न च निर्विशेषब्रह्मवादिनः..

शून्यवादमायावादयोः परप्रमेये वैलक्षण्याभावोपपादनम्

श्रीमज्जयतीर्थटीका

एवमपरप्रमेये वैलक्षण्याभावमुपपाद्य परप्रमेयेऽपि तमुपपादयति

मूलं

न च निर्विशेषब्रह्मवादिनः शून्यात्कश्चिद्विशेषस्तस्य

यद्यपि मायावादी जगत्कारणं ब्रह्म वदति शून्यवादी च शून्यं तथापि ब्रह्मवादिन-स्तस्य ब्रह्मणः शून्यान्न कश्चिद्विशेषः । निर्विशेषत्वेनाङ्गीकृतत्वात् । निर्विशेषमपि ब्रह्म शून्याद्विशिष्यत इत्यङ्गीकारे स्वव्याघातात् ।

मा भूच्छून्याद्ब्रह्मणो निर्विशेषत्वाद्विशेषः । शून्यस्य तु ब्रह्मणो विशेषः किं न स्यादिति मन्दाशङ्कामपनुदन् ‘न केवलं स्वव्याघातात् विशेषाभावो ब्रह्मशून्ययोः । किन्नाम । यादृशं शून्यवादिनः शून्यं मन्यन्ते तादृशमेव मायावादिनो ब्रह्माङ्गीकुर्वते अतोऽपि’ इत्यभिप्रायेण शून्यवादिवाक्यं तावत्पठति

मूल

निर्विशेषं स्वयं भांत निर्लेपमजरामरम् ।

शून्यं तत्वम् ..................।।

शून्यमित्युक्ते निःस्वरूपत्वं प्राप्तम् । अत उक्तं तत्वमिति । तर्हि कथं शून्यमित्यत आह ।। निर्विशेषमिति ।। सविशेष एव वस्तुनि प्रमाणप्रवृत्तेः तदसिद्धिःस्यादित्यत उक्तम् ।। स्वयंभातमिति ।। अनेनात्मैव शून्यमित्युक्तम् । अन्यथा तस्य स्वयंभातत्वेन जिज्ञासोः कथं तत्सिद्धिः स्यात् । तथा चाऽत्मनः पापादिलेपो जरामरणादिकश्च विशेषो दृश्यत इत्यतो देहधर्मा एवैते नाऽत्मधर्मा इति भावेनोक्तम् ।। निर्लेपमजरामरमिति ।। तथापि स्वयंभातपदेन स्वविषयप्रकाशत्वं विशेष उक्त इत्यत आह–

मूल

...... ......अविज्ञेयम्..............।

तदेव विवृणोति

मूल

... ... मनोवाचामगोचरम् ।।

अपरप्रकाश्यत्वं स्वयंभातत्वम् । न तु स्वविषयप्रकाशत्वमिति ।

द्वैतद्युमणि:

।। मन्दाशङ्कामिति ।। शून्यस्य ब्रह्मणः सकाशाद्विशेषसत्त्वे ब्रह्मणः शून्य-वृत्तिवैलक्षण्यप्रतियोगित्वलक्षणविशेषप्राप्त्या निर्विशेषत्वभङ्गापत्त्या नैषा शङ्का सुज्ञानां युक्ता । अतो मन्देत्युक्तम् । यद्वा सर्वविशेषशून्यत्वादेव शून्यमिति व्यवहारगोचरत्वात्तस्य विशेषवत्त्वशङ्का पण्डितानां न भवतीत्यतो मन्दाशङ्केत्युक्तम् ।। अन्यथेति ।। स्वयंप्रकाशस्य शून्यस्यात्मान्यत्वे । निर्लेपत्वादेरप्रसक्तप्रतिषेधपरत्वशङ्कानिरासायाह ।। तथा चेति ।। शून्यस्यैवात्मत्व इत्यर्थः ।

Load More