मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..

मिथ्याशब्दो वदतीति प्रयोगे कारणाभिधानम्

मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..

श्रीमज्जयतीर्थटीका

ननु वदतिरत्र यदि वदनक्रियावाची तदा शब्दस्य कर्मतैव । अथ शाब्द-प्रतीतिवाची तदा करणतैव । तत्कथं शब्दो वदतीति व्यपदेशः । इत्थम् । अवान्तर-व्यापारवतो हि कारणस्य करणत्वम् । अन्यथा अतिप्रसङ्गात् । तत्र स्वक्रियां प्रति सर्वस्य प्राधान्येन कर्तृत्वात्कारणेऽपि शब्दे तद्विवक्षया वदतीति व्यपदेशो युज्यते । प्रधानक्रियां प्रति करणत्वमुल्लङ्घ्य किमवान्तरव्यापारे कर्तृत्वं विवक्ष्यत इति चेत् १प्राधान्यनिर्देशेन वाचकत्व-पक्षकक्षीकरणसूचनार्थम् । मिथ्याशब्देनानिर्वचनीयं देवदत्तो वदतीत्यस्य वाचकावाचक-पक्षसाधारण्यात् । वदतिर्वाचकत्वे प्रयुज्यत इति चेत्सत्यम् । न तु तन्नियमः । शाब्दप्रतीतिमात्रेऽपि प्रयोगदर्शनात् ।