यदि जडत्वं नामाप्रकाशत्वं

अप्रकाशत्वस्य जडत्वे आत्मनि व्यभिचारोपपादनम्

श्रीमज्जयतीर्थटीका

नाप्रमातृत्वं जडत्वम् । किं नाम अप्रकाशत्वम् । न च तदात्मन्यस्ति । तस्य ज्ञानस्वरूपत्वात् । अतः कथमनैकान्तिकमित्यत आह–

मूलं

यदि जडत्वं नामाप्रकाशत्वं तदाप्यात्मनः स्वविषयप्रकाशत्वाभावात्परविषयप्रकाशत्वाभावाच्चानैकान्तिकमेव ।

यदि जडत्वं नामाप्रकाशत्वं परोऽङ्गीकुर्यात् तदा तदप्यनैकान्तिकमेव प्रतिपत्तव्यम् । आत्मनः प्रकाशत्वायोगात् । तथा हि, योऽयमात्मस्वरूपप्रकाशोऽङ्गीक्रियते स किं सविषयो निर्विषयो वा । आद्येऽपि किं स्वविषयः परविषयो वा । नाद्यः । तदभावात् । न द्वितीयः । परस्यैवापरेणानङ्गीकृतत्वात् । पराभावे च परविषयत्वस्य दुर्निरूपत्वात् ।

द्वैतद्युमणि:

।। अप्रकाशत्वमिति ।। प्रकाशपदमनेकार्थकं ज्ञानत्वावच्छिन्नवाचि तेजस्त्वा-वच्छिन्नवाचि च । उभयत्रापि प्रचुरप्रयोगात् । अन्यतरस्मिन्निरूढलक्षणा वा । अत्र प्रकाश-पदं ज्ञानपरम् । तेजःपरत्वे तद्भिन्नत्वहेतोर्भागासिद्धिः स्यात् । ज्ञानत्वजातिस्तु चित्येव स्वीक्रियते । अतो न वृत्तौ भागासिद्धिः । न च चित एकत्वात् कथं तन्मात्रनिष्ठज्ञानत्वं जातिरिति वाच्यम् । तत्तद्वृत्त्युपहितचितामेव ज्ञानत्वेन तासामुपाधिभेदेन भिन्नत्वादिति भावः ।। तथा हीति ।। दूषणग्रन्थस्यायं भावः । ज्ञानत्वमुपहिते स्वीकृत्य तत्प्रतियोगिक-भेदनिवेशे शुद्धात्मन्युपहितभेदसत्त्वाद्व्यभिचारः । तदवच्छिन्नात्यन्तभेदनिवेशे तूपहितेषु पक्षनिविष्टेषु भागासिद्धिः स्यात् । अतो ज्ञानत्वं शुद्धस्वरूप एव स्वीकृत्य तदाश्रयभेदो वाच्यः । स च किञ्चिदुपहितेऽपि वर्तते । उपहितं न शुद्धस्वरूपमिति प्रत्ययात् । एवं सति ज्ञानत्वं न जातिश्चेदस्तु तथैवेति परेण वाच्यम् । तत्र ज्ञानत्वमिच्छादिव्यावृत्तसविषयत्वरूपं तद्व्याप्यं वा । उभयथापि विषयनिरूपणाधीनत्वेन तदभावे शुद्धात्मनोऽपि ज्ञानत्वाश्रय-स्वरूपभिन्नत्वात् व्यभिचार इति ।। तदभावादिति ।। स्वस्य स्वेन सह विषयविषयिभावाख्य-सम्बन्धाभावादित्यर्थः ।। दुर्निरूपत्वादिति ।।

ननु कस्य मतेनेदं दूषणम् । न तावत्स्वमतेन । अत्यन्तासन्निरूपितविषयितायाः ज्ञानेऽङ्गीकारात् । नापि परमतेन । अत्यन्ताभावप्रतियोगिरूपमिथ्यावस्तुन एव चिद्रूप-ज्ञानेऽध्यस्ततया विषयत्वाङ्गीकारेण तस्य विषयत्वनिर्वाहकत्वादिति चेन्न । दुर्निरूपत्वा-दित्यस्य सत्यस्य दुर्निरूपत्वादित्येतदर्थकत्वेन दोषाभावात् । परो हि यन्मिथ्योपाधिकं तन्मिथ्येत्येव मनुते । अत एवाधिकरणात्मकोऽप्यन्ताभावः प्रातिभासिकरजतप्रतियोगि-कत्वादिविशिष्टरूपेण प्रातिभासिक इति तत्सिद्धान्तः । तथा च परस्य मिथ्यात्वे तत्प्रतियोगिकत्वादिरूपतदुपाधिकत्वविशिष्टविषयत्वमपि मिथ्येति तदभाव एव प्राप्त इति पररीत्यैवेदं दूषणमिति भावः । न च विषयिता ब्रह्मस्वरूपभूतैव कल्पितभेदेन परनिरूपिता भवन्ती उपहितरूपेण मिथ्यैवास्तु । तथा च स्वरूपतः सत्यत्वाद्ब्रह्मणि ज्ञानत्वव्यापकी-भूतविषयित्वस्य न निवृत्तिरिति वाच्यम् । ज्ञानानन्दयोरिव १संयोगादिकं विहाय विषयिता-मात्रस्य तत्स्वरूपत्वग्राहकमानाभावात् । निर्भेदस्वरूपान्तर्गतत्वे भेदनियताधाराधेयभावस्य वास्तवस्य त्वन्मतेऽभावेन निर्विषयकत्वस्यावर्जनीयत्वात् । न च ज्ञानत्वं प्रति प्रतियोगि-वैयधिकरण्यविशिष्टो यः सविषयकत्वाभावस्तदभाव एव व्यापकः । स चात्मनि कदाचिदुपाधिवशात्सविषयकत्ववत्यपि सर्वदास्तीति वाच्यम् । लोके ज्ञानत्वेन व्यवह्रियमाणे २यत्स्वकालं विषयतासम्बन्धादेर्व्याप्यवृत्तित्वस्यैवानुभवेन तथैव सर्वैर्गृहीततया लोकसिद्ध-व्याप्तिमनुसृत्य परन्यायेन व्यापकीभूतसविषयकत्वाभावमुपपाद्य दूषणदानस्येदानीमभिमत-त्वात् । पररीतिमात्रप्रक्रियया दूषणपरिहारस्तु जगन्मिथ्यात्वसिद्धेः प्रागन्योन्याश्रयादिना दुष्ट इति न कश्चिद्दोषः ।