मुक्तामुक्तयोर्भेदाभावे..

मुक्तत्वानुमानस्य विपक्षे बाधकोक्तिः

श्रीमज्जयतीर्थटीका

नन्वस्तु मुक्तत्वं भेदस्तु माभूत् किं बाधकम् । तथा च विपक्षे बाधकाभावादप्रयोजको मुक्तत्वहेतुर्भिन्नत्वस्येति तत्राह ।

मूलं

मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो मुक्तत्वं वा स्यात् ।

यदि मुक्तस्य भेदो न स्यात्तदा संसारिणोऽपि तादात्म्यमुक्तं स्यात्ततश्च मुक्तस्य संसारिणैकीभूतस्य तद्गतः संसारः प्रसज्येत । तथा च मुक्तत्वमेव न स्यात् । अथ वा मुक्तेनैकीभूतस्य संसारिणो मुक्तत्वं स्यात् । तथा च मुक्तामुक्तव्यवस्थाभावः प्रसज्येत । न हि स एव तदैव मुक्तोऽमुक्तश्चेति युज्यते । अतःकथं विपक्षे बाधकाभावः ।

ननु मुक्तस्य संसारः स्यादिति किं संसाराधिकरणस्वरूपैक्यमापाद्यते उत संसारानु-भवः । नाद्यः । इष्टापादनात् । आपाद्याऽपादकयोर्भेदभावाच्च । न द्वितीयः । अनुभव-स्यान्तः करणादिसापेक्षत्वात् । अन्तःकरणादेश्चाज्ञानकृतत्वात् निवृत्ताविद्यस्य च तदन्व-यायोगात् । एवं संसारिणो मुक्तत्वं स्यादिति कोऽर्थः । किं संसाराधिकरणस्वरूपस्यैव मुक्तत्वं स्यादिति । किं वा संसारिण एव सतो मुक्तत्वानुभवः स्यादिति । न तावत्प्रथमः । पूर्ववदिष्टापादनादिप्रसङ्गात् । न द्वितीयः । संसारिणो मुक्ताद्भेदसद्भावात् । मुक्तस्य संसारिणो भेदाभावे कथं संसारिणो मुक्ताद्भेद इति चेत् । स्यादप्येषा अनुपपत्तिः । यद्ययं भेदो वास्तवः स्यात् । अज्ञानकृतो हि मुक्तात्संसारिणो भेदः । सोऽज्ञानिनः संसारिणाः प्रतीयते । न निवृत्ताज्ञानस्य मुक्तस्यातः काऽनुपपत्तिरित्याशङ्क्याऽऽह ।

मूलं

यद्यज्ञानकृतो भेदस्तर्हीश्वरस्याज्ञानभावात्संसारिणैक्यं तेनानुभूयेत ।

अत्र भिद्यत इति भेदोऽन्तःकरणादिकमुच्यते । यद्यनुभवनिमित्तमन्तःकरणादि कमज्ञानकृतमिति निवृत्ताज्ञानस्य तदभावात् संसारानुभवो न प्राप्नोति । यदि वाऽज्ञानकृतो भेदो मुक्तात्संसारिणोऽस्तीति न तस्य मुक्तत्वानुभवप्रसङ्गः । तथाऽपीश्वरेण संसाणिणैक्य-मनुभूयेतेति विपक्षे बाधकमस्त्येव । कुतः । ईश्वरस्याज्ञानाच्छादनाभावात् । विक्षेपसद्भावा-भ्युपगमाच्च ।

नन्विदमसङ्गतम् । मुक्तस्य भेदाभावे बाधकमुपक्रान्तम् । ईश्वरस्य संसारिणैक्यानु-भवस्त्वापाद्यते । मैवम् । मुक्तशब्देनेश्वरस्याप्यत्र संग्रहणादिति । उक्तं चैतत् प्राक् ‘ईश्वरोऽपि विमतपदेन गृह्यते’ इति ।

 यदुक्तं मुक्तस्यान्तःकरणाद्यभावान्न संसारानुभवप्राप्तिरिति । तदसत् । निर्विशेषैकरसे चैतन्ये अन्तःकरणसंर्गभावाभावयोरप्ययोगात् । अज्ञानसदसद्भावाभ्यामिति चेत् । एतदपि तादृगेव । एवं संसारिणोऽज्ञानकल्पितभेदसद्भावोऽपि परास्तः । मुक्तस्यापि प्रसङ्गात् । बिम्बप्रतिविम्बयोरिवावदातत्वमलिनत्वे मुक्तामुक्तयोर्व्यवस्था किं न स्यादिति चेत् न । विप्रतिपत्ते’रिति यद्यपि पूर्वोक्तावतिप्रसङ्गौ शक्योपपादनौ । तथाऽपि शिष्यैरेव तदूह्यतामित्यतिप्रसङ्गान्तरमेतदुक्तमिति ज्ञातव्यम् । अन्यथा नावक्ष्यदेवेति ।

द्वैतद्युमणि:

पक्षे हेतुसिद्ध्यनन्तरमेव तस्य प्रकृतसाध्यसाधने प्रयोजकत्वविचारावसरात् हेत्वसिद्धिपरिहारानन्तरमवसरप्राप्तं विपक्षे बाधकप्रदर्शकमूलं व्याख्यातुमवतारयति ।। नन्विति ।। मुक्तस्य संसारः स्यादिति मूलेनापादितं मुक्तत्वसंसारयोः सामानाधिकरण्यमाश्रयैक्या-पादनपर्यवसन्नमिति तत्रैव तात्पर्यम् ? उत मुक्तत्वविशिष्टे संसारबन्धानुभवितृत्वरूप एवापाद्यः, अन्यादृशस्यानिष्टत्वाभावादिति तत्रैव तात्पर्यं मूलकृताम् ? इत्याशयेन विकल्प्य दूषयति ।। नन्विति ।। आपाद्यापादकयोरिति ।। भेदाभाव इति ।।

न चोक्तभयादेव मुक्तामुक्तयोर्भेदाभावश्चेत् संसारस्य मुक्तत्वसामानाधिकरण्यं स्यादिति यथाश्रुतमूललभ्यार्थ एव स्वीक्रियताम् । किमुक्तदूषणदुष्टपक्षे पर्यवसानेनेति वाच्यम् । धर्मद्वयाश्रयैक्यग्रहस्यैव धर्मद्वयसामानाधिकरण्यविषयकत्वेनैतयोः समानसंविद्विषयत्वे, पक्षे पूर्वन्त्वज्ञातत्वात्मकवैलक्षण्यरूपभेदाभावस्य तत्रपि सम्भावात् । न च तत्रादोषत्वम् । हेतुसिद्धिकाल एव सिद्धस्यासाध्यत्ववत् आपाकग्रहकाल एव गृह्यमाणस्यानापाद्यत्वात् । ह्रदे वह्निरस्त्विति वदन्तं प्रति वन्हिना वन्ह्यधिकरणत्वापादनादर्शनात् । वस्तुत आपाद्यापाद-कयोरैक्यप्रभेदे व्याप्यव्यापकभावानङ्गीकारमते तर्काङ्गभूतव्याप्तिवैधुर्यसम्पादको भवतीति भवति तर्कदूषणम् ।

पूर्वोक्ततर्कद्वयेऽप्यनुपपत्तिपरिहारपरत्वस्य मूले दर्शयितुं भेदपदमन्तःकरणपरतयाऽपि व्याकुर्वन् तर्कद्वयमुपपादयति ।। अत्रेति ।। अज्ञानस्यैव भेदकत्वेऽन्तःकरणादेस्तत्प्रयोजक-त्वाभावादिन्धनकर्मव्युत्पत्तिर्मतरूपाऽऽदृता ।। अज्ञानाच्छादनाभावादिति ।। आवरणशक्ति-विशिष्टाज्ञानसम्बन्धाभावात् जैवदुःखादेरीश्वरं प्रत्यनावृतत्वात् चिदैक्याच्चेति भावः । ननु चिदैक्येऽप्यनुभवप्रयोजकमायासम्बन्धाभावात् स्वतो निर्विशेषत्वान्नानुभवापादनं युक्तमित्यत आह ।। विक्षेपेति ।। ईश्वरस्य स्वरूपज्ञानेन वाऽविद्यावृत्त्या वा जगज्ज्ञानतदनु-कूलेच्छाकृत्यादिनिर्वाहाय आवरणशक्तिविशिष्टाविद्यासम्बन्धाभावेऽपि विक्षेपशक्तिविशिष्टा-विद्यासम्बन्धस्य तत्राङ्गीकृतत्वादिति भावः । भास्करमतेऽपीश्वरस्य नित्यमुक्तत्वसर्वज्ञत्वादी-नामङ्गीकृतत्वात्तं प्रत्यप्युक्तापादनं युक्तमेवेति द्रष्टव्यम् ।

नन्वीश्वरस्य यदि जीवगतदुःखादिप्रत्यक्षमापाद्यते तदेष्टापत्तिः । यदि च तत्रत्यताग्रह आपाद्यते तदाऽज्ञानरूपाच्छादनस्य तत्र हेतुत्वात्तदभावादेव तदापादनायोगः । सत्यतया तद्धर्मत्वेन दुःखादिप्रत्यक्षस्यैव तदनुभवरूपत्वाभावात् । सत्यतया स्वधर्मत्वेन प्रत्यक्षमात्रत्वेन दुःखादिप्रत्यक्षस्यैव तदनुभवरूपत्वाच्च । अन्यथा ईश्वरस्य सर्वज्ञत्वेन जैवदुःखादेः सत्वेन प्रत्यक्षस्यावर्जनीयतया त्वन्मतेऽप्यगतेरिति चेन्न । जीवप्रतियोगिकभेदाभावस्य भेदसामान्या-भावेनैव प्राप्त्या आच्छीदनस्याप्यवर्जनीयतया सत्यत्वेन स्वधर्मतया तद्ग्रहस्य बलादापत्तेः । विक्षेपशक्तेरविद्यमानाकारप्रतिभासकत्वाच्च सुखदुःखादौ सत्यताभानस्यावर्जनीयत्वाच्च ।

न च काल्पनिकभेदस्येश्वरे मयाऽभ्युपगमान्नोक्तापत्तिरिति वाच्यम् । काल्पनिकपदेन प्रातिभासिकस्योक्तौ तस्य व्यवस्थानिर्वाहकत्वाभावेन तदङ्गीकारमात्रेणापत्तिपरिहारायोगात् । अन्यथा चैत्रकल्पितेन प्रातिभासिकस्वभेदेन मैत्रस्य स्वकीयसुखाद्यनुभवाभावापातात् । व्यावहारिकभेदस्तु मुक्तौ भेदसामान्यविषयकविप्रतिपत्तिदशायां न वक्तुं शक्यः । तादृशप्रतिपत्तिस्तु साधितैवाधस्तात् । यदा त्वनिर्वचनीयवस्तुनिरासानन्तरमेव मेदसामान्ये विप्रतिपत्तिस्तदा काल्पनिकभेद इत्युक्तेरवकाश एव नास्तीति न काप्यनुपपत्तिः ।

यदा तु पूर्वोक्तरीत्या चरमसाक्षात्कारस्यैव पक्षतयाऽनुमानप्रवृत्तिस्तदा स्वध्वंसवत्व-सम्बन्धेन भेदाधिकरणकालसम्बद्धत्वरूपहेतुमङ्गीकृत्य भेदाधिकरणकालपूर्वत्वादिरूप-साध्याङ्गीकारेण एतन्मूलोक्तव्यवस्थानुपपत्तिरूप एव तर्क ऊह्यः । तथा हि । उक्तपक्षे साध्यानङ्गीकारस्तदधिकरणक्षणोत्तरक्षणे भेद(दृश्य)सामान्याभावाद्वा तादृशसाक्षात्का-राधिकरणक्षणोत्तरक्षणस्यैवाभावाद्वा । आद्ये द्वितीयक्षणे दृश्यसामान्याभावे क्षणत्वादिधर्माणां बन्धतद्ध्वंसभेदादेः सर्वस्याभावे तस्य क्षणत्वमुक्त्यधिकरणकालत्वाद्यनुपपत्तिः । बन्धतद्ध्वंस-योरैक्ये बन्धस्यैव मुक्तित्वापत्तिः । साक्षात्कारक्षणोत्तरक्षणानभ्युपगमपक्षे प्रथमक्षणस्य नित्यत्वे तेन द्वितीयेन सद्वितीयत्वापत्त्या मुक्तत्वानुपपत्तिः । अनित्यत्वे तद्ध्वंसस्य कालसम्बन्धरूपोत्पत्त्ययोगः । एतदन्यप्रकारान्तस्य निरूपयितुमशक्यत्वात् । ‘दृष्ट्वैव तं मुच्यते’ इत्यादिदर्शनोत्तरकालबोधकबह्वागामाप्रामाण्यापत्तेश्चेति ।

भास्करमतेऽपि संसारिभेदाभावस्येश्वरमुक्तेऽङ्गीकारे संसारिवदेव संसारिगतान्तः करणादिसम्बन्धस्यावर्जनीयतया दुःखादिरूपसंसारानुभवः स्यादेवेत्यापादनं स्फुटमेव । संसारिणि मुक्तप्रतियोगिकभेदस्य संसारिणि मुक्तत्वानुभवप्रतिरोधित्वेऽपि मुक्ते उक्तसंसारानु-भवरोधकत्वस्य तदसम्बद्धत्वेनासम्भवादिति ध्येयम् ।

नन्वत्रैवं विमतपदेन मुक्तो गृह्यत इति मुक्तसामान्ये भेदसाधनमिदानीमभिमतम् । अन्यथा ईश्वररूपे मुक्ते भेदसिद्धिमात्रेण चरितार्थत्वान्नियम्यमुक्तवर्गेषु भेदासिद्ध्या नियम्य-नियामकभावाभावतादवस्थ्यापापातात् । तथा चोक्ततर्केणावच्छेदकावच्छेदेन साध्याभाव-कोटिकसंशयोच्छेदेऽपि प्रकृतानुमितिविरोधिनः सामानाधिकरण्येन साध्याभावकोटिकसंशयस्य सत्वात् कथमनुमितिः ? न चोक्ततर्क एव तद्विरोधी । मुक्तत्वाश्रयेष्वन्येषु भेदाभावसत्वेऽपि ईश्वरे भेदाङ्गीकारमात्रेणोक्तव्यवस्थासम्भवेन मुक्तत्वसामानाधिकरण्येन साध्याभवाङ्गीकारे उक्ततर्कानुत्थानात् । मुक्तत्वावच्छेदेन साध्याभावाङ्गीकार एव तदुत्थानादिति चेन्न ।

तर्केणाबच्छेदकावच्छेदेनाभावकोटिकसंशयोच्छेदे सति तदनन्तरं यदि कश्चिन्मुक्तो भेदाभाववान् स्यात् तत्र भेदाभावाप्रयोजकमङ्गीकार्यम् । आवरणाभावस्तु न प्रयोजकः । ईश्वररूपमुक्ते आवरणाभावेऽपि भेदस्य सत्वेनावरणनिवृत्तेर्भेदनिवृत्तिप्रयोजकत्वाभावात् । अन्यादृशस्य विना प्रमाणं कल्पने गौरवं स्यादिति स्फुटतर्केणैव तच्छङ्कानिरासेनोक्त-साध्यानुमितिसम्भवात् ।

यद्वा प्रकृतानुमानं सामानाधिकरण्येन साध्यसिध्द्युद्देश्यकमेवास्तु । परैर्मुक्तसामान्ये भेदानङ्गीकारेण तन्निरासस्य तावन्मात्रेणैव सम्भवात् । उक्तपरमतस्याप्रामाणिकत्वे मुक्तान्तरेषु नियम्यतोपयोगिभेदसिद्धिरुक्तगौरवतर्कसहितेन मुक्तत्वहेतुनैतन्मुक्तदृष्टान्तेन साधनसम्भवात् । अत एव मूले एकवचनम् । सम्प्रतिपन्न इति सामान्यदृष्टान्तोक्तिश्च । इत्थं चोक्तसाध्यानुमि-तिविरोधी पक्षतावच्छेदकावच्छेदेन साध्याभावकोटिकाहितसंशय इति तन्निरासकैतत्तर्कप्रदर्शनं मूलकृतां सङ्गतमेवेति ज्ञेयम् ।

यत्त्वत्रार्वाचीनेन वाचारम्भणमित्यादिश्रुतिविचारं समाप्य प्रलपितं - ‘‘एवञ्च ब्रह्माति-रिक्तस्य सर्वस्याप्यनिर्वचनीयत्वात् सर्वमुक्तौ न भेदावस्थानशङ्का । किञ्च मुक्तत्वभेद-योर्व्याप्तिग्राहकतर्काभावादप्रयोजको हेतुः । ‘यदि मुक्तो भिन्नो न स्यात्संसारिणैक्यं स्यात् । तदा मुक्तामुक्तव्यवस्था न स्यात्’ इत्यादितर्कसद्भावेन नाप्रयोकतेत्यप्यसत् । तस्य संसारदशायां तदज्ञानप्रयुक्तस्य संसारिमुक्तभेदस्य सिद्धान्तिनोऽप्यभिमततयोक्ततर्केण तन्निरा-सवैफल्यात् । सर्वमुक्तावेव भेदानभ्युपगमात् । यत्तु ‘मुक्ते संसारिभेदाभावेऽपि संसारिणि मुक्तभेदोऽस्ति तस्यानिर्वाच्यत्वात्’ इति परस्यास्मदभिप्रायकीर्तनं तदयुक्तम् । संसार्यविद्या-कल्पितभेदस्य परस्परं मुक्तसंसारिणोरभ्युपगमात् । भेदाद्यप्रतीतिः परमविद्याद्यभावान्मुक्त-स्यास्तीत्युच्यते’’ इति ।

तदप्यसत् । क्रमेण वा युगपद्वा सर्वेषां मुक्त्या जगत्प्रवाहविच्छेदो भवतीति पक्षस्य सर्वथैवाप्रामाणिकतया प्रत्युत तद्विरुद्धार्थकैः ‘अनाद्यनन्तम्’ इत्यादिबहुश्रुतिस्मृत्यादि-भिर्विरुद्धत्वेन च तादृशपक्षाभ्युपगमेन मुक्ते भेदविषयकविप्रतिपतेरनवतारात् । तत्पक्षावलम्बने तन्निरासानन्तरमेवोक्तानुमानस्यावसरात् । ग्रन्थकारोऽप्यग्रे एतमेवार्थं स्फुटीकरिष्यति ‘तदेवमेकजीववादे निराकृते’ इत्यादिना ।

सर्व एकीभवन्ति’ इति श्रुतेः ‘सर्वेभ्यो दर्शपूर्णमासौ’ इत्यस्या इव स्वपूर्वभागोक्त-कलादिदेवतादिघटितसर्वपरामर्शकत्वेन सर्वमुक्तिप्रमाणत्वाप्रसक्तेः । किञ्च सर्वमुक्तौ भेदा-नङ्गीकारवता इदानीं पूर्वकल्पादौ कस्यचिन्मुक्तिरङ्गीकृता न वा ? नेति पक्षे बहुजीववादा-रम्भवैयर्थ्यापत्त्या एकजीववादमात्रस्वीकारः स्यादिति सर्वमुक्तिरित्यसङ्गतिः । निराकरिष्य-त्याचार्यः स्वयमेवैकजीववादम् । श्रुतिपुराणादिबहुवाक्यसिद्धा हि बहूनामात्मसाक्षा-त्कारान्मुक्तिः । ‘परं ब्रह्म वेद ब्रह्म भवति, नास्याब्रह्मवित्कुले भवति’ इति श्रुतेः,

बहवो ज्ञानतपसा पूता मद्भावमागताः’ ।

इति स्मरणात् तस्य ब्रह्मभावरूपमुक्त्यनन्तरपपि तत्कुलश्रवणात् सर्वमुक्तेः प्रागेव ब्रह्मैक्यरूपमुक्तिः श्रुत्या लभ्यते । एवमेवंजातीयाभिरन्याभिश्च श्रुतिभिरयमर्थेऽक्तोऽवगम्यते । स्मृतौ बहुधाऽतीतार्थनिष्ठाप्रत्ययान्तबहुवचनान्तपदैरवगम्यते । पुराणादिषु च शुकवामदेवादीनां स्फुटं मुक्तिरवगम्यते । जीवस्यैकत्वे उक्तवाक्यानां स्वार्थे प्रामाण्याभावादर्थवादमात्रत्वं कल्पनीयं स्यात् । तच्चायुक्तमिति भिया बद्धमुक्तव्यवस्थासिद्धये बहुजीववाद आरब्धः । यद्येतावत्कालं कस्यापि न मुक्तिरित्युच्यते किं बहुजीववादाङ्गीकारेण ? तस्मादाद्यपक्ष एवाङ्गीकार्यः । तत्र यदि भेदो मुक्तेऽप्यङ्गीक्रियते भेदकधर्मं विना भेदायोगाद्धर्माणा-मप्यङ्गीकारे निर्विशेषचैतन्यावस्थानाभावात् असङ्गचैतन्यस्य भेदकधर्मादिसम्बन्ध-सिद्धयेऽज्ञानस्याप्यावश्यकत्वाच्च मुक्तत्ववाचोयुक्तेरयोगात् । ‘यत्र द्वैतमिव भवति’

भवत्यभेदो भेदश्च तत्राज्ञानकृतो भवेत् ।

 विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते’ ।।

इत्यदीनां मुक्तिप्रतिपादकानां बहुवाक्यानामप्रामाण्यात्तिश्च । इदानीं विद्यमानमुक्तेषु भेदाङ्गीकारे मुक्तेष्वीश्वरसाधर्म्यस्य यथाश्रुतस्यैव सम्भवे त्वयैवोदाहरिष्यमाणोत्तरग्रन्थे साधर्म्यसाम्यादिपदानामभेदपरत्वेन व्याख्यानात् पूर्वेष्वेवाभेदव्यवस्थापनस्यासङ्गतत्वापत्तेश्च । एतेन मुक्तेऽविद्याया निवृत्तत्वेन जगत्प्रतिभासाभावेऽपि बद्धपुरुषकल्पितभेदस्तत्रास्तीति निरस्तम् । अज्ञाननिवृत्त्यनन्तरं बद्धपुरुषकल्पितभेदसम्बन्धस्य, निर्विशेषे चेतने सम्पादक-स्याभावेन वक्तुमशक्यत्वात् ।

किञ्च बद्धपुरुषकल्पितो भेदः किं व्यावहारिकभेदः मुक्ते स्वीक्रियते किं प्राति-भासिकः ? नाद्यः । बद्धपुरुषकल्पितमुक्तिकालानङ्गीकारे ततः परं भेदो नास्तीत्यादि-मुक्तिकालबोधकवाक्याप्रामाण्यापत्त्यादिरूपबाधकवत् प्रस्तुतभेदनिषेधकोक्तवाक्यानामप्रामा-ण्यापत्तिनिरर्थकार्थसङ्कोचादिबाधकापत्त्या च तस्य व्यावहारिकत्वाङ्गीकारे बीजाभावात् । बद्धपुरुषसम्बन्ध्यज्ञानस्य स्वासम्बन्धिज्ञानिभेदकल्पने बीजाभावात्तस्याति-प्रसञ्जकत्वाच्च अनादितः स्थितभेदस्यैव प्रतीतेर्बद्धपुरुषेष्वेव वक्तव्यतया तत्प्रयुक्तधियः मुक्तेऽङ्गीकारापातेन मुक्तत्वस्यैव हान्यापाताच्च ।

न द्वितीयः । मुक्तानां बद्धपुरुषसाक्षात्कारविषयत्वाभावेन अधिष्ठानावरकाज्ञानाभावेन च शुक्तौ रजतस्येव बद्धपुरुषकल्पितत्वायोगात् । परोक्षज्ञानन्तु अन्यथाख्यातिर्वा विकल्पाख्य-वृत्तिर्वा स्याच्छशविषाणमस्तीत्यादिवत् । परोक्षभ्रमस्यानिर्वचनीयार्थावगाहित्वपक्षेऽपि शशविणमस्तीति ज्ञानस्येव तात्कालिकाज्ञानजन्यानिर्वचनीयविषयत्वेनोक्तमुक्तविषयकत्वा-भावेन तेन मुक्तभेदासिद्धेः । अन्यथोक्तपरोक्षज्ञानेन शशे विषाणादेर्बौद्धानां ब्रह्म शून्यमि-त्यादिज्ञानेन ब्रह्माशून्यतादेश्च सिद्ध्यापत्त्या तेषामपि सत्वापत्तिस्तदङ्गीकृत्य व्यवहरतां प्रेक्षावत्वापत्तिश्च । सर्वमुक्त्युत्तरमपि अस्मदादिबद्धपुरुषकल्पितैतादृशभेदसत्वेन सर्वमुक्तौ भेदो नास्तीत्यस्यानुपपत्तिश्च ।

इत्थं च बद्धपुरुषाज्ञानकल्पितभेदो मुक्ते वर्तत इति तत्प्राचीनब्रह्मानन्दादि-कृतप्रक्रियात्यन्ताशुद्धैव । परन्तु त्वदाचार्यादिभिश्चिरन्तनैर्व्यवहृतो मुक्ते भेदसामान्याभाव एव सम्भवदुक्तिकः । भेदस्यावास्तवत्वादेव तत्प्रयोजकाविद्यापगमेऽवस्थानायोगस्याऽपातत उक्ति-सहत्वात् । तादृशयथाश्रुतरीतौ नवीनकृतनिष्कर्षे च विप्रतिपत्तिव्यवस्थापनपूर्वकं सिद्धसाधन-तादोषस्य परिहृतत्वात्त्वदीयतर्कवैकल्योक्तेः प्रलापमात्रत्वमेव ।

यदपि ‘मुक्ते भेदाभावोपपादकटीकावाक्यस्य स्वसिद्धान्ताज्ञानमूलकत्वभाषणं’ तत्तु तवैव त्वच्चिरन्तनमताज्ञानमूलकत्वस्योपपादितत्वादनुपादेयम् । किञ्च त्वन्मते परिनिष्ठितैक-प्रकारस्य त्वत्प्राचीनैः प्रायो बहुषु प्रमेयेष्वनङ्गीकृतत्वेन यथाकथञ्चित्सम्भावितत्वमात्रेण विरुद्धनानाप्रकाराणां दर्शितत्वात् तथैव भवन्मते मुक्तभेदाभावप्रकारस्य शास्त्रार्थत्वमभ्यु-पेत्योत्तरग्रन्थावतरणे का क्षतिः ?

अपि च बद्धपुरुषकल्पितमुक्तनिष्ठप्रातिभासिकभेदस्य शास्त्रार्थत्वे श्रुत्यनुसारेणास्मदादि-बद्धपुरुषकल्पितभेदाभावस्य कुतो न शास्त्रार्थता ? परिभावय । वस्तुतस्तु भेदपदस्य अन्तःकरणपरतायाष्टीकायामेव व्यक्ततया मुक्ते भवदीयैर्भवता च तदङ्गीकारात् भेदपदस्य यथाश्रुतभेदार्थकत्वभ्रमेणोक्तदूषणं पूर्वापरग्रन्थाविमर्शमूलकमिति न किञ्चिदेतत् ।

अपि च परकीयग्रन्थसन्दर्भोऽपि न शुद्धः । व्याप्तिग्राहकतर्काभावादप्रयोजकतामभिधाय तदुपरि प्रकृतपक्षे साध्यानङ्गीकारे बाधकरूपं मूलोक्तं तर्कमाशङ्क्य तदुपरि साध्याङ्गीकारेण तद्वैफल्यप्रदर्शनस्य परस्परमसङ्गतत्वात् । उक्ततर्केण पक्षे साध्याभावशङ्कोच्छेदेप्यन्यस्थलान्त- र्भावेण व्यभिचारशङ्काया अनिरासेनोक्ततर्कस्य व्याप्तिग्रहानुपयोगित्वेन तच्छङ्काऽकरणेन वैयर्थ्यात् । पक्षे साध्याङ्गीकारेण तर्कवैफल्यस्य तत्साधनव्याप्तिविघटकत्वाभावादिति सुधियो विभावयन्तु ।

।। निर्विशेषैकरसेति ।। निर्धर्मिकांशभावादिरहितेत्यर्थः । तेन किञ्चिद्धर्मावच्छेदेन किञ्चिदंशावच्छेदेन वाऽन्तःकरणतदभावाङ्गीकारासम्भवः सूचितः ।। तादृगेवेति ।। तस्यापि स्वाभाव्येन सहैकत्रावाच्छेदकभेदं विना सत्वायोगादिति भावः । सत्यत्ववादिमतसाधारण्येन दूषणार्थमिदमुक्तम् ।। मुक्तस्यापीति ।। महारजनाद्युपाधीनां भागद्वयस्यापि भेदजन-कत्वदर्शनेनात्र तद्वैलक्षण्ये मानाभावादिति भावः । बिम्बप्रतिबिम्बयोरैक्येऽप्यवच्छेदकभेदं विनोपाधिसम्बन्धतदभावौ तत्कृतमालिन्यतदभावौ वर्तेते । तथाऽत्राप्यवच्छेदकभेदं विनैवोभौ स्याताम् । जीवब्रह्मणोरपि बिम्बप्रतिबिम्बभावापन्नत्वादिति शङ्कते ।। बिम्बेति ।। विप्रतिपत्तेरिति ।। दृष्टान्तस्यैवासम्मतेर्बिम्बप्रतिबिम्बयोरेकत्वाभावादित्यर्थः । तथा हि ।

दर्पणे परिदृश्यमानात्प्रतिबिम्बात् स्वमुखस्य भेदप्रत्यक्षं तावत्सर्वेषां स्वानुभवसिद्धम् । अन्यदीयप्रत्यक्षमपि तद्व्यवहारसिद्धम् । न चास्य बाधः कदाऽपि कस्यापि वा जायते । एवं मुखं न ततोऽन्यदिति कस्याप्यनुभवाभावात् ।

।। पररीत्या बिम्बप्रतिबिम्बयोरैक्यसमर्थनम् ।।

ननु लक्षणापरिज्ञानदशायां भेदभ्रमवतोऽपि बहिस्थितश्चैत्रो यत्स्वलक्षणकत्वेन दृष्टस्तत्स्वलक्षणकत्वेन गृहस्थिते दृष्टे स एवायं चैत्र इति प्रत्यभिज्ञावत् ग्रीवास्थं मुखं यत्स्वलक्षणतया दृश्यते दर्पणस्थेऽपि मुखे तत्स्वलक्षणतया दृष्टे तदेवेदं मुखं सऽवायं कर इति स्वपरसाधारणप्रतीतिरप्यनुभवसिद्धा । तथा च कथं न बाधाभावः ? न च स्वमुखस्य स्वाप्रत्यक्षत्वात्कथं स्वमुखं यत्स्वलक्षणतया दृष्टमित्युच्यते इति वाच्यम् । तत्काल एव दर्णणाभिहतनयनरश्मीनां परावृत्य स्वमुखग्राहकत्वाङ्गीकारात् । न च दृढतरशिलाद्यभिघाते चक्षूरश्मिभिः स्वमुखप्रत्यक्षापत्तिरिति शङ्क्यम् । भवन्मते यादृशद्रव्ये प्रतिबिम्बो जायत इत्युच्यते तादृशद्रव्यनयनरश्मिसंयोगस्यैव तत्परावृत्तिकारणत्वाभ्युपगमेन कस्यापि दोषस्या-भावात् । तदुक्तम् -

दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।

 प्राप्नुवन्त्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम्’ ।। इति ।

स्वकरादिस्थले विवादाभावाच्च । न च सूर्यपार्श्वस्थितप्रतिसूर्ये तत्स्वलक्षणकत्वज्ञानेऽपि स एवायं सूर्य इत्यभेदाग्रहात् स्वलक्षणकत्वज्ञानं नाभेदसाक्षात्कारकारणमिति वाच्यम् । उपाधिनिबन्धनत्वज्ञानसहिततल्लक्षणकत्वज्ञानस्य तदभेदसाक्षात्कारसामग्रीत्वाभ्युपगमेन तत्र प्रमाणदोषेणैव सूर्यान्तरभानेन तत्रोपाधिनिबन्धनत्वज्ञानाभावेनाभेदसाक्षात्काराजननेऽपि क्षतिविरहात् । न च तदुभयसाक्षात्कारदशायामभेदसाक्षात्कारो न ज्ञायते इति वक्तुं युक्तम् । ‘दर्पणे मम मुखं लग्नं, दर्पणे मम मुखं भासते’ इति स्वकीयमुखस्यैव दर्पणवृत्तित्वा-वगाहिसर्वानुभवविरोधप्रसङ्गात् । न च ‘चैत्रप्रतिबिम्बो दृष्टो न चैत्र’ इति विपरीतानु-भवविरोध इति वाच्यम् । वस्तुतस्तयोरैक्ये ज्ञातेऽप्युपाध्यवच्छिन्नो दृष्टोऽनुमितोऽनवच्छिन्न इति तत्प्रतीत्या विषयीकरणेनाविरोधात् । शरद्गङ्गया वर्षर्तुगङ्गानुमानवत् स्वेनैव किञ्चिद्रूपा-वच्छिन्नेन रूपान्तरावच्छिन्नस्य स्वस्यैवानुमानिकत्वाङ्गीकारे बाधकाभावात् । न चैवं प्राङ्मुखे प्रत्यङ्मुखत्वेन दृश्यमाने स्वमुखेऽपि तद्बुद्धिः स्यात् । बालानां च बिम्बप्रतिबिम्बयोर्भेदभ्रमो न स्यादिति वाच्यम् । तस्य प्रतिबिम्बे बिम्बस्वलक्षणकत्वाज्ञाननिबन्धनत्वात् । तत्सत्वे च तज्ज्ञानस्योपाध्यवाच्छिन्नविषयत्वात् । अत एव कदाचित्प्रतिमुखेऽपि ममेदं मुखमिति व्यपदेशो युज्यते । न च भेदज्ञानकालिक-त्वादेतद्व्यपदेशस्य मार्गे स्वपदव्यां स्वपादव्यपदेशवद्गौण इति वाच्यम् । अभेदव्याप्यस्वलक्षणकत्वज्ञानेन भेदज्ञानस्य बाधि-तत्वात् ।

न च भेदसाक्षात्कारो जायत इत्यविवादम् । अन्यथा त्वयाऽपि कस्य भ्रमत्वमुच्येत ? तथा च भेदभेदकधर्मसाक्षात्कारकाल एव स्वलक्षणकत्वादिज्ञाने न चाभेदसाक्षात्कारः सङ्गच्छते । विरुद्धत्वेन गृह्यमाणयोरुभयोरनाहार्यैकनिश्चयवत्वानङ्गीकारादिति वाच्यम् । पीतभेदस्य तद्व्याप्यत्वरूपपीतविरोधित्वेन गृह्यमाणशङ्खत्वस्य च साक्षात्कारकाल एव शङ्खे पीताभेदसाक्षात्कारानुभवस्थलानुरोधेन दोषविषानधीनज्ञान एव तादृशनियमाश्रयणात् । प्रकृते चोपाधिरूपदोषवशाद्भेदसाक्षात्कारकाल एव स्वीकारे क्षतिविरहात् । अत्राप्यनुभवस्य दुरपह्ववत्वात् । न चैवमैक्यसाक्षात्कारेण ऐक्याज्ञानरूपभेदोपादनस्य नष्टत्वात्कथं भेदभ्रम-सम्भव इति वाच्यम् । जीवन्मुक्तस्य प्रारब्धकर्मप्रतिबन्धवशात् विक्षेपशक्तिविशिष्टा-ज्ञान-सत्वाभ्युपगमवत् अत्रापि तद्विशिष्टाज्ञाननाशप्रतिबन्धकोपाधिमाहात्म्यात्तच्छक्तिविशिष्टा-ज्ञानसत्वाभ्युपगमाद्भेदभ्रमोपपत्तेः । ऐक्यस्य साक्षात्कारेणावरणशक्तिविशिष्टस्यैव नाशाभ्युप-गमात् ।

न च विनिगमनाविरहादभेदसाक्षात्कारस्यैव कुतो न भ्रमत्वमिति वाच्यम् । युक्त्यागम-संवादित्वेन प्रमात्वेनाभेदसाक्षात्कारस्यैव तद्विरोधित्वौचित्यात् । तथा हि । प्रतिबिम्बस्वरूपं बिम्बस्वरूपाद्भेदहीनम् । तद्गतासाधारणधर्मवत्वात्, तद्विरुद्धधर्मानधिकरणत्वात् बिम्बा-जनकाजन्यत्वाच्च । बिम्बस्वरूपवत् । एकस्यैव रूपभेदेन पक्षदृष्टान्तत्वोपपत्तिः । न च द्वितीयहेतोरसिद्धिः प्रत्यङ्मुखत्वादिविरुद्धधर्मत्वादिति वाच्यम् । तस्यौपाधिकत्वेन स्वाभाविकविरुद्धधर्माधिकरणत्वाभावात् । न च बिम्बानन्तरजाते प्रतिबिम्बे हेतोरसिद्धिः । तयोरैक्यवादिनो बिम्बानन्तरजातत्वस्यैव प्रतिबिम्बेऽसम्मतेः । न च छायाप्रतिध्वन्यादिकं प्रति क्लृप्तहेतोरदर्शनेऽपि हेत्वन्तरस्य कार्यबलादेव सिद्धिवत् अत्रापि प्रतिबिम्बं प्रति किञ्चित्कारणं कल्प्यतामिति वाच्यम् । बिम्बप्रतिबिम्बभेदसिद्ध्यनन्तरं तस्य बिम्बोत्तर-कालिककार्यत्वसिद्ध्या किञ्चित्कारणं कल्प्यम् । तत्सिद्धौ च बिम्बाजनकजन्यत्वाद्भेदसिद्धि-रित्यन्योन्याश्रयतापातात् ।

नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कथञ्चन ।

 नोपरक्तं न वारिस्थं न मध्यं नभसो गतम्’ ।।

इत्याद्यागमोऽपि बिम्बप्रतिबिम्बयोरैक्ये प्रमाणम् । अत्र यद्यपि बिम्बप्रति-बिम्बयोरैक्यमिति नोच्यते । तथाऽपि आदित्यपदार्थभूततत्स्वरूपे वारिस्थमिति विशेषणेन वारिस्थसूर्याभेदबोधनात्तयोरैक्यसिद्धिः । अन्यथोद्यदादित्यादेरपि शुद्धादित्यभेदापत्तेः । तथा च तन्न्यायेन बिम्बप्रतिबिम्बैक्यसिद्धेः ।। न च

यथा दारुमयी योषा यथा चर्ममयो मृगः’ ।

इत्यादिवद्गौणोऽयं व्यवहार इति वाच्यम् । मुख्यार्थपरित्यागस्यान्यायत्वात् । न च त्वन्मतेऽपि वारिस्थपदं न मुख्यम् । वारिणि सूर्यान्तरस्याभावात् । गगनस्थसूर्ये वारिस्थताया आरोपितत्वेन तस्य वारिस्थपदमुख्यार्थत्वायोगादिति वाच्यम् । वारिस्थतात्वस्य प्रातिभासिकवारिस्थताव्यावहारिकवारिस्थतोभयसाधारणतया तद्रूपावच्छिन्न विशिष्टवाचिवा-रिस्थपदस्य मुख्यार्थत्वानपायात् । स्वाप्नरोदनादिबोधके ‘स्वप्ने भुक्त्वा रुदित्वा ध्रुवमर्थलाभः’ इत्यादिवाक्ये विद्यमानभुजिरुद्यादिवत् । तस्माद्युक्त्यागामसंवादिबिम्ब-प्रतिबिम्बाभेदसाक्षात्कारेण भेदधियो बाधितत्वान्नानयोर्भेदः । किन्त्वभेद एव । प्रमिते च तस्तिन् तद्बाधकतया प्रतीयमानानि कथञ्चित्परिहरणीयानि । कथं च जीवेशयोरेपि बिम्बप्रतिबिम्बभावान्नाभेदसिद्धिरिति ।

।। पराभिमतबिम्बप्रतिबिम्बैक्यनिरासः ।।

अत्रोच्यते । यत्तावदुक्तं ‘बिम्बप्रतिबिम्बयोरभेदः साक्षात्कारविषयः’ इति तन्न । आविपालगोपालं बहिस्थबिम्बादर्शपरिदृश्यमानप्रतिबिम्बयोर्घटपटयोरिवात्यन्तभेदस्यैवानु -  भूतत्वे नाभेदसाक्षात्कारस्य सर्वथाऽनुभवविरुद्धत्वाद्विरोधिभेदसाक्षात्कारदशायामभेदभाना- योगाच्च । पीतभेदपीताभेदयोरपि दोषविशेषादपि नैकस्मिन् साक्षात्कारे लौकिकी विषयता । पीताभेदे दोषप्रयोज्यालौकिकी विषयता । पीतभेदव्याप्यत्वेन गृह्यमाणशङ्खत्वस्य लौकिकविषयत्वसत्वेऽपि तस्य स्वरूपतो विरोधित्वाभावात् स्वरूपतो विरोधिनि पीतभेदे त्वलौकिक्येव । एतान्यपि ज्ञानानि पूर्वानुभवाधीनस्मृतिबलात् दोषप्रयोज्यपीताभेदांशे अप्रामाण्यज्ञानास्कन्दितान्येव जायन्ते । न तूभयत्राप्यप्रामाण्यज्ञानानास्कन्दितानि । तादृशानाहार्यनिश्चयस्याप्रसिद्धेः । अन्यथा भावाभावनिश्चययोर्बाध्यबाधकभावोच्छेदापत्तेः । भावाभावविरोधादिकन्तु पूर्वमेव व्यवस्थापितम् ।

न चेह प्रकृते अभेदांशे अप्रामाण्यज्ञानानास्कन्दितं भेदांशे तदास्कन्दितं प्रत्यक्ष-मनुभवसिद्धम् । अपीत एव शङ्खः दोषवशान्मया पीतत्वेन प्रतीयत इति वत् ग्रीवास्थमुखा-दभिन्नमेवादर्शस्थं मुखं दर्पणादिवशान्मया भिन्नत्वेन प्रतीयत इति वत् कस्याप्यनुभवतन्मूल-कव्यवहारयोरभावात् । तादृशाविप्रतिपन्नानुभवव्यहारसत्वे शङ्खे पीतभेद इवात्राप्या-वयोर्विवादभावापत्तेः । दर्पणे मम मुखं दृश्यत इति प्रयोगः गौण एव । नाभेदसाक्षात्कार-मूलकः । अत एव तथा वदन्तं प्रति ‘अनादिरूढोऽयं व्यवहार’ इत्यजानता वा छलेन वा ‘त्वन्मुखं करो वाऽत्रैव दृश्यते कथमादर्शे दृश्यत इति वदसि’ इत्युपहासे कृते ‘सत्यमेतत्तथापि तदन्यरूपमेव दर्पणे दृश्यते मन्मुखं च तत्र प्रतिफलितमित्याशयेन मयोक्तं न त्वैक्याशयेन’ इति सर्वोऽपि स्वाभिप्रायं स्फुटीकरेति । अन्यथा ‘इदं तदेव, तवैव भेदप्रतीतिर्भ्रमः’ इति ब्रूयात् । न च बिम्बस्वलक्षणवत्ताज्ञानशून्यानां तथा प्रतीतिसद्भावेऽपि तज्ज्ञानसहितोपाधिनिबन्धनत्वज्ञानवन्तस्तथैव साक्षात्कुर्वन्ति व्यवहरन्ति चेति साम्प्रतम् । स्वलक्षणत्वस्यैव वक्तुमशक्यत्वात् । तथा हि । बिम्बनिष्ठयादृशसंस्थानविशेषरूपविशेषादिकं तद्वत्वं चेत् तादृशस्वलक्षणवत्वेनानुभूयमानयोश्चैत्रतद्भ्रात्रोर्यमयोर्युगपत्सन्निकर्षादिदशायां परस्पराभेदबुद्धिप्रसङ्गात् । दमयन्त्या पञ्चनलानां मनुष्यलिङ्गस्य सूक्ष्मवैलक्षण्यरहितानां दर्शने सति पञ्चव्यक्तीनामैक्यसाक्षात्कारापत्त्या एकस्मिन्नपि नलपदार्थत्वसन्देहमूलकप्रार्थनाद्य-भावप्रसङ्गात् । इदानीमपि मन्त्रौषधादिभिश्चैत्रग्रहणपूर्वकं चैत्रनिकटवर्तिनि मैत्रे च युगपद्दृष्टेऽन्यस्योभयैक्यग्रहापाताच्च ।

न च सोपाधिकत्वज्ञानमपि तद्धेतुस्तत्र नास्तीति वाच्यम् । उपाधित्वस्यानुगतस्य दुर्वचतया सोपाधिकत्वस्यानुगतस्य वक्तुमशक्यत्वादागन्तुकहेतुप्रयोज्यत्वस्यैव तत्वस्य वक्तव्य-तयाऽत्रापि मन्त्रादिशक्तिरूपागन्तुककारणाधीनत्वज्ञानस्यावर्जनीयत्वात् । रूपविशेषरूप-स्वच्छतावद्द्रव्यनिबन्धनत्वरूपत्वेन कथञ्चित्तन्निर्वचनेऽपि तादृशयोरेव यत्रादर्शे युगपत्प्रतिबिम्बौ तत्रैकव्यक्तिप्रतिबिम्बेऽपरव्यक्त्यैक्यसाक्षात्कारापत्त्या चतुर्णामैक्यबुद्धिव्यवहाराद्यापातः ।

अपि चोपाध्यधीनत्वरूपं सोपाधिकत्वं किमुपाधिजन्यत्वं उत तद्व्यतिरेकप्रयुक्त-व्यतिरेकप्रतियोगित्बमुत स्वरूपसम्बन्धविशेषः ? नाद्यद्वितीयौ । बिम्बाभिन्नस्य तस्य तत्स्वलक्षणस्य च उपाधेः प्रागेव सत्वेनोपाधिजन्यत्वतद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्व-योरभावात् । अन्यथा त्वदीयतृतीयहेतोरसिद्धिस्त्वन्मतेनैव स्यात् । न तृतीयः । उपाधेः प्रागेव विद्यमानबिम्बस्वरूपे तस्मिन् प्रयोज्यत्वे मानाभावात् । अत एव नोपाध्यधीन-प्रतीतिबिषयत्वमपि । उपाघेः पूर्वं परतश्च प्रतीतेः स्वतः सिद्धत्वेन तत्रोपाघेरकिञ्चित्करत्वात् ।

न चोपाध्यवच्छिन्नत्वतदन्तर्गतत्वरूपप्रतिबिम्बत्वविशिष्टे उक्तं सर्वं वर्तत एवेति वाच्यम् । तादृशधर्माणां विशिष्ट एव वृत्त्या बिम्बव्यावर्तकतयैव गृह्यमाणतया तज्ज्ञानस्य बिम्बभेदप्रत्यक्षं प्रत्येव हेतुतया तदभेदप्रत्यक्षकारणत्वोक्तेरसङ्गतत्वात् । अन्यथाऽत्यन्तसादृश्यवतोरुभयोः किञ्चिद्व्यावर्तकधर्मसाक्षात्कारमात्रेणानुपलम्भप्रसङ्गात् । त्वयाऽपि तादृशधर्मविशिष्टे भेद-साक्षात्कारस्यैवाङ्गीकृतत्वात् । अन्यथा प्रतिबिम्बो दृष्टो न चैत्र इत्यादिप्रतीतिबिषय-व्यवस्थापनस्य बिम्बप्रतिबिम्बयोरनुमेयानुमापकभावव्युत्पादनस्य चासङ्गतत्वापत्तेः ।

किञ्च स्वच्छद्रव्योपाध्यन्तर्गततया भानस्थले भेदसाक्षात्कारस्तावदुभयसिद्धो निर्विवादश्च लोकानाम् । एतादृशोपाध्यधीनत्वज्ञानस्य स्वलक्षणज्ञानस्य चान्यत्र निर्विवादाभेदप्रत्ययहेतुत्वं यदि सिद्धं स्यात्तदा तदुभयरूपसामग्रीबलेनात्राभेदप्रत्ययो व्यवस्थापयितुं शक्येत । अन्यथाऽस्य सामग्रीत्वसिद्धौ तेनाभेदविषयकसाक्षात्कारसिद्धिः अत्राभेदसाक्षात्कारसिद्धौ तदर्थमेतदुभयस्य सामग्रीत्वकल्पनमिति चेतरेतराश्रयः । अनुभवसिद्धभेदप्रत्ययस्थलेऽपि दर्पणे मम मुखं लग्नमिति व्यवहारमात्रेणाभेदसाक्षात्कारं परिकल्प्यैतदनुरोधेनैव तदुभयस्य सामग्रीत्वाङ्गीकारेऽतिकुशलप्रणीतचैत्राकृतौ चित्रलिखितायां च चैत्रस्य ममैवैतन्मुखं ममैवेमौ करौ इत्यादिव्यवहाराल्लोकानामपि चैत्रस्यैवैतन्मुखमिमौ करावित्यादिबहुव्यवहारात् पूर्वदिन-भुक्तशालिसदृशशालिषु एत एव मद्भुक्तशालिन इति व्यवहाराच्च तेषामप्यभेदसाक्षा-त्कारसिद्ध्यापत्तिः । तद्विषयाणां बिम्बप्रतिबिम्बयोरिवाभेदसिद्ध्या भेदप्रतीतेर्भ्रमत्वापत्तिश्च । परिदृश्यमानानां किञ्चिद्विरुद्धधर्मणां यथायथं देशकालादिकिञ्चिदुपाध्यधीनत्वकल्पनया स्वाभाविकत्वकल्पनोपपत्तेः । न हि बिम्बप्रतिबिम्बस्थलादस्य कमपि विशेषं पश्यामो येनेदं तथा न स्यात् ।

ननु मुखस्वलक्षणं नाम तदीयासाधारणधर्म एव । स एव प्रतिमुखे भासत इति तयोरभेदसाक्षात्कारोऽवर्जनीयः । अन्यथाऽसाधारण्यानुपपत्तेः । तज्ज्ञानेऽप्यभेदसाक्षात्का-रानुदये बहिस्थचैत्राभेदबुद्धेर्गृहस्थितेऽनुपपत्त्या तदभेदसिद्ध्यनापत्तेश्च । भवदुक्तस्थले तादृशा-साधारणधर्मग्रहान्नाभेदसाक्षात्कार इति चेन्न । ‘असाधारणधर्मो नाम तदत्यन्ता-भिन्नत्वेनाप्रतीयमानावृत्तित्वेन भासमान एव धर्मः । स च बिम्बे भासमानः सन् तदत्यन्ताभिन्नत्वेन भासमाने न प्रतीयते चेत् कथमसाधारणतया गृह्यते । तथा ग्रहे भेदसाक्षात्कारस्यैवाभावप्रसङ्गात् । अन्यथोक्तस्थलेऽप्यसाधारणधर्मभानाभ्युपगमसम्भवेनोक्त- दोषानुद्धारापत्तेः’ इति युक्त्या असाधारणधर्मभानस्यैवासिद्धेः । तथा चासाधारणधर्म-भानसिद्धौ अभेदभानसिद्धिस्तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयाऽपातात् । संस्थानविशेष-रूपविशेषाणां भेदभेदकधर्मोपलम्भस्थलेऽसाधारण्याभावग्रहस्यैवोपपादितत्वात् । बहिस्थत्वादेः कालभेदेनैकवस्तुवृत्तेर्भेदकत्वाग्रहात् तत्स्वलक्षणस्योत्सर्गतस्तदभेदनियतत्वात् तत्सहचारमात्रेण बहिस्थगृहस्थचैत्रव्यक्तिभेदसाक्षात्कारसामग्रीरूपापवादविरहसाहित्येनाभेदधीजननेऽनुपपत्त्यभावात् । अत एव यत्किञ्चित्सादृश्यमात्रज्ञानेनाप्यतिपरिचयशून्यस्य भेदकधर्मानुपलम्भसाहित्येन चैत्रा-समवधाने चैत्रान्यस्मिन्नपि चैत्रव्यक्त्यभेदभ्रमोऽनुभवसिद्धः । यदि च तन्मात्रवृत्तित्वेन गुह्यमाणधर्म एवासाधारणधर्मो विवक्षितः तदा सूर्ये पार्श्वस्थिते सूर्यवृत्तितद्व्यक्तित्वरूपा-साधारणधर्मानुपलम्भादेव सूर्यप्रतिसूर्ययोरभेदसाक्षात्कारवारणसम्भवे सति औपाधिकज्ञान-स्यापि तादृशातिप्रसङ्गनिरासाय सामग्रीकोटौ निवेशनवैयर्थ्यम् ।

अथौपाधिकत्वज्ञानं नाम उपाध्यधीनाध्यासविषयत्वज्ञानं विवक्षितम् । स्वलक्षणेत्यनेन च संस्थानविशेषरूपविशेषादिकमेव । तज्ज्ञानमेतज्ज्ञानं चैतदुभयमभेदसाक्षात्कारहेतुः । अध्यस्तत्वज्ञानस्य भेदभेदकधर्मादीनां मिथ्यात्वग्रहरूपत्वेनाभेदज्ञानोपयोगित्वमिति चेन्न । किमध्यस्तत्वज्ञानं प्रतीमुखखरूपे एव दर्पणस्थे, उत दर्पणस्थमालिन्यवक्रिमादेः स्वमुखकरादौ ? नाद्यः । बिम्बप्रतिबिम्बयोः स्फुटभेदावभासवेलायां प्रतिबिम्बं नास्तीति बाधग्रहस्यासत्वेन प्रतिबिम्बे मिथ्यात्वग्रहबीजाभावात् । तत्काले स्वमुखे दर्पणवृत्तित्वा-भावस्यैव गृह्यमाणतया तदध्यस्तत्वग्रहप्रसक्तेरेवाभावात् । न द्वितीयः । मालिन्यवक्रिमादेरपि स्वमुखकरादावप्रतीयमानत्वेन तत्राध्यस्तत्वग्रहप्रसक्त्यभावात् । प्रतिमुखे प्रतीयमानेषु मालिन्यादिष्वपि बिम्बप्रतिबिम्बभेदग्रहे बाधग्रहस्याभावात् । अभेदसाक्षात्कारोत्तरं बाधोदये-नाध्यस्तत्वबुद्धिर्जायत इत्यङ्गीकारे स्फुटमितरेतराश्रयः ।

न च प्रतिबिम्बदर्शनदशायामेव युक्तिभिर्बाधितत्वग्रहेणाध्यस्तत्वबुध्धा तयोरभेदासाक्षा-त्कारो भवतीति वाच्यम् । प्रत्यक्षसिद्धस्य बलवत्प्रत्यक्षतन्मूलकयुक्त्यादिकं विना केवल-युक्त्यादिभिस्तद्बाधाभावस्य पूर्वमुपपादितत्वात् । न चैतत्सजातीयपूर्वतनप्रतिबिम्बादिषु बाधितत्वग्रहमूलकसंस्कारवशादिदं प्रतिबिम्बादिप्रत्यक्षं दूरस्थवृक्षपरिमाणप्रत्यक्षवदेव जायत इति युक्त्या तद्बाधो युक्त इति वाच्यम् । पूर्वमप्युपाध्यपगमानन्तरं ‘एतावन्तं कालं दर्पणे प्रतिमुखमासीत् । दर्पणे प्रतिमुखं मलिनमद्राक्षं’ इत्यादिग्रह एव लोकानुभवसिद्धः । न तु शुक्तिरूप्यादिस्थल इवासन्तमेव प्रतिमुखं मालिन्यमद्राक्षमिति । तथा च पूर्वकाले सत्तावगाहिनः कथं बाधत्वम् ? बाधस्य त्रिकालसत्तानिषेधपरत्वात् । अस्य च पूर्वकालसत्तावगाहित्वात् । अन्यथा ‘एतावत्काले घटः स्थितः इदानीं नास्ति’ इत्यपि बाधधीः स्यात् ।

किञ्च प्रतिबिम्बादेर्बाधितत्वे शुक्तिरजतादिज्ञानिनीव लोकानां प्रतिबिम्बद्रष्टरि भ्रान्तत्वव्यवहारापत्तिः । स्वप्नद्रष्टरीवात्रापि न व्यवहार इति तु न शङ्क्यम् । स्वाप्नानां सत्यत्वात् । परमतेऽपि तेषां मूलाविद्योपादानकत्वमेव । जाग्रद्बाधेन तिरोधानमेव नोच्छेद इति पक्षे तेषां घटादितुल्यत्वाच्च । तेषु बहिष्ठत्वांशे भ्रमत्वेऽपि तादृशभ्रमस्य संसारिमात्रसाधारणतया न विशिष्य लोकव्यवहारः । शास्त्रीयस्त्विष्यत एव । न चेह तथा । प्रतिबिम्बदर्शी भ्रान्त इति शास्त्रीयव्यवहारस्याप्यभावात् । किञ्च प्रतिबिम्बस्वरूपस्यैव मुख-दर्पणाद्यधिष्ठानेऽध्यस्तत्वे तत्स्वरूपमेव शुक्तावारोप्यमाणरजतस्वरूपमिव मिथ्येति कथं तस्य बिम्बाभेदः ? अन्यथा आरोप्यमाणरजतस्यापि आपणस्थरजताभेदः कुतो नाशास्यते ?

किञ्च जलान्तर्गतसूर्यप्रतिबिम्बस्य प्रभान्तरोपादकत्वदर्शनात्तस्याध्यस्तत्वमप्ययुक्तम् । नच तदप्यध्यस्तम् । तेन, तत्सम्बन्धेन गृहान्तस्थभागाविशेषस्थिततमोनिरासद्वारा तद्गतपदार्थ-प्रत्यक्षादिरूपार्थक्रिया दर्शनात् । सूर्यकान्तस्थप्रतिबिम्बकान्तेरग्निजननद्वारा तूलादिदाह-कत्वदर्शनात् । न चारोपितस्यार्थक्रियाकारित्वमुपपन्नम् । एतदनुरोधेनैव तत्कल्पनमन्योन्या-श्रयाद्यनेकदोषकबलितम् । नापि भेदेऽध्यस्तत्वम् । प्रतिबिम्बसत्यत्वभेदमिथ्यात्वमात्रग्राहक-बाधबाधकानुपलम्भात् । अन्यथा अङ्गुल्यवष्टम्भेन प्रतोयमानद्वितीयचन्द्रस्वरूपसिद्ध्या द्वितीयचन्द्रः शुक्तिरूप्यं च सत्यम् । तत्र प्रतीयमानचन्द्रभेद आपणस्थरजतभेदश्च

मिथ्येत्येव स्यात् । आपणस्थरजतशुक्तिरजतयोर्भेदो नास्ति तदुभयमप्येकमिति बाधग्रहा-भावात्तत्र तथानङ्गीकरेऽत्रापि मुखप्रतिमुखे एके नानर्योर्भेद इति कस्यापि प्रत्यक्षतो बाधानुदयात्तुल्यः । यत्किञ्चित्स्वलक्षणस्य व्यभिचारित्वात्स्वलक्षणस्याप्यसिद्ध्या यौक्तिक-बाधस्याप्यनुदयाच्च । ‘मिथ्यैव प्रतिमुखदर्पणसम्बन्धोऽभात्’ इति लोकानुभवो वर्तत इत्येव विरुद्धम् । तद्विपरीतानुभवस्यैव सत्वात् ।

किञ्च प्रतिबिम्बतद्भेदादेः मिथ्यात्वबुद्धिर्युक्त्या जायत इति यदुक्तं तादृशयुक्तिरेव नास्ति । ननु कथं नास्ति ? प्रतिबिम्बः जन्योऽजन्यो वा ? नाद्यः । तस्योपादान-कारणाद्यभावात् । न तावद्दर्पणस्योपादानत्वम् । तस्य दर्पणान्तर्भागवृत्तित्वेन दर्पणभिन्नत्वेन्नैव प्रत्ययात् । अन्यथा दर्पणे मुखमिति न स्यात् । दर्पणं मुखमिति स्यात् । युगपद्भिन्नत्वेन प्रतीयमानानेकपदार्थप्रतिबिम्बानां एकदर्पणतादात्म्यायोगाच्च । किञ्च पर्वतादिप्रतिबिम्बा-नामतिमहत्वेन प्रतीयमानानां तत्काल एवाल्पपरिमाणतया प्रतीयमानतादात्म्यायोगात् विभुत्वं विना तदवस्थानानुभवविरोधः ।

न द्वितीयः । अजन्यत्वे महत्वोद्भूतरूपशालित्वेन पूर्वं परतश्च तदुपलम्भप्रसङ्गः । उपाधेर्व्यञ्जकत्वाङ्गीकारे अतिमहतां तेषां दर्पणाद्युपाध्यन्तर्भानानुपपत्तिः । एकोपाधिना एकस्थानेकोपाधिसमवधानेऽनेकेषां भानमित्यस्यानुपपत्तिः । प्रतिनियतव्यञ्जकव्यङ्ग्यत्वाङ्गी-कारेऽप्येकस्मिन्नल्पस्थानस्थितादर्शे करितुरगात्मकसेनापर्वतादीनामुपलम्भानुपपत्तिः । तादृशाल्पस्थाने तेषां स्थित्ययोगः । इन्द्रियगोचरत्वायोगश्च । अप्रतिघत्वादिकल्पनन्तु अत्यन्ताप्राणिककल्पनागौरवकवलितमिति परिशेषान्मिथ्यैवावभासत इत्यभ्युपेयमिति । अत एव प्रत्यक्षसिद्धस्य युक्तिबाधो नास्तीत्यपास्तम् । इति चेन्न । सूर्यकादिरूपप्रतिबिम्बा- देरर्थक्रियाकारित्वेन बाधशून्यत्वेन चानध्यस्तत्वस्यानुपदमेवोक्तत्वेनोक्तस्थले बिम्बाभिमुख-देशसंयोगरूपकारणबलेनदर्पणादिरूपोपाघेर्बिम्बसमानाकारतया स्वान्तर्गतभागविशेषेण परिणा-मोपपत्तेः । एकस्मिन्नेव चैत्रे दण्डकुण्डलादिविशेषणसम्बन्धात् परस्परं भिन्नानां विशेष्याभिन्नानां नानाविशिष्टानामेकदैवोत्पत्तिवदत्रापि नानाबिम्बसन्निधानात् दर्पणेना-भिन्नानां स्वयं च परस्परं भिन्नानामणूनां महतां च बिम्बसमानाकाराणां प्रतिबिम्बानामुत्पत्तौ बाधकविरहात् । अणुतया विद्यमानदीपाभिन्नस्यापि आलोकस्य महत्ववत् तादृशालोक-समुदायस्यैकत्र समावेशवशाच्चाल्परिमाणदर्पणतादात्म्यस्यैकत्र समावेशस्य चोपपत्तेः । दर्पणान्तर्गतभागकार्यत्वात् तेन भिन्नाभिन्नत्वाद्दर्पणवृत्तित्वप्रत्ययोऽपि नानुपपन्नः । अप्रति-घत्वादेवाऽलोकवदिन्द्रियगोचरत्वम् । बिम्बाभिमुखभागसंयोगरूपनिमित्तकारणनाशादेव तेषां नाशः । विशेषणसम्बन्धनाशेन विशिष्टनाशवत् अग्निसंयोगनाशेन नैमित्तिकद्रवत्वनाश-वदनुभवानुसारेण कारणादिव्यवस्थायाः स्वीकार्यत्वात् । अनुभवसिद्धस्यापि युक्तिमात्रेण निराकरणे मन्त्रौषधिवरप्रदानादीनि तत्क्षण एव क्लृप्तकारणान्युल्लङ्घ्य महतोऽपि मनुष्यस्याणु-मृगादिभावोऽणोरपि महाव्याघ्रादिरूपं सत्यमेव परिदृश्यमानं मिथ्या स्यात् । देशविशेषे स्थापितस्य पुष्पस्य प्रातः शुभ्रता मध्यान्हे पाटलिमा सायान्हे रक्तत्वमित्यादीनां युक्त्यसहानामेव कार्याणामनुभूयमानानामपि मिथ्यात्वापत्तेः । न चेष्टापत्तिः । ओषधिवराद्य-धीनानामपि घटादिवदेवार्थक्रियाकारिणां च मिथ्यात्वे घटादीनामात्मनश्च कुतो न प्राति-भासिकत्वम् ? तत्रापि स्वपरिचितस्थलान्तररीत्योत्पत्त्यनुपपत्तिरूपयुक्तिबाधस्य वक्तुं शक्यत्वात् ।

न च मन्त्रौषधिवरादिस्थले तच्छक्तिबलादचिन्त्यकार्यसम्भवेऽपि दर्पणे कथमिति वाच्यम् । ईश्वरेण, ‘मन्निर्मितपदार्थेषु मद्दत्तशक्त्या एतादृशतर्कागोचरकार्यनिर्वाहो यदा, तदा किमुत स्वस्मिन्नचिन्त्यशक्त्यसम्भावनाशङ्का’ इति स्वकीयानां शङ्कां निरसितुं मन्त्रादाविव स्वच्छदर्पणे प्रतिबिम्बनशक्तेर्निदर्शितत्वात् । जडानां चेतनानामपि स्वतः शक्तिशून्यत्वात् । ‘न ऋते त्वत्क्रियते किञ्चनारे, द्रव्यं कर्म च कालश्च, एतेन ह वा पयो मण्डं भवति’ इत्यादेः ‘पयोम्बुवच्चेत्तत्रापि’ इति सूत्राच्च स्वतः शक्तेः कुत्राप्यभावावगमात् ।

किञ्चानुभावाननुसारेणैव त्वयाप्यत्राध्यासस्य विलक्षणमेव कारणं कल्प्यम् । अन्यथा परस्परभिन्नत्वेन स्फुटप्रतिभासमानयोरजतयोस्तादात्म्येनाप्रतीयमानत्वादघिष्ठानतादात्म्या- पन्नतयैव प्रतीयमानत्वाच्च । प्रकृते परस्परभिन्नतया दर्पणवृत्तित्वेन प्रतीयमानानां प्रतिबिम्बानां दर्पणेऽध्यासानुपपत्तिः । अधिष्ठानान्तरस्यानुपलम्भादयोगः।परिदृश्यमाने मुखे दर्पणावृत्तित्वेन तदनन्तर्गतत्वेनैव तदानुभूयमाने दर्पणवृत्तित्वाध्यासायोगः । अन्यथा घटावृत्तित्वेन प्रतीयमानस्य पटरूपस्य घटेऽध्यासापत्तिः । एतदन्यस्य मुखमात्रस्यानुप-लम्भेनाप्रामाणिकत्वात्तत्र तदध्यासानुपपत्तिः । भेदमात्राध्यासे महारजनाद्युपाधेः पटभाग-सम्बद्धस्य महापटन्यूनपरिमाणयोर्व्यत्तयोर्भेदप्रदर्शकतया दृष्टत्वेन मुखसमाननानाप्रतिबिम्बेषु भेदसाधकत्वानुपपत्तिः । तावत्परिणामोपेतानेकमुखानामेकत्वेनांशापेतपटस्येवोपाध्यभाव-दशायां मुखस्यातिस्वल्पपरिमाणतया भानापत्तिः । दर्पणस्य वर्तुलत्वेऽपि तदीयदोषवशादेव प्रतिमुखस्य वक्रत्वस्थौल्यादिभाने ग्रीवास्थेऽपि तत्प्रत्ययप्रसङ्गः । ग्रीवास्थमुखस्य स्वरूप एवाध्यासाङ्गीकारादित्यादिदूणानां सत्वादध्यासस्याप्यसिध्द्यापत्तेः । तस्माद्बाधकशून्य-बिम्बप्रतिबिम्बभेदप्रत्यक्षप्राबल्यमेव ।

एतेनानुमानान्यपि निरस्तनि । बिम्बासाधारणधर्मवत्वस्य प्रतिनिरस्तत्वेन तस्यासिद्धेः । स्वाभाविकविरुद्धधर्मवत्ताया अपि उपपदितत्वेन द्वितीयहेतोरप्यसिद्धिरेव । परिदृश्यमानव-क्रिमादिविशिष्टातिरिक्तप्रतिबिम्बस्वरूपस्य तद्राहित्येन कालान्तरेऽपि प्रतीयमानस्यानुपलम्भ-बाधितत्वेनासत्वादस्य त्वन्मतेऽप्यनिर्वचनीयस्यागन्तुककारणीभूतोपाध्यादिजन्यत्वात् बिम्बा-जनकेत्यादितृतीयहेतोरप्यसिद्धिरेव । अत एव ‘दर्पणादौ न मुखव्यक्त्यन्तरमस्ति कारणशून्यत्वाच्छशविषाणवत् ’ इति विवरणोक्तमनुमानमप्यसिद्धिकवलितत्वादेव दुष्टम् ।

यच्चोक्तं तृतीयहेतूपपादनावसरे ‘कारणकल्पनेऽन्योन्यश्रय’ इति तदप्यसारम् । तत्रानिर्वचनीयविशिष्टभानार्थं त्वयापि कारणस्यावश्यकताया उक्तत्वात् । प्रतिबिम्बस्योपाध्य-भावदशायामनुभवारूढस्य बिम्बस्वरूपभेदसिद्धावेव त्वदीयतृतीयहेतुसिद्धिः तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयेणासिद्धिरेवेति पूर्वहेतुसमकक्षतयाऽस्योपन्यासायोगश्च ।

नेक्षेतेत्यादिवाक्यमपि नाभेदं गमयितुमीष्टे । वारिस्थपदार्थान्वितार्थकस्यादित्यपदस्य गौण्या निरूढया तत्प्रतिबिम्बपरत्वात् । न च सर्वेषां विशेषणानां एकदैवान्वयोऽतो नावृत्तिः कर्तव्येति वाच्यम् । विशेषणानां उपलक्षणतयाऽन्वये केवलादित्यदर्शनस्यापि निषिद्धत्वापत्त्या विशेषणतयैवान्वये पञ्चविशेषणविशिष्टादित्यदर्शनाप्रसिद्ध्या निषेधायोगेनाऽवृत्त्या वाक्यभेद-स्यैवाश्रयणीयत्वात् । गङ्गायां मीनघोषावित्यत्र युगपद्वृत्तिद्वयस्य दर्शनेन आवृत्त्या वृत्ति-भेदाङ्गीकारे बाधकविरहात् । प्रातिभासिकव्यावहारिकसाधारणस्यैकरूपस्य पूर्वं निरस्तत्वेन आदित्ये वारिस्थत्वोपपादनस्य आदित्ये वारिस्थत्वभानस्य पूर्वेक्तरीत्या निरस्तत्वात् । स्वाप्नपदार्थनां सत्यत्वात् स्वाप्नभोजनादौ प्रातिभासिके भुज्यादेर्मुख्यत्वमित्युप-पादनमप्ययुक्तम् । एतत्तत्त्वं प्रागेवाभिहितम् ।

एवं च युक्त्यागमसहकृताभेदप्रत्यीस्यैवासिद्ध्या तत्सिद्धिमुपजीव्य न्यायामृतोक्तानां ‘बिम्बप्रतिबिम्बैक्ये कस्तूरिकाप्रतिबिम्बे गङ्गोपलब्धिः स्यात्, प्रतिबिम्बं दृष्ट्वा स्नायादिति शास्त्रार्थानुष्ठानस्य केवलसूर्यदर्शनोत्तरमपि सिद्धिप्रसङ्गः, कल्पितभेदस्य तद्विरोधित्वे केनचिदनौदुम्बरतया ज्ञातेनौदुम्बरयूपेन ‘औदुम्बरो यूपो भवतीति शास्त्रार्थासिद्धिप्रसङ्गः’ इत्यादिबाधकानां यथाकथञ्चित्परिहारोऽद्वैतसिध्द्युक्तोऽनुपादेय एव । तत्र दूषणान्य-तिरोहितान्यपि ग्रन्थगौरवभयादिह नोच्यन्त इत्यलम् ।

एवं च टीकायां विप्रतिपत्तेरित्यस्यासम्मतेरित्येकार्थकथनानन्तरं ‘परैरभ्युपगतमित्येता-वन्मात्रेण प्रामाणिकार्थे भवदसम्मतिरयुक्ता’ इत्याशङ्कापरिहारकतया ‘विप्रतिपत्तेः’ इत्या-वर्तनीयम् । तस्य चाभेदविरुद्धधर्मावगाहिन्या बाधकरहितत्वेन विशिष्टायाः प्रत्यक्षप्रतीतेः सत्वादित्यर्थः । तत्प्रकारश्चैतावता प्रबन्धेनोपपादित एवेत्यवधेयम् । दर्पणाहतचक्षुषः परावृत्त्य स्वमुखग्राहकत्वादिकल्पना त्वप्रामाणिकत्वादनुपादेया । तथात्वे कालान्तरे ग्रीवाभागे मम मुखं दृष्टमिति स्मरणापत्तेश्च । अथवा विप्रतिपत्तेरित्यस्य जीवस्य परमात्माभेदविरोधि-तदधीनत्वविशिष्टतत्सादृश्यरूपस्योपाध्यनधीनप्रतिबिम्बत्वविशेषस्य विशेषश्रुत्यादिभि; प्रति-पत्तेरभेदमङ्गीकृत्यौपाधिकभेदेन मुक्तामुक्तत्वव्यवस्थेत्येवं न घटत इत्यर्थः । तादृशश्रुतिश्च-

यथैषा पुरुषे छाया एतस्मिन्नेतदाततम्’ इति ।

छाया यथा पुंसदृशी पुमधीना च दृश्यते ।

 एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः’ ।।

इति स्मृतिः । श्रुतौ एतस्मिन् परमात्मनि एतत्प्राणादिकं सर्वमाततम् । अधीनतया वर्तत इत्यर्थंः । स्मृतौ छायादृष्टान्तेनाधीनत्वरूपं सादृश्यरूपं च प्रतिबिम्बत्वं परमात्मनो जीवभेदसाधकं स्पष्टमुक्तम् । प्रतिविम्बत्वहेतुना तद्धटकसादृश्याधीनत्वादिना सूर्यकादि-दृष्टान्तेन जीवेश्वरयोर्भेदः ‘अत एव चोपमा सूर्यकादिवत्’ इति सूत्रकृता स्पष्टमुक्तः । अतः प्रतिबिम्बत्वेन जीवस्य परमात्माभेदकथनं कथं न विरुद्धम् ? जीवस्यानौपाधि-कप्रतिबिम्बत्वन्तु -

सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते ।

 जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः’ ।। इति श्रुतिसिद्धम् ।

यत्तु श्रुतिस्मृतेर्न्यायामृते पृथगुदाहृतत्वेऽप्यद्वैतसिद्धौ निरन्तरत्वेनोदाहृतत्वाद्ब्रह्मानन्देन ‘यथेत्यस्योत्तरवाक्यस्थत्वात् ‘एतस्मिन् एतत्’ इत्यत्र न तथेत्यपेक्षते । एवमित्यस्यात्रापि सम्बन्धो वा’ इति योजनादिकमुक्तम् । तत्तु प्रश्नोपानिषद्गतमादिवाक्यं द्वितीयवाक्यं तु स्मृतिरूपमित्यज्ञात्वैकवाक्यत्वभ्रमेणेति स्फुटमेव । यदपि ‘‘अत एव जीवेशयोर्भेदादेव उपमा-

बहवः सूर्यका यद्वत्सूर्यस्य सदृशा जले ।

 एवमेवात्मका लोके परात्मसदृशा मताः’ ।।

इत्यादिवाक्यं सूर्यतत्प्रतिबिम्बयोरिवेशजीवयोर्भेद इति बोधयति’ इति पराभिमतोऽर्थः । मन्मते तु ‘अरूपवदेव हि तत्प्रधानत्वात्’ इत्यादिसूत्रेणाद्वितीयात्मबोधनादेवोपमा यथा ह्ययं ज्योतिरात्मेत्यादिश्रुतिः सूर्यतत्प्रतिबिम्बयोरिव ब्रह्मजीवयोर्मिथ्याभेदं बोधयतीत्यर्थः’ इति तेनैवाभिहितं तत् अस्मद्भाष्यटीकाद्यनुसार्यर्थमज्ञात्वैव स्वोत्प्रेक्षामात्रेणास्मदनभिमतार्थकथन-रूपत्वादश्रद्धेयम् । यथा ह्ययमिति श्रुत्यर्थः पूर्वमेवान्यप्रसङ्गशर्शित इति न परोक्तं युक्तम् । बिम्बरूपेशस्यैवोपाध्यवच्छिन्नस्य प्रतिबिम्बभूतजीवभावापन्नत्वे तस्य जीवान्तर्यामित्वायोगात् ‘उपाध्यवच्छेदपक्षे गुणीभूतचेतनाभावादन्तर्यामित्वायोगेऽपि प्रतिबिम्बपक्षे तत्सम्भवः’ इति विवरणोक्तिविरोधः । मुखस्यैवारोपितदर्पणवृत्तित्वविशिष्टरूपेण प्रतिबिम्बत्वस्य भवदङ्गी-कृतत्वेन तत्रेव प्रकृतेऽपि द्विगुणीकृतचेतनाभावात् ।

न च बहुजीववादे बिम्बीभूतान्तर्यामी सर्वोपाध्यवच्छिन्नः । प्रतिबिम्बीभूतास्त्वेको-पाध्यवच्छिन्ना इति विशेषः । एकजीववादेप्येकस्यैव बिम्बप्रतिबिम्बभेदकल्पकतयोपपत्तिः । अत एवोपाधेः प्रतिबिम्बपक्षपातित्वोक्तिरपि युक्तेति वाच्यम् । तथात्वे शुद्धस्यैवोपाधि-सम्बन्धाधीनकल्पितभेदमूलकसंसारस्यावर्जनीयतया नित्यमुक्तत्वश्रुतेः निर्विषयकत्वापत्ते-रित्यलम् ।

एतेनैव ‘अंशत्वेन जीवस्य ब्रह्माभेदः । यद्यपि नित्यनिरवयवाखण्डात्मखरूपे स्वाभाविकांशांशिभावो न वक्तुं युक्तः । तथाप्यवच्छिन्नत्वपक्षे महाकाशं प्रति करकाकाशस्येव कल्पितांशांशिभावो न विरुद्धः । तद्विषयकाण्येव-

ममैवांशो जीवलोके जीवभूतः सनातनः’ ।

इत्यादिवाक्यानि ‘अंशो नानाव्यपदेशात्’ इति सूत्रं च । न च तत्सदृशत्वे सति तन्यूनत्वमेवांशत्वं देवदत्तस्य चतुर्थांशबलो यज्ञदत्त इत्यादाविवेति वाच्यम् । तथात्वेऽल्प-पटस्य महापटांशत्वव्यवहारापत्तेः । उक्तस्थले अंशव्यवहारस्य गौणतया कल्पितेऽप्यंशे कल्पितरजते रजतपदस्येवांशपदस्य मुख्यतयोक्तवाक्यानां मुख्यार्थत्वलाभाय कल्पितां-शपरत्वस्यैव युक्तत्वात्’ इत्यपास्तम् । अवच्छिन्नस्य शुद्धान्यत्वे तस्योपाधिनाशान्नाशस्यैव प्राप्त्या विशिष्टरूपेण मोक्षाभागितया उक्तांशरूपस्य जीवस्य शास्त्रानधिकारापत्तेः । विशेष्यी-भूतशुद्धरूपेण मोक्षभागित्वे बन्धमोक्षयोः सामानाधिकरण्यानुरोधेन करकोपाध्यवच्छिन्नाकाशे जायमानमक्षिकासंयोगशब्दादेः शुद्धाकाशसम्बन्धितयैवानुभूयमानत्वानुरोधेन तद्दृष्टान्तकानु-मानेन च बन्धस्यापि विशेष्यनिष्ठत्वस्यैव प्राप्त्या नित्यमुक्तचेतनाभावात्तद्वाक्यानां निर्विषयत्वापत्तेर्दुर्वारत्वात् । अनिर्वचनीयस्य निरस्तत्वेन कल्पितत्वे सत्वाभावस्यैव प्राप्त्या तेषां रजतादिपदमुख्यार्थताया दूरनिरस्तत्वादविद्यमानार्थबोधने शास्त्राप्रामाण्यापत्तेर्गौणार्थ-त्वस्यावर्जनीयत्वात् । न्यूनत्वस्य तदुपजीवित्वरूपत्वान्नोक्ताल्पपटेऽतिप्रसङ्गः । कल्पितांश-त्वेन तदधिकसत्ताकाभेदसाधने पटे कल्पितपटान्तरांशत्वेन तस्यापि तदभेदसिद्ध्यापत्त्या स्वसमानसत्ताकाभेदसिद्धेरेव वक्तव्यतया कल्पितांशत्वेन तादृशाभेदसिद्धेरस्मदप्रतिकूलत्वाच्च । वास्तवानंशत्वेन सहितेन तन्मात्रात्मकतया प्रतीयमानत्वाभावलिङ्गेन वास्तवभेदसिद्ध्यापत्ते-श्चेत्यलम् ।

यद्वा । विप्रतिपत्तेरित्यस्य विरुद्धतया परमात्मस्वभावविलक्षरत्वेन जीवस्य, जीवस्व-भावविलक्षणत्वेन परमेश्वरस्य प्रतिपत्तेः । यद्वा वीत्यस्य विशेषार्थकतयोक्तविशेष वत्वेनेश्व-रजीवयोः प्रतिपत्तिर्निश्चयो यस्मादिति व्युत्पत्त्या ईशजीवनिष्ठस्वाभाविकापरिच्छिन्नत्व-परिच्छिन्नत्वादिधर्मजातं विप्रतिपत्तिशब्दार्थः । तथा च स्वाभाविकवैलक्षण्यसम्पाद-कस्वाभाविकमहत्वतदभावसहिताणुत्वादिधर्मैर्जीवेश्वरयोर्भेदस्यैवावगमादौपाधिक भेदमङ्गीकृत्यैवं व्यवस्थादिकं न वक्तव्यमित्यर्थः । जीवस्याणुत्वं तु ‘उत्क्रान्तिगत्यागतीनां’ इत्यधिकरणे स्थापितम् । तेनैव व्याप्तिश्रुतेः एकवचनद्विवचनबहुवचनघटिताया अपि परमात्मविषयत्व-सिध्द्या परेशे व्यापकत्वादिकमपि स्वाभाविकम् ।

।। व्याप्तत्वनिरसनपूर्वकं जीवाणुत्वसमर्थनम् ।।

ननु जीवे उत्क्रान्त्यादिकमसिद्धम् । न च ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमागच्छत्य-मुष्मादिमं लोकमधिगच्छति’ इत्यादिश्रुतिभिः

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते’ ।

इत्यादिस्मृभिश्च तत्सिद्धिरिति वाच्यम् । बुद्धिरूपोपाधिनिष्ठानामुत्क्रमणादीनां उपहिते प्रतिपादनेन जीवनिष्ठत्वासिद्धेः । इति चेन्मैवम् । विशेष्यांश एव प्रतीयमानस्य बुद्धिरूपोपाधिगतत्वकल्पनस्य विशेष्ये बाधोत्तरत्वेन निर्निमित्तं तत्कल्पनेऽतिप्रसङ्गात् । न च जीवस्याणुत्वे सर्वदेहगतसुखाद्यनुपलम्भप्रसङ्गः । जीवचैतन्यस्य हस्तादिगतसुखादिभिर-सम्बन्धात् । ‘हस्ते मे सुखं पादे मे दुःखं’ इति हस्तपादाद्यवच्छेदेन दुःखादिप्रति-पत्त्यनुपपत्तिश्च । अवच्छेद्यस्याधिकरणेन सह साक्षात्सम्बन्धाभावादिति वाच्यम् । अणोरपि जीवस्य स्वशरीरावयवसम्बन्धस्य प्रकाशद्वारेणोपपत्तेः । ‘गुणाद्वाऽऽलोकवत्’ इत्यनेन सूत्रकृतोक्तत्वेन ‘यथेहाणुनश्चक्षुषः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततः अणुर्हैवैष पुरुषो भवति’ इति श्रुत्या चोक्तार्थस्य सिद्धत्वात् । न चोक्तश्रुतौ पुरुषस्येति षष्ठी राहोः शिर इत्यादाविव तादात्म्यपरा । तेन प्रकाशाभिन्नस्य पुरुषस्यैव व्याप्तिः सिद्ध्यतीति वाच्यम् । पुरुषस्यैव स्वरूपतो व्याप्तितात्पर्यकत्वे पुरुषो व्यातत इत्यनुक्त्वा पुरुषस्य प्रकाश इत्युक्तेर्वैयर्थ्यात् । ‘अणुर्हैवैष पुरुषो भवति’ इति वाक्यशेषविरोधाच्च ।

जीवस्य व्याप्तत्वेऽपि तत्प्रकाशस्याव्याप्तत्वेऽपि च शरीरे जायमानसुखाद्यात्मना परिणम्यमानबुद्धिरूपान्तःकरणेन संयोगस्य त्वद्रीत्याध्यासिकसम्बन्धस्य वा सत्वेन तद्वारकसम्बन्धस्य सुखादौ सत्वेन तस्यैव तद्भासकत्वसम्भवे तं विहाय साक्षात् सम्बन्धलाभाऽग्रहेण व्याप्तत्वकल्पने सर्वमूर्तसंयोगतत्प्रागभावध्वंसानां कल्पने महागौरवात् । घटादौ संयोगसम्बन्धस्य साक्षाद्भासकत्वेऽपि संयुक्तसमवायतद्वत्समवेतत्वादेर्भासकत्बा- भ्युपगमात् । अन्यथा तत्रपि साक्षात्सम्बन्धकल्पनापत्तेः । चक्षुर्द्वारा बहिर्निर्गतान्तःकरणवृत्तेः ज्ञानत्वाङ्गीकारपक्षेऽपि तदाकारपरिणतिरूपवृत्त्युत्पत्त्यर्थमपि चक्षुरादेः रूपरूपत्वादिभिः सह समवायस्थानाभिषिक्ततादात्म्यघटिततादात्म्यसम्बन्धस्यावश्यकत्वात् । न हि तव मतेऽपि चक्षुरादीनां रूपरूपत्वादिभिः सह संयोगोऽभ्युपगतः । वृक्षादिनिष्ठसंयोगादिभिरसम्बद्धस्यापि तरणिक्रियात्मककालस्येदानीं वृक्षसंयोग इति प्रतीत्यनुरोधेनावच्छेद्यावच्छेदकभावसम्बन्धवत् सुखादितिः सहात्मरूपज्ञानस्य विषयविषयिभावरूपसम्बन्धसम्भवात् ।

न च विषयविषयिभावसम्बन्धाङ्गीकारे मानाभावः । आत्मनो व्यप्तत्वे सर्वदा सर्वमूर्त-संयोगतत्प्रागभावध्वंसादिकल्पनागौरवेणाणुत्वसिद्धौ देहगतसुखाद्युपलब्ध्यर्थमेव तत्कल्पनात् । अक्षादावात्मसम्बन्धस्यैवात्मनिष्ठज्ञानमात्मस्वरूपज्ञानं वा प्रति विषयविषयिभावनियामकत्वे आत्मासमवेतविषयकज्ञानमात्रस्य निर्विषयकत्वापत्तेस्तादृशसम्बन्धस्यावश्यकत्वात् ।

न चात्मन अणुत्व आत्मनिष्ठसुखं प्रति हस्तादेरवच्छेदकत्वायोगात् हस्ते मे सुखं पादे मे दुःखमित्यादिप्रतीतिसिद्धावच्छेदकत्वानुपपत्तिः । हस्तादेरात्मना सह शरीरद्वारकसम्बन्ध-सत्वेऽपि तस्यावच्छेदकत्वं प्रत्यनियामकत्वात् । अवच्छेद्याधिकरणेन सह साक्षात्सम्बन्धस्यैव तन्नियामकत्वादिति वाच्यम् । त्वन्मते सुखादेरन्तःकरणधर्मत्वात्तवापि तथात्वात् । मन्मते तस्य चान्तःकरणस्य सावयस्य सर्वशरीरव्याप्त्यङ्गीकारेण हस्तादेरवच्छेद्याधिकरणेन सह साक्षात्सम्बन्धस्यैव सत्वात् । परिणामवादे हस्तपादाद्यवयवैः सह शरीरस्यात्यन्तभेदाभावेन हस्तादेरात्मना साक्षात्सम्बन्धसम्भवाच्च ।

न च सुखादेरात्मासमवेतत्वे मयि सुखमित्यादिप्रतीत्यनुपपत्तिः । एतद्बाधकस्य त्वयाऽपि परिहर्तव्यत्वात् । आध्यासिकतादात्म्यमादाय तदुपपादने राज्ञि राज्यमितिवत्स्व-स्वामिभावविषयत्वस्य मयापि वक्तव्यत्वात् । नैयायिकेनात्ममनसोः संयोगेन तद्धर्मादि-साक्षात्कारजननवारणाय स्वात्ममनःसंयोगे वैजात्यं कल्पनीयम् । एवं परशरीरादेस्तदात्म-समवेतसुखाद्यवच्छेदकत्ववारणाय च स्वशरीरात्मसंयोगादावेव वैजात्यमवच्छेदकतानियामकं कल्पनीयमिति साक्षात्सम्बन्धनियामकत्वपक्षेऽप्यतिप्रसङ्गपरिहारस्यावश्यकतया हस्तादेरात्मना सह परम्परासम्बन्धे वैजात्यकल्पनया सुखाद्यवच्छेदकत्वादेर्वक्तुं शक्यत्वेनोक्तगौरवपराह-तात्मव्याप्तत्वाङ्गीकारे मानाभाव एव । ‘आकाशवत् सर्वगतश्च नित्यः’ इत्यादिश्रुतीनां उपक्रमादिभिर्वाक्यान्तरसंवादैश्च परमात्मविषयत्वस्यैवावगाहनात् । वस्तुतस्त्वच्छेदक-तानिरासप्रस्तावे एतादृशप्रतीतीनां गतिरुक्तैव सिद्धान्त इति न किञ्चिद्बाधकम् ।

केचिन्तु हस्ते मे सुखमित्यादिप्रत्ययो नान्तरानुभवरूपः । हस्तादेस्तदगोचरत्वात् । किन्तु सुखदुःखादिवृत्तिवैजात्याद्यनुभावानन्तरं तस्य हस्ताद्यवच्छिन्नसाधनसाध्यत्वानु-मितिरेव । न च सुखदुःखादिषु तादृवैजात्यसत्वे मानाभावः । अर्धभोजनोत्तरं पूर्बतनक्षुधाया नष्टत्वेन तत्कालोत्पन्नसूक्ष्मक्षुधादिरूपदुःखनिष्ठवैजात्यानुभवेन तदवच्छिन्नमात्रसाधनत्वानु-मानेन स्वल्पतरान्नादीच्छानुपपत्तिप्रसङ्गात् । इत्थं च हस्ते मे सुखमित्याद्यभिलापकवाक्ये सप्तम्यर्थंः प्रयोज्यत्वं स्वसम्बद्धसाधनद्वारकं सुखादावन्वेति । सुखदुःखादिपदं वा तत्साधनलक्षकम् । म इति षष्ट्यर्थाधेयत्वं पदार्थैकदेशसुखादावन्वेति । हस्तादिपदोत्तर-सप्तम्यर्थभूताधेयत्वं सुखादिपदार्थभूते तत्तत्साधन एवान्वेतीत्याहुः ।

यत्तु ‘आत्मनः अणुत्वे युगापद्धस्तपादादिसम्बन्धायोगाद्युगपद्धस्ते मे सुखं पादे मे दुःखमित्यनुभवासम्भवः’ । इति । तत्तुच्छम् । व्याप्तत्वपक्षेऽपि योग्यात्मविशेषगुणाना-मेकशरीरावच्छेदेन युगपदुत्पत्त्याद्यभावेन तत्प्रतीतेर्भ्रान्तित्वस्य त्वयापि वाच्यत्वात् । अणुत्वेऽप्यनुपदमुपपादितरीत्या युगपदनुभवसम्भवाच्च ।

यत्तु परेणोक्तं ‘परमार्थतस्तु परमते सुखादिज्ञानस्याभिन्ननित्यसाक्षिरूपत्वात्कारण-नियम्यत्वं न सम्भवत्येव । तथाचाणुपरिमाणात्मरूपज्ञानस्य सुखादौ विषयत्वकल्पनाऽपेक्ष-याऽऽत्मन एव हस्तपादाद्यवच्छिन्नसुखादौ सम्बन्धकल्पना युक्ता । तथासत्यात्म-साक्षिणोर्विशेषाख्यं भेदप्रतिनिधिं परिकल्प्य गुणगुणित्वयोरणुत्वमहत्वयोश्च कल्पनं महागौरवग्रस्तं’ इति । तत्तुच्छम् । विशेषस्य स्थापितत्वेन श्रुत्या प्रकाशवच्चक्षुर्दृष्टान्तेनाणुत्व- व्याप्तत्वयोरुपपादितत्वेन नित्येऽपि साक्षिण्यभिव्यक्त्यादिविशेषरूपोत्पत्यादेर्गुणगुणिभावादेश्च श्रुत्यनुभवान्यथानुपपत्तिप्रमाणमूलकत्वेन कुत्राप्यप्रामाणिककल्पनागौरवाभावात् । सवितुरेव प्रकाशगुणेन व्याप्तत्वं स्वरूपतो गगनवृत्तित्वं, चन्दनादिबिन्दोरणोरेव स्पर्शगुणेन व्याप्तत्वमेवं वह्नेरपि स्वरूपभूतः अल्पदेशवृत्तित्वमुष्णस्पर्शगुणरूपेण बन्ह्यसम्बद्धकतिपयदेशसम्बद्धत्वं, केतकीकस्तूर्याद्यभिन्नगन्धरूपगुणस्य तदसम्बद्धबहुदेशसम्बद्धत्वमित्यादीनां सर्वानुभवसिद्धत्वेन तदनुसार्युक्तप्रक्रियाया असम्भावितत्वाभावात् । प्रत्युत तवैवाप्रामणिकात्मव्याप्तत्वादि-कल्पनाप्रयुक्तमहागौरवस्य समीपत एव पूर्वं दर्शितत्वाच्च ।

ननु प्रकाशो न सवित्रभिन्नो गुणः । किन्तु द्रव्यान्तरमेव । चन्दनवन्ह्यादिस्थलेऽपि तत्सन्निहितचक्षुरयोग्यद्रव्यान्तरयोरेव शीतोष्णस्पर्शौ प्रतीयेते । केतक्यादिस्थले तदवयवानां बहिर्निर्गतानां गन्धस्यैवोपलब्ध्यङ्गीकारात्तदपि नोदाहरणम् । न चावयवानां बहिर्निर्गमने केतक्यादेः सच्छिद्रताप्रसङ्गः । तोलने कस्तूरीभरस्य न्यूनताप्रसङ्गश्चेति वाच्यम् । अल्पतरावयवानां बहिर्निर्गमनेन सच्छिद्रत्वाभावात् । अत्यल्पत्वेन भारन्युनत्वानुपलम्भाच्च । अवश्यमेव वक्तव्यं गुणानां स्वसमवायिकारण एव समवेतत्वम् । अन्यथा आश्रयनियमानुपपत्तेरिति चेन्न ।

प्रकाशस्य सूर्यंसम्बद्धद्रव्यान्तरत्वे सूर्यापगमेऽपि तदवस्थानप्रसङ्गात् । वन्ह्यपगमेऽप्युष्ण-स्पर्शद्रव्यान्तरबलादुष्णस्पर्शप्रत्यक्षापात्तिः । एवं चन्दनस्थलेऽपि दोषः । एकं विहाय परस्य सत्वानङ्गीकारे संयुक्तयोर्वा युतसिद्धिप्रसङ्गः । तयोः समवायसम्बन्धाङ्गीकारेऽवयवावयि-विभावप्राप्त्या सूर्याद्यसम्बद्धदेशे प्रकाशाद्यप्रतीतिप्रसङ्गः । अवयवावयविनोस्तन्नियमत्यागे गुणगुणिनोस्तथाभ्युपगमे का क्षतिः ? सर्पादेर्बिलसम्बद्धस्यैव बहिःस्थितिवत् आश्रयस्यैव प्रकाशस्पर्शगन्धादेरंशेन बहिर्निर्गमनाङ्गीकारे विरोधाभावात् । कल्पनाया अनुभवानु-सारित्वात् । ‘यथा पुष्पाद्गन्धः पृथग्गच्छति एवमंशिनो जीवादंशाः पृथग्गच्छन्ति’इति श्रुतिसिद्धत्वाच्च । कस्तूरिकाल्पावयवानां पृथग्गमनेन गन्धोपलब्ध्यङ्गीकारे गृहान्तस्थमहा-कस्तूरिकामपनीय बहिरल्पकस्तूरीप्रक्षेपेऽपि तादृशोत्कटगन्धप्रत्यक्षापत्तेः । रश्मिद्वारा बहिर्निगतमहाकस्तूरिकाघ्राणस न्निकर्षेणैवोत्कटगन्धप्रत्यक्षं तदपगमे तु न जायत इति चेन्न । दूरतः पश्चाद्भागस्थितवनादिस्थितवस्तुनिष्ठगन्धादिप्रत्यक्षानुपपत्तिप्रसङ्गात् । घ्राणेन्द्रियस्य तिर्यग्गमनादिकल्पनादेरुक्तश्रुतिविरोधेनाप्रामाणिकत्वात् । अश्रयनियमस्तु त्यज्यत एव । कपालसमवेतस्यापि घटस्य संयोगेन भूतले प्रतीतिवत् पुष्पादेर्बहिर्निर्गमनेन देशान्तर-संयुक्ततया गन्धादेः पुष्पगन्धत्वादिनैव प्रत्यक्षसम्भावात् । न च गुणस्य संयोगानुपपत्तिः ।

तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः’ ।

इति स्मृतौ सामान्यत एव वस्तूनां गृहीतत्वेन द्रव्यादेरेव संयोग इत्यत्र मानाभावात् । न च हस्तगतकस्तूरिकां प्रक्षिप्यान्यत्र गतस्य हस्ते कस्तुरिकागन्धोपलम्भान्यथानुपपत्त्या सूक्षमतरकस्तुरिकावयवानामेव बहिर्गमनकल्पना युक्तेति वाच्यम् । कपालनाशकाल आश्रयं विनैव घटस्य क्षणं संयोगेन स्थितिवत् आश्रयं विना बहिर्निर्गतगन्धांशस्य किञ्चित्कालं स्थितिसम्भवात् । मन्मते सर्वेषामापि सांशत्वात् । प्रकाशस्य द्रव्यत्वाङ्गीकारे ‘प्रभा हि तेजसो रूपमिति श्रुतिविरोधश्च’ । प्रभाविषयेऽधिकविचारस्तत्वप्रकाशिकायामनुसन्धेय इत्यलम् ।

ननु जीवो नाणुः प्रत्यक्षगुणाश्रयत्वात् प्रत्यक्षत्वाच्च घटादिवदित्यनुमानेनाणुत्वाभावसिद्धौ मध्यमपरिमाणत्वेऽप्यणुत्वप्रसङ्गात् । ‘नित्यः सर्वगतस्थाणुः’ इत्यादिस्मृत्यन्तराच्च जीवस्य व्याप्तत्वसिद्धिः । न च सर्वदेहगतसुखदुःखादेरन्यथोपपादितत्वादनुकूलतर्काभावेनोक्तहेतोर-प्रयोजकतेति वाच्यम् । आत्मनोऽणुत्वेऽदृष्टस्याङ्कुरादिकार्यनिरूपितजनकतावच्छेदक-सम्बन्धाभावापत्त्या तत्सिद्धेः । तथाहि । चैत्रभोगजनकाङ्कुरादिकं चैत्रादृष्टेन जायते । न चाङ्कुरादृष्टयोः सामानाधिकरण्यं समवायघटितमात्मान्तर्भावेण सम्भवतीत्यतः स्वाश्रयात्म-संयोगित्वेन सम्बन्धेन तस्याङ्कुरादृष्टयोः सामानाधिकण्यं समवायघटितमात्मान्तर्भावेण सम्भवतीत्यतः स्वाश्रयात्मसंयोगित्वेन सम्बन्धेन तस्याङ्कुरावयविनिष्ठतया जनकता वाच्या । न चास्य सम्बन्धस्याजनकादृष्टसाधारणतया नास्य कारणतानियामकतेति वाच्यम् । सम्बन्धस्यातिप्रसक्तत्वेऽपि जनकादृष्टकारणताङ्गीकारे दोषविरहात् । न च सम्बन्धं विना कारणत्वस्याग्रहात् कारणताग्रहानन्तरमेव तदवच्छिन्नस्य तेन सम्बन्धेन कारणताग्रहादन्यो-न्याश्रय इति वाच्यम् । जनकादृष्टपदेनाजनकव्यावृत्तवैजात्यावच्छिन्नस्यैव विवक्षितत्वेन जनकतायाः कारणतावच्छेदककोटावप्रवेशात् । न च तादृशादृष्टस्य स्ववृत्तिमेयत्व-सत्वादिरूपपरम्परासम्बन्धेन कारणतासम्भवान्न तद्धटकतया आत्मविभुत्वसिद्धिः इति वाच्यम् । विनिगमकाभावेन स्वाश्रयवृत्तिद्रव्यत्ववत्वादिसम्बन्धेनापि कारणताकल्पने महागौरवसङ्गेनोक्तक्रमेण क्लृप्तस्यात्मघटितसम्बस्यैव वाच्यतया आत्ममहत्वसिद्धेर्निष्प्रत्यूह-त्वादिति चेन्न ।

क्लृप्तत्वमात्रेण तस्य सम्बन्धत्वाङ्गीकारे स्वाश्रयसमवेतत्वस्यापि क्लृप्तस्य सम्बन्धताया विनिगमनाविरहेण प्राप्त्या तन्निर्वाहायाङ्कुरावयवादेरात्मसमवेतत्वस्यापि सिद्धिप्रसङ्गात् । कालिकसम्बन्धेन तादृशाङ्गुरादिकं प्रति कालिकसम्बन्धेन तादृशविजातीयादृष्टत्वेन कारणत्वोपपत्तौ वृत्त्यनियामकोक्तपरम्परासम्बन्धावच्छिन्नकारणताया अप्रामाणिकत्वाच्च त्वदु-क्तानुकूलतर्कानुत्थानात् । प्रत्युतात्मनो व्याप्तत्वे सर्वशरीरगतसुखदुःखाद्यनुसन्धानापत्तिः इति प्रतिकूलतर्कपराहतिश्च । आत्मनामनादितः सर्वशरीरसम्बद्धत्वे अस्यैतत्कर्मेति कर्मव्यवस्थाया अपि वक्तुमशक्यतया सर्वेषां सर्वदेहगतसुखदुःखादिभोगापत्तेर्दुवारत्वात् । न चेश्वरस्य सर्वगतत्वेन तत्राप्युक्तापत्तेस्तव मते यथा परिहारस्तथा ममाप्यस्त्विति वाच्यम् । अचिन्त्यशक्तेस्तस्य सर्वकर्मादिकारयितुस्तत्फलदातुश्च स्वतन्त्रस्य प्रेक्षावतः स्वं प्रत्यशुभ-फलाऽऽदानस्य सर्वथाप्यसम्भावितस्यापादनासम्भवात् । त्वयापीश्चरस्य सर्वकर्तृत्वाद्यङ्गीकारेण तस्य पापफलादिप्राप्तिपरिहारस्य कर्तव्यत्वाच्च । त्वद्भाष्यकारेणापीन्द्रादिजीवासम्भा-वितापरिच्छिन्नशक्त्यादेरीश्वरे अभ्युपगमेनेन्द्रादिजीवासम्भावितधर्मानीश्वरे उपपाद्य वाक्य-समन्वयस्याङ्गीकृतत्वाच्च ।

एतेन जीवस्याणुत्वे योगिनामनेकशरीगतसुखाद्यनुसन्धनानुपपत्तिरपि परास्ता । ईश्वरा-चिन्त्यशक्त्युपबृंहितैः प्रकाशरूपस्वांशैरनेकशरीरावष्टम्भेन भोगस्य भाष्योदाहृतश्रुतिस्मृति-सिद्धत्वात् । मनआदिसृष्टेरप्रामाणिकत्वान्निराकरिष्यमाणत्वाच्च । यत्तु ‘ईश्वराचिन्त्यशक्त्या समाधाने तव विचारशास्त्रवैयर्थ्यम्’ इति । तदुपहासास्पदम् । ईश्वरस्याचिन्त्य-शक्त्यादिगुणसिद्ध्यर्थमेव शास्त्रविचारसार्थक्यात् । अन्यथाऽविद्याशक्त्या दुर्घटार्थस्योपपादि- तत्वेन, ईश्वरशक्तेरपि त्वन्मतेऽसम्भावितार्थनिर्वाहकत्वाङ्गीकारस्योक्तत्वेनोक्तदोषस्य तवाप्या-पत्तेः । तस्मात् नानुमानानि जीवव्याप्तत्वसाधकानि । श्रुतीनामीश्वरविषयकत्वस्योक्तत्वान्न साधकत्वम् ।

नित्यं सर्वगते विष्णवणुर्जीवो व्यवस्थितः’ ।

इति व्याख्यानरूपस्मृत्यन्तरानुसारेण ‘नित्यं सर्वगतस्थाणुः’ इति गीतावाक्येऽपि सर्वगते स्थितश्चासावणुश्चेति विग्रहस्यैव कर्तव्यतया गीतावाक्यस्यापि जीवाणुत्वप्रत्ययसाधकत्वात् । सर्वगतः स्थाणुरिति पदद्वयाङ्गीकारेऽपि अनादौ संसारे जीवानामनेकयोनिसम्बन्धेन सर्वगतत्वोक्तेर्युक्तत्वात् । न चाशेषवाचिसर्वशब्दस्य देहपरत्वे सङ्कोचप्रसङ्गः । पाञ्चभौति-कत्वात् सर्वदेहानां सर्वेषामपि क्रमेण जीवदेहत्वसम्भवात् । आत्मनो रूपरूपत्वादिजातिभिः सर्वथा सम्बन्धाभावेन तवापि सङ्कोचस्यावश्यकत्वात् । न चात्मनस्तदाश्रयीभूतघटादिभिः सम्बन्धे तद्रूपादिभिः सम्बध आगत एवेति न सङ्कोचोऽस्माकमिति वाच्यम् । उक्तपरम्परासाधारणसम्बन्धस्य श्रुत्यभिप्रेतत्वेऽणोरपि स्वसमानकालिकत्वादिघटितपरम्परा-सम्बन्धस्य मयापि वक्तुं शक्यत्वेन मन्मतेऽपि सङ्कोचाभाव एव । तस्माज्जीवस्य व्याप्तत्व-साधकाभावेन तत्रैवोत्क्रमणादिक्रियाङ्गीकारे बाधकाभावान्न पूर्वोदाहृतश्रुतेर्बुद्धिविषयकत्वं कल्प्यम् ।

अपि च -

नाकस्य पृष्ठे सुकृते तेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति’ ‘तेऽशुभमनुभूयाऽवर्तन्ते’ इत्यादिश्रुतौ सुखादिभोक्तृत्वसामानाधिकरण्येन प्रतीयमानगतेर्बुद्धि-निष्ठत्वायोगः । न चात्मनि सुखाद्यनुभवस्यापि बुध्द्युपाधिकत्वेन तत्सामानाधिकरण्यस्य गतौ स्वाभाविकत्वमिति वाच्यम् । बुध्द्युपाधिकत्वस्यैव निर्वचनानर्हत्वात् । न तावद्बुध्द्युपाधि-काध्यासविषयत्वम् । आत्मनि कर्तृत्वाध्यासस्य निरस्तत्वात् । सुखदुःखसाक्षात्का-ररूपभोगस्य साक्षिरूपस्याविद्यावृत्तिरूपस्य वा बुद्धिधर्मत्वाभावेन तदुपाधिकाध्यासस्यात्मनि वक्तुमशक्यत्वात् । न च बुद्ध्यवच्छिन्नांशे गत्यादिकं जायत इति वाच्यम् । घटगत्या तदवच्छिन्नाकाशे गत्यभावात् । पूर्वस्थले सच्छिद्रत्वापत्तेरुत्तरदेशे द्विगुणीकृत्यावस्थाना-पत्तेश्च । न च शुद्धाकाशस्य पूर्वदेशे सत्वान्न सच्छिद्रत्वम् । पूर्वदेश इव उत्तरदेशेऽप्यात्मनोऽवच्छिन्नशुद्धरूपाभ्यां द्विगुणीकृत्य स्थितिरिष्यत एवेति वाच्यम् । ‘घट एव गतो न तदवच्छिन्नाकाशः’ सति ‘उत्तरभाग इदानीं घटावच्छिन्नो जातः’ इत्येव सर्वेषामनुभवेन घटावच्छिन्नाकाशोऽधोभागे न लग्न इति कस्याप्यनुभवाभावेन सर्वप्रतीति-विरुद्धार्थे त्वदियेष्टापत्तेरकिञ्चित्करत्वात् । अन्यथा शून्यवाद्यपि यथास्वकाममिष्टापत्तिं कृत्वा त्वां पराजीयात् ।

नापि बुद्धावेव गतिः नात्मनि । तन्निष्ठैव तत्रोपचर्यत इति वाच्यम् । तथात्वे प्रथमतो बुद्धिर्यद्भागे सम्बध्य स्वावच्छिन्नकर्तारमकरोत् तस्या एव परलोकादिगतभागान्तरसम्बन्धेन स्वावच्छिन्नस्य भोक्तृत्वसम्पादने एतद्भागतद्भागयोर्बुद्ध्यवच्छिन्नयोर्भिन्नत्वेन कर्तुरभोक्तृत्व-मकर्तुरेव भोक्तृत्वमित्यापत्तेः । न चावच्छेदकीभूतबुद्ध्यैक्येऽवच्छेद्यस्यात्मनश्चैक्यान्नावच्छि-न्नानामवच्छेदकगमनागमनाभ्यां तद्भेद इति वाच्यम् । स्वतो निरंशस्यात्मनः पूर्वोत्तरदेशकल्पनाभ्यां विना बुद्धेरेतद्भागं विहाय तद्भागे सम्बन्धरूपगत्याद्ययोगेनात्मनि स्वकल्पितांशानां भेदस्यावश्यकतया स्वावच्छिन्नतत्तद्भागभेदस्यापरिहारात् । एतेन ‘उपाधिगत्यागतिभ्यां न वस्तुभेदः । दर्पणगत्यादिना प्रतिबिम्बभेदस्य शुक्तिगमनागमनाभ्यां शुक्तिरजतादिभेदस्यादर्शनात्’ इति प्रत्युक्तम् । अन्वत्र यादृशतादृशरीत्यङ्गीकारेऽपि प्रकृते तदावश्यकताया उपपादितत्वात् । प्रतिबिम्बादेरपि प्रातिभासिकतया गताऽगताभ्यां ज्ञानोपरमेन तद्भेदस्यावश्यकत्वेन दृष्टान्तस्यासम्मतेश्च । एतेन जीवस्य बुद्धिप्रतिम्बितत्वपक्षे तस्य बुद्धिगतावप्यैक्येन नोक्तदोष इति निरस्तम् ।

न च यद्वुद्ध्यवच्छेदेनात्मनो यत्कर्मकर्तृत्वं तद्वुद्ध्यवच्छेदेनैव तत्कर्मफलभोक्तृत्वं बुद्धिगतकर्तृत्वादिकं बुद्ध्यवच्छेदेन शुद्धात्मन्येव कल्पितं अवस्थाभेदेऽपि व्यक्त्यैक्यस्या-व्याहतत्वात् । तथा च न कर्तृभोक्तृभेद इति वाच्यम् । शुद्धात्मन एव भोक्तृत्वे सर्वत्र तत्स्वरूपानुगमस्य सत्वेन चैत्रकर्मफलभोगस्य मैत्रात्मन्यवर्जनीयत्वात् । न चावच्छेदकभेद-सत्वान्नैवमापादनं युक्तमिति वाच्यम् । निरंशस्यैव शुद्धत्वेन सर्वबुद्धीनां तत्सम्बद्धानामेवा-वच्छेदकत्वस्य वक्तव्यतया सर्वबुद्धीनां सर्वकर्मकर्तृत्वावच्छेदकताया दुर्वारतयोक्तापत्तेर-परिहारात् । शुद्धात्मन्येवांशभेदं विना सर्वबुद्ध्यवच्छेदेन कर्तृत्वभोक्तृत्वादेः कल्पितत्वे एकबुद्ध्यपगमेऽपि शुद्धात्मनो भोक्तृत्वाद्यनपायाद्बद्धमुक्तव्यवस्थानुपपत्तेश्चेति स्वकल्पितांश-विशेषे सम्बन्ध्यवच्छेदकत्वे बुद्धिगतागताभ्यां तत्कल्पितांशभेदस्याऽवश्यकतयाऽवच्छेदकैक्येऽपि कर्तृत्वभोक्तृत्ववैयधिकरण्यापत्तेर्दुष्परिहरत्वात् । तथा च बुध्युपाधिकं श्रुत्योच्यत इत्येतदयुक्तमेव ।

किञ्च ‘स एनान् ब्रह्म गमयति’ इत्यादिश्रुत्या मुक्तानां ब्रह्मगत्युक्तेर्मुक्तानां च बुध्द्युपाधिकगमनासम्भवेन स्वाभाविकगतिसिद्धिः । न च व्यापकब्रह्मप्राप्तेः सर्वदा सत्वेन तं प्रति गमनायोगात् उक्तश्रुतेः कल्पितभेदाभावपरत्वमिति वाच्यम् । रूपविशेषगमनादेः पूर्वमुपपादित्वेनोक्तोदक्षरार्थस्वीकारे मानाभावात् । किञ्च तमुत्क्रामन्तं प्राणोऽनुत्क्रामतीति श्रुत्या प्राणाख्यबुद्धिगतेः प्रागेव जीवगतेरुक्तत्वात्तत्र न बुध्द्युपाधिकत्वम् । न चांशान्तरेण बुध्द्युपक्रमणपरा सा श्रुतिरिति वाच्यम् । क्रियाशक्तियुक्तबुद्धेरेव प्राणपदार्थतया तद्व्यतिरिक्त-क्रियाशक्तिविशिष्टस्य पूर्वगतिशालिनस्त्वन्मतेऽनङ्गीकारात् । न च मरणकाले पूर्वं विशेषज्ञानलोपस्ततः प्राणलोप इत्यत्रैतद्वाक्यतात्पर्यमिति वाच्यम् । वाक्यादप्रतीयमानार्थे वाक्यतात्पर्यकल्पनामित्यस्य साहसत्वात् । एवं न्यायामृतोक्तवाक्यान्तरैरपि जीवगतिसिद्ध्या तेन हेतुनाऽणुत्वसिद्धिः ।

ननु गत्यादिक्रिययाऽणुत्बसाधने घटादौ व्यभिचारः । व्याप्तत्वाभावसाधने चेश्वरेऽनैकान्त्यमिति वाच्यम् । प्राकृतपरिमाणराहित्यस्य हेतुविशेषणत्वेनाभिप्रेतत्वात् । परमाणुत्वमेव साध्यम् । ईश्वरे महत्यपि अणुत्वस्याङ्गीकारान्न व्यभिचारः । अव्याकृताकाशे प्रकृतौ च व्यभिचारवारणय हेतौ विशेष्यदलम् । एवं ‘जीवोऽणुः ज्ञानासमवायिकारण-संयोगाश्रयत्वान्मनोवत्’ इत्यनुमानान्तरमपि तदुणुत्वे मानम् । न च मनसो मन्मते मध्यमपरिमाणवत्वेन दृष्टान्तासम्प्रतिपत्तिरिति वाच्यम् । त्वयात्मनि स्वतः कस्यापि परिमाणस्यानभ्युपपगतत्वेन अनाध्यासिकपरिमाणाभ्यां स्वाभाविकजीवेशभेदसिद्ध्योक्तविचारे तव प्रतिवादित्वस्यैवाभावेन त्वां प्रति दृष्टान्तसम्प्रतिपत्तेरकिञ्चित्करत्वात् । एतावत्पर्यन्तं कृतविचारस्याभ्युपगमवादेन प्रवृत्तत्वात् । न च मयाऽपरिच्छिन्नत्वरूपव्याप्तत्वमङ्गीकृतमिति वाच्यम् । नित्यरूपे तस्मिन् ममाविप्रतिपत्तेः । सर्वमूर्तसंयोगित्वस्य तवास्वाभाविकत्वात् । क्रमेण सर्वसंयोगस्याणोरपि जीवस्य सम्भवेन तत्रापि ममाविप्रतिपत्तेः । परममहत्परिमाण एव विवादात् उक्तविचारे नैयायिकानामेव प्रतिवादितया तेषां दृष्टान्तस्य सम्प्रतिपत्तेः।

ननु जीवस्य श्वेताश्वतरोपनिषदि-

अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः ।

 बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः’ ।।

इति पञ्चमाध्याये जीवस्य मध्यमपरिमाणश्रवणात् कथमणुत्वम् ? न चैतत्परमात्म-विषयकमिति वाच्यम् ।

गुणान्वितो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता ।

 स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः सञ्चरति स्वकर्मभिः’ ।।

इति पूर्ववाक्यपर्यालोचनयाऽत्रापि सङ्कल्पाहङ्कारसमन्वितत्वोक्त्या चोक्तवाक्यस्य जीवविषयकत्वावगमात् । इति चेत्, मैवम् - काठके -

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ ।

इत्यादिना श्रूयमाणस्य ‘शब्दादेव प्रमितः’ इति सूत्रेण परमात्मविषयकत्वेन निर्णीतत्वात् । अत्रापि तृतीयाध्याये-

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।

इत्यादिनाऽङ्गुष्ठमात्रत्वेन परमात्मन एवाम्नातत्वात् । तत्समाख्ययाऽत्रपि रवितुल्यरूप इत्यनेन लब्धप्रचुरप्रकाशादिपरमात्मलिङ्गेन

देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि ।

 जीवस्य स तु विज्ञेयो जीवाद्भेदेन मुक्तये’ ।

इति स्मृत्यनुसाराच्चोक्तवाक्यस्य परमात्मपरत्वात् । सङ्कल्पाहङ्कारयुतत्वादेः पूर्ववाक्योक्त-धर्मणां च स्वातन्त्र्यविवक्षया परमात्मनि सम्भवात् । उक्तवाक्यस्य जीवविषयत्वेऽपि अङ्गुष्ठमात्रपरमात्मसमीपवृत्तित्वेनाङ्गुष्ठमात्रत्वोपचारेण श्रुतौ तथोक्तिसम्भवात् । एवम् -

अङ्गुष्ठमात्रं पुरुषं विचकर्ष तदा यमः’ ।

इति भारतोक्तेरपि गतिरूह्या । यद्वा परमात्माज्ञयैव यमेन सत्यवतः शरीराभिमानि-जीवापकर्षणे कृते तन्नियामकाङ्गुष्ठमात्रभगवद्रूपस्य स्वेच्छया बहिर्गतत्वात्तद्विवक्षया भारत-वाक्यसामञ्जस्यम् । कुत एवं कल्प्यते ? जीवोऽप्ङ्गुष्ठमात्रः किं न स्यात्? इति चेन्न । पूर्वोक्तयुक्त्यनुग्रहसहिताभिः ‘अणुर्ह्येवैष पुरुषो भवति’ इत्यादिश्रुतिभिः

अणुमात्रोऽप्ययं जीवः खदेहं व्याप्य तिष्ठति’ ।

इत्यादिस्मृतिभिश्च जीवाणुत्वस्य सिद्धत्वात् । एतदुपपादनायोदाहृतवाक्याव्यवहितोत्तर तया श्रूयमाणे-

बालाग्रशतभागस्य शतधा कल्पितस्य च ।

 भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते’ ।

इति वाक्ये जीवस्याणुत्वप्रतिपादनाच्च तद्विरोधशान्त्यर्थमुक्तरीत्याश्रयणात् । ननु पूर्ववाक्ये बुद्धेर्गुणेनाराग्रमात्रोऽपि तत्परिमितत्वेन सूक्ष्मोऽपि आत्मगुणेन स्वकीयगुणेनावरः न विद्यते वरो यस्मात् सः व्याप्त इत्यर्थः । दृष्टः श्रवणादिभिः साक्षात्कृतो भवतीत्यर्थः । उत्तरवाक्येऽप्यानन्त्याय कल्पत इत्यस्य अपरिच्छिन्नत्वरूपव्याप्तत्वाय कल्पते इत्यर्थः । तथा चानेन बुद्धरूपोपाधिसम्बन्धेनाणुरपि वस्तुतो व्याप्त इत्येव लभ्यते ।

इति चेन्न । औतिमते बुद्धेरतिसूक्ष्मत्वे चक्षुरादिद्वारा बहिर्निर्गत्य घटाद्याकारेण परिणामाद्यसम्भवेन स्थूलताया एवोपगन्तव्यत्वेन तदुपाधिकात्यणुत्वस्य जीवे बालाग्रेत्य-नेनोक्तत्यासम्भवात् । स्वभाबतो व्याप्तत्वस्याङ्गीकारेणात्मगुणेनेत्यस्यासङ्गत्यापत्तेश्च । नैयायिकमतेऽपि बुध्द्युपाधिकाणुत्वस्यानङ्गीकारेण व्याप्तत्वस्येदानीमेव सत्वेनानान्त्याय कल्पत इत्यस्यासङ्गतेरणुत्वावेदकोदाहृतनिरवकाशवाक्यान्तरिरोधापत्तेरुक्तयुक्तिबाधाच्च तथाऽर्थ-कल्पनाऽसम्भवात् । अवर इत्यस्य नीच इत्येवार्थः । रुढमर्थं विहायोक्तबहुव्रीह्यर्था-श्रयणस्यान्याय्यत्वात् । तस्यावध्यपेक्षायां पूर्वार्धे परमात्मपरे ‘य’ इति सत्वात्, परमात्मपरं तस्मादिति पदमुपतिष्ठते । तथा चाङ्गुष्ठमात्रादिरूपः पूर्वेक्तो यः परमात्मा तस्मादसर्व-ज्ञत्वादिना निमित्तेनावरः नीचोऽपि आत्मगुणेनाराग्रमात्रो दृष्टः प्रमाणप्रमित इत्यर्थः । ‘केवलं जीवनियामकः परमात्माङ्गुष्ठमात्रत्वेन प्रमाणप्रमितः । तन्नियम्यत्वासर्वज्ञत्वादिना तदवरो जीवो नाङ्गुष्ठमात्रः किन्तु सूक्ष्मत्वेनैव प्रमितः’ । इत्यर्थोऽपिशब्दाल्लभ्यते । कीदृशं तस्य सूक्ष्मत्वमित्यत आराग्रमात्रमित्युक्तमेव विवृणोति ।। बालाग्रेत्यादिना ।। स चानन्त्यायेत्यस्य नाशरहितमोक्षायेत्यर्थः । लङ्गुष्ठमात्र इत्यस्यामुख्यार्थतया पूर्वार्धस्य जीवपरत्वे तस्यामुख्यार्थतास्फोरणायैव वास्तवजीवपरिमाणस्योत्तरार्धेनोक्तिरिति ज्ञेयम् ।

यत्तु ‘क्रमेणान्वय एवं सति स्यात्’ इति तन्न । बुद्धेर्गुणेनेत्यस्यावरपदार्थान्वये किञ्जिद्व्यवहितान्वयमात्रसत्वेऽपि व्युत्क्रमान्वयप्रसक्त्यभावात् । ‘बुद्धेरन्तःकरणस्य गुणेन अल्पविषयकवृत्तिज्ञानादिना आत्मगुणेन स्वरूपभूताल्पविषयज्ञानादिना च निमित्तेनावरः परमात्मनः सकाशान्नीचो जीवस्तु अपिस्त्वर्थे आराग्रमात्र एव न व्याप्तः परमात्मवन्नाङ्गुष्ठ-मात्र इत्येष एवार्थः दृष्टः प्रमित इत्यर्थः’ इत्यपि योजयन्तीति कृतं विस्तरेण । तस्मात्स्वतः परमाणोर्जीवस्याचिन्त्यशक्तित्वादिशून्यत्वेन परममहत्वरहितस्य निरवधिकस्वाभाविकपरम-महत्वोपेतपरमात्मना भेद एवेति पूर्वोक्तं सर्वं सुस्थम् । विप्रतिपत्तेरितीतिशब्दस्य शक्योपपादनावित्यनेन सम्बन्धः ।

प्रसङ्गान्तराभिधानमनर्थकमित्यतः तदभिप्रायमाह ।। तथापीति ।। किमभिप्रायान्तर-कल्पनया ? दुष्टत्वाभिप्रायकत्वमेव किं न स्यादित्यत आह । अन्यथेति ।।