यथा सोम्येत्याद्यपि सादृश्यकथनम्..

यथा सोम्यैकेनेत्यादेः स्वाभिमतार्थसङ्कीर्तनम्

श्रीमज्जयतीर्थटीका

ननूपादानादुपादेयस्य पृथगसत्वे न चेन्मृत्पिण्डादिदृष्टान्तस्तर्हि व्यर्थ एव स्यात् । तात्पर्यान्तराप्रतीतेरित्यत आह ।

मूलं

यथा सोम्येत्याद्यपि सादृश्यकथनम् ।

सादृश्यप्राधान्याभ्यां हि ब्रह्मज्ञानेन जगज्ज्ञानमभिमतम् । तत्र यथा सोम्ये-त्यादिवाक्यं सादृश्यादेकविज्ञानेन सर्वविज्ञानोपपादनाय दृष्टान्तकथनपरमिति कथं तस्य वैयर्थ्यमिति । न केवलं सदेव सोम्येत्याद्यस्मन्मते न व्यर्थम् । अपि तु यथा सोम्येत्याद्यपीति सम्बन्धः ।

द्वैतद्युमणि:

।। नन्विति ।। ‘पृथगसत्वे’ इति सप्तम्यन्ततया छेदः । मूले आदिपदेनैव लोहमण्यादिवाक्ययोः सङ्गृहीतत्वात्, अपिपदस्य तत्समुच्चायकत्वायोगः । वाचारम्भणवाक्य-समुच्चायकत्वे तस्य सादृश्याभिप्रायेणाप्रसक्तत्वादसङ्गतिरत आह ।। न केवलमिति ।। सदेवेत्यादिवाक्यसमुच्चायकत्वमपि न तद्वाक्यस्य सादृश्यपरत्वाभावादतः पूर्वमूलतात्पर्य-विषयीभूतवैयर्थ्याभावांशे समुच्चायकत्वमित्याशयेनाह ।। न व्यर्थमिति ।।