ऋ गताविति धेतोस्तु ..
ब्रह्मातिरिक्तप्रपञ्चानृतत्वादिप्रतिपादकश्रुतिवचनानां स्मृत्या अर्थनिरूपणम्
श्रीमज्जयतीर्थटीका
अस्त्वेवं यत्र ब्रह्मणा सहानिर्वाच्यत्वादि प्रपञ्चस्योच्यते । यत्र तु ब्रह्मैवर्तमन्यदनृतमित्याद्युक्तिः तत्र कथमित्यत आह
मूलं
ऋ गताविति धेतोस्तु पूर्वावगतवत्सदा ।
स्थितेर्ब्रह्मर्तमित्युक्तमनृतं परिणामतः ।।
प्रकृतिप्राकृतं प्रोक्तं ... ... ... ... ।
।। धातोरिति ।। धातुव्याख्यानात् । गत्यर्थानामवगत्यर्थत्वेन निष्ठाप्रत्ययस्य भूतार्थत्वेन तस्य च विशेषानुक्त्या अनादितालाभे सति ऋतमनादितोऽवगतमित्युक्तं भवति । न च परिणामित्वे अस्यैव पूर्वावगतत्वं मुख्यतो युज्यत इति पूर्वावगतवत्सदा स्थितिरुक्ता भवति । प्रकृतिश्च प्राकृतं च प्रकृतिप्राकृतम् । तुशब्दोऽवधारणे । ततश्च परिणामित्वा-परिणामित्वाभ्यामेव ब्रह्मजगती ऋतानृते ‘तदेवर्तम्’ ‘अनृतेन हि प्रत्यूढाः’ इत्यादौ प्रोक्ते । न तु सत्त्वासत्त्वाभ्यामित्युक्तं भवति ।
मूलं
... ... ... ... असत्तदशुभत्वतः ।
संसाररूपत्वेनाशुभत्वत एव । तथा परमानन्दरूपत्वेन शुभत्वात् ब्रह्म सत्प्रोक्तमित्यपि ज्ञातव्यम् ।
मूलं
असतां बुद्धिगम्यत्वादसत्यमिति चोच्यते ।।
एवं सतां बुद्धिगम्यत्वाद्ब्रह्म सत्यमित्युच्यत इत्यपि द्रष्टव्यम् ।
प्रकृत्यादिसतामपि बुद्धिगम्यम् । किं विशिष्याभिधीयते असतामिति । नियमाभि-प्रायेणेति भावेन सदसद्विवेकमाह
मूलं
नियमेन बहिश्चित्तास्तेसन्तो ब्रह्मणि स्थिताः ।
ते सन्त इत्यत्राकारप्रश्लेषभावाभावाभ्यां यच्छब्दाध्याहारेण च द्वे वाक्ये द्रष्टव्ये । ब्रह्मणि स्थितास्तन्निष्ठबुद्धयः ।
द्वैतद्युमणि:
।। इत्याद्युक्तिरिति ।। आदिना ‘तदवर्तं तदु सत्यमाहुः’ इत्यादीनां सङ्ग्रहः । तत्राप्येवकारेण जगति सत्यत्वव्यवच्छेदात् ।। धातोरिति ।। ऋ गतावित्यस्य समुदायस्य धातुत्वाभावादित्थं व्याख्यातम् । तथा च ऋ गतावित्यस्माद्धातुव्याख्यानादित्यर्थ उक्तो भवति । यद्वा मूले ऋ गतावित्यत्रेतिशब्दर्थस्य ऋ गतावित्यानुपूर्व्याः निपातार्थत्वात्स्व-व्याख्यातत्वरूपभेदसंसर्गेणैव धातुपदार्थेऽन्वयः । धातुव्याख्यानादितिटीका तु पर्यवसितार्थ-परैव । तेन न धातुपदस्य लक्षणारूपो दोषः । व्याख्यानद्वयेऽपि पञ्चम्यर्थप्रयोज्यतायाः शाब्दबोधविषयरूपोक्तपदार्थैकदेशे शाब्दबोधेऽन्वेति । व्याख्यानस्योक्तशाब्दबोधप्रयोजकत्वं शक्तिग्राहकतया परम्परयेत्यवधेयम् ।। गत्यर्थानामिति ।। तथैवाभियुक्तव्यवहारादिति भावः ।। निष्ठाप्रत्ययेति ।। क्तक्तवत् निष्ठेति क्तस्य निष्ठासञ्ज्ञाविधानात् क्तप्रत्ययस्येत्यर्थः ।। भूतार्थ-त्वेनेति ।। अतीतकालघटितार्थकत्वेनेत्यर्थः ।। लाभ इति ।। शाब्दबोधविषये सतीत्यर्थः ।। विशेषानुक्त्यादिनेति ।। प्रमाणान्तरेणैतदपेक्षयैव भूतत्वमित्येवंरीत्या अवधिविशेषस्यानुक्त्ये-त्यर्थः । आदिनाप्रमाणान्तरानुगुण्यादिपरिग्रहः ।। अनादितोऽवगतमित्युक्तं भवतीति ।।
अयं भावः । ऋधातोर्ज्ञानमर्थः । क्तप्रत्ययस्य प्रकृतशब्दप्रयोगाधिकरणकालवृत्तिध्वंस-प्रतियोगिकालवृत्तित्वं विषयत्वावच्छिन्नं चार्थः । तादृशकालवृत्तित्वं ज्ञाने अन्वेति । तस्य च विषयतायामेकदेशभूतायामपि व्युत्पत्तिवैचित्र्येणान्वयः । तथा च यदा यदा ऋतशब्दप्रयोज्यो बोधस्तदा तदा तत्तत्कालपूर्ववृत्तिज्ञानविषयीभूतमित्यर्थो लभ्यते । तत्तत्पदव्यक्तीनां पुरुषबुद्धि- क्रमोपहितवर्णात्मकानां भिन्नत्वेऽपि वेदानामिव तद्धटकपदानामपि सजातीयानुपूर्व्याः स्वतन्त्र-कर्तृकत्वाभावेनापौरुषेयतया ऋतशब्दप्रयोगमहिम्नाऽनादिकालतोऽवगतमिति पर्यवस्यतीति ।
अनादितोऽवगतत्वं तु शाब्दबोधविषयीभूतमेव । तत्तत्कालीनऋतशब्दाधीनबोधे क्तप्रत्ययेन तत्तत्कालापेक्षया पूर्वेषां सर्वेषां कालानां तादृशपूर्वत्वेन भाने प्रमाणान्तर-बाधाभावात् ब्रह्मानादित्वग्राहकप्रमाणान्तरानुगुण्याच्च । अत एवेत्युक्तं भवतीति शब्द-विषयत्वमेवोक्तम् । एकस्या अवगतिव्यक्तेः सर्वपूर्वकालसम्बन्धाभावेऽपि ‘सर्व एव शुभः कालः’ इत्यादौ एकैकस्मिन्नेकैकशुभत्वान्वय सव यथायोगं एकैकस्मिन् ज्ञाने एकैककाल-सम्बन्धे नित्यज्ञाने वा सर्वपूर्वकालान्वये बाधकाभावात् । पूर्वकालीनज्ञानेषु ब्रह्मणो विषयताप्यस्तित्वेनैवेति लभ्यते । ज्ञानानामसति बाधके स्वसमानकालसम्बन्धित्वेन स्वविषयावगाहित्वस्वाभाव्यात् । तादृशविषयताया एव मुख्यत्वेन प्रकृते क्तप्रत्ययेन तस्यैव बोधयितुमुचितत्वात् । ‘अस्तीत्येवोपलब्धव्यः’ ‘अस्ति ब्रह्मेति चेद्वेद’ इति प्रमाणान्तरानु-गुण्याच्च । ज्ञाने प्रतीयमानाऽस्तिता च धर्म्यंश इव तद्योग्यत्वाद्धर्मांशेऽपि । बाधक-प्रमाणाभावात् । ज्ञानमपि प्रमात्मकमेव । मुख्यत्वात् । असति बाधके मुख्यस्यैव प्रथमतः शब्देन बुद्धावारोहात् । तथा चैतत्कालोच्चारितवैदिकऋतपदेन यावन्त एतत्पूर्वकाला-स्तत्तत्कालसम्बन्धिन्यो यावत्योऽस्तित्वेन गुणपूर्णतादिविशिष्टब्रह्मविषयिण्यः प्रमास्तत्त-द्विषयीभूतं विशिष्टमिति बोधो जायते । यथा अनन्तपदेन परिच्छेदराहित्ये लब्धेऽपि प्रमाणान्तरानुसारेण गुणैः परिच्छेदाभावो लभ्यत इत्याशयेन ‘महागुणत्वाद्यमनन्तमाहुः’ इति निरुक्तिर्भागवते तथेयमपि निरुक्तिः स्मृतिकृता कृता । अतो न कोऽपि क्षुद्रोपद्रवः ।
पूर्वावगतवत्सदा स्थितेरित्यनेन ऋतशब्दबोध्यान्वयप्रयोजकधर्मस्य तदन्वययोग्यतारूप-स्योक्तिः । पूर्वावगतवत्सदा स्थित्यभावे यदा यदा ऋतशब्दस्तद्बोध्यस्य समस्ततत्पूर्वकाल-सम्बन्ध्यस्तित्वप्रकारकविशिष्टब्रह्मविषयकप्रतिपत्तिसामान्ये प्रमात्वस्य दुर्घटत्वापत्तेः । पूर्वावगतवदित्यत्र ‘तत्र तस्येव’ इति सूत्रात् षष्ठ्यन्ताद्वतिः । तथा च गोवद्गवयस्य रूपमिति वाक्येन गोरूपसदृशं गवयरूपमिति धीर्जायते । तथा यत्किञ्चित्पूर्वकालीनावगतिविषय-निष्ठस्थितिसादृश्यस्य ब्रह्मनिष्ठसार्वकालिकस्थितौ धीर्जायते । स्थितिश्च कालसम्बन्ध एव । ब्रह्मनिष्ठयत्किञ्चित्कालसम्बन्धसादृश्यं तन्निष्ठसर्वकालसम्बन्धेषु यादृशयादृशधर्मवद्ब्रह्मनिष्ठत्वं तस्य तादृशतादृशधर्मवद्ब्रह्मनिष्ठत्वात्मकमेव । सादृश्यस्य तन्निष्ठभूयोधर्मात्मकत्वेनासति बाधके सम्भवतां सर्वेषां ग्रहणात् । न च तत्क्षणसम्बन्धवद्ब्रह्मवृत्तित्वमेतत्क्षणसम्बन्ध-रूपस्थितौ नास्तीति वाच्यम् । सम्भवतामित्यनेनैतच्छङ्कायाः परिहृतत्वात् । तेषां धर्मत्वाभावाच्च । तदभेदशालिनामेव धर्मत्वात् । उपपादितमेतदन्यत्र ।
न च पूर्वावगतस्य स्थितेरित्येव वक्तव्यम् । वतिर्निरर्थक इति वाच्यम् । पूर्वावगत-निष्ठस्थितिमात्रेण ऋतपदबोद्ध्योक्तधर्मासिद्ध्या तस्य योग्यतारूपत्वाभावेन तदुक्तिवैयर्थ्यात् । कुत एतदिति चेत् । पूर्वावगतस्य प्रकृत्यादेरिदानीं सदा च स्थितत्वेऽपि तत्परिणामभूत-विकारविशेषाणां तेन भेदाभेदशालिनामुत्पत्तिविनाशशालित्वेन तन्नाशेन विशिष्टस्यापि नाशेन एतत्काल उच्चरितऋतशब्दबोध्यस्यैव तत्पूर्वतननिखिलकालसम्बन्धियावत्प्रमीयानां स्वकालेऽस्तित्वेन विषयतानामेकस्मिन्नपि विशिष्टेऽभावात् । ब्रह्मणि तु विकारादिरहिते विद्यमानधर्माणां तेनात्यन्ताभिन्नत्वात्तद्विशिष्टानामपि परस्परमत्यन्ताभिन्नत्वात्सार्वदिकत्वाच्च तादृशप्रमाविषयत्वस्यैकविशिष्टे सम्भवात् । न च ज्ञानवद्ब्रह्मेतिप्रमाविषयत्वमानन्दविशिष्ट-ब्रह्मणि नास्ति । तथात्वे तज्ज्ञानस्यानन्दविशिष्टब्रह्मविषयकत्वापत्तेः । तथा च तादृश-यावत्प्रमाविषयत्वं कथमेकविशिष्ट इति वाच्यम् । विशेषणविषयकत्वघटितविशिष्टविषयकत्व-व्यवहारस्य तज्ज्ञानेऽभावेऽपि वस्तुतो विशिष्टानामत्यन्ताभिन्नत्वेनैकस्मिन् सर्वतादृशप्रमा-विषयत्वे बाधकाभावात् । प्रकृत्यादौ तु नैवम् । तादृशपरिणामविशेषविशिष्टानां धर्मिणा भिन्नाभिन्नानामपि परस्परं भिन्नत्वात् ।
यद्वा तादृशयावत्कालसम्बन्धिन्यो यावत्यः समानविषयिण्यः स्वसमानकालसम्बन्धाव-गाहिन्यः प्रमास्तद्विषयीभूतमिति ऋतपदेन बोधः । असति बाधके सङ्कोचे कारणाभावात् । तथात्वे च ब्रह्मस्वरूपैकैकविशिष्टेष्वस्तित्वेनानादितः प्रमासत्त्वं लभ्यते । तच्च ब्रह्मणि सर्वथा विकाररहिते घटते । प्रकृत्यादौ तु यत्किञ्चित्परिणामधर्मविशिष्टे स्वकालेऽस्तित्वावगाहि-ज्ञानस्य प्रमात्वेऽपि तन्नाशादिना तदभावदशापन्नतादृशज्ञाने प्रमात्वस्य बाधितत्वान्न तस्य ऋतपदार्थता । न च प्रकृतित्वपराधीनत्वादिधर्मानादाय प्रकृतावपि तादृशप्रमाविषयत्वसम्भवेन तत्रापि ऋतपदव्यवहारप्रसङ्ग इति वाच्यम् । सर्वधर्मघटिततादृशप्रवृत्तिनिमित्तवतो ब्रह्मण एव तत्पदव्यवहारभागित्वात् । बहुधनवत एव धनीति व्यवहारगोचरत्ववत् ‘असाधारण्येन व्यपदेशा भवन्ति’ इति न्यायेन ब्रह्मण्येवैतद्व्यवहारस्य तदेवर्तमित्यादौ सिद्धत्वेनाऽरोपे सति निमित्तानुसरणमिति न्यायेन स्मृतिकृता तस्यासाधारण्यमात्रोपपादनार्थं प्रकृतत्वाच्च । अत एव ऋतपदप्रकृत्तिनिमित्तकोटौ प्रकृत्यादिव्यावृत्तं पूर्वोक्तं सर्वं निवेश्यमेव । इत्थं च पूर्वावगतस्य स्थितेरित्युक्तिमात्रेण ऋतपदप्रवृत्तिनिमित्तसत्ताया अनुपपादनात्तदुपपादनाय वतिः सार्थक एव ।
ननु तत्प्रयोगेण कथमेतदुपपादितं भवतीति चेत् । इत्थम् । ‘पूर्वकालस्थितो राजा इदानीं वर्तते’ इत्यनेन पूर्वोत्तरकालवर्तिराजैक्यमात्रं प्रतीयते । न तु पूर्वकाले यादृशौदार्यादि-गुणविशिष्टो रजा तादृशगुणविशिष्टस्य राज्ञ इदानीं स्थितिः । ‘पूर्ववदिदानीं वर्तते’ इत्यनेन तु राज्ञः पूर्वनिष्ठकालसम्बन्धसदृशैतत्कालसम्बन्धबोधे सादृश्यघटकतया पूर्वकालसम्बन्धे वक्तृ-तात्पर्ययोग्यतावशाद्यादृशधर्मवद्राजनिष्ठत्वं तादृशधर्मवद्राजनिष्ठत्वमुत्तरकालसम्बन्धे भासत इति राजन्येतत्काले तादृशौदार्यसिद्धिर्भवतीत्यनुभवसिद्धत्वात् । चैत्र त्वं पूर्वोऽसि, न तु पूर्ववदसि । तमेव चैत्रं पश्यामि, न तु पूर्ववत्पश्यामि, मैत्रं तु पूर्ववत्पश्यामि, इत्यादिलोक-व्यवहारतज्जातीयशास्त्रीयव्यवहाराणामुक्तरीत्याऽर्थबोधकानां सुप्रसिद्धत्वाच्च पूर्वावगतवदिति वतिप्रत्ययान्तसमभिव्याहारेण पूर्वोक्तरीत्या विवक्षितार्थसिद्धिरिति । परिणामस्तु प्रकृत्यादौ ऋतपदार्थतावच्छेदकमुख्यधर्माभावोपपादनद्वारा अनृतपदव्यवहार्यतोपपादनायाभिहितः । न तु अनृतपदार्थतावच्छेदकतयेति द्रष्टव्यम् ।
एतदेव स्फुटीकरोति ।। न चेत्यादिना ।। उक्ता भवतीति ।। ऋतपदेन स्वप्रवृत्ति-निमित्तनिर्वाहकतया आक्षिप्ता भवतीत्यर्थः । अत्र यद्यपि ब्रह्मणि ऋतपदवाच्यत्वमुपपाद्य प्रकृत्यादौ तदन्यत्वादिना १ऋतपदव्यवहार एव उपपादनीयः । पूर्वावगतवत्सदा स्थितिस्तु ऋतशब्दार्थयोग्यतानिर्वाहाय प्रमाणकृतोपात्ता । अत एव तस्य हेतुविभक्त्यन्तेन निर्देशः । तथा च तत्सिद्धेरेव प्रकृते मुख्यफलत्वख्यापक उक्ता भवतीति निर्देशो न घटते । तथापि तस्य प्रकृतप्रमाणप्रवृत्तिफलत्वाभावेऽपि जगत्यनृतादिपदव्यवहारोपपादनाय रीत्यन्तरं विहाय यदुक्तरीत्यैव ब्रह्मणि ऋतशब्दप्रवृत्तिप्रदर्शनं कृतम् । तत्फलाभिधानपूर्वकं तादृशस्थितेर्योग्यत्व-रूपत्वप्रदर्शनार्थमिदं वाक्यं प्रसक्तमिति नासङ्गतिः ।
एतेनैतदपि परिहृतं भवति । ‘ऋतशब्दस्य ब्रह्मण्युपपत्तये उक्तप्रयासो विफलः । भावनिष्ठान्तत्वेऽपि ब्रह्मणो ज्ञानरूपतया ऋतशब्दवाच्यत्वसम्भवात् । जगतस्तदन्य-त्वेनानृतपदवाच्यतासम्भवाच्च । न च जीवानामपि ऋतपदवाच्यतापत्तिः । जीवानाम-परिणामित्वेन रमाया अपि तथात्वेन भवदुक्तनिरुक्तावप्युक्तदोषसाम्यात् । न च तेषामनृत-पदव्यवहारागोचरत्वेन तद्विरुद्धऋतशब्दवाच्यत्वेऽपि बाधकाभावः । प्रकृतवाक्ये ब्रह्मण एकस्यैव ग्रहणं तच्छब्दवाच्येष्वपि ब्रह्मण अपरायत्तप्रवृत्तिनिमित्तत्वेन स्तयैव मुख्यत्वनिमित्ते-नेति वाच्यम् । ऋतशब्दस्य ज्ञानार्थकत्वेप्युक्तसमाधानसम्भवात् । न च जडज्ञाने ऋतपद-प्रवृत्तिः स्यादिति वाच्यम् । भवदुक्तरीत्या निर्वचनपक्षेपि मुख्यत्वानुरोधेन ऋतपदार्थशरीरे प्रमात्वादिनिवेशवत् अत्रापि तदनुरोधेन नित्यत्वमात्रस्य निवेशनीयत्वेन ऋतपदस्य नित्य-ज्ञानत्वावच्छिन्नार्थकत्वेन सर्वसामञ्जस्यात्’ इति ।
उक्तरीत्या निर्वचने तदुपपादकतया ब्रह्मण अनादित एकप्रकारेणैव स्थितिलाभेन निर्विकारत्वनित्यानन्दनित्यज्ञानादिबहुगुणानां ब्रह्मणि लाभेनास्यैव युक्तत्वात् । वेदानां भगवद्गुणोत्कर्षप्रतिपादनार्थमेव प्रवृत्तत्वेन तद्धटकशब्दानामपि तदनुसारेणैव तात्पर्यकल्पनात् । अन्यथा भागवतोक्तानन्तशब्दनिरुक्तिरपि व्यर्था स्यात् । नाशाभावमात्रेण तच्छब्दप्रवृत्ति-सम्भवात् ।
।। प्रकृतिश्चेति ।। सर्वो द्वन्द्वो विभाषयैकवद्भवतीति वचनात् प्रकृतिप्राकृतमिति साध्विति भावः ।। ततश्चापरिणामित्वपरिणामित्याभ्यामिति ।। अनयोरुक्तरीत्या परम्परया प्रवृत्तिनिमित्तनिर्वाहकतया परम्परया तच्छब्दव्यवहारबीजत्वबोधनाय विमित्ततृतीयाप्रयोगः । वाच्यकोटौ निवेशाभिप्राये अपरिणामित्वपरिणामित्वबोधके ऋतानृतपद इत्यवक्ष्यत् ।। न तु सत्त्वेति ।। अत्रापि निमित्ते तृतीया । परं तु बाधकाभावात्प्रवृत्तिनिमित्ततयैव निमित्तत्व-बोधिका । निमित्ततृतीयात्वेन साम्यात्साक्षात्परम्पराकृतवैलक्षण्येऽपि न वैगुण्यम् । एतेन
‘अविकारादृतं ब्रह्म विकारादनृतं जडम्’ ।
इति परिणामार्थकविकारपदं प्रयुज्यैकस्मिन्नर्थद्वयनिबन्धनसम्भवे एतावदुक्तिर्विफलेति शङ्कानवकाशः । तयोः साक्षाद्रूढ्या योगेन वा तत्पदार्थतावच्छेदकत्वायोगेन पूर्वोपपादित-रीत्या बह्वर्थलाभायैतावदुक्तेरावश्यकत्वात् ।। इत्यपि ज्ञातव्यमिति ।। इदानीं जगति प्रयुज्यमानानिर्वचनीयानृतासदादिपदार्थनिरुपणपरायामस्यां स्मृतौ ब्रह्मणि सत्पदं निरुच्यैव तदन्यत्त्वादिना जगति असदादिपदं निर्वाच्यमिति नास्ति । अत एवैकेनैव निमित्तेन जगद्ब्रह्मणोरनिर्वाच्यादिपदानि निरुक्तानि । ब्रह्मग्रहणं चैतद्ग्रहणवद्युक्तिसूचनायैव । अनृतपदस्य जडे निर्वचनार्थमेव ब्रह्मणि ऋतपदं निरुक्तम् । एवं च स्मृतिकृता सत् सत्यमिति पदद्वयं ब्रह्मण्यनिरुच्य १सत्पदासत्पदयोर्जगति निर्वचनेपि न क्रमभङ्गदोषः । नापि न्यूनता । तथा चात्रोत्तरत्र च ज्ञातव्यं द्रष्टव्यमिति च टीका न मूले एतदध्याहार्यमित्यभिप्रायिका । स्फुटत्वादप्रक्रान्तत्वेनानावश्यकत्वाच्च । प्रमाणकृताऽनुक्तत्वेऽपि ब्रह्मणि सत्पदं कथं प्रवर्तते शुभत्वेन प्रवृत्तावपि तस्य शुभत्वं कुत इति, एवमसत्पदस्योक्तरीत्या निर्वचने सत्पदस्यै-तत्पदार्थप्रविष्टभेदप्रतियोगिसमर्पकत्वाभावेन क्वचिद्विशिष्ट ब्रह्मणि प्रयुज्यमानसत्पदार्थता-वच्छेदकं जगत्साधारणं किमिति च शङ्कया मनःखेदो न कर्तव्यः । स्मृत्या सूचितमस्मदुक्त-रीत्या ज्ञातव्यमिति शिष्यान् प्रत्येवाभिहितम् । अत एवेत्यध्याहर्तव्यमित्यनुक्त्वा ज्ञातव्यं द्रष्टव्यमित्येवाभिहितम् ।। सदसद्विवेकमिति ।। असत्पदार्थस्य सत्साधारण्ये पुनर्विशिष्टोक्ति-रयुक्ता स्यादिति सत्स्वरूपनिरूपणपूर्वकं तद्विवेकोक्तिरावश्यिकीति भावः । तथा च सत्पदार्थकथनमपि असत्पदनिर्वचनोपयोगितयैव प्रमाणे प्राप्तम् । न ब्रह्मणि सत्पदनिर्वचनाय येनाप्रक्रान्तोक्तिः स्यात् । परं त्वन्यार्थमुपात्तेनाप्यनेन सूचितसत्पदनिर्वचनमस्माभिर्दर्शितमिति हृदयम् । सत्यासत्यपदे तु सदसदुपपादके । यातेः कर्मणि कप्रत्ययान्ते अयस्मयादित्वेन भसञ्ज्ञाश्रवणात्पदसञ्ज्ञाप्रयुक्तजस्प्रवृत्त्या न सत्यमित्यादिरूपोपपत्तिरिति द्रष्टव्यम् ।