अनुमानस्य चाप्रसिद्धविशेषणः पक्षः..
सामान्यतोऽनिर्वचनीयत्वसाधकानुमानं तन्निरासश्च
अनुमानस्य चाप्रसिद्धविशेषणः पक्षः
श्रीमज्जयतीर्थटीका
सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वात् । रूपरस-वदित्यनुमानेन सामान्यतोऽनिर्वचनीयत्वप्रसिद्धौ शुक्तिरजतादिधर्मिविशेषाश्रयता तस्य केवलव्यतिरेकिणा साध्यते । अतो न दोष इति चेन्न । अभिधेयत्वादौ व्यभिचारात् । तस्यापि पक्षतुल्यत्वे व्याघातात् । अभिधेयत्वादिकं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगीत्यत्र तस्य किञ्चिदादिशब्दाभिधेयत्वात् । किं च सकलधर्माणां यत्किञ्चिन्निष्ठात्यन्ताभाव-प्रतियोगितासाधने २सकलधर्मात्यन्ताभावाधिकरणत्वे व्यभिचारः । तस्यापि पक्षत्वे सकल-धर्मवत्त्वं कस्यचिद्विरुद्धमापद्येत । अविरुद्धत्वं चोपाधिः । न च सत्त्वासत्त्वे अपि न विरुद्धे । अनिर्वचनीयार्थप्रतीतेः प्रागविरोधाप्रतीतेः । तदिदमप्रसिद्धविशेषणत्वं परसिद्धमिति ज्ञातव्यम् । अन्यत्र तददूषणत्वस्याचार्यैरेवोपपादितत्वात् । स्वमतेन तु स्वव्याघातादि-दूषणमूहनीयम् ।
द्वैतद्युमणि:
केवलव्यतिरेकी भावसाध्यकाभावसाध्यकभेदेन द्विविधः । तत्र भावसाध्यक-स्थले साध्यप्रसिद्धिं विना कथमपि व्याप्तिग्रहो न घटता इति तत्राऽवश्यिकी साध्याप्रसिद्धे-र्दूषणता । अभावसाध्यकस्थले त्वभावाभावरूपभावव्यापकत्वेन गृहीताभावप्रतियोगिहेतुमत्ता-ज्ञानान्मुख्यविशेष्यीभूतसाध्यविधेयकानुमितिरेव जायते । अत एवेतरत्वव्यापकीभूताभाव-प्रतियोगिपृथिवीत्ववती पृथिवीति परामर्शादिना ‘पृथिव्यामितरभेदः’ इत्याद्यनुमितिस्तान्त्रिकै-रभ्युपगता । एवञ्च प्रकृते सदसद्वैलक्षण्यरूपानिर्वचनीयत्वस्याभावत्वात्तत्साध्यकस्थले तदभावस्य सत्त्वासत्त्वरूपप्रतियोगितावच्छेदकस्वरूपतया तद्व्यापकत्वेन गृहीताभावप्रतियोगि-बाध्यत्वावगाहिपरामर्शाद्विमतेऽनिर्वचनीयत्वमित्येवानुमितिः स्यात्तावता क्षत्यभावादिति वदतः कस्यचिन्मतमुत्थापयति ।। अभाव इति ।। यत्रेति शेषः ।। तथा सतीति ।। तत्रेत्यादिः । तादृशस्थल इत्यर्थः । तथा सति अभावस्य साध्यत्वे सतीत्यर्थः ।। अभावा-भाव इति ।। साध्यात्मकाभावस्याभाव इत्यर्थः ।। भाव एवेति ।। साध्यीभूताभावीय-प्रतियोगितत्वावच्छेदकान्यतररूपः साध्याघटितमूर्तिक इत्यर्थः । न तु भावात्मक इति यथाश्रुतोऽर्थः । तथात्वे १ध्वंसव्यापकीभूताभावप्रतियोगिसामान्यत्वादिलिङ्गेन सामान्ये ध्वंस-भेदादिसिद्धेस्तादृशस्थलासङ्ग्राहकतया न्यूनतापत्तेः । इदानीं साध्यानुपस्थितिकाले अनुमितिसामग्रीनिर्वाहमात्रस्य कर्तव्यतया साध्याभावस्य भावरूपत्वनिर्भरे बीजाभावाच्च ।। अभावाभावस्येति ।। भावत्वेऽपि भेदात्यन्ताभावरूपसाध्यवैलक्षण्यानुरोधात् यथायोगं प्रतियोगितावच्छेदकप्रतियोग्यन्यतरात्मकत्वे अङ्गीकृतेऽपि । अपिशब्दो वक्ष्यमाणार्थे युक्तिसूचनार्थः । तत्प्रकारश्चानुपदमेव व्यक्तीभविष्यति । प्रतिषेधाकारबुद्धेः साध्याभावत्वेन प्रतियोगितदवच्छेदकत्वावगाहिपरामर्शस्य । अनिवारणात् तत्साध्यकतल्लिङ्गकान्वयिपरामर्शा-नधीनानुमितिसामान्यसामग्रीघटकताया इत्यादिः । अनिवारणात् वारणस्य कर्तुमशक्यत्वात् ।
अयं भावः । अभावसाध्यकस्थले स्वाभावरूपस्य प्रतियोगिनस्तत्वावच्छेदकस्य वा स्वाभावत्वेनैवावगाहिपरामर्शस्यैव कारणताऽवश्यमभ्युपेया । न तु प्रतियोग्यादेः तदन्य-रूपेणावगाहिनः । येषां मते अभावाभावस्य न भावात्मकत्वम् । किं तु प्रतियोगिसमनियता-भावान्तरत्वमेव । तन्मते भवदुक्तपरामर्शस्य साध्यीयव्यतिरेकव्याप्त्यवगाहित्वाभावेन तेनानु-मित्यजननस्यानुभवसिद्धतया येषां द्वितीयाभावस्य प्रतियोगिस्वरूपत्वं तन्मतेऽपि तथैवाङ्गी-कर्तव्यम् । अनुभवकलहायोगात् । तथा चोक्तपरामर्शस्य कारणत्वायोगात्तल्लिङ्गकानुमिति-सामान्येऽपि प्रतिषेधाकारबुद्धेरावश्यकत्वमिति ।।
नन्वेतदयुक्तम् । येषां मते द्वितीयाभावस्य प्रतियोगिस्वरूपत्वम् । तन्मते प्रतिषेधानाकारपरामर्शादनुमितेरानुभाविकतया द्वितीयाभावस्य प्रतियोगिस्वरूपत्वानङ्गी-कर्तृभिरप्यनुमितिस्तादृशपरामर्शादङ्गीकार्या । अन्यथा अनुभववैषम्यायोगादिति ममापि वक्तुं शक्यत्वादित्यत्रापीदमेवोत्तरमभावाभावस्य भावत्वेऽपीति । तन्मतेऽपीत्यर्थः । तदन्यमतसमुच्चये अपिशब्दः । प्रतिषेधाकारबुद्धिरित्यस्योक्त एवार्थः । अनिवारणात् अपरित्यागात् । अनुमित्युपधायकत्वस्येत्यादिः ।
अयमाशयः । अभावाभावस्य भावत्वमतेऽपि तदतिरिक्ततामत इव प्रतिषेधाकार-परामर्शस्य फलोपधायकत्वं स्वीकृतमेव । तथा च मतद्वयसिद्धत्वादयमनुभवो निर्विवाद इति तादृशपरामर्शस्यैव सर्वत्र फलजनकत्वमावश्यकम् । लाघवात् । यथा साध्ये केवलान्वयित्व-ग्रहकालीनानुमित्यनुरोधात् व्यापकताज्ञानकारणत्वस्यावश्यकत्वे साध्याभाववदवृत्तित्वा-द्युपस्थितिकालेऽपि हेतुव्यापकत्वादिज्ञानान्तरकल्पनेनैवानुमितिः स्वीक्रियते । यत्र हेतु-व्यापकत्वघटितविषयकज्ञानाभाव अनुभवसिद्धस्तत्रानुमितिर्न स्वीक्रियत एव । प्रवृत्यादि-कार्यस्यानुभवसिद्धत्वे विशेषदर्शनाधीनमानसेनैव तन्निर्वाहात् । अन्यथा साध्याभावघटित-ज्ञानस्यापि कारणत्वे भिन्नविषयकप्रत्यक्षादिनिष्ठप्रतिबन्धकतानां तादृशपरामर्शघटितसामग्य्रा कल्पने अतिगौरवापत्तेः । साध्याभाववदवृत्तित्वज्ञानकाले व्यापकताज्ञानकल्पनं तु फलमुख-गौरवरूपत्वान्न दोषावहम् । अन्यथा ज्ञानद्वयोत्तरं विशिष्टज्ञानकल्पने गौरवप्रसङ्गेन विशिष्ट-ज्ञानत्वेन हेतुत्वासिद्ध्या मीमांसका एव विजयेरन्निति ।
तत्सर्वमप्यविशिष्टं प्रकृतेऽपीति प्रकृते तथा कल्प्यते । न चेतरत्वव्यापकीभूताभाव-प्रतियोगीति परमर्शकाले साध्यानुपस्थितेरानुभाविकतया तत्काले प्रतिषेधाकारपरामर्श-कल्पनाया बाधितत्वेनागत्योक्तपरामर्शकारणताया आवश्यकतया फलमुखत्वेनोक्तसर्वगौरव-मदोषमेवेति वाच्यम् । तादृशपरामर्शकाले साध्यानुपस्थितिदशायामुक्तानुमित्यनुभवस्यैवा-भावात् । न च तादृशानुमितिर्दीधितिकृत्प्रभृतिभिरङ्गीकृतैवेति वाच्यम् । तदुक्तार्थ एव विवदमानं प्रति तदनुभवस्याप्रमाणीकर्तव्यत्वात् ।
तर्ह्यनुभवकलहोऽयं निरवधिः इति चेत् युक्तयाऽपि बाधितत्वात् । तथा हि, साध्या-भावत्वेनावगाहित्वेन कारणत्वानङ्गीकारे वस्तुतो यः साध्याभावः तद्व्यापकाभावप्रतियोगित्व-ज्ञानस्य कारणत्वं वाच्यम् । तथात्वे रूपाभावाभावात्मकतया तद्रूपस्य तद्रूपव्यापकाभाव-प्रतियोगिघटत्ववत्ताज्ञानात् घटे रूपाभावानुमितिः स्यात् । एवं भावसाध्यकस्थलेऽपि वह्न्यभावस्य तद्व्यक्तित्वेनावगाहिनः तद्व्यक्तिव्यापकाभावप्रतियोगिधूमवत्ताज्ञानात् पर्वते वह्नि-रित्यनुपस्थितसाध्यमुख्यविशेष्यकानुमित्यापत्तिश्च । अभावसाध्यकस्थलेऽनुमितिं स्वीकृत्य भावसाध्यकस्थले तदनङ्गीकारे तु अर्धजरतीयन्यायापत्तेः । न च भावप्रतियोगिका-भावनिष्ठतद्व्यक्तित्वं प्रतियोगिविशेषप्रतियोगिकत्वातिरिक्तं दुर्वचमिति वाच्यम् । रूपादाविव प्रतियोग्यघटितस्यैव तद्व्यक्तित्वस्य तत्र सत्त्वात् । अन्यथा प्रलये सर्ववह्निनाशे अभावनिष्ठ-तद्व्यक्तित्वस्यापि नाशप्रसङ्गेन तद्व्यक्तरूपत्वाभावेनेतरतादात्म्यं निःस्वरूपत्वं वा स्यात् । चैत्रेण ‘ह्रदे यत्किञ्चिद्वर्तते’ इत्युक्तौ तत्कालीनचैत्रोच्चारितयत्किञ्चित्पदतात्पर्यविषयतया वह्न्यभावावगाहिनः ‘तादृशयत्किञ्चित्पदतात्पर्यविषयीभूतव्यापकाभावप्रतियोगि’ इत्यादि-परामर्शादुक्तानुमित्यापत्तेर्दुर्वारत्वाच्च । एवमभिधेयत्वाभावनिरूपितव्यतिरेकिपरामर्शाद्भ्रमात्म-काभिधेयत्वाभावानुमितिर्व्यतिरेक्याभासाज्जायते । सा न स्यात् । तत्र साध्यस्यैवाप्रसिद्ध्या तदभावस्य वास्तवस्याभावेन तत्र कारणतावच्छेदकविरहात् ।
न च वास्तवसाध्याभावघटितकारणान्तराङ्गीकारेऽपि प्रतिषेधाकारपरामर्शस्य कारणताया अपरित्यागात् निरूप्यनिरूपकभावापन्नविषयिताशालिभ्रमात्मकपरामर्शादेव व्यतिरेक्याभास-लिङ्गकानुमित्युपपत्तिरिति वाच्यम् । उक्तकारणान्तराङ्गीकर्तुर्भवतो मते ‘धूमव्यापकाभाव-प्रतियोगिवह्न्यभाववान् ह्रदः’ इति ज्ञानाद्ध्रदे धूमाभावानुमितेरिव ‘अभिधेयत्वव्यापकाभाव-प्रतियोगिघटत्वाभाववान् पटः’ इति भ्रमात् ‘पटेऽभिधेयत्वाभावः’ इत्यनुमितेर्दुष्परिहरतया तत्स्थलीयपरामर्शे भवदुक्तकारणावच्छेदकाभावाद्व्यतिरेक्याभासत्वानुपपत्तेरित्यभिप्रायात् ।
एतेन ‘साध्यीभूताभावप्रतियोगितावच्छेदकावच्छिन्ननिरूपितव्यापकत्वावगाहिज्ञानस्य कारणत्वम्’ इति प्रत्युक्तम् । उक्तस्थले साध्यीभूताभावस्यैवाप्रसिद्धेः । न च तद्धर्मा-वच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविधेयताकानुमितौ तद्धर्मावच्छिन्ननिरूपितव्यापकता- वच्छेदकत्वेन गृहीतधर्मावच्छिन्नप्रतियोगिताकाभावनिर्णयत्वेन परामर्शस्य तादृशज्ञानद्वय-साधारण्येनापि हेतुता स्वीक्रियते । अत एव व्यतिरेकिग्रन्थे दीधितिकृता तथैवोक्तम् । इत्थञ्च न कोऽपि पूर्वोक्तदोषः प्रसरतीति वाच्यम् । ‘ह्रदो धूमाभाववान् धूमत्वावच्छिन्नव्यापकता-वच्छेदकधर्मावच्छिन्नाभाववत्त्वात् । यो यद्धर्मावच्छिन्नव्यापकतावच्छेदकधर्मावच्छिन्न-प्रतियोगिताकाभाववान् स तद्धर्मावच्छिन्नाभाववान्’ इति सामान्यव्याप्तिज्ञानेन वा यत्त्वतत्त्वाननुगमविद्वेषे तु ‘यो यद्विशेषाभावकूटवान् स तत्सामान्याभाववान्’ ‘यो यद्धेतुः स तद्व्याप्तः’ ‘यद्यन्मङ्गलं तत्तत्समाप्तिसाधनम्’ ‘यो यस्य सुतः स तदीयं धनमाददीत’ इत्यादौ यत्त्वतत्त्वहेतुत्वसाध्यत्वमङ्गलत्वसमाप्तित्वादेरनुगतत्वाभावेऽपि तत्रानुभवसिद्धानुमितिनिर्वाहाय सामान्यव्याप्तिस्थानाभिषिक्तव्याप्त्यन्तरावगाहिज्ञानेनानुमितिस्वीकारेण प्रकृतेऽपि तथैवानुमिति- स्वीकारसम्भवेनोक्तविधव्यतिरेकिपरामर्शस्य फलोपधायकत्वानङ्गीकारात् । न च वह्नित्वा-वच्छिन्नाभावलिङ्गकत्वं न स्यात् । अपि तु धूमव्यापकतावच्छेदकवह्नित्वावच्छिन्नाभाव-लिङ्गकत्वमेव स्यात् । न चेष्टापत्तिः । तद्रूपावच्छिन्नास्फूर्तिदशायामेव वह्नित्वावच्छिन्ना-भावलिङ्गकानुमित्युदयात् । तदर्थमेव चोक्तव्यतिरेकव्याप्तेरङ्गत्वमपि स्वीक्रियत इति वाच्यम् ‘धूमव्यापकवह्न्यभाववान्’ इति परामर्शस्य भवदभिमतस्यैव मत्सिद्धलिङ्गस्फूर्तिरूपतया तदस्फूर्तेरेवासिद्धेः । परन्तु त्वया तदुत्तरक्षण एव ‘ह्रदे धूमाभावः’ इत्याकारामनुभव-विरुद्धामनुमितिं स्वीकृत्य ततो ‘धूमाभाववान्’ इत्यनुमित्यन्तरं स्वीक्रियते । साध्यप्रसिद्धि-वेलायां साध्यविशेष्यकानुमितिवारणाय साध्यप्रसिद्धेः साध्यविशेष्यकानुमितिप्रतिबन्धकत्वम् इत्यादिकमप्रामाणिकं बहु कल्प्यते । मया तु क्षणद्वयविलम्बेन तादृशसामान्यव्याप्त्यादि-स्फूर्त्या सर्वानुभवसिद्धसाध्यप्रकारकानुमितिरेव स्वीक्रियते । भवदभिमतसूक्ष्मकाल एवानु-मित्युत्पत्तेः शपथैकनिर्णेयत्वात् । तत्रास्मन्मतमेव युक्तम् । अस्मदभिमतान्वयव्याप्तिविशिष्ट-लिङ्गान्तरस्य कालान्तरे ज्ञानस्थलेऽनुमित्यनुरोधेनोभयक्लृप्ततत्सामग्रीबलादेव क्षणद्वयादि-विलम्बेनानुमितिमात्राङ्गीकारेणनिर्वाहे अप्रामाणिकस्य कल्पितसाध्यविशेष्यकानुमिति- निर्वाहाय सामग्य्रन्तरकल्पनस्य साध्यप्रसिद्ध्यादिप्रतिबन्धकत्वकल्पनस्यातिगुरुत्वेन हेयत्वात् ।
एवञ्च ‘वह्निर्धूमव्यापकः’ ‘वह्न्यभाववांश्चायम्’ इति ज्ञानद्वयस्थलेऽपि सम्भवदुत्पत्तिक-धूमव्यापकवह्न्यभावरूपहेतुज्ञानं स्वीकृत्यैवानुमितिरुपपादनीया । अयथाऽन्वयिस्थलेऽपि ज्ञानद्वयानन्तरं विशिष्टपरामर्शोऽप्यकल्पनीयः स्यात् । उक्तलाघवादेव वृक्षतादात्म्याद्यनुमिति-सम्भवे तादात्म्येन वृक्षस्य व्यापकतामनिच्छन्तः प्राचीनाः वृत्त्यनियामकसम्बन्धेन व्यापकतां न स्वीकुर्वन्ति । तस्मात्साध्याभावत्वेन साध्याभावावगाहिव्यतिरेकिपरामर्शस्यैवानुमितिहेतुत्वं सयुक्तिकमिति साधूक्तं ‘प्रतिषेधाकारबुद्धेरनिवारणात्’ इति ।
यद्वा अन्यत्र व्यतिरेकिणि परोक्तमभ्युपगम्य प्रकृतानुमानविषय एवैतद्रीत्यसम्भव-प्रतिपादकमिदं वाक्यम् । तथात्वे चाभावेत्यादिना तन्निर्वाह्यस्य प्रतिषेधाकारानवगाहिपरामर्श-कारणत्वस्य परिग्रहः । अपिशब्दः सम्प्रतिपत्तिसूचकः । प्रकृत इति आवश्यकताया इति च प्रतिषेधेत्यस्याद्यन्तयोर्योज्यम् । तथा चाभावसाध्यकस्थले जलादिरूपप्रतियोगिनो जलत्वेनावगाहिनः ‘तादात्म्येन जलव्यापकाभावप्रतियोगिगन्धवान् घटः’ इति परामर्शात् ‘घटे जलभेदः’ इत्याद्यनुमितिसम्भवेऽपि प्रकृतानुमाने सदसद्विलक्षणत्वरूपसाध्याभावत्वेन साध्याभावावगाहिपरामर्शस्यावश्यकताया वारणायोगादित्यर्थः । कुत इति चेत् यतः सदसद्विलक्षणत्वं नाम सद्विलक्षणत्वविशिष्टासद्विलक्षणत्वम् । तादृशविशिष्टसाध्याभावस्तु न सत्त्वासत्त्वरूपः । विशिष्टाभावस्य सदसदुभयत्रैकस्यैव प्रतीत्या सत्त्वासत्त्वयोः परस्प-रासमानाधिकरणत्वेन तदैक्यायोगात् ।
नन्वभावस्यैवैक्यप्रतीतिरभावत्वैक्यमवलम्बते । रूपाणां रूपाभावाभावात्मकत्वेऽपि घटपटवृत्तिरूपाभावैक्यप्रतीतिवदिति चेन्न । तथात्वेऽपि सदसद्विलक्षणत्वाभावव्यापकी-भूतेत्यादिरीत्या ज्ञानाङ्गीकारे प्रतिषेधाकारत्वमागतमेव । तादात्म्येन ‘सद्व्यापकीभूताभाव-प्रतियोगिबाध्यत्ववान्’ एवम् ‘असद्व्यापकीभूताभावप्रतियोगिबाध्यत्ववान्’ इति समूहा-लम्बनादनुमित्यङ्गीकारेऽनुमितिरपि समूहालम्बनरूपैव स्यात् । न सद्विलक्षणत्वविशिष्टास-द्विलक्षणत्वरूपसाध्यविधेयिका । तत्र तु १असद्वैलक्षण्यस्य शुक्तिरूप्ये सिद्धतयांशे सिद्ध-साधनताया दुर्वारत्वात् । एतदर्थमेव ‘मिथ्यैव रजतम्’ इति प्रत्यक्षमुभयसम्प्रतिपन्नसद्वि-लक्षणत्वावगाहिताकमुपन्यस्तं प्राक् ।
२न चैकत्र द्वयमिति रीत्या बाध्यत्वे तादृशप्रतियोगित्वद्वयावगाहि३परामर्शादेकत्र द्वय-मित्यादिरीत्यैव सद्विलक्षणत्वासद्विलक्षणत्वावगाहिनी अनुमितिः स्यात् । तत्समानाकारक-ज्ञानस्य पूर्वमसिद्धतया न सिद्धसाधनमिति वाच्यम् । तादृशज्ञानानामप्रामाणिकत्वात् । प्रामाणिकत्वे वाऽनुमितिपरामर्शयोस्तादृशरूपेण कार्यकारणभावे मानाभावाद्विधेयतावच्छेदक-कोटावधिकावगाहित्वाभावेनांशे सिद्धसाधनतैव । एतदप्युक्तम् । प्रतिषेधाकारबुद्धेः शुक्तिरूप्ये सद्विलक्षणत्वबुद्धेः अनिवारणात् । अंशे सिद्धसाधनत्वस्येत्यर्थः ।
यदि सदसदुभयव्यापकीभूताभावप्रतियोगीत्यादिपरामर्शाच्चोभयत्वावच्छिन्नभेदावगाहिनी अनुमितिः स्यात्तदा शुक्तिरजतस्योभयात्मकत्वानङ्गीकारात्स्फुटं सिद्धसाधनतैव । सदसदन्यतरव्यापकीभूतेत्यादिपरामर्शादरेऽनुमितेरप्यन्यतरत्वावच्छिन्नभेदावगाहित्वेनेष्टसिद्धिरित्युक्तावपि सद्भेदविशिष्टासद्भेदावच्छिन्नप्रतियोगिताकभेदवत्त्वरूपान्यतरत्वस्योक्तसद्भेदविशिष्टासद्भेद-रूपप्रतियोगितावच्छेदकाद्यप्रसिद्ध्या तद्घटितव्याप्तिग्रहस्य प्रतिषेधविषयिण्याः व्याप्तिग्रहो न घटत इत्याकाराया बुद्धेः त्वया वारयितुमशक्यत्वात् ।
अथ तद्भेदैतद्भेदैतदुभयत्वावच्छिन्नप्रतियोगिताकाभाव एवान्यतरत्वम् । तद्ग्रहश्च प्रत्येकं तादृशभेदग्रहादपि सम्भवतीति उच्यते । तदापि तादृशोभयं नास्ति इति प्रतिषेधाकार-बुद्धेस्तयोर्विरोधग्रहमूलायाः शशविषाणघटादिष्विव शुक्तिरूप्यादिषु पक्षेष्वपि उक्तानुमानप्रवृत्तेः प्रागेव लोकानामवारणात् बाध्यत्वरूपहेतोरभावस्य तद्व्यापकत्वप्रतिषेधबुद्धेरवारणमेव । एतेन सदसदुभयत्ववृत्तिस्वरूपसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदोऽनुमितिविषयः । अतो न सिद्धसाधनता । कारणीभूतपरामर्शश्च तत्सम्बन्धेनोभयत्वाश्रयस्य तादात्म्येन व्याप्यतावगाही हेत्वभावस्य व्यापकत्वावगाही इति निरस्तम् । सत्त्वासत्त्वयोर्लोकानां परस्परविरुद्धत्वरूपप्रतिषेधाकारबुद्धेरनुमानप्रवृत्तेः प्रागनिवारणात् । सत्त्वाभावप्रयुक्तासत्त्व-वत्त्वेन गृह्यमाणत्वात् । तादात्म्येन तदुभयत्वाश्रयतया गृह्यमाणे शुक्तिरूप्यादौ बाध्यत्वरूप-हेतुग्रहेण हेत्वभावस्य पक्षादिप्रविभागात्पूर्वमेव व्यापकत्वप्रतिषेधबुद्धेरवारणात् इदमयुक्तमिति ।
यद्वा अभावः केवलव्यतिरेकिणेति ग्रन्थः प्रकारान्तरेण व्याख्यायते । तथा हि । भक्ति-पादीयसुधायां साध्याप्रसिद्धेर्दूषणत्वनिरासप्रस्तावने नैयायिकमतोपन्यासावसरे व्याप्ति-प्रसिद्ध्यर्थं साध्यप्रसिद्ध्यपेक्षायां केवलव्यतिरेकिभङ्गमाशङ्क्य ‘सम्प्रतिपन्नप्रमाणभावेषु केवलव्यतिरेकिषु सामान्यप्रसिद्ध्या तदुपपत्तिः’ इत्युक्त्वा कैश्चिद्ग्रन्थैः सामान्यप्रसिद्धि-प्रकारमभिधाय तदेकदेशिमतमपि तद्दूषणपरिहारार्थमुपन्यस्तं अभावो वा केवलव्यतिरेकिणा साध्य इति । तत्र वाकारेण भावसाध्यकस्थले केवलव्यतिरेकित्वं नास्त्येव । अतः पूर्वोक्त-भावसाध्यकस्थले पूर्वोक्तसामान्यप्रसिध्यादिश्रमो न कार्यः । किं त्वभावसाध्यकस्थलमेव केवलव्यतिरेक्युदाहरणमतो न केवलव्यतिरेकिभङ्ग इत्याशय उन्नीयते । तत्रोत्तरत्र सुधायां साध्याप्रसिद्धेर्दूषणत्वनिराकरणावसरे तदवान्तरभेदनिराकरणानवसरात्तन्मतं तत्र न दूषितम् । अत्र ग्रन्थे पुनर्नैयायिकमतमवलम्ब्यैव परानुमानस्य साध्याप्रसिद्धिदूषणाभिधानावसरे तद्व्यवस्थापनाय केवलव्यतिरेकिभङ्गमाशङ्क्य सुधोपन्यस्तं नैयायिकोक्तं समाधानं तस्यैव तन्मते सयुक्तिकत्वमित्यभिप्रेत्याभिधाय तदेकदेशिमतं पूर्वमतदार्ढ्याय दूषयितुमभाव इत्यादि-ग्रन्थः । अभावः अभाव एव । तथा च भावसाद्ध्यकः केवलव्यतिरेकी नास्त्येवेति साध्याप्रसिद्धेस्तत्र दूषणत्वमनपवादमेवेति भावः । नन्वभावस्य साध्यत्वेऽपि साध्यप्रसिद्धिं विना व्याप्तिग्रहायोगात्कथं तत्र साध्याप्रसिद्धेर्दूषणत्वाभाव इत्यत आह ।। तथा सतीति । अभावमात्रस्य केवलव्यतिरेक्यनुमानसाध्यत्वे सतीत्यर्थः ।। सुशक इति ।। केवल-व्यतिरेकिसामान्य इत्यादिः । तथा च न केवलव्यतिरेकिभङ्ग इति भावः ।। अभावा-भावस्येति ।। प्रतिषेधेत्यादेः पूर्वोक्त एवाभिप्रायः ।
यद्वा न्यायवाक्याधीनायाः परार्थानुमितिरूपायाः प्रतिषेधात्मकाभावसाध्यककेवल-व्यतिरेकिलिङ्गजन्य बुद्धेरनिवारणात् वारयितुमशक्यत्वादित्यर्थः । तथा च तत्रापि (अभाव-साध्यकेऽपि) साध्याभावावगाहित्वेन ज्ञानस्यावश्यकत्वे सामान्यप्रसिद्ध्यादरणरूपपूर्वमत-मपहाय केवलव्यतिरेकिभङ्गापादनं दुष्परिहरमिति व्यर्थमभावमात्रस्य केवलव्यतिरेकि-साध्यकत्वानुसरणमिति ।
यद्वा अभावाभावस्येत्यादिना तदुपपाद्यपरप्रक्रियोपलक्ष्यते ।। प्रतिषेधेति ।। भाव-साध्यकस्थलेऽपि साध्याभावव्यापकत्वावगाहिपरामर्शस्यावारणात् । अनुमितिकारणताया इति शेषः । अयं भावः । अभावाभावस्य भावत्वमते चाभावसाध्यकस्थले साध्यप्रसिद्धिं विना व्यतिरेकव्याप्तिग्रहसम्भवेऽपि भावसाध्यकस्थलेऽपि कदाचिद्व्यतिरेकव्याप्त्याऽनुमित्युत्पादनस्य वारयितुमशक्यत्वेन केवलव्यतिरेकिणा अभाव एव साध्य इति नियमो न युक्तः । न च तत्र व्यतिरेकिपरामर्शकाले अनुमितिरेव न जायत इति वक्तुं शक्यम् । एकप्रकारेण जायमान-ज्ञानानां कारणत्वाकारणत्वविभागस्यानुभवविरुद्धत्वात् । ननु व्यतिरेकव्याप्त्या तत्रानुमिति-जननेऽपि अन्वयव्याप्तिज्ञानेनाप्यनुमितिजननात्तस्य न केवलव्यतिरेकित्वमिति चेत् किं जलभेदव्याप्यगन्धवान् घट इति ज्ञानादभावानुमितिः कदापि न जायत इति वक्तु-मुद्यतोऽसि । न चाभावसाध्यके प्रथमतः साध्यानुपस्थित्या प्रथमतः तज्जन्यानुमित्यङ्गत्वं व्यतिरेकव्याप्तेरेवेति तस्य केवलव्यतिरेकित्वं नैवं भावसाद्ध्यकस्येति वाच्यम् । सर्वपुरुषाणां प्रथमतस्तथैवानुमितेः केवलव्यतिरेकितानियामकत्वे कस्यचित्पुरुषस्य जलपरमाणुभेदव्याप्य-गन्धवान् पृथिवीपरमाणुरित्याप्तवाक्यजन्यात् शाब्दात्तन्मूलकान्मानसाद्वा अन्वयिपरामर्शा-त्प्रथमतोऽनुमितिः । एवमन्यानुमितिरन्यस्येति क्रमेण सर्वेषामप्यभावानां सर्वपुरुषीय-प्राथमिकव्यतिरेकव्याप्तिग्रहमूलकानुमितिविषयत्वाभावेन केवलव्यतिरेकिमात्रोच्छेदप्रसङ्गः । कस्यचित्पुरुषस्य तथाभावस्य तन्नियामकत्वे तु वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवान् पर्वत इति वाक्याधीनव्यतिरेकिपरामर्शादेव कस्यचित्पुरुषस्य प्रथमतोऽनुमितिसत्त्वेन भावसाद्ध्यकस्यापि केवलव्यतिरेकितायाः दुर्वारत्वात् । न चैवं सत्यन्वयव्यतिरेकित्व-केवलव्यतिरेकित्वादिव्यवस्था कथं सङ्गच्छत इति वाच्यम् । यदा यस्यान्वयव्यतिरेकव्याप्ति-द्वयप्रमया यल्लिङ्गकानुमितिः स तस्यान्वयव्यतिरेकी । यस्य यदा व्यतिरेकव्याप्तिप्रमयैव यल्लिङ्गकयत्साद्ध्यकानुमितिः स तस्य केवलव्यतिरेकी । एवं केवलान्वयी निर्वाच्य इति व्यवस्थोपपत्तेः । वस्तुतोऽन्वयव्याप्त्यसत्त्वं न केवलव्यतिरेकितानियामकम् । केवल-व्यतिरेकित्वाभिमतेषु सर्वेषु तत्सत्त्वस्यावश्यकतया तादृशस्थलस्यैवाप्रसिद्धेः । तस्माद्भावा-भावसाद्ध्यकस्थलयोरविशेषात्सर्वसम्प्रतिपन्नभावसाद्ध्यककेवलव्यतिरेकिसामान्यभङ्गपरिहाराय सामान्यप्रसिद्ध्यादरणमेव युक्तमिति ।
अत्रेदं बोद्ध्यम् । अभावः केवलव्यतिरेकिणेत्यादिग्रन्थस्यानिर्वचनीयत्वसाध्यकप्रकृत-निर्वाहकत्वविवक्षापूर्वकं मतान्तरोत्थापनपरत्वेन पूर्वव्याख्यानमात्रादरणे प्रतियोगिप्रतीति-मन्तरेणेति वाक्योत्तरत्वमेव स्यात् । व्याप्तेरशक्यप्रतिपत्तिकत्वाभिधाने प्रतियोगिप्रतीतिमन्तरेण व्याप्तिग्रहोपपादकस्यैतन्मतस्य झडिति तत्रैव सङ्गतत्वात् । तद्विहाय व्यतिरेकिभङ्गरूपतटस्थ-शङ्कया व्यवधानेन पुनस्तन्मतोत्थापने बीजाभावः । अत उत्तरत्र सामान्यप्रसिद्धिशङ्काया एव कर्तव्यतया तत्पक्षस्यैव युक्ततायाः शिष्यान् प्रति प्रतिपादनाय सामान्यप्रसिद्धिरूप-स्वसमाधानानन्तरमेतत्पक्षोपन्यासस्योक्तविन्यासेन टीकाभिप्रेतत्वावगमादुक्तद्वितीयव्याख्या युक्ता । एतद्व्याख्यानमात्रादरेण परानुमाने प्रतियेगिप्रतीतिमन्तरापि व्याप्तिग्रहोपपत्तिशङ्काया उक्तव्याख्याननिवर्त्याया दृष्टत्वे तन्निरासं विना मौलदूषणसमर्थनायोगात् तद्विहाय नैयायिक-मतसौष्ठवमात्रविचारस्य गङ्गावालुकपरिगणनवदसङ्गतत्वापत्तेः प्रथमावतारिका पूर्वोक्तसर्वार्था अपि टीकाभिप्रेता इत्यवगम्यते । बह्वभिप्रायाणामस्मदादिबुद्ध्यविषयाणां सर्वज्ञकल्पटीका-कृद्वाक्येषु सर्वेषु सम्भावितत्वं प्रमितत्वमपि । चन्द्रिकातत्प्रकाशकृतां महात्मनां वचनै-स्तथावगमात् । वचनानि तु न्यायामृते
चित्रैः पदैश्च गम्भीरैर्वाक्यैर्मानैरखण्डितैः ।
गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक् ।। इति ।
चित्रैः उक्तरीत्या विन्यासविशेषशालिभिः नानार्थबोधनसमर्थैश्च । गर्भिणीपक्षे अलस-भावेन मन्थरगतिशालित्वादिवैचित्र्योपेतैः । गम्भीरैर्बह्वभिप्रायशालिभिः । गर्भिणीपक्षे स्वर-विशेषपूर्वकं मन्दं निःसरद्भिः । अखण्डितैः प्रतिवादिभिर्दूषयितुमशक्यैः । मानैः स्वप्रति-पादनीयप्रत्यक्षादिप्रमाणैः । गुर्विणीपक्षे रतौ नखदन्तादिभिरखण्डितैर्मानैर्गोपनीयस्थलविशेषैः कुचारधरादिभिः । गर्भिणीगमननिषेधात् । गुरुभावं गुरूणां मूलकारप्राचीनटीकाकारसन्न्याय-तत्नावल्ल्यादिकृतां भावं । व्यञ्जयन्ती प्रकटीकुर्वती । सुधादिषु सन्न्यायरत्नावल्ल्याद्युपपत्तेरपि प्रदर्शितत्वात् । तथा गुरुर्बहुः यो भावः स्वाभिप्रायः तं व्यञ्जयन्ती शिष्यान् बह्वभिप्रायकमिदं वाक्यमिति द्योतयन्ती । विन्यासविशेषादिभिः शिष्याणां तदवगमात् । गर्भिणीपक्षे तु गुरोर्गर्भधारणप्रयुक्तशरीरगौरवशालिन्याः स्वस्याः । वोतो गुणवचनादित्यनेन ङीषो विकल्पित-त्वात् । भावं गर्भरूपं पदार्थं धर्मं वा । विशेषणमात्रसाम्यादप्रस्तुतगर्भिणीप्रतीत्या गर्भो निगूढो यथा चिह्नमात्रानुमेयः तथा टीकाभावोऽपीति ध्वन्यते । तथा सुधापरिमले चन्द्रिका-प्रमाशकृतां वाक्यं
यद्यपि
प्रतिवाक्यं प्रतिपदमनेकाकूतगर्भिता ।
प्रतिभाति सुधाऽथापि ग्रन्थाल्पत्वाय नोच्यते ।। इति ।
तेषामेव भावदीपिकायां वचनम् ।
टीकावाक्यस्य गम्भीर्यं मर्शं मर्शं पुरो मनः ।
न गाहतेऽथापि ग्रन्थबहुत्वादुपरम्यते ।। इति ।
तस्मादुक्तसर्वव्याख्या युक्ता एवेति ।
प्रतिषेधेत्यस्य चरमव्याख्यानातिरिक्तपूर्वतनप्रधानव्याख्यापक्षेषु साध्याभावत्वेन ज्ञान-स्यावश्यकत्वे किमागतमित्यतस्तटस्थशङ्कासमाधानाभ्यामुपपादितव्यतिरेकव्याप्त्यग्रहरूप-पूर्वार्थोपपादकत्वं स्मारयति ।। प्रतिषेधस्येति ।। हेत्वभावनिष्ठप्रकृतसाध्यानुमित्यौपयिक-व्यापकतानिरूपकतावच्छेदकरूपविशिष्टसाध्याभावज्ञानस्येत्यर्थः । प्रतियोगिसापेक्षता-नियमात् तादृशरूपघटकप्रतियोगिग्रहाधीनत्वनियमात् । तेन वस्तुतः प्रतिषेधरूपाभावस्य नैयायिकादिरीत्या प्रतियोगिसापेक्षत्वोपपादनस्य प्रकृतानुपयोगेऽपि ज्ञाने लक्षणायां तु प्रमेयत्वाभावत्वादिना तद्ज्ञाने प्रतियोगिग्रहस्यानपेक्षायामपि न क्षतिः । प्रमेयत्वादेरनुमिति-कारणग्रहविषयहेत्वभावनिष्ठव्यापकतानिरूपकतानवच्छेदकत्वात् ।
प्रतिषेधाकारेति भागस्य चरमव्याख्यानपक्षे तु, ननु भावस्थले साध्याभावघटित-व्यतिरेकव्याप्तिज्ञानस्यानुमितिजनकत्वानङ्गीकारे का क्षतिरित्यत आह ।। प्रतिषेधस्येति ।। साध्याभावव्यापकहेत्वभावप्रतिषेधस्य तद्रूपहेतोः । प्रतियोगिसापेक्षत्वनियमात् साध्याभाव-प्रतियोगि वा व्याप्तिप्रतियोगि वा यत्साध्यं तत्सापेक्षत्वं तद्विनाऽनुपपद्यमानत्वं तस्य नियमात् । तन्नियमस्याभावसाध्यकस्थले भवतैवाङ्गीकृतत्वादित्यर्थः । तथा चाभाव-साध्यकस्थल इव भावसाध्यकस्थलेऽपि साध्यं विनाऽनुपपद्यमानत्वग्रहाधीनानुकूल-तर्कसचिवपरामर्शसद्भावे तदनङ्गीकारो निर्बीजः । निर्निमित्तं तथाङ्गीकारेऽभावसाध्यक-स्थलेऽपि व्यतिरेकिपरामर्शकारणत्वं न स्यादिति भावः ।
यद्वा प्रतिषेधस्य प्रतिषेधावगाहिपरामर्शघटितसामग्य्राः प्रतियोगिसापेक्षत्वनियमात् कारणताद्वारा स्वनिरूपकीभूतानुमितिरूपकार्योपधाननियमस्याभावसाद्ध्यकस्थले भवतैवाङ्गी-कृतत्वादित्यर्थः । पर्यवसितभावस्तु पूर्वोक्त एव ज्ञातव्यः ।
वादी सामान्यप्रसिद्धिमाशङ्कते ।। सत्त्वासत्त्व इति ।। सत्त्वासत्त्वे परस्परसमानाधि-करणाभावप्रतियोगिनी धर्मद्वयात्मकत्वात् रूपरसोभयवदित्यर्थो लघ्वद्वैतचन्द्रिकादिशाऽवसेयः ।
निष्कर्षस्तु सत्त्वासत्त्वोभयत्वविशिष्टं स्वप्रयोजकापेक्षाबुद्धिविषयौ यौ धर्मौ तत्तदवच्छिन्न-प्रतियोगिताकाभावकूटत्वावच्छिन्नाधिकरणताकं तदवच्छिन्नाभावाधिकरणतासमानाधिकरण-तदवच्छिनानाभावाधिकरणताकं वा द्वित्वविशिष्टधर्मत्वात् रूपरसोभयवदिति । अत्र शुद्धात्म-घटोभयविषयकापेक्षाबुद्ध्यधीनोभयत्वविशिष्टे आत्मव्यतिरेकाप्रसिद्ध्या व्यभिचारवारणाय घटशशविषाणे इति विकल्पाख्यापेक्षाबुद्ध्यधीनतादृशद्वित्वविशिष्टे तन्मते असत्प्रतियोगिका-भावानङ्गीकारेण व्यभिचारवारणाय वा धर्मपदं कालसम्बन्धितादात्म्यमात्रवदर्थकम् । आत्मनः शशविषाणादेश्च कालसम्बन्धानङ्गीकारात् तत्तादात्म्यवतोरुभयत्वविशिष्टयोर्वारणमित्याहुः । धर्मत्वमविवक्षितमेतत्तात्पर्यग्राहकमेवेत्यपि केचित् ।
अत्र सत्त्वासत्त्वोभयत्त्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकं अत्यन्ताभाव-प्रतियोगितावच्छेदकं वा धर्मपर्याप्तोभयत्वात् रूपरसोभयत्ववत् । प्रतियोगितावच्छेदकता स्वरूपसम्बन्धावच्छिन्ना ग्राह्या । अतः प्रत्येकं सदसतोरुभयाभाववत्त्वेऽपि न सिद्ध-साधनावसर इत्यपि केचिन्निष्कर्षयन्ति ।
।। सामान्यत इति ।। सत्त्वाभावासत्त्वाभावयोरेकत्रानुमानेन तदुत्तरमानसबोधेन वा सिद्धौ सत्त्वाभावविशिष्टासत्त्वाभावरूपस्य वा तदनतिभिन्नार्थरूपसदसद्वैलक्षण्यात्मका-निर्वचनीयत्वस्य वा सामान्यतः सिद्धिरित्यर्थः । ननु सदसती एकधर्मिनिष्ठभेदप्रतियोगिनी इति साक्षादेव सदसद्वैलक्षण्यरूपानिर्वचनीयसिद्धिं विहाय कुतो वक्रतेति चेन्न । सत्त्वाभावविशिष्टासत्त्वाभावस्यापि सदसद्वैलक्षण्यपदव्यवहृतिगोचरतया सत्त्वासत्त्वयोरनुगत-तया कथञ्चिन्निर्वक्तुं शक्यत्वेन लाघवेनोक्तरीत्यनुसरणं कृतम् । सदसतीत्युक्तरीत्यनुसरणे भेदद्वयसिद्ध्या अनिर्वचनीयसिद्धिर्न स्यात् । अधिकप्रयत्ने गौरवं स्यादिति तत्पक्षोपेक्षणात् ।। अभिधेयत्वादाविति ।। अभिधेयत्वप्रमेयत्वोभयत्वविशिष्टे इत्यर्थः ।। तस्यापीति ।। पक्षतुल्यत्वे इति ।। ‘न हि पक्षे पक्षसमे वा व्यभिचारः’ इति प्राचीनोक्तेरित्यर्थः ।
।। व्याघातादिति ।। तमुपपादयति ।। तस्यापीति ।। किञ्चिदादीति ।। तथा च स्वयमुक्तसाध्यसाधनाय यत्किञ्चिच्छब्देन तमभिधाय पुनस्तन्निराकरणे स्वकीयतत्प्रतिपादन-व्याघातरूपस्वक्रियाविरोध इत्यर्थः । किं चाभिधेयत्वप्रमेयत्वरूपयत्किञ्चित्केवलान्वयिधर्माणां पक्षतुल्यत्वं सर्वेषां वा । नाद्यः । उर्वरितेष्वेवानैकान्त्यापातात् । द्वितीये तु सर्वेषां केवलान्वयिधर्माणां पक्षतुल्यत्वेऽपि परस्परविरुद्धानां व्यतिरेकिधर्माणामपि मिलित्वा किञ्चि-न्निष्ठात्यन्ताभावप्रतियोगित्वमावश्यकम् । अन्यथा तदुभयस्मिन्नेव व्यभिचारप्रसङ्गात् । तथा च घटत्वाभावाधिकरणे तादृशयत्किञ्चिद्व्यक्तौ घटत्वतद्व्याप्यतत्समनियतधर्माभावानामा-वश्यकत्वम् । एवमघटत्वतत्समनियततद्व्याप्यधर्माभावनामपि तत्रैव सत्त्वमावश्यकम् । केवलान्वयिभूतप्रमेयत्वघटत्वाघटत्वान्यतराधिकरणतैतदुभयस्मिन् व्यभिचारवारणाय तत्तद-भावोऽपि तत्रैव स्वीकृतः स्यात् । तथा च तन्निष्ठसर्वधर्माभावाधिकरणत्वे किञ्चिन्निष्ठाभाव-प्रतियोगित्वाभावाद्व्यभिचार इत्याह ।। किञ्चेति ।। न च तस्यैकत्वादुभयधर्मपदेन तद्ग्रहणा-योगात्कथं व्यभिचार इति वाच्यम् । सर्वधर्माभावाधिकरणतापदेन तन्निष्ठाघटत्वाभावाधि-करणताघटत्वाभावाधिकरणतैतदुभयस्मिन् एवमन्यान्यप्युपादाय व्यभिचार इत्यत्र तात्पर्यात् ।। तस्यापीति ।। तादृशोभयस्यापीत्यर्थः ।। विरुद्धमिति ।। अघटत्वाभावस्य घटत्वाभावस्य चाभावे एकस्मिन् सति तत्र घटत्वमघटत्वं एवमपटत्वाभावस्य पटत्वाभावस्य चाभावे तस्मिन्नेव च सति पटत्वमपटत्वं चेति क्रमेण सर्वविरुद्धधर्मवत्त्वमेकस्यापद्येतेत्यर्थः ।
वस्तुतः प्रमेयत्वादौ व्यभिचारवारणाय तद्धटितोभयस्यापि पक्षत्वे न केवलं व्याघातः । अपि तु सर्वधर्माणां कुत्राप्यभावेन सर्वधर्मत्वावच्छिन्नाभावस्यापि केवलान्वयितया तादृशा-भावप्रमेयत्वैतदुभयस्मिन्नुक्तसाध्याभावद्व्यभिचारः । तस्यापि पक्षत्वे प्रमेयत्वाभावसर्वधर्मा-भावत्वावच्छिन्नाभावयोः एकस्मिन् स्वीकारे सर्वधर्माधिकरणत्वमेकस्य विरुद्धमापद्येतेत्याह ।। किञ्चेति ।। सर्वधर्माधिकरणत्वेनेति यथाश्रुतविवक्षया । हेतोरुक्तोभयधर्मत्वपर्यन्तविवक्षायां तु तद्धटितोभयेनेत्यर्थ इति सारम् । सर्वधर्माणां यावन्तो धर्माः तेषां यथाश्रुते । निष्कर्षे तद्धटितोभयेषाम् । अन्यथा तत्र तत्रैव व्यभिचारः स्यादिति भावः ।
एतेन ‘सर्वधर्माणां पक्षत्वापादनमसङ्गतम् । व्यतिरेकिधर्मेषु सिद्धत्वेन सिद्धसाधनतया पक्षीकर्तुमशक्यत्वात् । साधनपदस्याङ्गीकारार्थकत्वेनोक्तदोषपरिहारेऽपि सर्वधर्माभावो नाम धर्मत्वावच्छिन्नाभावरूपः तत्सामान्याभाव एव । तत्र व्यभिचारवारणाय तत्रोक्तसाध्यादरे एकस्य विरुद्धसर्वधर्मवत्त्वं नापादयितुं शक्यम् । धर्मसामान्याभावस्य धर्ममात्रविरोधितया यत्किञ्चिद्धर्मसत्तामात्रेण धर्मसामान्याभावाधिकरणत्वासम्भवात् । अन्यथा घटसामान्या-भावाधिकरणत्वाभाववति सर्वघटवत्त्वं स्यात्’ इति परास्तम् ।
ननु धर्मपदस्य भेदप्रतियोगितावच्छेदकत्वरूपव्यतिरेकित्ववद्धर्मपरतयैव हेतुशरीरे सार्थक्यम् । न च तथात्वेऽपि व्यतिरेकिधर्मघटितोभयात्मकत्वस्य प्रमेयत्वघटत्वोभयस्मिन् सत्त्वेनोक्तसाध्याभावाद्व्यभिचार इति वाच्यम् । व्यतिरेकिधर्ममात्रघटितोभयात्मकत्वस्य विवक्षितत्वात् । तथा च केवलान्वयिधर्माणां किञ्चिन्निष्ठाभावप्रतियोगित्वानङ्गीकारान्न पूर्वोक्तव्याहत्यादीत्यत आह ।। अविरुद्धत्वं चोपाधिरिति ।। चस्त्वर्थे । उपाद्ध्यन्तराकथनेन समुच्चायकत्वायोगात् । तुशब्दार्थविशेषस्तु परस्परात्यन्ताभावात्मकत्वरूपविरोधघटितत्वम् । तेन सहानवस्थानरूपविरोधनिवेशे घटत्वस्तम्भत्वयोरेकनिष्ठात्यन्ताभावप्रतियोगिनोरुक्तविरोध-शालित्वाद्व्यभिचारः । परस्परविरहव्याप्यत्वं चेदपि स एव दोषः । परस्पराभावानात्मकत्वं चेत् रूपतत्प्रागभावरूपतद्ध्वंसयोः परस्परध्वंसप्रागभावात्मकयोरेकवायुनिष्ठात्यन्ताभाव-प्रतियोगिनोर्व्यभिचार इति निरस्तम् । न चोक्तरूपविरोधनिवेशेऽपि संयोगतदत्यन्ताभावयोरेक वृक्षवृत्तिपरस्परात्मकात्यन्ताभावप्रतियोगिनोर्व्यभिचारः । नैयायिकमतरीत्या दूषणकथनावसरे शुद्धसिद्धान्तसिद्धतदव्याप्यवृत्तित्वाभावस्यानाश्रयणीयत्वात् । तथात्वेऽपि वा रूपात्यन्ता-भावाभावात्मकघटीयतद्रूपरूपात्यन्ताभावयोरेकपटनिष्ठात्यन्ताभावप्रतियोगिनोर्व्यभिचार इति वाच्यम् । सत्त्वासत्त्वयोरुक्तरीत्याऽत्यन्ताभावप्रतियोगितयाऽर्थान्तरवारणाय पूर्वोक्तपरिष्कारे कूटत्वावच्छिन्ननिरूपकताकाधिकरणतायामनवच्छिन्नत्वस्य निविष्टतया संयोगतदत्यन्ता-भावात्मकोभयस्मिन् व्याप्यदलस्यैवाभावात् । यदुभयं स्वप्रयोजकापेक्षाबुद्धिविषयौ यौ धर्मौ तद्धर्मावच्छिन्नाभावनिरूपितानवच्छिन्नाधिकरणतासमानाधिकरणतद्धर्मावच्छिन्नाभावनिरूपितान-वच्छिन्नाभावाधिकरणताकत्वरूपं वा तद्धर्मावच्छिन्नाभावकूटत्वावच्छिन्ननिरूपितान-वच्छिन्नाधिकरणताकत्वरूपं वा यत्साद्ध्यं तद्वत् तत् स्वावच्छिन्नप्रतियोगितानिरूपितानु-योगितावच्छेदको यो धर्मः तदवच्छिन्नप्रतियोगितानिरूपितानुयोगितावच्छेदकं च यत्स्वं तदवच्छिन्नतदवच्छिन्नविषयकापेक्षाबुद्धिजन्योभयत्वविशिष्टभिन्नत्वरूपाविरुद्धत्ववदित्यादिरीत्या परिष्करणादरे सर्वदोषाभावात् । तद्रूपरूपाभावोभयोपादाने तद्रूपत्वस्य रूपाभावत्वा-वच्छिन्नप्रतियोगितानिरूपितानुयोगितानवच्छेदकत्वेनोक्तभिन्नत्वरूपाविरोधाक्षतेः । सत्त्वा-सत्त्वयोरप्रामाणिकात्यन्ताभावनियमपक्षेऽपि परस्परविरहात्मकत्वमुपपादितमधस्तात् । तत्रैव रूपघटितपरिष्कारे तत्पक्षेऽपि न दोष इत्यलम् ।
यद्वा चशब्दः पक्षेतरत्वात्मकसत्वासत्त्वोभयभेदस्योभयत्वानाश्रयत्वरूपस्य चोपाद्ध्यन्त-रस्य समुच्चायकः । ख्यातिबाधानुपपत्त्यादिरूपानुकूलतर्कस्य परेण स्वग्रन्थे लिखितस्याग्रेऽर्था-पत्तिनिरासेनार्थतो निरस्ततया पक्षेतरत्वस्योपाधिताया आवश्यकत्वात् ।
यद्वा चशब्द उपाधिश्चेति भिन्नक्रमेण योजितः सन्न्यायामृतोक्ताभाससाम्यादिदूषणान्तर- समुच्चायकः । अनुकूलतर्कसद्भावे पक्षे साद्ध्यव्यापकताभङ्गेनोपाधेरप्ययोगादुपाधिं वदताऽनुकूलतर्काभावसूचनद्वाराऽऽभाससाम्यस्यापि सूचितत्वात् । तानि च घटत्वाघटत्वे किञ्चिन्निष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वात् रूपरसवत् कल्पितत्वमकल्पितत्वानधि-करणानात्मनिष्ठात्यन्ताभावप्रतियोगि अनात्मनिष्ठात्यन्ताभावप्रतियोगिधर्मत्वात् अकल्पितत्व-वदित्यादीन्यनुमानापि चेतनाचेतनत्वसुनिरूपत्वदुर्निरूपत्वादिकमेकस्यैव स्यादित्यादीनि दूषणान्तराणि द्रष्टव्यानि ।
यदत्र केनाचिदुक्तं ‘धर्मत्वमात्रेणोक्तसाद्ध्यं साधयतो मम घटत्वाघटत्वयोरप्युक्त-साद्ध्यवत्त्वमिष्टमेव । न हि क्षितिः सकर्तृकेत्यनुमानस्याङ्कुंर सकर्तृकमित्यनेनाभाससाम्यम् । न च घटाघटविलक्षणत्वं वास्तवं येन विरोधः स्यात् । न हि वस्तुनो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवं भवति । कल्पितत्वपक्षकानुमानमपि मदिष्टमेव । सत्त्वासत्त्वयोरपि नोक्तरूप-विरोधः । अनिर्वचनीयार्थ एवाभावद्वयस्य सत्त्वात्’ इत्यादि ।
तल्लघूक्त्या दूषयितुमुपलक्षणतया यत्किञ्चिदाशङ्कते ।। न चेति ।। सत्त्वासत्त्वे अपि यथा रूपरसादिकं न विरुद्धं तथा सत्त्वासत्त्वे अपीत्यर्थः । तथा चोपाधिः साधनव्यापक इति भावः । उपलक्षणं चैतत् । कल्पितत्वाकल्पितत्वादिधर्मा अपि ग्राह्याः । तेन पूर्वोक्ता-भाससाम्याद्युद्धारः । न विरुद्धे अपीति योजनया अपिशब्देनोक्तार्थोपपादकमतात्विकत्वमपि लभ्यते । सर्वं सङ्गृह्यैकोक्त्या दूषयति ।। अनिर्वचनीयार्थेति ।। अनिर्वचनीयरूपो योऽर्थो-ऽसदन्यः कालसम्बन्धी वा तत्प्रतीतेः प्रागित्यर्थः । अस्मन्मतेऽपि शशविषाणादिशब्देनासत इवानिर्वचनीयसदसद्विलक्षणादिशब्दैस्तादृशासत एव प्रतीतिसम्भवात् । प्राक्पदलभ्य-तत्प्रतीतिदौर्लभ्यमयुक्तमिति शङ्कापनोदायेदमुदितम् । कालसम्बन्धासदन्यत्त्वोपपाद्यानां सत्त्वाभावाधिकरणतासमानाधिकरणासत्त्वाभावाधिकरणतादीनां अविरोधसम्पादकानां तदभावे उपपादयितुमशक्यत्वात् । न च सद्विलक्षणत्वविशिष्टासद्विलक्षणत्वरूपेण प्रतीयमानस्य कालसम्बन्धवत्त्वेनाऽपि प्रतीयमानस्य तस्यैवासत्त्वे कालसम्बन्धोऽसदन्यत्वमसत्यप्यागतमिति कथं तेन तद्व्यावृत्तिरिति वाच्यम् । वस्तुतः सद्रूपकालसम्बन्धवत्त्वादेरेव विवक्षिततया तत्प्रतीतौ भासमानयोस्तयोरप्यसत्त्वेऽनिवारणात् । वस्तुतः सद्रूपत्वं च सत्तामत्त्वमेव । तत्र सत्तासंसर्गस्य संसर्गविधयैव निवेशान्न कोऽपि क्षुद्रोपद्रवः ।
।। अविरोधेति ।। सत्त्वासत्त्वाभावयोरुक्तविरोधाभावस्य आभाससाम्यादिना प्राप्ता-प्रयोजकत्वव्याप्तिग्राहकतर्काभावमूलकहेतुनिष्ठव्याप्त्यभावरूपविरोधस्य च योऽभावस्तस्या-प्रतीतेः सर्वलौकिकवैदिकानामपीत्यर्थः । असिद्धेरित्युक्तौ प्रतिवादिमात्रं प्रति असिद्धत्वस्य झडिति प्रतीत्या परार्थन्यायप्रयोगासम्भवेऽपि स्वार्थानुमितिसामग्री सम्भाव्येत । अतोऽ-प्रतीतेरिति सामान्येनोक्तम् । तेन सर्वथाऽनाहार्यप्रतीतेरभावात्स्वार्थानुमितिरेव न घटते । कुतस्तन्मूलकपरार्थन्यायप्रयोगादिकमिति लभ्यते ।
अयमभिप्रायः । उपाधिर्हि पक्षादिप्रविभागोत्तरमुपस्थितः सत्प्रतिपक्षस्योत्थापकः । व्याप्तिग्रहवेलायामुपस्थितो व्यभिचारोन्नायको भवतीत्यन्यत्राभिहितम् । तत्रोपाद्ध्युद्भाव्यस्य विरुद्धत्वरूपसत्प्रतिपक्षहेतोरसिद्धिग्रहः केन भवति । न तावत्प्रमाणान्तरेण । त्रैकालिक-निषेधरूपासत्त्वतदभावरूपसत्त्वयोर्भवता पक्षीकृतयोर्घटत्वतदभावादीनामिव विरोधग्रहस्यैव प्रमाणान्तरेण जननात् । न हि कुत्रापि विरोधग्रहो न सम्भवति । तथात्वे लोकानां विरोधाविरोधग्रहाधीनसर्वप्रवृत्तिनिवृत्त्याद्युच्छेदप्रसङ्गात् । न हि प्रमाणानि स्वशक्तिमपहाय त्वदिच्छामात्रेण कार्यं जनयन्ति । तथा सत्यनुमानस्येव प्रत्यक्षस्यानुमितिजनकत्वमप्या-पद्येन । मम तादृशग्रह आनुभविक इति चेत् उन्मादवत्पुरुषाणां दोषविशेषाधीनमानसस्येवानु-मानशब्दादिजन्यानुमितिशाब्दादिना स्वयमपि प्रवृत्त्यादिकं लोकव्यवहारसदृशमेव शब्दा-त्प्रत्येमि लिङ्गात्प्रत्येमीति व्यवहारं चानुतिष्ठतः व्यवहारविशेषज्ञाप्योक्तज्ञानधर्मिकप्रत्यक्ष-वैलक्षण्याद्यनुभववतोऽपि चार्वाकस्य प्रत्यक्षातिरिक्ते अप्रामाण्यभ्रमस्य मानस्य दोष-विशेषेणाऽग्रहापरपर्यायेच्छादिनाऽहार्यरूपतया जायमानस्येव त्वज्ज्ञानस्यापि तादृशभ्रमरूपत्व-सम्भवेन तस्योक्तानुमित्यादि कार्यनिर्वाहकत्वात् । व्यवहारादेस्तु तन्मूलकाहार्यभ्रमान्तरद्वारैव निर्वह्निर्वह्निमानित्यादिव्यवहारस्येव सम्भवात् । आग्रहादिशून्यलौकिकानां धूमानुमानादि-सामग्य्रा इवोक्ताविरोधग्रहसामग्य्राः कदाप्यभावात् । अत एवोक्तमाचार्यैः
ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् । इति ।
उन्मत्तैरिति तत्सदृशदोषविशेषकथनेन परकीयप्रक्रियायाः लौकिकपरीक्षकबुद्ध्यगोचरत्व-कथनेनाऽग्रहादिमूलकत्वमुच्यते । तस्मात्स्वार्थानुमाने प्रवृत्तस्याविरोधग्रहः सम्भवतीति न सङ्गच्छते । नाप्येतेनैव । उपाध्युन्नेयसत्प्रतिपक्षहेतोरसिद्ध्युत्तरमेवोक्तानुमानैः तत्सजातीयानु मानान्तरैर्वाऽनिर्वचनीयार्थसिद्धेः सम्पादनीयतयाऽन्योन्याश्रयात् ।
न च प्रतिहेतोः सन्दिग्धासिद्धत्वेन दुर्बलता बाधकत्वायोगेन स्थापनानुमनेन साध्य-सिध्द्या निश्चितासिद्धो भवतीति वाच्यम् । अन्यत्र घटत्वतदभावादावनुत्पन्नस्य विरोध-संशयस्यात्रैवोत्पत्तौ बीजाभावान् सर्वत्र तदुत्पत्तौ तन्मूलनिश्चयाधीनप्रवृत्त्यादिकार्यविलोप-प्रसङ्गात् । अनुकूलतर्कानुत्थाने सन्दिग्धोपाधेरपि दूषकत्वाच्च । व्याप्तिग्रहवेलायामुपाधिस्फूर्ते-रावश्यकतया व्याप्तिनिश्चयस्याप्ययोगाच्च । घटत्वाघटत्वादीनामाभाससाम्ये उपस्थिते अतात्विकत्वादिग्रहाधीनतच्छमनस्यापि कुत्रापि तद्ग्रहाभावदशायामयोगाच्च । स्वाप्नादावपि कल्पिताकल्पितवैलक्षण्यस्य शुक्तिरजते रजतारजतवैलक्षण्यस्य च लोकानामनुभवविरुद्ध-त्वात् । इत्थं च स्वार्थानुमित्यनुपपत्तौ परार्थानुमानस्यापि वादिनं प्रत्यनिर्वचनीयसिद्धेः प्राक् प्रयोक्तुमशक्यतया ‘उभयोरपि कल्पितत्वेनाविरोधः, ‘स्वरूपतोऽतात्विकस्य न हि किञि-दपि रूपं वास्तवं भवति’ ‘अस्याः प्रसक्तेरिष्टत्वात्’ इति त्वदुक्तेरकिञ्चित्करत्वेमेव । त्वदनुमानसाध्यीभूतसत्त्वाभावाधिकरणताऽसत्त्वाभावाधिकरणतासत्वासत्त्वैतच्चतुष्टयं पक्षीकृत्यैकधर्मिनिष्ठात्यन्ताभावप्रतियोगित्वस्य धर्मचतुष्टयत्वादिहेतुना रूपरसगन्धस्पर्शैतच्चतुष्ट-यदृष्टान्तेन साधने सदसद्विलक्षणविलक्षणत्वादिकस्याप्योवंरीत्या सिध्द्यापत्त्या सप्तभङ्गित्वस्य जगति सिद्ध्यापत्तेश्च । अतात्विकत्वादेरसिद्धतया तेन समाहितुमशक्यत्वाच्च ।
अथ मिथ्यात्वबोधकश्रुतीनामुपक्रमादिलिङ्गानुगुण्येन स्वार्थतात्पर्ये निश्चिते तद्विरुद्ध-प्रमाणानामबाधकत्वनिश्चयात्सर्वोप्ययमर्थकलापोऽन्यथानुपपत्तितन्मूलकस्वार्थानुमितिगोचरो भवत्येव । प्रतिवादिनं प्रत्यपि श्रुतिबलेन प्रत्यक्षमाभासीकृत्यान्यदुपपाद्यत इति चेन्न । श्रुत्यर्थनिर्णयार्थं प्रवृत्तस्योपपत्तिविरोधादिपरिहारायानिर्वचनीयत्वादितृतीयप्रकारकल्पना प्रतियोग्यभावादिविरोधपरिहाराय विषमसमानसत्ताकनानाभावादिलोकासिद्धबहुतरपदार्थ-कल्पना चेति गौरवसहनेन श्रुतीनां मिथ्यार्थकत्वमेव ग्राह्यमुत कल्पनागौरवमपहाय सत्यत्वा-द्युक्तार्थकत्वमेवेति तात्पर्यसन्देहकवलितत्वेन श्रुतितात्पर्यनिश्चयोपायाभावात् । प्रत्युतोक्त-गौरवानुसन्धानेन मिथ्यात्वं यदि दुःखादेरित्याद्यनुव्याख्यानसुधाद्युक्तदिशा मिथ्यात्वपरत्वा-भावस्यैव निश्चयात् । एवं प्रतिवादिबोधनमप्युक्तम् । उक्तबाधकपरिहारमन्तरेण तं प्रत्युपपत्तिविरुद्धायाः श्रुतेरुपन्यस्तुमशक्यतया तत्परिहारस्य श्रुत्यर्थनिश्चयात्प्राक् कर्तुमशक्य-तया अन्योन्याश्रयेण साधनोपायाभावात् । तदेतदभिप्रेत्योक्तं सुधायां
‘शिष्योऽपि प्राक् प्रबोधात् प्रतिवादितुल्य एव’ इति । ‘अन्योन्याश्रयमनुत्तीर्णः कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्येत’ इति । ‘श्रुतीनामद्यापि गहननिविष्टत्वात्’ इति च ।
तस्मात्साध्याप्रसिद्धिर्दुर्वारैवेति स्थितम् । प्रतिवादिवाक्यादिना वा कस्यचिदुपदेशादिना वा कथञ्चित्साध्यस्योपस्थित्या तदभावग्रहपूर्वकव्यतिरेकव्याप्तिनिश्चयः सम्भवतीति नाप्रसिद्ध-विशेषणता दूषणमिति सुधायां व्यवस्थापितत्वात् औतमतेऽपि तददूषणत्वस्य तत्र तत्र तैरुक्तत्वात्कथमिदं दूषणमुक्तमित्यत आह ।। तदिदमिति ।। तत् परेण स्वग्रन्थे आशङ्क्य सामान्यप्रसिद्ध्युपपादनादिना परिहृतम् । इदमेतन्मूलेनाचार्यैरुक्तं इदानीमस्माभिर्व्याख्यातम् । परसिद्धं नैयायिकसिद्धमित्यर्थः । इदमित्येव पूर्तावुक्तार्थकेन तत्पदेनैतदपि परिहृतं ‘स्वमत-सिद्धदूषणमपहाय नैयायिकसिद्धस्वपरिहृतदूषणमात्राभिधाने अथात इति सूत्रस्य प्रथम-प्रतिपन्नश्रौतार्थमुल्लङ्घ्य चरमप्रतिपन्नार्थिकार्थप्रतिपाकपरभाष्यकारस्येव ग्रन्थकृतोऽकुशलत्वं स्यात्’ इति । परेण स्वग्रन्थे अप्रसिद्धविशेषणत्वमाशङ्क्य स्वसिद्धं तददूषणत्वरूपं समाधान-मपहाय पराभिमतरीत्यैव समाधातुं सामान्यप्रसिद्ध्यादेः प्रदर्शितत्वात्तस्यैव दोषस्यादौ व्यवस्थापने परस्यात्यन्ताकुशलत्वं प्रकटीकृतं भवतीत्याचार्यैस्तदेव स्फुटमभिहितमित्यभि-प्रायात् ।। अन्यत्रेति ।।
आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ।
केषाञ्चिन्न च ते दाषा व्याप्तौ सत्यां कथञ्चन ।।
इत्यनेन भक्तिपादीयानुव्याख्यान इत्यर्थः ।। आचार्यैरेवेति ।। तेन ‘आचार्यैरत्राप्रसिद्ध-विशेषणतायाः कण्ठत उक्तात्वात् तस्य दूषणत्वमेव भवद्भिर्व्यवस्थापनीयम् । बाधकभया-न्नैयायिकसिद्धत्वाभिधानं भवतामयुक्तम्’ इति शङ्का परिहृता । एवकारस्तु स्थानान्तर-स्थाचार्यवाक्यमपि न बलादस्मदानुगुण्येन योज्यते । किं तु कण्ठत एवोक्तमिति सूचयति ।। स्वव्याघातादिकमिति ।। आदिपदेन प्रमाणबाधपरिग्रहः ।। ऊहनीयमिति ।। मूलार्थतयेति शेषः ।
अप्रसिद्धविशेषणत्वमित्यस्याप्रमितविशेषणकत्वमित्यर्थो लभ्यते । प्रेत्युपसर्गेण सिद्धौ प्रमितित्वलाभात् । अप्रमितविशेषणकत्वं च द्वेधा । साध्यतावच्छेदकस्य साध्ये अभावः प्रकृतानुमितेः प्राक् साध्यतावच्छेदकविशिष्टस्य सामान्यतोऽपि क्वचिदप्रमितत्वम् । तत्राद्यं सर्वमतेऽपि दूषणम् । अस्मन्मतेऽपि तस्य प्रतिज्ञाविरोधान्तर्गतत्वात् । तत्र द्वितीयस्या-प्रसिद्धविशेषणत्वेन प्राचां बहुतरव्यवहारात्तत्पदेन तस्यैव झडिति प्रतिभासादुक्तरीत्या पराचातुर्यप्रकटनाय प्रथमतस्तदेवास्माभिर्व्याख्यातमत एवेदमित्युक्तम् । स्वमते तु प्रकृतानुमितेः प्राक् क्वचिदप्यप्रमितत्वस्यादूषणत्वे किं विश्वं सदसद्विलक्षणमित्यनुमानस्यापि साधकत्वमुत व्याप्त्यभाव इत्यादिविकल्पेष्वाद्यपक्षदूषणत्वेन–
अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ।
इत्यनुव्याख्यानस्य प्रवृत्त्या तद्रीत्या सुज्ञानमित्यस्माभिर्न प्रसर्शितम् । शिष्यैर्मूलार्थतयै-वोह्यमित्यर्थः ।
एतेन ‘परसिद्धमात्रदूषणस्य प्रथमतः अभिधाने उक्तप्रयोजनसद्भावेन प्रथमतस्त-स्योचित्वेप्यनन्तरमवश्यं वक्तव्यस्य स्वमतसिद्धदूषणस्यानभिधाने मूलकृतां न्युनता । उक्त-रीत्या मूलेन स्वव्याहत्यादेरपि लाभे सम्भवति पूर्वमूलेषु नानायोजनाभेदं प्रदर्शितवतां टीकाकृतामत्र प्रद्वेषे बीजाभावः’ इति पूर्वपक्षानवकाशः । मूलकृतोक्तत्वात् उक्तरीत्या टीकाकृतापि योजितत्वात् । स्वव्याहतिप्रकारश्च निर्वचनाविषयत्वमनिर्वचनीयत्वमित्युक्ते अनेनैव रूपेण निर्वचनात्स्वकीयनिर्वचनक्रियाव्याघातः । सदसद्विलक्षणमित्युक्तौ विश्वमसन्ने-त्युक्ते सदित्येवोक्तं स्यात् ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति न्यायात् । पुनस्तन्निषेधे कथं न स्वव्याहतिरित्यादिरन्यत्र टीकाकृत्प्रदर्शित एव । उक्तन्यायार्थस्तादृश-वाक्यात्पुनस्तल्लाभप्रकारश्च कर्मनिर्णयटीकातोऽवगन्तव्यः । विस्तृतिभयान्नेह प्रपञ्च्यते ।
सद्विलक्षणत्वसामान्ये असत्त्वस्यैव गृहीतत्वात् असद्विलक्षणत्वसामानाधिकरण्याभाव-ग्राहकप्रमाणविरोधः । प्रत्येकमप्रसिद्धसद्विलक्षणत्वासद्विलक्षणत्वोभयत्वावच्छिन्नत्वस्य साध्य-त्वेऽपि मिथ्यैव रजतमभादिति बाधप्रमया असत्त्वस्यैव गृहीतत्वेन तदवच्छिन्नभेदसाधने पुनः प्रमाणबाध एवेति द्रष्टव्यम् । ननु कथं स्वव्याहत्यादिकम् । प्रतिपन्नोपाधौ त्रैकालिक-निषेधप्रतियोगित्वं बाध्यत्वम् । तदभावोऽबाध्यत्वं सत्त्वम् । तद्वान् सन् । तद्विलक्षणत्वं च बाध्यत्वमेव । असत्त्वं च सत्तादात्म्यशून्यत्वम् । तदवच्छिन्नभेदः सत्तादात्म्यमेव । तथा च बाध्यत्वे सति सत्तादात्म्यं साध्यं पर्यवसन्नम् । तस्य भावाभावरूपत्वाभावादित्यत आह ।। आदीति ।। वक्ष्यमाणदोषा आदिपदग्राह्याः ।
अयमूहप्रकारः । अत्रनिविष्टसत्पदार्थो यद्यबाध्यत्वविशिष्टस्तदा १तत्तादात्म्यमबाध्यत्व-तादात्म्यमेव । तथा च बाध्यत्वे सत्यबाध्यत्वमेवोक्तं स्यात् । इत्थञ्च कथं न स्वव्याहतिः । यदि च सदिति प्रतीमयानस्तदा तत्तादात्म्यं सत्त्वेन प्रतीयमानत्वं तदा अर्थान्तरता । असत्ख्यातिवादिनाऽपि शुक्तिरजतादेः सदिति प्रतीतिगोचरताङ्गीकारात् । अथ तादात्म्यं सम्बन्धविशेषः । तथा चाबाध्यतादात्म्यं नाबाध्यत्वरूपमिति कथं व्याहतिरिति चेन्न । तादृशसम्बन्धः कश्चन नीलघटयोः यादृशतादात्म्यं तज्जातीयादन्यस्तच्छब्दबोध्यश्चेत्तस्य चाबाध्याधिष्ठानकभ्रमविषयत्वादेतज्ज्ञा(त्व अबाध्यज्ञा)ननिवर्त्यज्ञानविषयत्वादेः कस्य-चित्सम्बन्धस्य सत्यपि सम्भवेन तत्साधनमात्रेणासद्व्यावृत्त्ययोगः । प्रसिद्धतादात्म्यसाजात्ये तस्य भेदाभेदसापेक्षत्वेनाबाध्येन सहाभेदस्यापि प्राप्त्याऽबाध्यत्वावच्छिन्नात्यन्तभेदात्मक-बाध्यत्वं तत्र कथं स्यात् । अन्यथा ‘नीलो घटः’ इति प्रतीतिवत् ‘बाध्योऽबाध्यः’ इति प्रतीतिप्रसङ्गः । तद्धर्मावच्छिन्नेन सहात्यन्तभेदग्रहस्यैव तादात्म्येन तद्धर्मावच्छिन्नग्रहं प्रति विरोधित्वेनाबाध्यतादात्म्येन विद्यमानस्य बाध्यत्वस्याबाध्यात्यन्तभेदरूपत्वाभावात् । न चाबाध्यभेदस्य तादात्म्यापेक्षयाऽधिकसत्ताकत्वान्न विरोध इति वाच्यम् । स्वार्थानुमित्याऽ-निर्वचनीयत्वसिद्धेः प्रागुक्तसत्ताकभेदानुपस्थित्या विरोधशान्त्ययोगात् । जगति उक्तभेद-तत्तादात्म्ययोः व्यावहारिकत्वस्यैव वक्तव्यतया विरोधशान्त्ययोगाच्च ।
न च शुक्तितादात्म्यं रजते नाबाध्यत्वावच्छिन्नप्रतियोगिताकं किन्त्विदन्त्वाद्यवच्छिन्न-प्रतियोगिताकमेव । अबाध्यत्वावच्छिन्नप्रतियोगिताकात्यन्तभेदरूपबाध्यत्वस्य सत्त्वान्न ‘अबाध्यो बाध्यः’ इति व्यवहारापत्तिः । अनिर्वचनीयत्वशरीरेऽपि अबाध्यत्वाश्रय-निरूपिततादात्म्यनिवेशान्न कोऽपि दोष इति वाच्यम् । येन केनापि रूपेण तेन सहात्यन्त-भेदवति केनापि रूपेण तेन सह भेदाभेदयोस्तदधीनतादात्म्यस्य च सर्वानुभवविरुद्धत्वात् । अन्यथा करकादितात्पर्यकजलपदघटितजलं पेयमिति वाक्यजानुमानजज्ञानप्रामाण्यप्रसङ्गः । करकादित्वेन पेयत्वेनात्यन्तभेदसद्भावेऽपि त्वद्रीत्या जलत्वावच्छिन्नेन सह तादात्म्यस्या-बाधात् । उक्तञ्च त्वयाऽपि वाचस्पतिकारिकाव्याख्यावसरे ‘युगपद्भिन्नदेशकालवृत्तिनोः कटककुण्डलयोर्हेमत्वादिनाऽपि नाभेदः’ इति । न चैकहेमव्यक्त्युपादानकयोः कटककुण्डलयो र्हेमत्वादिनाऽभेदः तत्कटकत्वेन तत्कुण्डलत्वेनात्यन्तभेदोऽपि तत्रैवोक्त इति येन केनापि रूपेणात्यन्तभिन्नस्य येन केनापि रूपेणाभेदो नास्तीत्येतदयुक्तमेवेति वाच्यम् । तत्रापि ‘एतत्कुण्डलं हेमत्वेन तत्कटकम्’ इत्यप्रत्ययेन हेमत्वेनापि रूपेण तत्कुण्डलप्रतियोगिका-भेदस्य तत्कटकेऽनङ्गीकारात् । तदुपादानवृत्तिहेमत्वाश्रयणेन सहैवाभेस्याङ्गीकृतत्वात् । अत एव ‘अत्यन्तभिन्नैकघटनिष्ठरूपरसादिव्यवस्थैवमेव’ इत्यभिहितं तत्रैव ।
न चैवमेव सदुपादानकस्य रजतस्य सता सह तादात्म्यमस्त्विति वाच्यम् । तेन सहात्यन्तभिन्नत्वेन प्रतीयमाने तदुपादानकत्वस्य मृदात्यन्तभिन्नत्वेनोपलभ्यमाने पटादावदृष्टत्वेनाबाध्यत्वानाश्रये रजते तदुपादानकत्वायोगात् । किञ्च बाध्यत्वस्यैव हेतूकृत-त्वेन तेन बाध्यत्वविशिष्टसत्तादात्म्यसाधने विशेषणांशस्य साध्यशरीरे नातिप्रयोजनकत्वम् । विशिष्टसाध्यत्वे विशेषणपरित्यागेनाबाध्यतादात्म्यरूपसत्तादात्म्यसाधने वा बाध्यत्वहेतो-र्विरोधश्च । न चार्थक्रियाकारित्वमेव सत्त्वम् । तदवच्छिन्नतादात्म्यं साध्यत इत्यपि युक्तम् । बाध्यस्यार्थक्रियाकारिभिन्नत्वेनैवावगतस्य तत्तादात्म्यसाधने बाधाद्विरोधाच्च । असत्ख्याति-वादिना सौगतेन बाध्यस्याप्यर्थक्रियाकारित्वाभ्युपगमेन तस्यैव जगत्यनिर्वचनीयत्व-रूपत्वाङ्गीकारे सौगतवैलक्षण्यासिद्ध्या तत्सिद्ध्यर्थं अन्यस्यैवानिर्वचनीयत्वस्य जगति निर्वक्तव्यतया तत्साधकानुमाने दृष्टान्तभूते शुक्तिरजतादौ तादृशस्यैव वक्तव्यत्वाच्च ।
नापि ‘सर्वं सत्प्रमेयम्’ इत्याकारा काचन बुद्धिस्तत्तद्विषयतादात्म्यम् । तत्साधने तस्या बुद्धित्वेनैव परिचये ‘सर्वं सत्’ इत्याकारस्य शुक्तिरजतादिसर्वविषयस्य भ्रमस्यापि परिचित-त्वेन तद्विषयीभूतस्य तादात्म्यस्य शुक्तिरजतादेरसत्त्वपक्षेऽपि सत्त्वेन सिद्धसाधनापरिहारात् । तादृशाकारज्ञानेषु ‘इयं प्रमैव, अयं भ्रम एव’ इति निर्धारणायोगेन विशिष्य व्यक्तिविशेषस्य निवेशयितुमशक्यत्वात् । तादृशाकारभ्रमत्वेन परिचये तद्विषयतायाः शुक्तिरूप्येऽङ्गीकारा-त्सिद्धसाधनता नापि तादृशी काचन प्रमा व्यक्तिः । १तत्त्वेन परिचयः । घटात्यन्तभिन्नत्वेन गृह्यमाणे घटत्वप्रकारकप्रमाविषयात्यन्तभेदग्रहस्यौचित्यावर्जितस्य सार्वलौकिकस्य सार्वकालि-कस्य दुरपह्नवताया इव अत्रापि ‘असदेव रजतम्’ इति रूपेणात्यन्तसद्भिन्नत्वेन गृह्यमाणरजते सत्त्वप्रकारकप्रमाविषयात्यन्तभेदस्य तादृशप्रमाव्यक्तिविशेषविषयात्यन्तभेदस्य च यो ग्रहस्तस्य दुरपह्नवतया तादृशरजते तादृशप्रमाविषयतादात्म्यसाधने बाधस्य बाध्यत्वहेतो-र्विरोधस्य च दुर्वारत्वात् । अन्यथा ‘नीलः’ इति प्रमाविषयभिन्ने वा ‘सर्वं नीलम्’ इति प्रमाविशेषविषयात्यन्तभेदवत्त्वेन वा निश्चितेऽपि घटे नीलतादात्म्यसिद्धिप्रसङ्गः । न चानिर्वचनीयवादिनामयं विरोधो न सम्मत इति वाच्यम् । अनिर्वचनीयप्रतीतेः प्रागुक्त-विरोधस्य सर्वलोकसिद्धस्य स्वेच्छामात्रेण परिहर्तुमशक्यतया स्वार्थानुमितेरेवायोगस्योक्तत्वात् ।
परार्थानुमाने तूक्तप्रकारः सर्वथा न सङ्गच्छते । यदि सा व्यक्तिः ‘इदं रजतम्’ इति ज्ञानप्रकाररजतविषयकत्वेन स्वपरसम्मता तदा तादृशव्यक्तेः प्रमात्वमेव मां प्रत्यसम्मतमिति मां प्रति तत्परिचयायोगः । यदि तदविषयकत्वेन मतद्वयसिद्धं ज्ञानमुपादीयते तदा बाध एव । यदि मध्यस्थस्य प्रतिवादिनश्च शुक्तिरजताद्यविषयत्वेन सम्मतं स्वमतमात्रेण तद्विषयक-त्वेन सम्मतं ज्ञानमुपादीयते तदा तद्विषयात्यन्तभिन्नत्वेन गृह्यमाणे तत्तादात्म्यानुमितिः मध्यस्थस्य वादिनो वा न घटत एव । यदि चोभयमतेऽपि प्रमात्वेन शुक्तिरजतविषयकत्वेन च सम्मतं ‘सर्वं सत्प्रमेयम्’ इति ज्ञानमुपादीयते तदा तद्व्यक्तेः प्रमात्वेन सम्मतिः शुक्तिरजते सत्त्वसम्मतिं विना न घटत इति तत्र सत्तादात्म्यसाधनस्य वैयर्थ्यमेवेति द्रष्टव्यम् ।
किञ्च यदि सदित्याकारकप्रमेत्यस्य सत्पदघटितवाक्याभिलाप्यप्रमेत्यर्थः तदा १शुक्ति-भ्रमेण लक्षणया आधुनिकसङ्केतेन च सत्पदेनासतोऽपि बोधसम्भवात्तद्विषयतादात्म्यसाधने सिद्धसाधनत्वादिकमेव । यदि २शुक्तिभ्रमाद्यनधीनतादृशवाक्यसाध्यप्रमोच्यते तदा ‘सर्वं सत्प्रमेयम्’ इति वाक्येन शक्तिभ्रमादिकं विनाऽपि जायमानायाः समीचीनत्वादिप्रकारक-प्रमाया अपि ग्रहणापत्त्या तद्विषयतादात्म्यसाधने ३अर्थान्तराद्यनिस्तारात् । न हि समीचीनत्वादौ कोशसिद्धे शक्तिर्नास्ति । अबाध्यत्वावच्छिन्ने वर्तत इति राज्ञामाज्ञास्ति । अबाध्यत्वप्रकारकप्रमातात्पर्यकतादृशवाक्यसाध्यप्रमात्वेन तदुपादाने अबाध्यत्वप्रकारक-प्रमात्वेन तदुपादानस्य सम्भवे शिरोवेष्टनन्यायापातः । तत्परित्यागे तथैवोपादाने अबाध्य-भिन्नत्वेन निश्चीयमाने तत्प्रमाव्यक्तिविषयतादात्म्यसाधने पूर्वोक्तरीत्या बाधादिरेव ।
ननु सत्ताजातिमत्तादात्म्यं साध्य इति चेन्न । द्रव्यत्वरजतत्वादिमत्तादात्म्येनापि गृह्यमाणे रजते असत्त्वसदधिष्ठानकत्वादि४संशयनिवृत्तेरिव तन्मते उक्तसत्तादात्म्यज्ञानेनापि तदनिवृत्ते-स्तुल्यत्वेनार्थान्तरानिस्तारात् । द्रव्यतादात्म्यज्ञानादेरपि तन्निवर्तकत्वे ‘रजतं द्रव्यम्’ इति व्यवहारादिबलसिद्धतादृशज्ञानबलेनोक्तसंशयस्य निवृत्ततया अनुत्पन्नतया वा सत्तादात्म्य-साधनस्याकिञ्चित्करत्वापातः । द्रव्यतादात्म्यज्ञानस्योक्तसंशयाविरोधित्वं सत्तादात्म्यज्ञानस्यैव विरोधित्वमित्यत्र नियामकाभावः । द्रव्यत्वादिजातेरिव सत्ताजातेरपि प्रत्यक्षगृहीततया तत्तादात्म्यसाधनायोगः ।
एतेन सदित्याकारप्रतीतौ स्वरूपतः प्रकारो यः तदवच्छिन्नतादात्म्यं साध्यते । समीचीनत्वादिकन्तु न तथेति परास्तम् । तादृशधर्मो यदि सत्ता तदाऽर्थान्तरम् । यद्यबाध्यत्वं तदा बाध एवेत्यादिपूर्वोक्तदोषानिस्तारात् । कालसम्बद्धतादात्म्यमप्यर्थान्तर-बाधादिना निरस्तम् ।
अस्तु वा सत्तादात्म्यं यादृशतादृशं ‘इदं सत्’ इति प्रतीतिसिद्धम् । तत्साधनस्योपयोगो वक्तव्यः । बौद्धाभिहितासत्ख्यातिनिरासार्थमिति चेन्न । ‘शशविषाणं सत्’ इति प्रतीतिबलेन शशविषाणादिरूपासत्यपि सत्तादात्म्यस्यावर्जनीयतया तस्यासत्त्वव्यावर्तकत्वायोगात् । ‘अनिर्वचनीयसत्तादात्म्यमसति न’ इति विशेषोपपादनं, ‘शशविषाणादिव्यवहारे हेतुर्विकल्प एव । शुक्तिरजतादिव्यवहारहेतुश्च ज्ञानम् । अतः प्रतीतिसिद्धसत्तादात्म्यमेव निवेश्यते । अतोऽसद्व्यावृत्तिः’ इति भाषणम्, ‘शशविषाणं सदित्यादिप्रतीतौ कालसम्बन्ध एव प्रतीयते । न तु सत्तादात्म्यम्’ इति विशेषकथनं, ‘शशविषाणं सदित्यादिप्रतीतावनिर्वचनीयमेव प्रतीयते । असच्च सर्वथा निरुपाख्यमेव । अतो न सत्तादात्म्यवत्’ इति जल्पनं, ‘शश-विषाणमिति वाक्याद्व्यधिकरणप्रकारकमेव ज्ञानं जायते’ इति भाषणञ्चेत्येवमादीनि दुर्भाषणान्यर्थापत्त्यादिनिरासप्रस्तावे निरसिष्यन्ते ।