अनिर्वचनीयासिद्धेश्च ..

अनिर्वचनीयत्वस्य मिथ्यात्वे भेदनिराकरणोपपत्तिशङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

सदसद्विलक्षणत्वं मिथ्याभूतमङ्गीक्रियते । भेदस्तु पारमार्थिक एव निराक्रियते । तत्कथं भेदाङ्गीकारनिराकरणयोर्विरोधः । न हि मिथ्याभूतं चन्द्रभेदमङ्गीकृत्य पारमार्थिकतन्निरासे विरोधो भवतीत्यत आह ।

मूलं

अनिर्वचनीयासिद्धेश्च सद्विलक्षणत्वमसद्विलक्षणत्वं च मिथ्येत्य-विलक्षणत्वमेव सत्यं स्यात्

यदि विरोधपरिहाराय जगतः सद्विलक्षणत्वमसद्विलक्षणत्वं च मिथ्येत्यङ्गीक्रियते तदा अनिर्वचनीयस्योक्तरीत्या प्रमाणाभावेनासिद्धेर्मिथ्याशब्दस्य तदर्थत्वानुपपत्तौ असदर्थत्वे चाङ्गीकार्ये जगतः सदसदात्मकत्वं सत्यं प्रसज्येत । स्तम्भे स्तम्भवैलक्षण्यस्यासत्त्वे स्तम्भात्मकत्वस्य सत्यत्ववदिति ।

द्वैतद्युमणि:

।। जगतः सदसदात्मकत्वं सत्यं प्रसज्येतेति ।। ननु ‘साधकप्रमाणाभावेन अनिर्वचनीयं निराकृत्य बाधकेनाऽपि निराचष्टे’ इत्युपक्रान्तम् । इदानीं तु अनिर्वचनीये प्रमाणाभावमभिधायासत्त्वपक्ष एवेदं दूषणमभिहितम् । तथा च कथं न पूर्वोत्तरविरोध इति चेन्न ।

यतोऽत्रानिर्वचनीयाङ्गीकारे स्वव्याहतत्वादिरूपबाधकप्रदर्शनार्थमयं ग्रन्थः प्रवृत्तः । तत्राङ्गीकारनिराकरयोर्व्याहतिपरिहाराय पारमार्थिकभेदनिराकरणं मया क्रियत इत्युक्ते तत्रानेन ग्रन्थेनेदमुच्यते ‘‘लोके सत्त्वासत्त्वौदासीन्येन प्रतीतिर्नास्तीति स्थितिः । तत्र ‘इदं सद्विलक्षणम्’ इत्यादिवाक्यं सद्विलक्षणत्वं पारमार्थिकत्वेनैव बोधयति । तन्निषेधवाक्यमपि सत्त्वनिषेधरूपमसत्त्वं भेदे सत्त्वेनैव बोधयतीत्येकत्र विरुद्धे सत्त्वासत्त्वे बोधयतोर्वाक्ययो-र्व्याहतिः१ । एवं सद्विलक्षणत्वं जगत्यसत्त्वरूपम् । तदभावेऽभिहिते तदेव सत्त्वमित्येवं जगतः सत्त्वासत्त्वोभयप्राप्त्या व्याहतिः । वचनविरोधस्य विषयविरोधमूलत्वात्’’ इत्यभिहिते तत्र ‘‘जगति निषिद्ध्यमानोऽपि भेदः सत्त्वाभाववानपि नासत्त्ववान् । जगति तद्भेदसत्त्वेऽपि न तन्निराकरणेन पुनः सत्त्वम् । अतो न व्याहतिः । अनिर्वचनीयस्य तृतीयप्रकार-स्याङ्गीकारात्’’ इत्याशयेन शङ्कितम् । तन्न घटते । तत्र प्रमाणाभावेन तेन रूपेण भेदादि-जगतां बुद्धावनायोहेणोक्तवाक्याभ्यामुपपादितरीत्या विरुद्धधर्मवत्त्वेनैव प्रतीयमानत्वाद्व्याहति-र्दुर्वारैव’ इति । तथा च कथं पूर्वोत्तरविरोधः ।

ननु एवं तर्ह्यनिर्वचनीयाङ्गीकारमूलकत्वं कथमस्य दोषस्य । तत्परित्यागोपजीवने-नैवैतद्दोषस्य प्राप्तत्वात् । एवं प्रमाणाभावोपजीवनेनैव प्रवृत्तिश्चास्य दोषस्य । तथा च ‘अनिर्वचनीयाङ्गीकारे’ इति तत्पक्ष एव बाधकप्रतिज्ञा । ‘एवं प्रमाणाभावेन निराकृत्य बाधकेन च’ इत्यनेनोक्ता प्रमाणाभावानुपजीविरीत्यन्तरेण निराकरणप्रतिज्ञा च विरुद्ध्य-त्येवेति चेन्न । भेदं निराकुर्वतोऽपि परस्य पुनर्भेदोक्तिः स्वाभ्युपगतानिर्वचनीयनिर्वाहार्थैवेति उक्तबाधकस्य तन्मूलत्वाव्याहतेः । अत एव मूलव्याख्यावसरे ‘यदि वियदादिकमनिर्वचनीय-मङ्गीक्रियते’ इति तदेवापादकं कृतम् । अत एवावतारिकावाक्येऽनिर्वचनीयपदं तदङ्गीकार-परमित्यदोषः । प्रमाणाभावानुपजीवने तु न कस्यापि बाधकस्य प्रवृत्तिः । प्रमाणसिद्धार्थ-बाधनाक्षमत्वात् । अत एव समुच्चायकच१शब्दप्रयोगः । पर्यवसानभेदेन दूषणान्तरत्वमिति न मिथ्याशब्दस्याभिप्रायान्तरकल्पनाप्रयुक्तदोषान्तरत्वमस्येति सर्वं समञ्जसमेवेति । तथा च जगत इत्यस्य भेदादिरूपस्येत्यर्थः ।। प्रसज्येतेति ।। तथा च विषयविरोधापरिहारात्स्ववचन-विरोधो दुर्वार इति भावः ।