यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’..

विनापि श्रुत्यन्तरोदाहरणं पञ्चभूतवैलक्षण्यरूपार्थलाभे तदुदाहरणवैयर्थ्यशङ्का तन्निरासश्च

यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’

श्रीमज्जयतीर्थटीका

ननु प्रतीतार्थे बाधितेऽर्थान्तरमावश्यकमेव । तत्किं श्रुत्युदाहरणेन । मैवम् । बाधकेनार्थान्तरमेव लभ्यते । न तु तद्विशेषोपीति तत्राश्रयणीयमेव श्रुत्यन्तरम् ।

द्वैतद्युमणि:

।। ततश्चेति ।। एतद्वाक्यपूर्ववाक्ययोर्विसंवादपरिहाराय सामर्थ्यात्पञ्च-महाभूतविलक्षणत्वं नासदासीदिति श्रुत्यर्थ इति उक्तश्रुतिद्वयेन लब्धे सतीत्यर्थः । भवति पर्यवसितो भवति ।। मूर्तसम्बन्धाभावादिति ।। अत्र मूर्तशब्दः प्रसिद्धार्थक एव । न तु तेजोबन्नमात्रपरः । मूर्तसम्बन्धाभाव एवाव्याकृतस्य लय इत्यर्थः ।। अनर्थक इति ।। विशेषहेत्वभावादिति भावः ।

यदत्र केनचिदुक्तम् । ‘किं चागमोप्यनिर्वचनीये प्रमाणम् । तथा हि ।

नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।

किमावरीवः कुहकस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ।।

न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।

आनीदवातं स्वधया तदेकं तस्माद्धान्यत्र परः किञ्चनास ।।

तम आसीत्तमसा गू•हमग्रे प्रकेतं सलिलं सर्वमा इदम् ।

तुच्छेनाभ्वपिहितं यदासीत्तमस्तन्महिना जायते कम् ।।

कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।।

इति श्रुत्या सदसतोर्निषेधपूर्वकं तमस्सत्त्वकथनेन तस्य सदसद्विलक्षणत्वरूपा-निर्वचनीयत्वलाभात् । नन्विदमयुक्तम् । एवं सति परमार्थतयाऽङ्गीकृतस्य ब्रह्मणोऽप्य-निर्वाच्यतापत्तेः । तस्याप्यानीदवातमिति वाक्येन प्रलये परिशिष्टत्वावगमादिति चेन्न ।‘सदेव सोम्येदमग्र आसीत्’ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुत्यन्तरेण ब्रह्मणः पारमार्थिकत्वावगतौ तद्विरोधेनार्थापत्तेः ब्रह्मांशे प्रवृत्त्ययोगात् । न चैवं ‘नो सदासीत्’ इत्याद्यभिधानविरोधः । ब्रह्मणस्तदानीं सत्त्वादिति वाच्यम् । आनीदवातमिति श्रुत्येकवाक्यतया ब्रह्मान्यसत एव निषिद्धत्वात् । न च सिद्ध्यसिद्धिभ्यां व्याघातः । ब्रह्मान्येत्यंशपूरणेन नो सदासीदित्यंश-व्याख्यानसम्भवात् । न चैवमपि नासदासीदित्यंशविरोधः । उक्तप्रतियोगित्वरूपमिथ्यात्वस्य तमस्साधारण्यादिति वाच्यम् । अत्रत्यासत्पदस्य सत्तादात्म्यशून्यपरत्वात् । न च

मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते ।

मूर्तामूर्तेतरद्ब्रह्म न सत्तन्नासदुच्यते ।।

इति पैङ्गिश्रुतौ सदसत्पदयोमूर्तामूर्तवाचकताया उक्तत्वात् यदन्यद्वायोश्चान्तरिक्षा-च्चैतत्सदिति माध्यन्दिनश्रुत्याऽसत्पदस्य वाय्वन्तरिक्षवाचकताया उक्तत्वेन ब्रह्मान्यत्वेनेत्य-द्ध्याहारस्यासत्पदस्य सत्तादात्म्यशून्यलक्षणायाश्च कल्पनामपेक्ष्योक्तभागद्वयस्य मूर्तामूर्त-निषेधपरत्वमेव युक्तमाश्रयितुमिति वाच्यम् । सदसच्छब्दयोः पारमार्थिकापारमार्थिकपरतया लौकिकवैदिकप्रयोगप्राचुर्येण श्रुतिमात्रसिद्धमूर्तामूर्तपरत्वकल्पनस्यायुक्तत्वात् । अध्याहारतो लक्षणाया अजहन्निरूढलक्षणयोर्जहल्लक्षणायाश्च जघन्यत्वाच्च । श्रुतेर्यया कयाचिद्वृत्त्या तद्बोधकत्वमात्रेण उपपन्नतया तयोस्तद्वाचकत्वकल्पने मानाभावाच्च । न चोक्तासन्निषेधे अप्रसक्तप्रतिषेधापत्तिः । सतो निषेधेन तस्यापाततः प्राप्तिसम्भवात् । न चैवं तुल्ययुक्त्या तमोन्यत्वेन सदभावो नो सदासीदित्यस्यार्थः स्यादिति तमसोऽपि नानिर्वाच्यता स्यादिति वाच्यम् । तथा अध्याहारे मानाभावात् । तमःपारमार्थिकताग्राहकप्रमाणाभावात् । अधिकमग्रे वक्ष्यामः ।

यत्त्तु ‘उक्तव्याख्याने तदानीमित्यस्य वैयर्थ्यम् । रज आदेरपि सन्निषेधेनैव निषेध-लाभात् पृथग्ग्रहणानौचित्यं च । तस्यापि पारमार्थिकत्वासम्प्रतिपत्तौ असन्निषेधेनैव निषेध-लाभः’ इति । तदसत् । तदानीमित्यनुक्तौ कालान्तरे सदसन्निषेधसहितस्य कालान्तर-सत्त्वस्यानिर्वाच्यत्वासाधकतया तन्निषेधाधिकरणकाले तत्सत्त्वाभिधानस्यावश्यकत्वात् । सत्त्वं च परमार्थतैव असत्त्वं सत्तादात्म्यशून्यत्वं इति तुच्छपरमार्थयोरेव प्रकृतनिषेधविषयत्वेन रज आदिनिषेधस्यावश्यकत्वाच्च तदानीमित्यस्य रजःप्रभृतिनिषेध एवान्वय इत्यपि वदन्ति । अत्र च सदसत्पदयोर्भावाभावपरता मदभ्युपगतेति परोक्तिस्तु न श्रद्धेया । अनादेर्जीवेशभेदादेः प्रलयकालसत्त्वाभ्युपगमेन तस्यास्मदनभिमतत्वात् ।

यत्तु ‘रजःपदं रजःप्रभृतिगुणत्रयपरम्’ इति । तदसत् । तमसो गुणत्रयात्मकत्वेन तत्सत्वे गुणनिषेधासम्भवात् ।

गुरुचरणास्तु ‘नासदासीदित्यस्यासदन्यदासीतिति नो सदासीदित्यस्य सदन्य-दासीदित्यर्थः । न च नञाद्यर्थस्य नोद्देश्यत्वम् । तथा सति न पृथिवी निर्गन्धेत्यतो पृथिवीभिन्नं निर्गन्धमित्यादिप्रत्ययप्रसङ्गादिति वाच्यम् । असन्न भवतीति व्युत्पत्त्या इह ब्रह्मण आसीदिति तदुद्देश्यत्वाविरोधात् नशब्देनायं समासः । उक्तप्रसिद्ध्यतिक्रमापेक्षया वैरूप्यानुसरणस्यापि युक्तत्वाच्च । न चैवं प्रलये सदसद्रूपत्वमात्रेणोक्तनिषेधद्वयोपपत्तेर-निर्वाच्यत्वासिद्धिरिति वाच्यम् । सद्विलक्षणे कालसम्बन्धाभिधानेनैव तत्सिद्धेः । न चैवमसदन्यस्य सत्त्वाभिधानमसङ्गतं निरर्थकत्वादिति वाच्यम् । सदन्यस्मिन्कथं कालसम्बन्ध इत्याशङ्कानिरासार्थत्वेन तदभिधानस्य सार्थक्यात्’ इत्याहुरिति ।

तदसत् । यत्तावदुक्तं ‘सदेव सोम्येदमित्यादिश्रुतिभिर्ब्रह्मणः सत्यत्वावगमान्न तस्या-निर्वचनीयत्वमापतति’ इति तत्समाधानं टीकायामुक्तमेव तमसोपीत्यादिना । ब्रह्मसत्यता-बोधकानां स्वार्थपरत्वं जगत्सत्यताबोधकानां तु न तथेति वैषम्यं तु उत्तरत्र निराकरिष्यते । अपि च जगत्सत्यताबोधकवाक्यविरोधपरिहारोत्तरमेव श्रौतार्थापत्त्यवकाशः । तत्परिहारश्चा-वान्तरसत्यत्वादिपरत्वादिभिः । तत्र बीजं त्वविद्यातत्कार्यानिर्वचनीयत्वसिद्धिरिति स्फुटा चक्रकापत्तिः । अन्यथा ब्रह्मणोऽप्येतद्वाक्यबलादनिर्वचनीयत्वोपगमेनैव तत्सत्यत्वबोधक-श्रुतीनामपि अर्थान्तरपरिकल्पनसम्भवेन तद्विरोधेनार्थापत्तिप्रवृत्त्यनुपपत्त्युक्त्ययोगः । विशेषा-भावात् । प्रत्यक्षादिप्रमाणान्तरेणानिर्वचनीयसिद्ध्यभावस्योक्तत्वात् । सिद्धत्वे आगमोदा-हरणस्य वैयर्थ्यात् ।

यदपि सतो ब्रह्मणः प्रलये सत्त्वान्निषेधानुपपत्तिमाशङ्क्य ‘आनीदवातम्’ इतिश्रुत्येक-वाक्यतया ब्रह्मयान्यसत एव निषेध इति । तदसत् । सिद्ध्यसिद्धिभ्यां व्याघातात् । न च ब्रह्मान्येत्यंशपूरणेन नो सदासीदित्यस्य व्याख्यानसम्भव इति वाच्यम् । एवमपि ब्रह्मान्य-सतो रूपान्तरेण सिद्ध्यसिद्धिभ्यां व्याघातपरिहारेऽपि ब्रह्मान्यत्वविशिष्टसद्रूपप्रतियोग्यसिद्ध्या पुनस्तव निषेधानुपपत्तिरेव । न च ममेव प्रतियोग्यपसिद्धावप्यभावः सम्भवति । तवा-द्वैतसिद्धावसतः प्रतियोगितायाः निराकरणात् । ‘असतः प्रतियोगित्वव्यवहारः पररीत्या । न तु सिद्धान्तः’ इत्यद्वैतचन्द्रिकायां बहुवारमुक्तत्वाच्च । न हीदं किञ्चिल्लक्षणादिकं परिष्क्रियते येन पररीत्येदमिति वक्तुं शक्येत । श्रुतेर्वास्तवार्थवर्णनप्रस्तावात् । अत एवासत्पदस्य सत्तादात्म्यशून्यार्थकत्ववर्णनमप्यपास्तम् । असत एव त्वन्मते तथात्वेन निषेधप्रतियोगित्वस्य तत्रायोगात् ।

न च ब्रह्मान्यत्वेन सन्नास्तीति निषेधो व्यधिकरणधर्मावच्छिन्नाभावविषयक इति वाच्यम् । तथात्वे ब्रह्मान्यत्वेनेत्यंशपूरणेनेत्यनुक्त्वा ब्रह्मान्येत्यंशपूरणेनेत्युक्तेरसङ्गतेः । व्यधिकरणधर्मा-वच्छिन्नाभावस्य सौन्दलमात्रोत्प्रेक्षितस्य श्रुत्यर्थत्ववर्णनायोगाच्च । न च परोक्षब्रह्मविषय-स्याप्यनिर्वचनीयत्वाङ्गीकारात् ब्रह्मान्यत्वविशिष्टसतस्तादृशत्वान्निषेधप्रतियोगित्वं युक्तमिति वाच्यम् । तथात्वे श्रुत्यभिप्रेतत्वेनास्यैव निष्कृष्टपक्षत्वापत्त्या ‘परोक्षभ्रमो व्यधिकरणप्रकारकः’ इत्यादीनां ‘शशविषाणं नास्तीतिवाक्यादीनां विकल्पजनकत्वम्’ इत्यादीनां च त्वदाचार्योक्तीनां त्वदुक्तानां च दत्तजलाञ्जलित्वप्रसङ्गात् । ‘प्रलये ब्रह्मान्यत्सत् वर्तते’ इति तत्त्ववादि-भ्रमविषयस्य तादृशानिर्वचनीयस्य निषेधायोगाच्च । अपि च प्रसिद्धतेजोबन्नादिरूपानिर्वचनीय-निषेधं विहायास्यैवानिर्वचनीयस्य निषेधे बीजाभावः । किं च ब्रह्मान्यत्वविशिष्ट-पारमार्थिकत्वब्रह्मान्यज्ञानब्रह्मान्यानन्दरूपाणां तादृशानिर्वचनीयानामनिषेधेनास्यैव निषेधे बीजाभावः । अस्तु वा तद्यथा तथा । ब्रह्मान्यसन्निषेधस्य सर्वकालसाधारणतया प्रलय एव विशिष्य तन्निषेधोक्तिरयुक्तैव । सत्तादात्म्यशून्यनिषेधस्यापि सार्वदिकत्वेन तत्राप्युक्तदोष एव ।

यदपि ‘असत्पदस्य सत्तादात्म्यशून्यपरत्वम्’ इति । तदप्यसत् । सत्प्रतियोगि-कत्वविशिष्टतादात्म्यत्वावच्छिन्नाधिकरणत्वस्य सत्यभावेनास्य सत्साधारण्यात्तन्निषेधानुपपत्तेः। सत्प्रतियोगिकतादात्म्याभाववदर्थकत्वं स्वीकृत्य ब्रह्मण्यपि तादृशतादात्म्यस्याद्विष्टत्वमङ्गीकृत्य स्वीकारेऽपि सत्पदनञुभयघटितपदाधीनशाब्दबोधविषयत्वस्यासत्यङ्गीकारापत्त्या असति पदवृत्तिविषयत्वाभावरूपस्वसिद्धान्तस्य शशविषाणादिपदादसद्बोधानुपपत्तिप्रदर्शकस्वकीयपूर्व-ग्रन्थस्य च विरोधः । श्रुतिवाक्यस्य तदंशे विकल्पजनकत्वापातेन शशविषाणमित्यादि-

वाक्यतुल्यतापातश्च । अपि च सत्पदस्य पारमार्थिकसदर्थकतायाः लौकिकवैदिक-प्रसिद्ध्यनुसारेण त्वयैव भाषितत्वेना सत्पदघटकसत्पदस्य सत्तादात्म्यवत्परत्वे लक्षणाऽऽपातः।

यदपि मूलोक्तश्रुतिद्वयानुसारेण पञ्चमहाभूतपरत्वं सदसत्पदयोराशङ्क्योक्तं ‘सदसत्पदयोः पारमार्थिकापारमार्थिकयोः लौकिकवैदिकप्रयोगप्राचुर्येण श्रुतिमात्रसिद्धमूर्तामूर्तपरत्वकल्पना-योगः । श्रुतेः यया कयाचिद्वृत्त्या तद्बोधकत्वमात्रेणोपपन्नतया तयोस्तद्वाचकत्वकल्पने मानाभावः’ इति, तदपि न सम्यक् । यदि श्रुत्यन्तरे सदसच्छब्दयोर्मूर्तामूर्तपरतया प्रयोगमात्रं स्यात्तदैवं कल्पयितुं शक्येतापि । न चैवं । तादृशश्रुतिद्वयस्य मूर्तामूर्तविलक्षणपरतया ब्रह्मतमसोः सदसद्विलक्षणत्वबोधकश्रुतिगतिप्रदर्शनपरत्वं समर्थितं प्राक् टीकाव्याख्यावसरे । तथा च श्रुत्यभिप्रेतार्थविरुद्धकथने तथैव तच्छ्रुतिविरोधः ।

मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते ।

इति सम्प्रशब्दाभ्यामुच्यत इत्यनेन च तयोः शक्तेरेव बोधितत्वेन मानाभावहेतोरसिद्धिश्च । प्रचुरप्रयोगाभावमात्रेण श्रुतिबोधितशक्त्यपलापेऽप्रसिद्धार्थकनानार्थोच्छेदप्रसङ्गः । द्वितीयश्रुत्यापि शक्तिर्वा निरूढलक्षणा वा सिद्ध्यति सत्पदस्य । श्रुत्या वाय्वन्तरिक्षान्यस्य सत्पदबोद्ध्यत्व-विधानसामर्थ्यात् । लक्षणामात्रस्य विधानं विनापि पदान्तराणामिवास्यापि सम्भवेन तद्विधानवैयर्थ्यापत्तेः । प्रथमवाक्येनैकवाक्यत्वसन्धाने तु शक्तिरेव सिद्ध्यति । तस्मात् युक्तमेवानयोर्यया कयाचिद्वृत्त्या बोधकत्वमिति । भवन्मत एव ब्रह्मान्येत्यद्ध्याहारोऽ-सत्पदस्थल एव प्रसिद्धार्थपरित्यागेन लक्षणा च ।

यदत्रोक्तम् ‘अद्ध्याहारतो लक्षणाया अजहन्निरूढलक्षणयोर्जहल्लक्षणायाश्च जघन्यत्वात्’ इति तदसङ्गतम् । जघन्यत्वं यतः पश्चाद्भावित्वम् । तत्र पदशक्यार्थस्य प्रथममुपस्थितिः । तत्र बाधाद्यवतारे तच्छक्यस्य चोपस्थितत्वात्तत्सम्बन्धरूपलक्षणाया उपस्थितिः । तेनाप्यनिर्वाहे अश्रुतपदतद्वृत्त्यनुसन्धानरूपाध्याहारकल्पनेत्यस्यैव सर्वसिद्धत्वेनाध्येहारस्यैव परमजघन्य-त्वात् । सत्तादात्म्यस्य सद्धटितत्वेऽपि वाच्यार्थस्य विशेष्यतयाऽप्रवेशेन जहल्लक्षणैव । असत् पदस्य लक्षणेति तु न युक्तम् । तस्य पदद्वयघटितत्वेन वाक्यरूपत्वात् । सत्पदस्य मतान्तररीत्या कथञ्चिदजहल्लक्षणावत्त्वेऽपि असत्पदस्य त्वद्रीत्या श्रुत्युक्तलक्षणाया अनादितात्पर्यविषयतया निरूढत्वेन त्वदुक्तलक्षणायाश्च स्वबुद्धिमात्रकल्पितत्वेनास्या एव जघन्यत्वम् ।

यदपि लोकप्रसिद्धौ निर्भरकरणेन सदसत्पदयोः श्रुत्युक्तार्थनिराकरणं तदपि मन्दम् । तथात्वे तमःपदस्य लौकिकवैदिकप्रयोगप्राचुर्येण प्रसिद्धतमस एवात्र बोध्यतापत्तेः । न त्व-विद्यायाः । तस्याः तमोवत्तम इति गौण्यैव तत्पदबोद्ध्यत्वसम्भवे शक्तिकल्पने मानाभावात् । तस्य मूलाविद्योपादानकत्वस्य १त्वसिद्धत्वेऽपि घटशब्दस्य मृदीव तमःशब्दस्याविद्यायां प्रवृत्त्ययोग एव मुख्यया वृत्त्या । एवं रजःशब्दस्य लौकिकवैदिकप्रयोगप्राचुर्येण पांसुशक्तत्वेन तत्परत्वमेव प्रसिद्धिश्रद्धालुना त्वयाऽभ्युपेयमिति ‘रजांसि लोकाः’ इति या स्ववचनानुसारेण रजःपदस्य लोकपरत्वेन त्वदाचार्याणां सापि तवायुक्ता स्यात् ।

यदपि असन्निषेधस्याप्रसक्तप्रतिषेधकत्वमाशङ्क्य समाधानं ‘सतो निषेधेन तस्यापाततः प्राप्तिसम्भवात्’ इति । तन्मन्दम् । प्रथमतः सन्निषेधे कथञ्चिदेवं सम्भाव्येत । प्रथमतोऽसत एव निषेधे कथं तदुत्तरभाविसन्निषेधः तत्प्रापकः । ब्रह्मान्यत्वेन सन्नास्तीतिनिषेधे रूपान्तरेण सत एव प्रसक्तिः स्यात् । न तु सामान्यतोऽसतः । दक्षिणेन न पश्यतीत्युक्तौ वामेन पश्यतीतिवत् । तथा चासतः प्रसक्त्यसङ्गतिश्च । अपि च प्राप्तिरपि असत्तदानी’ मासीदित्याकारा वक्तव्या । न तु रूपान्तरेण । रूपान्तरेण प्रसक्तस्य रूपान्तरेण निषेधस्य वैयर्थ्येनायुक्तत्वात् । तथा च तस्याऽहार्यत्वात्कथं श्रुतिरेतादृशनिर्दलपक्षनिराकरणाय प्रवर्तते । अत एवासतः सत्त्वेन प्रतीतिनिराकरणावसरे गुरुचन्द्रिकायामुक्तं ‘तद्धैक आहुरिति श्रुत्या नासतः सत्त्वप्रतीतिरनूद्यते । तत्प्रतीतेराहार्यत्वेन तन्निराकरणस्य श्रुत्या कर्तुमनुचितत्वात् । न ह्ययं निर्वह्निर्वह्निमानित्याहेत्युक्त्वा सचेतसस्तन्निराकरणाय प्रवर्तन्ते इति । न च सत्ता-दात्म्यशून्यं आसीदिति ज्ञानं कथमाहार्यरूपम् । आसीदित्यस्य सत्तादात्म्यवदित्यर्थकत्वा-भावात्प्राक्कालसम्बन्धवदित्येतावन्मात्रार्थकत्वादिति वाच्यम् । सत्पदस्य त्रैकालिकनिषेधा-प्रतियोग्यर्थकतया तत्तादात्म्यशून्यत्वेन भासमानस्य त्रैकालिकनिषेधप्रतियोगित्वेन भासमान-तुल्यतया तत्र पूर्वकालसम्बन्धावगाहिधियोपि वह्न्यधिकरणत्वाभाववान्वह्निमानिति धिय इव आहार्यताया दुर्वारत्वात् । अन्यथाऽद्वैतचन्द्रिकोक्तमपि असत्यग्रकालसम्बन्धावगाहिधिय आहार्यत्वं दुरुपपादं स्यात् । किञ्चैतादृशप्रसक्त्या श्रुतेस्तन्निषेधार्थं प्रवृत्तावसतः सत्त्वेन प्रतीतिः श्रुत्यनुमतैव जातेति औतसिद्ध्यादीनांतन्निराकरणाय प्रवृत्तानां दत्तजलाञ्जलित्वं स्यात् । अपि च नो सदासीदित्यस्य तव मते ब्रह्मान्यसन्नास्तीत्यर्थकतया ब्रह्मान्य-सन्नास्तीत्युक्तौ विशेषणसामर्थ्याद्ब्रह्मस्वरूपं सदस्तीत्येव बुद्धिरुदेति । न तु सत्तादात्म्य-शून्यमस्तीति । सत्तादात्म्यवन्नास्तीति पूर्वमनिषिद्धत्वेन तर्हि सत्तादात्म्यशून्यं स्यादिति बुद्धौ बीजविरहात् । सत्पदस्य सत्तादात्म्यवदर्थकत्वे प्रसिद्धार्थपरित्यागापत्त्या लक्षणाप्रसङ्गेना-विद्यायास्तादृश्याः सत्त्वेन निषेधानुपपत्त्या रजःप्रभृतेरनेनैव निषिद्धत्वापत्त्या पुनस्तन्निषेध-वैयर्थ्यापत्तिभिया च परमार्थसत्त्वस्यैव त्वयाङ्गीकृतत्वात् ।

यदपितमोन्यत्त्वेन सदभावोऽपि नो सदासीदितिश्रुत्यर्थः स्यात्तुल्ययुक्त्या । तथा च तमसो नानिर्वाच्यतासिद्धिः स्यादित्याशङ्क्य ‘तथाद्ध्याहारे मानाभावात्तमः पारमार्थिकता-ग्राहकप्रमाणाभावात्’ इति तत् दत्तोत्तरमेव ।

यदपि तत्सत्यताग्राहकप्रमाणानां तात्पर्यान्तराभिप्रायेण ‘अधिकमग्रे वक्ष्यामः’ इति तन्निराकरणं तत्रैव भविष्यति ।

यदपि यत्त्वित्यादिनाऽनूद्य तदसदित्युक्त्वा आवश्यकत्वादित्यन्तेन समाधानं तदयुक्तमेव । कालान्तरसदसन्निषेधसहितस्य कालान्तरेऽविद्यासत्त्वस्य तदनिर्वाच्यतासाधकत्वाभावेन साधकतासिद्ध्यर्थत्वे तदानीमित्यस्य वर्ण्यमानेऽपि यदीयं श्रुतिरविद्यानिर्वाच्यत्वमेव मुख्यतया प्रतिपादयितुं प्रवृत्ता तदा सृष्टिकालमादायाप्येतदुपपादनसम्भवेन प्रलयपर्यन्तानुधावनानौचित्यं तस्याः । किञ्च नासदासीन्नो सदासीदित्यनन्तरं तम आसीदित्युक्त्यैव तमसोऽनिर्वाच्यत्व-सिद्धिसम्भवे रजआदिनिषेधकोत्तरवाक्यस्य सर्वस्यापि वैयर्थ्यापत्तेः । यदि च प्रलय-निरूपणार्थमेव प्रवृत्ता तमोनिर्वाच्यतासिद्धिस्त्वार्थिकी तदा ब्रह्मान्यसदसन्निषेधयोः सार्वदिकत्वेन विशिष्याऽदित एव तदुभयोक्तिरनौचिती । उभयोर्मुख्यार्थत्वे वाक्यभेद एव । अपि च ब्रह्मान्यसन्निषेधाधिकरणकाले विद्यमानस्य तमसो ब्रह्मात्मकत्वमेव कुतो न पर्यवस्यति । तत्सत्यताग्राहकप्रमाणान्तरानुग्रहोप्येवं सति कृतः स्यात् । तदनुसारेणैव सर्वं कल्पनीयं स्यात् । किञ्च विशेषनिषेधस्य सामान्याभ्युपगमतात्पर्यसहितस्यैव लौकिकवैदिक-प्रयोगेषु स्वरसतः सिद्धस्याभ्युपगमे ब्रह्मान्यसतोऽसतश्च प्रलये निषेधे कालान्तरे तत्सत्त्वाभ्युपगमप्रसङ्गः । तत्त्यागे च वाक्यस्वारस्यभङ्ग एव । एवमसत एव प्रथमतो निषेधायोगः । अमुख्यत्वात् । मन्मते तु पृथिव्यादीनां सृष्टिकालेऽसत्त्वात्तत्स्वारस्यात्यागः । एवमाकाशवाय्वादिक्रमेण पूर्वस्मात्पूर्वस्मादुत्तरोत्तरोत्पत्त्या प्रथमत एवासत्पदेन अन्तरिक्षवायु-निषेधोपपत्तिः । तत्पदस्योभयसाधारणरूपावच्छिन्ने वा पृथग्वा शक्तिरित्यन्यदेतत् । इत्थञ्च सदसत्पदयोर्भवदुक्तार्थकत्वानुपपत्तौ भावाभावार्थकत्वस्यैव कथञ्चित्सम्भवदुक्तिकत्वेनानु-सरणीयतया तत्र रजआदेः पृथङ्निषेधानुपपत्तिरूपदूषणं युक्तमेवेति सत्यं चेत्यादि-नावश्यकत्वादित्यन्तेन रजःप्रभृतेः पृथक् निषेधसार्थक्यवर्णनमयुक्तमेव ।

तदानीमित्यस्य रजआदिनिषेध एवान्वय इति मतान्तरोत्थापनमप्ययुक्तम् । अनुयोगि-समर्पकपदाभावेन पूर्वभागस्याबोधकतापत्तेः । न चाऽख्यातार्थाभावबोधने सप्तम्यन्तानुयोगि-बोधकपदानपेक्षेति वाच्यम् । वैयर्थ्यव्याहतिभयेन सामान्यतः सत्त्वनिषेधस्य सदसतोः कर्तुमशक्यतया प्रकृते कालविशेषबोधकपदस्यावश्यकत्वात् ।

यदपि ‘अत्र सदसत्पदयोर्भावाभावपरता मदभिप्रेतेति परोक्तिस्तु न श्रद्धेया । अनादे-र्जीवेशभेदादेः प्रलयकाले सत्त्वाभ्युपगमेन तस्यास्मदनभिमतत्वात्’ इति । तदप्यसारम् । भावरूपत्वेन व्यवह्रियमाणाया अप्यविद्यायाः वास्तवतद्रूपाभावेन भावाभावविलक्षणत्व-रूपानिर्वचनीयत्ववदनादिजीवेशादिभेदादीनामपि तथात्वेनानिर्वचनीयत्ववत्तमःसत्त्वेऽपि भाव-निषेधवदभावनिषेधस्यापि सम्भवात् । न च भावनिषेधोप्यनुपपन्नस्तमस एव सत्त्वादतो दृष्टान्तोऽप्यसम्मत इति वाच्यम् । तथात्वे प्रकृतवाक्येनैव तमःसत्त्वप्रतीतेर्भावनिषेधोऽनुपपन्न इति पुरस्स्फूर्तिकदूषणमनुक्त्वा तद्वाक्याप्रतिपाद्यस्वाभ्युपगतजीवेशभेदसत्त्वेनाभावनिषेधानु-पपत्तितात्पर्यकपङ्क्तेः सन्दर्भाशुद्धतापत्तेः । न चासत्पदेनाभावस्यैव प्रथमं श्रुत्युपात्तत्वेन तत्रैव दूषणं सन्दर्भशुद्धम् । आदिपदेनाविद्यादेरपि गृहीतत्वेन भावनिषेधपक्षेऽप्यनु-पपत्तेरुक्तत्वलाभान्न सन्दर्भाशुद्धिरिति वाच्यम् । एवमपि नेह नानेत्यादिश्रुतेरिव अस्या अपि श्रुतेर्भावाभावनिषेधपरत्वेऽपि व्याहत्यभावस्य भावाभावविलक्षणत्वस्य चानिर्वचनीयलक्षण-तायाश्च टीकाव्याख्यानसमय एव समर्थितत्वेन तथैवोक्तश्रुतियोजनायाः सदसत्पदयोर्योगेन प्रसिद्धभावाभावपरतामुपेत्याद्ध्याहारलक्षणादिरूपक्लेशं विना सम्भवेन त्वत्पूर्वाचार्याभिमतत्वे बाधकाभावेन त्वदुक्तेरेवाश्रद्धेयत्वात् ।

न च मिथ्यात्वश्रुतिरवान्तरार्थेऽनुपपत्तिज्ञानसहिता अखण्डब्रह्मणि पर्यवस्यतीति तत्र व्याहतिसत्त्वेऽपि न दोष इति वाच्यम् । तथात्वेऽवान्तरबोधविषयतया मित्यात्वासिद्धि-प्रसङ्गात् । तद्वदस्या अप्यखण्डार्थताया वक्तुं शक्यत्वाच्च । माधवाचार्येणैतच्छ्रुति-व्याख्यानावसर एव स्वधाशब्दितमायासहितं एकंद्वितीयरहितमासीदिति द्वितीयाभाव-स्वधासाहित्ययोः पारमार्थिकापारमार्थिकत्वप्रयुक्तव्याहत्यभावमभ्युपेत्य व्याख्यानाच्च । गुर्वद्वैतचन्द्रिकायामपि तथैवोपपादितत्वाच्च । न चास्य पक्षस्य परेणानुल्लिखितत्वम् । प्रत्युत माधवेन‘प्रलये कारणस्वरूपमाह ।। नासदिति ।। निरुपाख्यं नासीदित्यर्थः । सत् रूपविशिष्टं नो आसीदित्यर्थः । तथा च कारणमनिर्वाच्यमासीदित्यर्थः’ । इत्येवोक्तम् । तथा च कथं तदनुक्तस्य दूषणमिति वाच्यम् । परानुक्तस्यापि तत्पक्षे सम्भावितस्य दूषणे बाधकाभावात् ।

माधवपक्षे सन्निषेधोपपत्तिः प्रागेवाभिहिता । न च तन्मते कारणं सद्रूपं नासी-दित्यभिमतमिति वाच्यम् । तस्यार्थत्वेन कारणपदाद्ध्याहारे गौरवात् । भावाभावपरत्वेऽपि रजआदेः पुनर्निषेधस्य गत्यन्तराभावे पूर्वोक्तार्थत्वादिना कुरुपाण्डवन्यायेन वा सम्भवेन तस्यापि बाधकत्वाभावात् । सैद्धान्तिकदूषणं तु श्रुत्यन्तरोक्तरीत्या सर्वस्याप्यवैयर्थ्येनार्थ-सम्भवे विवरणार्थकत्वादिकमयुक्तमित्याशयेनैवेति न तद्विरोधोऽपि ।

यदपि ‘अविद्याया गुणत्रयात्मकत्वेन तत्सत्त्वे रजःपदोपलक्षितगुणत्रयनिषेधानुपपत्ति-र्भवद्व्याख्याने’ इति दूषणं तदस्मन्मतापरिज्ञानमूलम् । गुणत्रयस्यास्मन्मते प्रकृतिपरिणामत्वेन सृष्टिकाल एव १तदुपपत्तेस्तदभावस्यैव मन्मतसिद्धत्वात् । प्रकृतेस्तदुपादानत्वादेव तत्सत्त्वे गुणनिषेधानुपपत्तौ सर्वकार्यस्य त्वन्मते अविद्योपादानकत्वेन तत्सत्त्वे रजआदिशब्दोपात्त-लोकादीनां निषेधानुपपत्तिस्तवापि दुर्वारा स्यात् । अम्भः किमासीदित्यादेर्यथा न पौनरुक्त्यादि तथाऽरम्भणाधिकरणटीकायामेव सम्यग्व्याख्यातम् । तस्माद्यथाश्रुताद्वैत-सिद्ध्यनुसारित्वदीयव्याख्यानमयुक्तमेव ।

नापि तट्टीकायामेव वस्तुतस्त्वित्यादिनाऽद्वैतचन्द्रिकाकृतोक्तं गुरुचरणास्त्वित्यादिनात्र त्वयोदाहृतं व्याख्यानं युक्तम् । तम आसीदिति दूरस्थवाक्यस्थतमसोऽत्र नासदित्यादि-तात्पर्यविषयतया कर्तृत्वेनान्वये ब्रह्मणोऽपि तथा कर्तृत्वेनान्वयप्रसङ्गः । विनिगमकाभावात् । सत्यताग्राहकप्रमाणतदभावकृतवैषम्यस्य निराकरिष्यमाणत्वात् ।

अपि च सदन्यदासीदसदन्यदासीदित्यर्थकत्वेन सदाद्यर्थस्योद्देश्यतापरिहाराय न समासाद्याश्रयणे ‘न असत् असीत् नो सत्’ इति प्रसिद्धपदपाठविरोधः । स्वाभिमत-सिद्धिमात्रेच्छया प्रसिद्धपदपरित्यागे पदपाठस्यैव वैयर्थ्यप्रसङ्गः । अन्यथोपनिषदोऽपि पदपाठप्रसङ्गः । १क्वचित्तत्परित्यागमकृत्वा पदान्तरमप्यङ्गीकृत्य व्याख्यानान्तरकरणं तत्पौराणवाक्यादिना तादृशार्थाधिगतौ सत्यामेव । न च प्रकृते प्रकृतवाक्यव्याख्यान-रूपपुराणादिवाक्यं भवदुक्तैकपद्यज्ञापकमस्ति । अन्यथा सर्वस्य स्वेच्छामात्रनियम्यतापातेन प्रकारान्तरेणापि श्रुत्यर्थसम्भवेन भवदभिमतासिद्धिप्रसङ्गः ।

तथा हि ना सदा आसीदिति छेदः । तथा च तदानींप्रलये सदा नासर्वकालेऽपि यो ना पुरुषः न तु कदाचिदपि पुंसामर्थ्यविधुरः स आसीत् । ननु असदेवेदमग्र आसीदिति श्रुत्या असत एव कारणतया सत्त्वं प्रतीयत इति श्रुतितात्पर्यभ्रममूलकामाशङ्कां निरस्यति ।। नोऽसदासीदिति ।। श्रुतितात्पर्यभ्रमप्राप्तनिरासकत्वेन व्याख्यानं ‘सलिलमासीदिति श्रुत्यर्थ-भ्रमप्राप्तं निरस्यति । अम्भ इति’ इत्यवतारितवतो वेदभाष्यकृतोऽपि सम्मतम् । ननु रजआदिसर्वपदार्थनाशे तदात्मकदेहनाशात्कथं पुरुषस्याप्यवस्थानम् । स्वरूपेणावस्थानं त्वस्मदादिसाम्यान्न विशिष्य वक्तुं योग्यमित्यतो वा आह ।। नोऽसदिति ।। न उ इति छेदः । तेन ओदिति प्रकृतिभावाभावः । असन्नैवासीदित्यर्थः । ननु तर्हि रजआदिक-मासीत्किमित्यपेक्षायामाह ।। रज इत्यादि ।। स पुरुषः कः । किं जीव इत्यत आह ।। आनीदवातमिति ।। वातपदोपलक्षितपञ्चमहाभूतविकृतदेहरहितं ब्रह्मैवासीदित्यर्थः । तेन ब्रह्मैव पूर्वोक्तः पुरुषः इत्यर्थः । रजआदीनामभावे उपादानकारणाभावात्कथं जगदुत्पत्ति-रित्यत आह ।। तम आसीदित्यादि ।।

एवं ना आसदासीत् नः असत् आसीदिति छेदः । दासवन्तो भृत्यवन्तो ब्रह्मादयो दासिनस्तेषां प्रेरकत्वात् दासीत् रश्मिप्रेरक इति यथा । एतादृशो नः अस्माकं रक्षकत्वादिना अस्मत्सम्बन्धी ना पुरुषः आसन परः किञ्चनासेत्यत्रेव भूभावाभावः सहनीयः । रजः लोकादिकं असत् ए परमात्मस्वरूपे सदपि नो आसीत् तदिच्छयैवेति । अन्यत्समानमिति । अत्र स्वराद्यनुपपत्तिर्बाहुलिकत्वादिना परिहर्तुं शक्यत एव स्वाभ्युपगतनिर्वाहाय तव प्रसिद्धपदपरित्यागवत् । एवं व्याख्यातुरपि स्वाभ्युपगतनिर्वाहायोक्तरीत्यङ्गीकारे बाधकाभावस्य त्वन्न्यायेनैव सिद्धत्वादिति । ननु न मया स्वाभ्युपगतनिर्वाहाय प्रसिद्धपदपाठस्त्यज्यते । किं तु ‘नसती नासती माया’ इत्यादिवाक्यान्तरानुरोधेनेत्थं व्याख्यायात इति चेदेवमपि तत्स्मृतेरर्थलब्धार्थानुवादित्वसम्भवेन पदैक्यज्ञापने अन्यथासिद्धत्वात् । स्मृतिश्रद्धायां ‘न सन्न चासन् सदसन् साक्षात्सदसतः परः’ इति स्मृत्युनुरोधात्तमोवाक्यापेक्षया ब्रह्मवाक्यस्य सन्निहितत्वेन तदैकवाक्यतया ब्रह्मण एव सदसद्वैलक्ष्यण्यमापद्येत ।

एतेन ‘आग्नेयं चतुर्धा करोति, पुरोडाशं चतुर्धा करोति, इतिवदुपसंहारेणैव समीहितसिद्धिः’ इति निरस्तम् । ब्रह्मणोऽपि तथात्वापत्तेर्दुर्वारत्वात् । सत्त्वग्राहकप्रमाण-कृतवैषम्यं त्वयुक्तमेव । तमस्यपि साम्यात् । न च तेषां व्यावहारिकसत्तावगाहित्वाद्वैषम्यमिति वाच्यम् । प्रत्यक्षेणानिर्वचनीयत्वस्य कुत्रापि निश्चयायोगेनानुमानादीनां तर्काप्रतिष्ठाना-दित्युक्तरीत्या व्यवस्थापकत्वाभावेनागमेनैव क्वचिदनिर्वचनीयतां गृहीत्वोक्तव्यावहारिकत्वादि-व्यवस्थायां कल्पनीयायां जगदनिर्वचनीयमनृतमित्यादीनां सावकाशतायाः वक्ष्यमाणतया लक्षणप्रतिपादकत्वादस्या एव श्रुतेः प्रथमतोऽनिर्वचनीयत्वव्यवस्थापकत्वे वक्तव्ये ब्रह्मण्यपि तत्प्रसङ्गापत्तिरूपबाधकस्यानुसन्धाने ब्रह्माविद्ययोः सत्त्वग्राहकप्रमाणतौल्ये अस्या एवा-निर्वचनीयत्वमस्य नेति निश्चयदौर्घट्येन व्यावहारिकसत्त्वादिव्यवस्थाया इतरेताश्रयादि-पराहतत्वात् । प्रमाणतौल्यं त्वग्रे दर्शयिष्यते ।

अपि चासदन्यस्य सदन्यत्वैक्यलाभेऽनिर्वचनीयसिद्धिः स्यात् । न च तत्सम्भवति । पृथक् क्रियासम्बन्धेन भेदस्यैवावगतेः । अन्यथा पृथक् क्रियापदसम्बन्धानुपपत्तेः । न हि नीलघटोऽस्तीत्यर्थे नीलोऽस्ति घटोऽस्तीति प्रेक्षावान् प्रयुङ्क्तेः । प्रत्युतैकवस्तुबोधनाय तथा प्रयोक्ताऽपहसनीयो भवति । तथा चासञ्जातविरोध्युपक्रमबलाद्भेदस्यैवावगतेरुपसंहारेणापि तत्सिद्धिः कथं स्यात् । आग्न्येयवाक्ये च तयोर्नैरन्तर्रापन्नत्वेन विरुद्धरूपेणानुपस्थापकतया चोपसंहारबलेनाग्नेयपुरोडाशयोरैक्यावगतावप्युक्तरीत्या क्रियाद्वयसम्बन्धबलात्सद्भिन्नत्वा-सद्भिन्नत्वरूपविरुद्धधर्माभ्यामुपस्थितयोर्भेदस्यैव झडिति प्रतिभानात् । न ह्मनिर्वचनीयसिद्धेः प्राक् तयोरविरुद्धत्वग्राहकं प्रमाणम् । अनेनैवाविरुद्धत्वसिद्ध्यपेक्षायां स्फुट इतरेतराश्रयः । इत्थं चात्र वस्तुद्वयभेदावगतौ उपसंहारस्थब्रह्मतमोवाक्यद्वयानुरोधेन यथासङ्ख्यन्यायेन ब्रह्मणः सत्त्वमविद्याया असत्त्वं प्रतीयेत । न तु सदसद्विलक्षणत्वं शाब्दप्रमात्वं वेति व्यर्थस्ते प्रयासः।

यदपि‘नशब्देनायं समास उक्तः । प्रसिद्ध्यतिक्रमामेक्षणवैलक्षण्यानुसरणस्यापि युक्त-त्वाच्च’ इत्युभिहितम् । तदसत् । प्रसिद्ध्यतिक्रमो हि न तावत्पलाण्डुभक्षणवत्स्वातन्त्र्येण पापसाधनम् । किं तु बहुप्रसिद्धविषयस्यैव प्रथमं बुद्धिगोचरत्वान्निर्विमित्तं तत्परित्यज्यार्थान्तरानुसरणं व्याख्यातुरज्ञानादिकमनुमापयति । तत्र सदसत्पदयोः पारमार्थिकापारमार्थिकयोः प्रसिद्धिवत् नासदित्यादौ भिन्नपदत्वं बहुप्रसिद्धतया प्रागेव बुद्धिस्थम् । उत्तरत्र सर्वत्र निषेधार्थकतायाः नोनञादीनां विद्यमानत्वात्तत्प्रायपठितत्वेन नो न इत्यादीनामपि प्रथमं श्रूयमाणानां निषेधार्थकत्वमेव बुद्धिस्थम् । एवं नो इत्यस्य निषेधार्थकत्वमेव बहुशो दृष्टम् । न तु भेदार्थकत्वमिति तदेवादौ बुद्धिस्थम् । तथा च तत्सर्वपरित्यागस्य कथं युक्तता । सदसच्छब्दे प्रसिद्धार्थपरित्यागस्य कथमयुक्तता । प्रत्युत ‘त्यजेदेकं कुलस्यार्थे’इति न्यायेन बहुपरित्यागापेक्षया एतत्परित्याग एव श्रेयात् । तच्छास्त्रीयाभिधानरूपवाक्यानुसारेण तच्छास्त्रीयवाक्यार्थस्य वर्णनीयतया व्याकरणे गुणवृद्ध्यादिपदैः स्वरविशेषाणामिव वेदशास्त्रे उक्तश्रुतिप्रसिद्ध्या पञ्चमहाभूतानामेव प्रतिपाद्य-त्वस्य वक्तुं युक्तत्वाच्च । अन्यथा प्रसिद्धिमात्रनिर्भरे ‘प्रकेतं सलिलं सर्वमा इदम्’ इत्यत्र ‘षद्लृ गतौ तस्मादिलच्प्रत्ययः’ इत्यादिरीत्या सलिलपदस्याप्रसिद्धार्थवर्णनमयुक्तं स्यात् । न च सर्वकार्यलयकाले तमसः जलभूताभेदो बाधित इति तत्र प्रसिद्धपरित्याग इति वाच्यम् । इहापि सदन्यस्मिन् आसीदिति क्रियार्थबाधं कुतो न पश्यति । परमार्थभिन्ने कालसम्बन्धः प्रतीयते । स चानिर्वचनीयवादिनां न बाधित इति तु न वाच्यम् । अनिर्वचनीयसिद्धेः प्राक् पारमार्थिकभेदस्य कालसम्बन्धविरुद्धत्वेन सर्वलोकावगतत्वेन तदवच्छिन्ने तदन्वयस्य योग्यताग्रहविरहात् । अन्यथा सलिलपदमुख्यार्थजलाभेदान्वयोऽपि स्यात् । अविशेषात् । किं चासदस्ति असदासीदसद्भविष्यतीत्यादिव्यवहाराभावात्तथा व्यवहर्तरि भ्रान्तत्वव्यवहाराच्च कालसम्बन्धप्रयोजकरूपावच्छिन्ने वा कालसम्बन्धे वा सत्पदस्य लोकप्रसिद्धिरवश्यं वाच्या । तथा चात्रत्यसत्पदस्य तादृशार्थकत्वे तादृशसदन्यस्मिन्नन्वयप्रयोजकरूपविरहनिश्चयान्न आसीदिति क्रियान्वयः । यदि च तदन्यस्वनिरुच्यमानपारमा-र्थिकत्वावच्छिन्नवाची सच्छद्धः । तादृशसदन्यत्वं च न कालसम्बन्धविरोधीत्युच्यते । तदा सच्छब्दस्य प्रसिद्धार्थपरित्यागो दुर्वार एव । एवं सच्छब्दस्यासीदिति क्रियायाश्चैकधातुजत्वात्स धातुर्यदि पारमार्थिकसत्तावाची तदा आसीदित्यनेन कालसम्बन्धबोधने प्रसिद्धत्याग एव । यदि कालसम्बन्धवाची तदा तद्धातुनिष्पन्नशब्दस्याबाध्यत्वावच्छिन्नार्थकत्वे प्रसिद्धार्थत्याग एव । अबाध्यविलक्षणे कालसम्बन्धावगाहिबोधस्य प्रागाहार्यत्वमुपपादितमेवेति तादृशबोधोऽपि न घटत एव ।

एतेन ‘सद्विलक्षणे कालसम्बन्धबोधनमात्रेणानिर्वचनीयसिद्धिः’ इति परास्तम् । शून्य-वादिनाऽपि बाध्यत्वे सति कालसम्बन्धस्य जगति स्वीकृतत्वेन तन्मात्रस्य त्वन्मतेऽ-निर्वचनीयत्रूपत्वाभावात् । तन्मताविशेषेऽपि तथात्वमेवानिर्वचनीयत्वमित्यङ्गीकारस्य पूर्वमेव दूषितत्वाच्च । नासदासीदित्यंशवैयर्थ्याच्च । न च सद्विलक्षणस्य कथं कालसम्बन्ध इति शङ्कानिरासकत्वेन तत्सार्थक्यमिति वाच्यम् । असदन्यस्य सत्त्वोक्तिमात्रेण तन्निरासायोगात् । उक्तवाक्यद्वयबलेन सदन्यस्मिन्नसदन्यत्त्वलाभात्तन्मात्रेण कालसम्बन्धाभावशङ्कानिरास इति तु न वाच्यम् । सदसदिति अनाहार्यलोकव्यवहाराभावात्सत्त्वावच्छिन्नभेदरूपासत्त्वावच्छिन्न-भेदसत्त्वावच्छिन्नभेदयोर्विरुद्धत्वग्रहेणैकत्र तयोर्ज्ञातुमशक्यत्वात् । न चासत्त्वं सत्तादात्म्य-शून्यत्वमेव । न तु सद्भेदः । तथा च तादृशासद्भेदः सद्भिन्ने न लौकिकैर्विरुद्धत्वेनावगत इति वाच्यम् । तर्ह्यत्रत्यासत्पदस्य तादृशासद्बोधकत्वं स्वघटकसत्पदस्य पूर्वोक्तरीत्या लक्षणया वाक्यलक्षणापक्षेऽसदिति समुदायस्य वा लक्षणयैव निर्वाह्यमिति सदसत्पदयोः प्रसिद्धार्थत्यागो दुर्वार एव । एवं सदन्यस्य कथं कालसम्बन्ध इति शङ्कायास्तयोर्विरुद्धत्वग्रहवत एव सम्भवेन तद्बीजभूतविरोधमनिराकृत्य तत्तुल्यतया सर्वलोकावगतासदन्यत्वोक्तिमात्रेण तच्छङ्कानिरासा-सम्भवाच्च । उत्तरवाक्योत्थिततच्छङ्कानिरासकत्वस्य पूर्ववाक्येऽनुचितत्वाच्च । ‘असन्न भवतीति व्युत्पत्त्या इह ब्रह्मण उद्देश्यत्वाविरोधात्’ इति वाक्ये ब्रह्मण इति न लग्नम् । तस्योद्देश्यत्वे तमसोऽनिर्वचनीयत्वसिद्धौ बीजाभावात् । एवं ‘सद्विलक्षणस्य कथं काल-सम्बन्धः’ इत्याशङ्कापरिहारकत्वायोगाच्च । न ह्यन्यस्यादद्विलक्षणत्वेऽन्यस्य कालसम्बन्धः सिद्ध्यतीति । एवं त्वदुक्तरीतौ स्वग्रन्थे त्वद्गुरूक्तं नञः पर्युदासपक्षे सदसद्विलक्षणत्व-रूपानिर्वचनीयत्वं शाब्दमित्यप्ययुक्तं चेति दिक् ।

तस्मात्पराभिमतार्थानामयुक्तत्वादाचार्योक्तः टीकाकृदुपपादित एव श्रुत्यर्थः सहृदयै-रादरणीय इति स्थितम् ।।