तत्वस्य च सम्भवात् । अज्ञानस्य तत्सम्बन्धस्य च अनादितया तदारोपेऽप्यन्यापेक्षारूपदोषाभावात् । तस्य चित्प्रकाश्यत्वेन ज्ञप्तावप्यात्माश्रयादिदोषाप्रसक्तेः । व्यवहारश्चाभिज्ञाऽभिलपनसाधारणो निविष्टः ।  उक्तयोग्यतयोरज्ञानाधीनत्वमित्थम् । अस्तित्वं नामासत्वापादकाज्ञानाभावो-पहिता चित् । भानं नामाभानापादकाज्ञानाभावोपहिता अज्ञानसामान्याभावोपहिता वा चिदित्यसकृदुक्तम् । उक्तरूपसत्वविषयके भानविषयके मनोवृत्त्यात्मकेऽविद्यावृत्त्यात्मके च ज्ञानेऽविद्यैव विरोधिनीति तादृशाज्ञानसम्बन्धरूपा योग्यताऽऽवरणप्रयोज्या अज्ञानसम्बन्ध-स्याज्ञानाधीनत्वात् ।

न चाज्ञानाभावग्रहे अज्ञानोपलब्ध्यभावस्यैव हेतुतयाऽज्ञानोपेब्धिरेव तत्र विरोधिनी न त्वज्ञानमिति वाच्यम् । घटादिसत्ताकाले घटाद्यनुपलब्धिबलात् घटाभावप्रत्यक्षोदयेन वस्तुतो घटस्य विरोधित्वस्य वक्तुमशक्यत्वेन तदुपलब्धेरेव विरोधित्वम् । अज्ञानशुक्तिरूप्यादि-प्रातिभासिकानां पुनर्यावत्कालं स्वस्थितिस्तावत्कालं स्वप्रत्यक्षस्यावश्यकतया तत्रोपलब्धेः प्रतिबन्धकत्वे गौरवेणाज्ञानशुक्तिरूप्यादिनामेव स्वाभावग्रहेऽनुपेब्धिरूपे विरोधित्वाभ्युप-गमात् । अज्ञानसत्ताकालेऽपि तदभावविषयकभ्रमात्मकानुमित्याद्युत्पत्त्या व्यभिचारवारणा-यानुपलब्धस्य तथात्वोक्तिः ।

न चाज्ञानाद्यभावरूपविषयस्यापि तत्र हेतुतया तदभावादेवोक्तग्रहानुपपत्तिसम्भ-वादज्ञानादिप्रातिभासिकस्य न विरोधित्वम् । अज्ञानादेः प्रातिभासिकत्वेन मिथ्यात्वा-त्तत्सत्ताकालेऽप्युक्ताभावग्रहापत्तेर्दुर्वारत्वात् । न च तद्विरोधित्वं तदभावस्य कारणत्व-पर्यवसायीति तवाप्युक्तापत्तिर्दुर्वारेति वाच्यम् । सिद्धान्ते कारणशक्तिविघटकत्वस्यैव प्रतिबन्धकत्वरूपत्वेन स्वाभावादिरूपतज्ज्ञ•नकारणनिष्ठतज्ज्ञानानुकूलशक्तिविघटकताया अज्ञानादेः स्वसत्ताकालसत्वात् ।

न च तर्हि अज्ञानाभावादिग्रहस्य तदनुपलब्धजन्यतया तत्रानुपलब्धत्वजातिसत्वे मानाभावः । एवं घटाभावादिग्रहं प्रत्यनुपलब्धेः प्रतिबन्धकाभावरूपायाः कारणत्वाभावा-त्तत्राप्युक्तदोष इति वाच्यम् । अनुपलब्धेस्तत्राजनकत्वेऽपि कारणशक्तिविघटनाभाव-स्यानुपब्धिकाल एव सत्वेन घटाभावादिविषयकस्य तादृशवैजात्यावच्छिन्नस्यानुपब्धत्वेन व्यवहारात् । अज्ञानाभावग्रहणकारणशक्तिविघटनस्योपलब्ध्याऽ(प्रसक्तत्वेऽपि)प्रकृतत्वेऽपि तादृशवैजात्यस्याभावादिविषयघटितसामग्रीनियम्यस्य तत्राक्षततया तत्रानुपब्धत्वव्यवहारः ।

तूलाज्ञानस्वीकारे तु वृत्तिविषयतावच्छेदकत्वाभावेन वृत्तिनिरूपिताकाराख्यविषय-त्वाभावेन वा समानाधिकरणं यदज्ञानाविषयतावच्छेदकत्वं तदभाववद्विषयतादात्म्यापन्नचि- त्तादात्म्यमस्तित्वम् । साक्षात्काराख्यवृत्तिं निवेश्य भानं निर्वाच्यम् । तत्रापि तादृशव्यव- ह•भावयोग्यत्वं तादृशाज्ञानविषयतावच्छेनकत्वमेव तदज्ञानाधीनमित्यावरणकृत्यस्याक्षतिः ।

न च पूर्वकल्प एतत्कल्पे च जीवन्मुक्तस्य सार्वकालिकस्य ब्रह्म भातीति व्यवहार- स्यानुपपत्तिः । तस्य देहादिभानार्थमज्ञानस्यावश्यकत्वादिति वाच्यम् । आवरणशक्ति-विशिष्टाज्ञानस्यैव निवेशेन दोषाभावात् । जीवन्मुक्तस्य विक्षेपशक्तिविशिष्टाविद्याया एव स्वीकारात् ।

ननु अस्तीति व्यवहारे शुद्धचिदेव भासताम् । भातीति व्यवहारे पूर्वोक्तचिदेव । तत्रापि शुद्धचिद्भाने परोक्षज्ञानेन अस्तीति व्यवहारकाले भातीति व्यवहारापत्तेरिति चेन्न । तथा

सति चिद्भान एवासत्वापादकाज्ञानस्याक्लृप्तप्रतिबन्धकत्वे गौरवात् । उक्तरीत्यङ्गीकारे प्रातिभा- सिकसामान्ये स्वाभावग्रहप्रतिबन्धकतायाः क्लृप्तत्वेन तयैवोपपत्त्या नाधिक्यमिति लाघवात् ।

अत एव नास्ति न भातीति व्यवहारे तादृशाज्ञानमेव विषयो न त्वन्यत् । उक्ता-ज्ञानप्रत्यक्षे तस्य तस्य कारणतायाः क्लृप्तत्वेन तेनैव नास्तीत्यादिप्रत्यक्षोपपत्त्या कारणान्तरकल्पनया लाधवात् । अन्यविषयकत्वे तत्राति रिक्त्तकारणकल्पनापत्त्या गौरवात् । एवं च नास्ति न भातीति व्यवहारयोग्यत्वमज्ञानसम्बन्धरूपमेवेत्युक्तरीत्या तस्यावरणकृत्यत्वमव्याहतम् ।

न च सुषुप्तावावरणस्योक्तस्यासत्वेनास्तीत्यादिव्यवहारः कुतो न जायते ? मोक्षेऽना-वरणसत्वेऽस्तीत्यादिव्यवहारः कुतो न जायत इति वाच्यम् । विशिष्टव्यवहारे त्वहङ्काराभावादेव तदुपपत्तेः । जीवन्मुक्तस्य प्रारब्धवशेन बाधिताहङ्कारानुवृत्त्यैव तदुपपत्तिः । न च केवलचित्यनावरणं पूर्णानन्द आवरणमित्यादिकं किमर्थमभ्युपेयते इति वाच्यम् । अनुभवबलेनैव तथा स्वीकारात् ।

ननु च फलाव्याप्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपस्वप्रकाशत्वं पूर्णानन्दांशस्य न स्यात् । तस्य न भातीति व्यवहारयोग्यत्वरूपावृतत्वस्वीकारेण भातीति व्यवहारविषय-त्वरूपापरोक्षव्यवहारयोग्यत्वाभावात् । न च पूर्णानन्दो न भातीति प्रत्ययेनाज्ञाना-वच्छेदकतयाऽपरोक्षव्यवहारयोग्यत्वं वर्तत एवेति वाच्यम् । नित्यातीन्द्रियपरमाण्वादिषु फलाव्याप्यत्वस्योक्तरीत्याऽज्ञातो न भाति परमाणुरिति अज्ञानावच्छेकतया परमाणो-र्भातीत्यपरोक्षव्यवहारयोग्यत्वेन स्वप्रकाशत्ववारणाय अज्ञानावच्छेदकतयाऽपरोक्षव्यवहार-योग्यत्वस्य   स्वप्रकाशत्वनिरुक्तौ निवेश्यत्वादिति चेत्, अज्ञानानवच्छेदकतयेत्युक्तावपि फलाव्याप्ये साक्षात्साक्षिभास्ये सुखादौ स्वप्रकाशत्वापत्तेः साक्षात्काररूपप्रमाविषयत्व-योग्यत्वमेवापरोक्षव्यवहारयोग्यत्वं वक्तव्यम् । तच्च चरमवृत्तिरूपसाक्षात्कारविषये पूर्णानन्देप्य-क्षतमिति स्वप्रकाशत्वहान्यभावात् ।

ननु प्रसक्तौ प्रकाशस्य तत्प्रतिबन्धार्थमज्ञानं वाच्यम् । प्रकाशप्रकक्तिश्च न जीवं प्रति । जीवस्य कदापि पूर्णानन्दाप्रकाशेन तत्प्रकाशशक्त्यभावात् । किन्तु मोक्षे चैतन्यस्य तत्प्रकाशशक्त्या तत्प्रत्येव वक्तव्यम् । न च तत्सम्भवति । पटलाद्यावृतस्यापि दीपस्याप्रकाशमानतयाऽवस्थानाभाववत् अस्यापि प्रकाशरूपस्याप्रकाशमानतया अवस्था-नायोगात् इति चेन्न । चैतन्यस्यैव कल्पितभेेदेन जीवभावापन्नत्वेन वास्तविकचिदभेदाच्चैतन्यं प्रति प्राप्तप्रकाशस्य तदभेदेनेशं प्रतीव जीवं प्रत्यपि प्रसक्त्या तं प्रत्यावरकत्वसम्भवात् । न च भेदकल्पनोत्तरमावरणप्रसक्त्या निर्विभागचेतने स्वतःप्रकाशमाने भेदकल्पनार्थमावरणकल्पन-याऽन्योन्याश्रयचक्रकानवस्थान्यतमापात इति वाच्यम् । आवरणभेदादीनामनादित्वस्या- सकृदुक्तत्वादिति । तस्मादज्ञानस्याश्रयविषययोर्निरूपयितुं शक्यत्वात्तदभावेनाज्ञानखण्डन- मसदिति ।

।। पराभिमताज्ञानस्याश्रयविषयनिरासः ।।

तन्न । चिन्मात्रेऽज्ञानसद्भावे प्रमाणस्य सुदृढस्य सद्भावे  सर्वकल्पना पूर्वोक्ता युक्ता । तदेव नास्ति । ‘मायां तु प्रकृतिं विद्यात्’इति श्रुतेः पूर्वमेव सम्यग्व्याख्यातत्वात् । किञ्च महेश्वरत्वविशिष्ट एव श्रुत्या मायासम्बन्धप्रतिपादानात् विशिष्टधर्मत्वादेव केवलवृत्ति-त्वाङ्गीकारे चिन्मात्राश्रितत्वमतहानिः । अन्तःकरणोपाधिकविशिष्टरूपजीवस्य महेश्वरत्व-विशिष्टतादात्म्याभावेन तद्धर्माणां तत्रासम्भवात् ‘ज्ञाज्ञावजावीशानीशौ मायया सन्निरुद्धौ, मायया मूढ इव व्यवहरन्नास्ते’ इत्यादौ जीवे मायासम्बन्धः प्रतीयत इति त्वदुक्त्यसङ्गतिः । विशिष्टाभिन्नचित्तादात्म्यादेव जीवे तद्धर्माङ्गीकारे जीवे महेश्वरत्वादिधर्माणामीशे दुःखित्व-संसारित्वादीनामप्यङ्गीकारप्रसङ्गः ।

न चेशजीवयोरुभयोरपि मायासम्बन्धावेदकोक्तश्रुतिद्वयान्यथानुपपत्त्यैव तदुभयकेवल-रूपायां चित्येव मायासम्बन्धः सिद्ध्यतीति वाच्यम् । महेश्वर एव मायासम्बन्ध-प्रतिपादकमत्वर्थीयप्रत्ययघटितश्रुदेर्निरवकाशत्वेन महेश्वर एव मायासम्बन्धसिद्धेः । राज्ञा-माज्ञया बद्ध इत्यनेन राज्ञि यादृशसम्बन्ध आज्ञायास्तादृशसम्बन्धस्य तद्बद्धपुरुषे लाभाभा-वस्येव ‘मायया’ इति जीवपरवाक्येन जीवे तादृशसम्बन्धाभावस्यैव लाभेनोभयश्रुत्योरेक-विधार्थप्रतिपादकत्वसमबलत्वयोरभावेनार्थापत्तेरनवतारात् ।

अस्तु वा श्रुतिद्वयस्याप्येकजातीयार्थप्रतिपादकत्वसमबलत्वे । तावताऽपि न केवलचित्यज्ञानसिद्धिः । जीवेशयोरुभयत्रापि मायाकार्यभूततद्धर्मसिद्धय उभयत्रापि मायासम्बन्धाङ्गीकारे क्षतिविरहेण श्रुतिद्वयविरोधाभावेनार्थापत्तेरनवकाशात् । न च केवलचित्यज्ञानसत्वं विना जीवेशरूपयोः सिद्धिरेव दुर्घटेति वाच्यम् । उभयोरनादित्वस्य श्रुत्यादिसिद्धत्वेन त्वदभ्युपगतत्वेन च तदुत्पत्तावज्ञानापेक्षाया अभावात् । अत एव दर्पणा-दिसम्बन्धादागन्तुकतया भासमानप्रतिविम्बवैलक्षण्यमवश्यमभ्युपेयम् । तच्च यथाकथञ्चि-च्चेतनत्वादिनेशसादृश्यवत्वे सति अनेकश्रुतिसिद्धमीशाधीनत्वरूपं मयाङ्गीकृतम् । त्वया त्वज्ञानस्याप्रामाणिकोपाधित्वं परिकल्प्य तन्नाशाधीननाशवत्वरूपमुपाद्यधीनत्वं बिम्बभूतेश-प्रतिबिम्बभूतजीवतद्भेदादिकस्य सर्वस्याङ्गीकृतम् । तथात्वे जीवेशोभयनिष्ठाया चिन्मात्र-विषयिण्या अविद्यायास्तन्मात्रविषयकज्ञानेन निवृत्त्या सर्वनिवृत्त्युपपत्तेरुक्ताविद्याप्रतिबिम्ब-बिम्बभावसिद्धये स्वविषयीभूतकेवलचिदाश्रितत्वकल्पकाभावात्तदभ्युपगमो निर्युक्तिक एव ।

किञ्च ह्रदो वहि्नमानिति वाक्यस्यारोपितवहि्नमादाय प्रामाण्यापत्तिवारणाय स्वसमान-सत्ताकसम्बन्धी एव मत्वर्थीयार्थ इति, मायिपदेन चिति तादृशसम्बन्धप्रतिपादने कथं तस्य प्रमाण्यम् ? मायायाश्चित्समानसत्ताकत्वाभावात्तत्सम्बन्धस्याप्यतथात्वात् । न च व्यवहार-कालाबाध्यत्वस्यैव प्रतीतिसामान्ये भानाङ्गकारात् शब्दप्रयोगे तस्योपस्थित्यङ्गीकारान्नोक्त-दोषावकाश इति वाच्यम् । तथात्वे चित्यपि तस्यैव प्रतीत्यापत्त्या सत्यज्ञानादिष्वपि तस्यैव प्रतीत्यापत्त्या पारमार्थिकवस्तुन एवासिद्धिप्रसङ्गात् ।

अपि च ‘मया स्वप्नो दृष्टः’ इति वाक्येनापि स्वप्ने व्यवहारकालाबाध्यत्वप्रतीत्यापत्त्या तथा वक्तुरनृतवादित्वापत्तेः । किञ्च मायाचितोः सम्बन्धस्तादात्म्यरूप एव वाच्योऽन्य-स्याप्रसक्तेः । तथा च मायिनमिति निर्देशानुपपत्तिः । सुन्दरादितादात्म्यवति घटादौ

सुन्दरी घट इत्यप्रयोगात् । धनादिस्वामिताबोधने सत्येव धनी गोमानित्यादिप्रयोगाच्च मायिनमिति पदेन त्वदभिमताध्यासिकमायातादात्म्यस्याप्रत्यायनात् । प्रत्युत मायास्वा-मित्वस्यैव प्रत्यायनात् ।

किञ्च ‘मायां तु प्रकृतिं विद्यात्’इति मायाशब्दोक्तस्य जगदुपादानत्वरूपप्रकृति-त्वमभिधीयते । जगत्प्रवाहस्य,

अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति’ ।

इत्यादिना अनाद्यनन्तत्वमवगतम् । निरुपादानकसृष्टेरयोगात् तदुपादानस्यानादि-नित्यत्वं सिद्धम् । भवदभिमताज्ञानन्तु ज्ञाननिवर्त्यत्वेन सविषयकत्वेनाङ्गीकृतं, निर्विषयक-नित्यप्रकृतिस्वरूपप्रतिपादकैतद्वाक्यबोध्यं कथं स्यात्? न च प्रकृतिरपि ज्ञानादि-वत्सविषयस्वभावा । तथात्वे मृत्परिणम्यमाणानां तत्स्वभावभूतमृत्वाप्रच्युतिवत् प्रकृति-परिणामघटादिकार्याणां तत्स्वभावभूतसविषयकत्वापत्तेः । न चाज्ञाननिष्ठं सविषयकत्वं न तत्स्वभाव इति युक्तम् । अनादितश्चिद्विषयकत्वस्य सतव्ेन तस्यानागन्तुकत्वात् । तस्मात् ‘मायिनं’इति श्रुतिः शुद्धचित्यज्ञानाश्रयत्वे न मानम् ।

किञ्च युक्त्यसहं च तत् । तथा हि । शुद्धचिति मायातादात्म्यरूपतत्सम्बन्धः स्वाभाविक उतान्याधीनः । नाद्यः । तस्य चित्स्वभावत्वापत्त्या तन्निवृत्तौ चित्स्वरूप-निवृत्त्यापत्तिस्तदनिवृत्तौ च मोक्षाभावप्रसङ्गः । ज्ञानेन तन्निवृत्त्यावेदकश्रुत्यप्रामाण्यापत्तिश्च । न द्वितीयः । अन्यपदार्थः किमविद्यैव उत तदन्यः ? नाद्यः । अविद्यायाश्चित्सम्बन्धेनैव सत्तावत्वं वाच्यम् । अन्यथा स्वरूपतः सद्रूपत्वाभावेन असतः किञ्चित्प्रति प्रयोजकत्वादेः शशविषाणादेरिवायोगात् । असतोऽपि तथात्वाङ्गीकारे शून्यवादप्रवेशापातात् । तथा च तस्याश्चित्सम्बन्धसिद्ध्यनन्तरं चिति तत्सम्बन्धसिद्धिः तत्सिद्धौ च तद्विषयतया सत्वापन्नाविद्यासिद्धिरित्यन्योन्याश्रयापातात् । न द्वितीयः । तस्य स्वभावतः सत्वे औत-हान्यादिप्रसङ्गेन चित्यारोपिततयैव सत्ताया वाच्यतया तत्रापि निमित्तगवेषणेऽन-वस्थान्योन्याश्रयाद्यापत्तेः ।

नन्वविद्याचित्सम्बन्धादीनामनादित्वेन मयाङ्गीकृतत्वान्न तत्र प्रयोजकप्रश्नावसरः । तदुक्तम् -

जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः ।

 अविद्या तच्चितोर्योगः षडस्माकमनादयः’ ।। इति ।

न चैवमनादित्वे चित्स्वभावत्वापत्तिः । अविद्याधीनत्वेन तत्स्वभावत्वायोगात् । न चैवं किञ्चिदुपकाराभावे तदधीनताया मृषात्वमिति वाच्यम् । अविद्यानाशे सति तेषां नाशेन तत्स्थितेरविद्यास्थितिसापेक्षत्वेन अविद्यानाशाधीननाशप्रतियोतित्वरूपतदधीनत्वस्य तत्रा-क्षतेः । दण्डप्रागभावनाशे घटप्रागभावनाशेन घटप्रागभावावस्थितेः दण्डप्रागभावस्थिति- सापेक्षत्वेन दण्डप्रागभावनाशधीननाशप्रतियोगित्वरूपदण्डप्रागभावाधीनत्वस्य घटप्रागभाव इवेति चेन्न । ज्ञानेनाविद्यादीनां सर्वेषां युगपदेवापगमस्य त्वत्परमसिद्धान्ततया क्रमिकना-शानङ्गीकारेणोक्तपरिष्कारायोगात् । एवं सति चरमवृत्तिप्रागभावनाशेन अविद्यानाशात् चरमवृत्तिप्रागभावस्यापि अविद्यां प्रति प्रयोजकत्वापत्तेश्च । न चेेष्टापत्तिः । तस्याविद्यावत् प्रागभावत्वादेवानादेरनाविद्यकत्वप्राप्त्या चित इवापारमार्थिकत्वाभावेन त्वन्मतनिष्कृष्टशुद्धा-द्वैतहानिः स्यात् ।

किञ्चाविद्याभेदादेरनादितः सतः ज्ञानेन साक्षात् परम्परया वा नाशेऽपि चित इव तस्य पारमार्थिकत्वमव्याहतमेवेत्यद्वैतश्रुतिव्याकोप एव । न हि नाशप्रतियोगित्वादेव मिथ्यात्वम् । तावन्मात्रेण लोके मिथ्यात्वाव्यवहारात् । चित्यारोपितत्वान्न सत्या इति चेन्न । साक्षिरूपज्ञानस्याविद्यां विना सिद्धेदसम्भवात् । शुद्धचित एवाविद्यादिग्राहकत्वे सत्यत्वेन दोषाद्यजन्यत्वेन प्रमात्वस्याकामेनापि स्वीकर्तव्यतया तद्विषयाणां मिथ्यात्वोक्तेर्वाङ्मात्रत्वात् । अन्यथा चरमवृत्तेरपि भ्रमत्वपातेन तद्विषयीभूतचितोऽपि मिथ्यात्वापत्तेः । वस्तुतश्चित्य-सङ्गतायास्त्वया स्वीकारादनादित अविद्यादिसम्बन्धस्वीकारे त्वन्मतहानिः । अविद्यासम्बन्ध-स्याप्यविद्यासम्बन्धाधीनत्वे आत्माश्रयः स्फुट एव । तस्येतरानपेक्षितस्वरूपत एव स्वीकारे घटादिविषयकत्वस्यापि स्वरूपज्ञाने तथैव सम्भवेनाविद्यां बिना सर्वविषयकत्वं न घटत इत्युपपादनमसङ्गतमेव स्यात् । एतेनासङ्गपदस्य स्वसमानसत्ताकसम्बन्धाभावपरत्वेना- विद्यासम्बन्धस्यानादित्वोपपादनमपि प्रत्युक्तम् । तस्मादविद्यादिषट्कमेवानादि अविद्या च चिन्मात्राश्रितेत्यर्थस्य निष्प्रामाणिकत्वादुक्तबाधकसत्वाच्च न चैतन्यमात्राश्रितत्वम् । भेदानादित्वादेर्निरस्तत्वात् ।

अज्ञानस्याश्रयसापेक्षत्वात्तदाश्रयस्तावद्दुर्निरूप इति प्रष्टुः सामान्यतस्तज्ज्ञानसत्वा-द्विशेषधर्मवत्वेनाज्ञानाश्रयस्य जिज्ञासिततया, जीवाश्रितत्ववादिना ‘अज्ञानोपहिते चेतनेऽज्ञानं वर्तते’ इत्युक्ते तदनिवृत्त्या तस्यावक्तव्यत्वात् । अज्ञानस्य सोपाधित्वकथनेन तदुपहितस्याश्रयस्य लाभ इति चेत् किञ्चिन्निष्ठस्यैवोपाधितया तस्यैव किं वृत्तित्वमित्या-कांक्षायां तद्वत्येव तद्वर्तत इत्यस्यानुत्तरत्वात् । चित्येव स्वावच्छेदेनाज्ञानं वर्तत इति चेन्न । स्वं प्रति स्वस्य अवच्छेदकत्वे सर्वस्यापि स्वं प्रति स्वस्यावच्छेदकत्वापातेन अनवच्छिन्न-वृत्तिकवस्तुन एवासिद्ध्योक्तव्यावर्तकतावच्छेदकताया एवाप्रामाणिकतापातात् । घटादेस्त्वा-काशांशे स्वाभाविक एव सम्बद्धत्वम् । न तु स्वकृतभेदवदंशे स्वावच्छेदेन । कृत्स्नैकदेशसम्बन्धविकल्पपूर्वकदूषणग्रासेन तस्य भेदकत्वस्यैवायोगेन तस्यानुदाहरणीयत्वात् । प्रमाणाभावेन चैतन्ये मायाश्रयत्व एव निरस्ते तन्निष्ठायामज्ञानाधिकरणतायामज्ञानस्योपा-धिताया दूरपराहतत्वाच्च ।

एवं च ‘अविद्याया जीवनिष्ठत्वादीशस्य द्रष्टृत्वं स्वरुपज्ञानेनैव एवमेव सर्वज्ञत्वम्’ इत्यादिकमप्यपास्तम् जीवसम्बन्ध्यज्ञानस्य, शुद्धचैतन्यस्य सर्वविषयकत्वासम्पादकत्वात् । अविद्याविषयत्वमात्रेण तथात्वस्यापि निरसिष्यमाणत्वात् । ईशस्य तादृशज्ञानेन  सहाश्रयाश्रयिभावानिर्वाहकत्वाच्च । स्वरुपैक्यमात्रस्य तन्नियामकत्वे जीवे तत्प्रसङ्ग-स्यापरिहारात् । उपाधेः प्रतिबिम्बपक्षपातित्वमुक्तमेवेति चेत् । किं तावता ? अज्ञानोपहित-सम्बद्धाविद्याप्रतिबिम्बत्वस्येशेऽपि वक्तुं शक्यत्वात् । मुखमात्रसम्बन्धित्वेन बिम्बप्रतिबिम्ब-विच्छेदकल्पकत्वदर्शनात् । न चायं बिम्बप्रतिबिम्बभावो विलक्षणोऽस्त्विति वाच्यम् । तथा सति शब्दसाम्यमात्रापत्त्या तद्दृष्टान्तेन प्रतिबिम्बपक्षपातिवोपपादनासङ्गतिः ।

अस्तु वा प्रतिबिम्बभूतं जीवं प्रति स्वरूपावरकत्वरूपं पूर्वोक्तपक्षपातित्वम् । तथापि स्वाश्रयीभूतं यत्स्वोपहितचैतन्यं तत्स्वरूपशुद्धचैतन्ये स्वसङ्गिनि सर्वविषयकत्वकल्पकत्वं तत्राश्रितत्वकल्पकत्वं निर्बीजम् । कथञ्चित्तदुपपादने जीवे स्वस्वरूपमांत्र विहायेतरसर्व-निषयकज्ञानं केन वार्यते ? स्वरूपे स्वरूपविषयकत्वस्याविद्ययाप्यकृतत्वादीशेऽपि स्वरूप-विषयकज्ञानाभावसाम्यमेवेतीशं प्रत्यप्यावरकापत्तिश्च । स्वरूपे स्वरूपविषयकत्वं कुतो नापादयतीति चेन्न । आकाराख्यविषयतानां वृत्तिनिरूपितत्वेन चिन्निरूपितत्वा-भावाङ्गीकारात् । तादात्म्यस्य त्वत्यन्ताभेदेऽसम्भवदिति त्वयैव निरस्तत्वात् । अन्यथा चिति चित्तादात्म्यरूपदृश्यत्वापत्त्या मिथ्यात्वापातात् । तथा चेशस्याविद्यानाश्रयत्वेऽपि ईशे जीवादिद्रष्टृत्वं स्वरूपचैतन्येनेत्येतदयुक्तमेव । मायावृत्त्यभ्युपगमे मायारूपाविद्याश्रयत्व-मीशेऽवर्जनीयमेव । यदपि ‘जीवब्रह्मणोर्वास्तवाभेदाज्जीवनिष्ठजगत्कारणत्वं ब्रह्मलक्षणमुच्यते’ इत्यादि तदतीव मन्दम् । जिज्ञास्यस्य जन्मादिकारणत्वेन जीवादिव्यावृत्तिसाधनस्य वह्निमान् जलादित्यादिवद्विरुद्धत्वापत्तेः । विषयतासम्बन्धेनाविद्याया निमित्तमात्रत्वे त्वन्मते ब्रह्मणोऽपरिणामित्वात् परिणामिकारणान्तराभावेन निरुपादानोत्पत्त्यापत्तिः । तथात्वे सुप्त्यादावहङ्कारलये कर्मादीनां समूलघातं घातित्वेन कारणात्मनाप्यवस्थानाभावात्पुनः शरीरारम्भाद्यनुपपत्तिः । ‘जीवाविद्ये एव जगदुपादानभूते । ब्रह्मकारणत्वश्रुतिस्तु स्वरूपैक्यविवक्षयोपचरितार्था । जगत्कारणीभूताविद्याविषयत्वं ब्रह्मणः’ इति लज्जापरित्यागेन वचनमुन्मत्तवचनवत् प्रेक्षावतां हासमेवोत्पादयति ।

जन्मादिसूत्रेण जन्मादिकारणत्वं श्रुतिसिद्धं लक्षणमभिघाय तस्याचेतने प्रधानेऽति-व्याप्तिनिरास ईक्षत्याद्यधिकरणैः क्रियते । न विलक्षणत्वाद्यधिकरणैः ब्रह्मणः कारणत्वे युक्तिविरोधः परिह्रियते’ इति स्वकीयभाष्यादौ स्फुटप्रतीयमानमर्थं परित्यज्याविद्या-रूपाचेतनस्य सकलश्रुत्यादिविरुद्धजगत्कारणत्वाभ्युपगमस्य स्फुटमुन्मादमूलत्वात् ।

यदपि चैतन्यमात्राश्रिताऽविद्येति पक्षे बिम्बत्वविशिष्टे ब्रह्मणि शुद्धचैतन्यरूपे वा स्वरूपज्ञानेन सार्वज्ञसिद्ध्यर्थमविद्याभ्युपगम आवश्यक इति तन्न । अविद्ययाऽपि स्वरूप-विषयकत्वस्य चित्यसिद्धेरुक्तत्वात् । न चेष्टापत्तिः । स्वरूपास्फुरणे घटादीनां तत्रारोपितत्वेन सद्रूपत्वेन वा प्रतीत्ययोगेन सार्वज्ञ्यस्यैवासिद्धेः ।

यदपि ‘स्वरूपस्यासङ्गतायाः स्वतः सार्वज्ञ्याभावे हेतुत्वेन कथनं’ तदविद्यासम्बन्धेऽपि समानत्वान्निरस्तम् ।

यदपि तत्र प्रमाणत्वेन ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेरुदाहरणम् । तदप्ययुक्तम् । एतत् श्रुतेस्त्वंपदार्थपरिशोधकवाक्यस्थत्वेन जीवपरत्वेन तेन शुद्धचिति असङ्गत्वासिद्धेः । अन्यथा ‘एष सम्प्रसादे रत्वा चरित्वा’ इत्यादिनोक्तस्वप्नादिद्रष्टृत्वं भयादिकमपि शुद्धचिति स्यात् । असङ्गत्ववाक्यमात्रस्य जीवस्वरूपचिद्विषयत्वे बीजाभावात् । जीवेऽसङ्गत्वानुपपत्त्या तत्स्वरूपविषयत्वमङ्गीक्रियत इति चेत्तर्हि शुद्धचित्यसङ्गत्वरूपधर्मसम्बन्धस्य सुतरामनुपपत्त्या ‘स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ इति वाक्यशेषानुसारेण स्वाप्नपदार्थसेवनदर्शनादिमूलकपापलेपाद्यभावार्थकत्वस्योचितत्वात् । अत एव ‘असङ्गमरसम-गन्धम्’ इत्यादिश्रुत्यन्तराच्चैतन्यमात्रस्य तत्सिद्धिरित्यपास्तम् । सम्बन्धसामान्यनिषेधे स्वव्याहतेश्च । तथा च स्वतः सार्वज्ञ्ये बाधकाभावात् ‘तुर्यं तत्सर्वदृक् सदा’ इति प्रमाणसिद्धत्वात् स्वतः सार्वज्ञ्यशालिनि ब्रह्मण्यज्ञानं न सम्भवत्येव । तदुक्तम् -

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन’ । इति ।

यदप्युक्तं ‘शुद्धचिन्मात्रेऽज्ञानम् । सार्वज्ञ्यादिगुणशली बिम्बस्थानीयेश एव । अज्ञान-कार्यदोषाणां प्रतिबिम्बभूते जीवे उत्पादनादीश्वरे तदभावान्निरनिष्टो निरवद्य इत्यादि श्रुत्युपपत्तिः । ईशे मौढ्यव्यवहाराभावश्च’ इति । तदत्यन्तमसत् । जीवेशयोर-ज्ञानाद्युपाधिकृतबिम्बप्रतिबिम्बभावश्चिन्मात्रमुभयानुगतमितिप्रक्रियायाः स्वकपोलकल्पितत्वेन निष्प्रामाणिकत्वात् । ‘रूपं रूपं प्रतिरूपो बभूव, इन्द्रो मायाभिः पुरुरूप ईयते’ इत्यादिश्रुतीनां परमेश्वरस्य स्वकीयेच्छया नानावतारग्रहणपरत्वात् ।

सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।

 जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’ ।।

इत्यादिश्रुतिषु जीवस्येशात्यन्तभिन्नस्यैव तदधीनत्वे सति तत्सादृश्यरूपस्यानुपाधि-कप्रतिबिम्बत्वस्यैवोक्तत्वेन उपाध्यधीनतायास्तद्विरुद्धत्वाच्च । अधिकमाकरे द्रष्टव्यम् ।

यदपि बिम्बप्रतिबिम्बयोरैक्यमुक्तं तदुत्तरत्रापाकरिष्यामः । यत्त्वन्ये त्विति मते ब्रह्माज्ञमिति व्यवहारवारणमुक्तम् । तदप्यसत् । ब्रह्मण्यज्ञानमभ्युपेत्य तादृशव्यवहारमात्रं न स्वीक्रियत इत्यस्यासङ्गतत्वात् । अज्ञानसत्तातात्पर्येण प्रयोगस्तु बाधितत्वान्न सम्भवतीति समाधानस्य सम्भवात् उक्ताप्रामाणिकव्युत्पत्त्यादिकल्पनेन तद्वारणस्यानुचितत्वात् । अन्यथा ब्रह्मण्यज्ञानबोधकश्रुत्यादिसत्वे त्वदुक्तरीत्या तद्वाक्यानामप्रामाण्यापत्त्या कथं ब्रह्मण्यज्ञान सिद्धिः ? तव शिष्यं प्रति ब्रह्मण्यज्ञानबोधकवाक्यप्रयोगानुपपत्तिः । अन्यथोपदेष्टृत्वापत्तेः । न चेत् केवलानुमानस्यासाधकत्वात् ब्रह्मण्यज्ञानासिद्धिः । तवोपदेष्टृत्वाभावे शिष्यस्य तज्ज्ञानानुपपत्तिः ।

मायापदघटितैव श्रुतिस्तद्बोधिका शिष्यबोधनमपि तथैव भवतीति चेन्न । मायाऽविद्या-भेदपक्ष उपायाभावात् । अविद्यापदस्याप्यज्ञानपदसमशीलत्वात् । ऐक्यपक्षेऽपि वा मायापदेन ज्ञानविरुद्धत्वेनैव बोधने किमज्ञानपदेनापराद्धम् ? ज्ञानस्य धर्म्याकांक्षानिवृत्त्यर्थं समभि-व्याहृतविशेष्यस्याधेयतयाऽन्वयश्चेदत्रापि तथैवास्तु । उत्तरकालं यथायोग्यं मायापदस्थले धर्मिलाभश्चेदत्रापि तथाऽस्तु । किं व्युत्पत्तिकल्पया ? मायापदमविद्यात्वजातिपुरस्कारेणैव बोधयतीति चेदज्ञानपदस्याप्यसुराधर्मादिपददृष्टान्तेन जातिविशेषावच्छिन्नबोधकतायास्त्वयैव पूर्वमुपपादितत्वात् । नञ्समभिव्याहृतजानातेर्निरुढलक्षणाया अविद्यात्वजात्यवच्छिन्ने स्वीकृ-तत्वात् । ज्ञानविरुद्धत्वरूपयोगाविवक्षया तादृशजातिमात्रतात्पर्यकतादृशाज्ञानादिव्यवहारस्य श्रुत्याद्यनिषिद्धत्वात् । ज्ञानविरुद्धत्वरूपयोगाविवक्षया तादृशजातिमात्रतात्पर्यकतादृशाज्ञा- नादिव्यवहारस्य श्रुत्याद्यनिषिद्धत्वात् । राज्ञामाज्ञाऽभावाच्च तत्तात्पर्यकव्यवहारे न किञ्चि-द्बाधकम् । जाम्बूनदादिपदानां जातिविशेषमात्रतात्पर्येण सुवर्णसामान्यादिषु दर्शनाच्चोक्त-व्युत्पत्त्यादिकल्पनेन व्यवहारवारणमसम्भवदुक्तिकमेवेति न किञ्चिदेतत् ।

यदपि ईशस्याप्यविद्याबद्धत्वं परन्तु वशीकृतमायात्वमिति वचनं तदपि ‘भिन्नोऽचिन्त्यः परमः’ इत्यादिनित्यमुक्तत्वावेदकश्रुतिविरोधादुपेक्षणीयम् । निर्निमित्तमुत्कटरागाभावपरत्वादि-नोपचरितार्थत्वे सत्यज्ञानादिस्थलेष्वपि यत्किञ्चित्कालाबाध्यत्वावच्छिन्नाद्यौपचारिकार्थ-सम्भवेन भवदभिमतब्रह्मस्वरूपस्यैवासिद्धिप्रसङ्गात् । किञ्चेश्वरस्य मायिकपदार्थेषु हेयत्वबुद्धिर्वर्तते ? किन्तूपादेयत्वबुद्धिः ? नाद्यः । जीवानां स्वस्वरूपत्वमवगत्यापि तत्र हेयमायासम्बन्धं जांनतः स्वस्मिन्नपि तत्कृतपरिच्छेदादिकं जानतोऽपि वशीकृतमायामयस्य तदकरणे प्रेक्षावत्वस्यैव हानिप्रसङ्गात् । नो चेत्कथं वशीकृतमायात्वम् ? स्वस्वरूप-कलुषीकरणेऽपि परिहारकरणसामर्थ्येऽपि तदकर्तुर्मूर्खत्वस्यैव लोके दर्शनात् । न च सर्वस्य मिथ्यात्वग्रहवतः स्वस्वरूपे न किञ्चिदपि मायया कृतमिति निश्चयान्न परिहारे प्रवृतिरिति वाच्यम् । तथोत्वेऽन्तःकरणतादात्म्यादिबिशिष्टरूपस्य मिथ्यात्वेन फलभागित्वाभावनिश्चयात् स्वरूपे चेदानीन्तनदोषाणामुत्तरत्र सम्पादनीयस्याभावस्य निश्चितत्वाज्जीवमोक्षार्थं वेदव्यञ्जन-पूर्वकमवतारादिरूपैरन्यद्वारा च मोक्षशास्त्रप्रणयनानुपपत्तिः । मायायां दोषत्वं गृहीत्वा तन्निवृत्तेः स्वरूपात्मकज्ञानेनाजननाज्जीवानां ज्ञानमुत्पाद्य तद्द्वारा स्वनिष्ठविक्षेपशक्ति-विशिष्टमायानिवृत्त्यभिलाषेण चेत्तत्करणं तदात्यन्तं परमुखेनैव स्वप्रयोजनमभिलषतः कथभीश्वरत्वम् ? आप्तकामस्य का स्पृह्वेति श्रुतिविरोधश्च ।

न द्वितीयः । अत्यन्तहेयेषु मायातत्कार्येषूपादेयत्वबुद्धेस्तत्सत्यताग्रहं विनानुपपत्तेः । तथा च परमभ्रान्तत्वापत्तिः । रागादिप्रबलदोषापत्तिश्च ।

यदपि ‘अविद्याकार्यस्य बिम्बभूते ब्रह्मण्यभावत् तस्य निर्दोषत्वश्रुत्युपपत्तिः’ इति तदपि मन्दम् । मायाया एव हेयतया मुख्यदोषत्वात्तदाश्रयचित्तादात्म्येन मौढ्यस्य तत्कृतबिम्बत्व-जीवभेदजगद्व्यापारादीनामपि सुवर्णकृतशृृङ्खलाया इव दोषत्वानपायात् तत्सम्बन्धस्य सत्वेन निर्दोषत्वश्रुत्यनुपपत्त्यादीनामपरिहारादित्येषा दिक् ।

नापि विषयनिरूपणम् । न च चितो विषयत्वमभिहितमेवेति वाच्यम् । तत्र त्वदुक्तावरणप्रकृत्यादीनां मन्दानामेव मनोहरत्वात् । तथा हि । भवन्मूलकारणेन भवता च निष्कृष्टं ‘नास्ति न प्रकाशते इति व्यवहारयोग्यत्वमस्ति प्रकाशत इत्यव्यवहारयोग्यत्वमनाद्य-ज्ञानसम्बन्धरूपम्’ इवेति पर्यवस्यतीति स्फुटमेव । तथा चाविद्यासम्बन्धतन्नाशाभ्यां पूर्वं परतश्चाखण्डचित्स्वरूपे व्यक्त्याव्यक्तिविशेषादर्शनात्तत्सम्बन्धस्य निष्प्रयोजनत्वात्तदङ्गीकारो व्यर्थ इति वदन्तं प्रत्यविद्यासम्बन्धार्थमेवाविद्या स्वीक्रियत इति वदता किमधिकमाचरितमिति सर्वेषां स्फुटमेवेति । अनादेर्भेदस्य चिद्भास्यत्वमविद्याया अप्यनादितश्चित्प्रकाश्यत्वं चासङ्गचैतन्यस्याविद्यासम्बन्धं विनानुपपन्नमिति तत्राप्यविद्यापेक्षया प्रयुक्तदूषणान्युक्तान्येव । कल्पितानादिभेदवाशात् पूर्णानन्दांशा आवृता इत्यादिकमपि भेदानादित्वस्य निराकृतत्वा-दुक्तप्रक्रियाया अप्रामाणिकत्वाच्च निरस्तप्रायमेव ।

अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते’ इत्यादिश्रुतीनां भगवच्छक्तितदनुगृहीत-प्रकृत्यादिना जीवस्वरूपावरणपराणां जीवस्य सविशेषताया एव गमकत्वेन त्वदुक्तप्रक्रिया-परिकल्पकत्वाभावात् । किञ्च प्रक्रियाप्यनुपपन्नैव । तथा हि । ‘असत्वापादका-ज्ञानाभावोपहिता चित् सत्वं’ इत्यत्र असत्वं सत्वाभावो वा तदतिरिक्तमखण्डं वा अथवाऽसत्वापादकाज्ञानत्वमविद्यात्वव्याप्यजातिविशेषः ? नाद्यः । सत्वस्वरूपस्यैवेदानीं निर्वक्ष्यमाणतया स्वस्यैव निवेशे आत्माश्रयाज्ज्ञानप्रतिबन्धः । अन्यादृशस्य निवेशे तस्य देशकालसम्बन्धाद्यन्यस्याप्रामाणिकस्य वक्तुमशक्यत्वेन तस्यैवावश्यकस्य सत्वपदार्थ-त्वेनेदानीमेव त्वदभ्युपगतस्य सर्वत्राप्यस्तीति व्यवहारनिर्वाहकत्वसम्भवे तद्धटितस्योक्तसत्वस्य तादृशव्यवहारविषयताया अप्रामाणिकत्वाद्गौरवात्सर्वानुभवविरुद्धत्वाच्च ।

न द्वितीयः । अज्ञानेन चिति त्रैकालिकनिषेघप्रतियोगित्वरूपस्य वा निःस्वरूपत्व-रूपस्य वा तुच्छत्वस्यानापादनात् । तथात्वेऽघिष्ठानाभावेन जगत्प्रतीत्यनुपपत्तेः । स्वसत्ताप्रतीत्यनुपपत्तेश्च । जडेऽज्ञानस्य सम्बन्धायोगेन तत्र तदापादनस्याप्रसक्तेः । अज्ञानस्यावच्छेकत्वसम्बन्धोऽस्तीति चेत् तथात्वे तत्रोक्तासत्वापादने स्वावच्छेदकत्वस्यैव तत्राभावापत्तेः । न ह्यसतः शशविषाणादेः किञ्चित्प्रत्यवच्छेदकत्वम् ।

न तृतीयः । अविद्यैवानुपपन्ना आव्रियमाणनुपपत्तेरिति वदन्तं प्रति अविद्यात्वरूप-सामान्यजातेस्तद्व्याप्यजातिविशेषाणां च सुतरामभावेन तं प्रति तदभावस्य चित्यव्यावर्तकतया तद्धटितसत्वस्य निर्वक्तुमयोगात् । विकल्पितपक्षत्रयेऽप्युक्ताज्ञानप्रतिबन्धकत्वकथनस्य तद-नभ्युपगन्तारं प्रत्यसङ्गतेश्च । एवमभानापादकाज्ञानाभावोपहितचिद्भानमित्यत्रपि भानपदार्थस्य निविष्टस्योक्तरूपत्व आत्माश्रय एव । यदि चाज्ञानवृत्तिवैजात्यं तदा पूर्वोक्तरीत्यैव दोषः । यदि च साक्षात्कारविषयत्वं भानं तदभावापादकाज्ञानमित्युच्यते तदा साक्षात्कारविष-कत्वस्यैव भानत्वसम्भवे तदभावापादकाज्ञानाभावोपहितचितो भानपदार्थत्वमप्रयोजकम् । साक्षात्कारविषयत्वमेव भातीति व्यवहारविषय इत्यङ्गीकारे सुखादीनां वृत्तिविषयत्वाभावपक्षे भाति सुखमिति व्यवहारानुपपत्तिस्त्वदुक्तपक्षेऽपि चिद्भातीति व्यवहारानुपपत्तितुल्येत्युप-पादयिष्यमाणत्वात् ।

किञ्च भवदुक्तसत्वपक्षे भानपक्षे वा अज्ञानाभावोपहितचिदित्यत्र असत्वापादकाज्ञान-सामान्यं अभानापादकाज्ञानसामान्यं वा यदि निविष्टं, तदा घटादौ सत्ताभानादेः कदाऽपि व्यवहाराभावापत्तिः । एकाज्ञानापगमेप्यपराज्ञानस्य चिति सत्वेन प्रतिबन्धकसामान्यनाशस्य कदाप्ययोगात् । तत्तद्विषयावच्छिन्नचिन्निष्ठतादृशतादृशाज्ञानसामान्यस्य तथात्वेऽप्युक्तानुप-पत्तिरेव । पुरुषान्तरस्य तदैव तत्राज्ञानसत्वात्तत्पुरुषनिरूपितत्वस्य निवेशे विषयस्य वस्तुन इदानीं ज्ञानादस्ति भातीति व्यवहारः । तस्यैव विस्मरणवशात् कालान्तरे नास्ति न भातीत्येव व्यवहारः । न त्वस्ति भातीति व्यवहारः । तदनुरोधात्तत्पुरुषस्येदानीमेव तादृशाज्ञानसत्ताया आवश्यकतया इदानीं घटोऽस्तीति व्यवहारानुपपत्तिः । तादृशप्रति-बन्धकसत्वात् । अतस्तत्कालावच्छिन्नतत्पुरुषनिरूपिताज्ञानाभावोपहिता चित् इत्येवमज्ञानं निवेश्य तदज्ञानोपहिता चित् सत्ता, तज्ज्ञाने तदज्ञानं प्रतिबन्धकमिति रीत्यास्ति भातीति व्यवहारविषयनिर्वचनादिकं कर्तव्यम् । तथा चानेकाप्रामाणिकप्रतिबध्यप्रतिबन्धकभाव-कल्पनेनेह गौरवम् । सत्तापदार्थाननुगमात् । सत्वांशे भानांशे चानुगताकारसद्भावस्य सर्वानुभवसिद्धस्य विलोपप्रसङ्गः ।

मन्मते कालसम्बन्धो वा स्वरूपसत्वं वा सामान्याकारेण भासते । समभिव्याहृत-देशकालयोरन्वयादत्रेदानीं घटो नास्तीत्यादौ विशेषप्रतीतिः । एवं भातीत्यादौ साक्षात्कार-विषयत्वमेवानुगतमेव भासते । साक्ष्यपि साक्षात्कारात्मक एवेत्यङ्गीकारेण सर्वनिर्वाहात् । तव पुनरुक्तरीतौ घटोऽत्रास्तीत्यत्र समभिव्याहृतदेशकालाद्यन्वयायोगश्च । सुखाद्यवच्छिन्न-चिद्विषयकाज्ञानादेरभावेन सुखमस्त्यज्ञानमस्ति, सुखं भात्यज्ञानं भातीत्यादेरनुपपत्तिः । त्वन्मतेऽभानापादकाज्ञानस्य कार्यबलात् कल्प्यस्याप्रत्यक्षत्वेन तदभावस्याप्यप्रत्यक्षत्वेन तद्विषयकानुपलब्ध्यात्मकस्य मनोवृत्तिरूपस्य वाऽविद्यावृत्तिरूपस्य वा ज्ञानस्याप्रसिद्ध्या तद्धटितभानविषयकापरोक्षव्यवहारानुपपत्तिः । तादृशभाने तादृशाज्ञानस्य प्रतिबन्धकत्व-कल्पनानुपपत्तिश्च ।

एवमज्ञानसामान्याभावघटितभानपदार्थनिर्वचनेऽप्येषाऽनुपपत्तिरपरिहार्यैव । उक्ताभाना-पादकाज्ञानसाधारणधर्मावच्छिन्नाभावस्य योग्यानुपलब्धिविरहेणातीन्द्रियत्वात् । एवं तूला-ज्ञानानङ्गीकारपक्षीयपरिष्कारेऽपि सामान्यतो वृत्तिविषयत्वाभावेनातिप्रसङ्गात् पुरुष-विशेषादिनिवेशे उक्ताननुगमादिदोषा ऊह्याः । एवं सर्वपक्षेऽपि चिदस्ति भातीत्यादि-व्यवहारानुपपत्तिर्जागरूकैव । चिति चित्तादात्म्यानङ्गीकारात् । उपहितचित्तादात्म्यं चित्यस्त्येव । परन्तु शुद्धचित्तादात्म्यं शुद्धे नास्तीति ममाभ्युपगम इति चेत् तर्हि मिथ्यात्वहेतुभूतचित्तादात्म्यरूपदृश्यत्वशरीरे शुद्धचित्वेन निवेशे सर्वत्रापि अविद्यातिरिक्तप्रपञ्चे एव उपहितचित्तादात्म्यरूपदृश्यत्वस्य सत्वाद्भागासिद्धिः । चित्वेनैव निवेशे उक्तचित्ता-दात्म्यस्य सत्वाच्छुद्धचिति व्यभिचारः । तादात्म्यवैलक्षण्यन्त्वप्रामाणिकत्वादिना निराकृत-मधस्तात् । वृत्त्यवच्छिन्नचित्तादात्म्यं दृश्यत्वं चेच्चरमवृत्त्यवच्छिन्नचित्तादात्म्यस्य शुद्धचित्य-वर्जनीय त्वाव्द्यमिचार एव । वृत्तिविषयत्वमात्रेण चित्यस्ति भातीति व्यवहारश्चेत् किमन्यत्रापराद्धम् ? किमन्यत्राप्यप्रामाणिकपरम्पराकल्पनया ?

एवं ‘नास्तीति व्यवहारे अज्ञानमेव सतः’ इत्यादिकमप्यशुद्धम् । तथात्वे सप्तमपदार्थ-रूपाभावस्यैवापलापप्रसङ्गात् । तस्य तदेकप्रमाणत्वात् । तथा च त्वदभिमताज्ञानं भाव-रूपमिति विशेषोक्त्ययोगः । मिथ्यात्वपरिष्काराद्यनुपपत्तिः । अज्ञाते शशविषाणादौ अज्ञानस्याभावात् असति चित्तादात्म्याभावादत्राज्ञानं नास्ति शशविषाणं नास्तीत्यादेरनुप-पत्तिश्च । एवं प्रातिभासिकसामान्यस्याभावग्रहं प्रति स्वरूपत एव विरोधित्वे स्वनाशं विना स्वाभावग्रहरूपबाधप्रमानुदयापत्त्या तदुच्छेदस्यैवायोगेन प्रातिभासिकमूलाज्ञानस्याप्यनिवृत्त्या मोक्षस्यैवाभावप्रसङ्गः । व्यावृत्ताकारेणाधिष्ठानप्रमैव तन्निवर्तिकेति चेत् । न । अधिष्ठानस्यैव प्रातिभासिकस्वरूपत्वेनोक्तदोषानिस्तारात् । नात्र रजतमित्यादिबाधज्ञानेन तदज्ञानरजतो-च्छेदस्य सर्वानुभवसिद्धस्यापलापापत्तिश्चेत्येवमादयो दोषाः सूक्ष्ममतिभिरनुसन्धेया इत्यलम् ।

जीवाश्रिताज्ञानपक्षेऽपि शुद्धचित्यावरणरूपत्वस्यानुपपत्त्यादयः उक्तरीत्या समा एव । परन्त्वधिका अपि दोषाः सन्ति । तथा हि । शुद्धचिदाश्रितत्वपक्षे शुद्धचिद्रूपे पूर्णानन्देऽविद्याप्रतियोगिकतादात्म्यरूपस्याविद्यासम्बन्धस्य कथञ्चिद्वक्तुं शक्यत्वात् उक्त-योग्यत्वरूपमावरणकृत्यं सम्भवति । अज्ञानोपहित एवाज्ञानं न तु शुद्ध इति मते शुद्धेऽज्ञानसम्बन्धस्यैवाभावात्कथमुक्तरूपावरणकृत्यं सम्भवति । अज्ञानोपहित एवाज्ञानं न तु शुद्ध इति मते शुदेऽज्ञानसम्बन्धस्यैवाभावात्कथमुक्तरूपावरणकृत्यम् ? अज्ञानोपहितस्य शुद्धा(भेदा)श्रितत्वाच्छुद्ध उपहितधर्मसम्भव इति चेन्न । तर्हि शुद्ध एवाज्ञानसम्बन्ध अङ्गीकृतः स्यात् । अतः शुद्धे नाज्ञानमिति मतहानिः । उपहितस्यापि मिथ्याभूतस्याज्ञान-विषयत्वापातश्च । तथा चाज्ञानप्रयुक्तत्वरूपाज्ञानजत्ववतोऽज्ञानविषयत्वेऽन्योन्याश्रयः । मनोवच्छिन्नचिदादेरज्ञानविषयत्वे तत्प्रकाशानुपपत्तिरिति ग्रन्थेन त्वदुक्तस्य, जडस्य जीवस्य च अज्ञानविषयत्वे बाधकस्यात्राप्यविशेषः । अज्ञानोपहितस्याप्यज्ञानप्रयुक्तत्वाज्जन्यताया एव विवक्षणेन अनादिजीवेशभेदादेरविद्याविषयत्वे बाधकाभावापातात् । अज्ञानोपहितस्याहमज्ञ इति प्रकाशेन प्रकाशानुपपत्तिरूपबाधकस्यात्राप्यविशेषात् ।

ननु शुद्धचित्यविद्यानिरूपितमाकाराख्यविषयत्वमभ्युपगम्यत इति चेत् । किं तावता ? तन्मात्रेणावरणकृत्यस्यानुपपादनात् । चिति तन्मात्रेण कस्यचिदपि विशेषादेरभावस्योप-पदितत्वात् । अज्ञाननिरूपिताकाराख्यविषयत्वाभावोपहितचित्तादात्म्यमेवास्तित्वमित्यादि-रीतिरेवैतन्मते अभ्युपेयते चेत्तदाऽप्यनिर्वाह एव । चिति स्वतादात्म्याभावस्योपपादित्वे- नोक्तसत्ताभानयोर्निरूपयितुमशक्यत्वात् । तादृशविषयत्वाभावस्यैव सत्ताभानादिरूपत्वे शशविषाणादावज्ञायमानजडेष्वपि तस्य सत्वात् शशविषाणमस्ति भाति धर्मादिकं भाती-त्यादिव्यवहारापत्तिः ।

किञ्चाविद्यायाश्चित्प्रकाश्यत्वं यत्त्वदभ्युपगतं किं चिन्निरूपितमाकाराख्यविषयत्वमुत तत्तादात्म्यम् ? नाद्यः । चिन्निरूपिताकाराख्यविषयतायास्त्वदनभ्युपगतत्वात् । अभ्युपगमे वा सर्वजडेष्वपि तादृशदृग्विषयत्वस्यैव सम्भवात् तत्तादात्म्यस्यानुपपन्नत्वरूप-बीजाभावापातेनाध्यासिकसम्बन्धासिद्ध्या जगन्मिथ्यात्वासिद्धिः । न द्वितीयः । चित्ता-दात्म्यस्याविद्यायां सत्वे परस्पराध्यासानुरोधाच्चित्यविद्यातादात्म्यस्यावर्जनीयतया तस्यैव विषयत्वसम्भवे किमाकाराख्यविषयतान्तरकल्पनया ? नन्वज्ञानोपहितसाक्षी अज्ञानप्रकाश-रूपोऽतोऽविद्यातादात्म्यं तत्रास्ताम् । पूर्णानन्दे शुद्धचिति चाकाराख्यविषयतैवाभ्युपेयते इति चेन्न । स्वस्य स्वोपहितचित्प्रकाश्यत्वस्यात्माश्चयादिदुष्टत्वात् । उपहितस्य शुद्धारोपितस्य प्रकाशात्मकत्वे मानाभावाच्च । वाचस्पतिमते शुद्धे कस्यापि धर्मस्यानङ्गीकृतत्वेना-काराख्यविषयत्वमपि स्वोपहित एवेति शुद्धस्यानावरणप्रसक्तिः ।

एतेनाविद्याविषयत्वेनैव सर्वविषयकत्वात् स्वरूपज्ञानस्य तेनैवेशस्य सर्वज्ञत्वमित्यपि प्रत्युक्तम् । उपहितस्य मिथ्यात्वेन ज्ञानात्मकत्वाभावात् । अन्यथा जडत्वहेतोस्तत्रा-सिद्धिप्रसङ्गात् । शुद्धे चाज्ञानविषयत्वाभावेन स्वरूपज्ञानसर्वविषयकत्वसम्पदाकत्वायोगात् । न चैतन्मतेऽविद्याविषयत्वोपहित एवावरणकृत्यमस्त्विति वाच्यम् । तथात्वे चरमवृत्ते- रज्ञानसमानविषयकत्वाभावापातेनाज्ञानानिवर्तकत्वापातात् । यथाकथञ्चित्तदुपपत्तिप्रकारप-रम्पराश्रयणे च गौरवमवर्जनीयम् । अन्यथा जडस्यैवाज्ञानाश्रयत्वं च स्यात् । न चाज्ञान-सिद्ध्यनन्तरं जडस्योत्पत्तिस्तदनन्तरं तत्सत्वमित्यन्योन्याश्रयः, एवं जडस्यास्वप्रकाशत्वेन तत्रावरणकृत्याभावात्तस्य विषयत्वानुपपत्तिश्चेति वाच्यम् । उत्पत्त्यनन्तरमेव शुक्त्यादेर-ज्ञानावच्छेदकत्ववत् उत्पत्त्यनन्तरमेव जडस्याविद्याश्रयत्वं पूर्वं तु जातितुल्या सा निराश्रयतयैवावतिष्ठते । नैयायिकमते प्रलये गोत्वादिरिव ।

अथवा अनादिजीवेशविभागादेरेव तदाश्रयत्वमस्तु । एवमुक्ताज्ञानसम्बन्धस्य जडे एव आवरणकृत्यतया भवन्मतपर्यवसानेन तादृशावरणकृत्यं अनादिजडेषु उत्पत्त्यनन्तरं सादिजडेषु वा सम्भवति । आकाराख्यविषयताऽपि तत्रैव स्वीक्रियताम् । चिन्मात्रविषयकचरमवृत्ते-रसमानविषयिण्या अप्यज्ञाननिवर्तकत्वं ज्ञानेन बन्धनिवृत्तिश्रुतिप्रामाण्याच्छक्तिपुरस्कारे-णैवास्ताम् । अहमज्ञ इति न जानामीत्यादिप्रतीतिस्तु अन्तःकरणविषयिण्येवास्ताम् । इत्यादिकल्पनया जडस्याप्यज्ञानाश्रयत्वविषयत्वसम्भवस्य शक्योपपादनत्वेन तत्परित्या-गेनोक्तरीत्यङ्गीकारे बीजाभावापातः । अप्रामाणिकत्वस्योभयत्रापि तुल्यत्वात् । मायिनमिति श्रुतेः शुद्धचिन्मात्रे स्वोपहितचिन्मात्रेऽज्ञानवत्वे प्रमाणत्वस्य निराकृतत्वात् । तस्य यथाकथञ्चिज्जडविषयकत्वेन त्वदभ्युपगतचिद्विषयकत्वेनेव नेतुं शक्यत्वात् । ‘ज्ञाज्ञा-वजवीशानीशौ’ इतिश्रुतेरज्ञशब्देन नित्यभूतभेदे अज्ञानाश्रयत्वबोधकत्वेन जडो न जानातीति व्यवहारादेर्जडेऽप्यज्ञानसत्वावेदकत्वस्य वक्तुं शक्यत्वाच्च ।

यदपि पूर्वमुक्तं ‘स्वरूपज्ञानस्य नाज्ञानविरोधित्वम्’ इति तदप्ययुक्तम् । अज्ञाना-विरोधिनः शुद्धत्वादेव व्यवहाराद्यनुकूलशक्तिविषयविषयीभावादिधर्मविधुरस्य ज्ञानत्वे घटस्यापि तथात्वस्यावर्जनीयत्वापातात् ।

यदपि पूर्वमुक्तं ‘अज्ञानादिविषये प्राप्तानुपपत्त्यभ्युपगमो न कुलधर्मः’ इत्यादि तदयुक्तम् । अनुपपत्तेः स्वोक्तार्थविघातकत्वे तन्मध्ये कासाञ्चिदनुपपत्तीनां परिहृतत्वेऽप्य-न्यैरेवोक्तार्थविघातसम्भवे यत्किञ्चिदनुपपत्तिमात्रपरिहारस्याकिञ्चित्करत्वात् । स्वोक्तार्थोप-योगित्वे स्थूलस्य वा सूक्ष्मस्य वा स्वोपयोगिनः पदार्थस्य प्रेक्षावद्भिर्हातुमशक्य-त्वान्महायुक्तिभिः सहाभ्युच्चययुक्तित्वेन सर्वानुपपत्तीनां वक्तव्यत्वेन तत्परित्यागस्य कौशल्या-सम्पादकत्वात् । न च पूर्वोक्तरीत्या कल्पनादिना परिहर्तुं शक्यन्त इति ता अनुपपत्तय एव न भवन्तीति नोच्यन्त इति वाच्यम् । तर्हि त्वदीयसंसर्गखण्ड-नादियुक्तीनामपि वाद्यन्तरोक्तरीत्या यथाकथञ्चित्कल्पनादिना परिहर्तुं शक्यत्वात्तत्कथन-मप्ययुक्तमेवेत्यलम् ।

तस्मादज्ञानसद्भावे प्रमाणाभावात्परमत आश्रयविषयानुपपत्त्या निरूपयितुमशक्यत्वाच्च नाज्ञानं जगत्कारणे भगवति ब्रह्मणीति न तस्य जगत्प्रति विवर्तोपादानत्वम् । अतो जगतः सत्यत्वात्सर्वव्यवस्था सत्यैवेति न मुक्तत्वहेत्वसिद्धिर्नापि प्रमाणबाधश्चेत्युक्तं युक्तमेवेति स्थितम् ।