मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..
मिथ्याशब्देन अनिर्वचनीयावाचकेनाप्यनिर्वचनीयव्यहार इति शङ्कानिरासः
मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..
श्रीमज्जयतीर्थटीका
द्वितीयपक्षेऽपि मिथ्याशब्द इत्येवोत्तरम् । न हि तीरपुरुषादेरवाचकेनापि नदीसिंहादि-शब्देन देवदत्तस्तद्वदतीति विना प्रमाणेन कल्प्यते । अपि तु वक्तुराप्तत्वनिश्चये सति वाच्यार्थानुपपत्त्यादिदर्शनेनैव । न च तथा मिथ्येतिशब्दो यस्यासौ मिथ्याशब्दो भ्रान्ते-रुत्थितोऽनिर्वचनीयं तेन वदतीत्यत्र किञ्चिन्मानमस्ति । अनिर्वचनीयत्वाद्रजतस्य मुख्यार्थानुपपत्तावमुख्या वृत्तिराश्रीयत इति चेन्न । परस्पराश्रयप्रसङ्गात् । सिद्धे शुक्तिरजतादेरनिर्वचनीयत्वे मिथ्याशब्दस्य तत्परत्वकल्पनं तेनैव चानिर्वचनीयत्व-कल्पनमिति । प्रमाणान्तरेणानिर्वचनीयताप्रतिपत्तौ तु किमनेन । तच्च निरसिष्यते ।
द्वैतद्युमणि:
।। वदतिरिति ।। वदधातुरित्यर्थः । वदनक्रिया उच्चारणरूपक्रिया ।। कर्मतैवेति ।। शाब्दमुच्चारयति वदतीति प्रयोगादिति भावः ।। शाब्दप्रतीतिवाचीति ।। तदनुकूलव्यापाररूपतद्धटितार्थवाचीत्यर्थः ।। करणतैवेति ।। विक्लृत्यनुकूलव्यापाररूपपाके काष्ठानां करणत्वेन काष्ठैः पचतीतिवत् मिथ्याशब्देनानिर्वचनीयं वदतीति प्रयोगः स्यादिति भावः । दृष्टान्ते दार्ष्टान्तिके च धात्वर्थव्यापारनिरूपितकरणत्वं काष्ठशब्दनिष्ठं तन्निष्पाद्य-निष्पादकत्वरूपं पारिभाषिकमेव । धात्वर्थकोटिप्रविष्टविक्लृत्तिप्रतीत्यादिरूपफलान्वितं मुख्यमेव वा द्रष्टव्यम् ।। तत्कथमिति ।। शब्दे कर्तृत्वस्य सर्वथाऽयोगादिति भावः ।। अवान्तरेति ।। ऊर्ध्वाधोदेशसंयोगादिरूपावान्तरव्यापारविशिष्टस्यैव कुठारादेश्छिदाकरणत्वस्य दृष्टत्वादित्यर्थः ।। अन्यथेति ।। प्रागभावेन छिनत्तीति प्रसङ्गादित्यर्थः । प्राधान्येन । आश्रयत्वेन । इदं कर्तृत्वोपपादकम् । कर्तृत्वात् प्रकृतधात्वर्थकर्तृत्वात् ।। तद्विवक्षयेति ।। शब्दनिष्ठशक्तिज्ञानविषयत्वादिव्यापारविवक्षयेत्यर्थः ।। युज्यत इति ।। यथा विक्लृत्त्यनुकूल-चैत्रादिनिष्ठव्यापारो यदि धात्वर्थस्तदा तत्र काष्ठानामुक्तरीत्या करणत्वात्काष्ठैः पचतीति प्रयोगः यदा तु काष्ठनिष्ठक्षिप्रप्रज्वलनरूपव्यापारो यदि धात्वर्थस्तदा तदाश्रयत्वेन कर्तृत्वात् काष्ठं पचतीति प्रयोगः तथा शाब्दप्रतीत्यनुकूलचैत्रनिष्ठशब्दोच्चारणादिरूपवदधात्वर्थव्यापार-निरूपितकरणतावतः शब्दस्यापि तादृशप्रतीत्यनुकूलव्यापारभूतस्य शक्तिमत्त्वादिना शीघ्र-स्मृतिविषयत्वादेराश्रयतया कर्तृत्वात् शब्दो वदतीति व्यवहारो युज्यत इत्यर्थः ।। वाचकत्व-पक्षेति ।। मिथ्याशब्दस्यानिर्वचनीयवाचकत्वरूपप्राग्विकल्पितकल्पमङ्गीकृत्य पूर्वपक्षिणः प्रत्यवस्थानसूचनार्थमित्यर्थः । शक्तिस्मृतिविषयत्वादेर्व्यापारत्वेनैव धात्वर्थतया कथमनेन वाचकत्वपक्षावलम्बनमेवेदानीं पूर्वपक्षिण इति ज्ञातुं शक्यमित्यतः प्राधान्यनिर्देशेनेति । अनुमेयत्वरूपज्ञाप्यत्वमित्थम्भूतलक्षणतृतीयार्थभूतं कक्षीकरणान्वयि । यद्वा तृतीयार्थ-तल्लिङ्गकत्वमनुमित्यनुकूलव्यापाररूपसूचनपदार्थघटकानुमितावन्वेति । व्यापारश्च मानसो विमर्शात्मकः । तन्निर्वाहकश्चायं व्यपदेश इति भावः । यथा चैत्रः पचतीति विहाय काष्ठं पचतीति केनचिदभिहिते श्रोतुर्विमर्शो जायते । अयं मुख्यकर्तृव्यापारतात्पर्यं विहाय किमर्थममुख्यकरणादिनिष्ठव्यापारतात्पर्येण धातुं प्रयुङ्क्त इति । ततः अयं काष्ठनिष्ठो यः प्रकृतविक्लृत्त्यनुकूलोऽतिशयस्तद्बोधतात्पर्यवान् पाकमुख्यकर्तृचैत्रतुल्यतया प्राधान्येन तन्निर्देश-कर्तृत्वात् । शरवृत्त्यतिशयबोधतात्पर्येण हन्ता रामशर इत्यादिवाक्यप्रयोक्तृवत् । यो यादृशफलमुख्यकर्तृतुल्यतया कर्तृत्वेन तदवान्तरकारणनिर्देशकर्ता प्रेक्षावान् स तन्निष्ठप्रकृत-फलानुकूलातिशयबोधतात्पर्यवानिति सामान्यमुखी व्याप्तिः । तादृशातिशयः कीदृशः स्यादिति विमर्शे अन्यस्यासम्भवात् क्षिप्रप्रज्वलनादिकमेव स इति निश्चिनोति । तद्वत्प्रकृतेऽपि शाब्दप्रतीतिरूपफलं प्रति मुख्यतया निर्वाहकवाक्यप्रयोक्तृतुल्यतया मिथ्या-शब्दस्य कर्तृत्वेन निर्देशकर्तृत्वादयं पूर्वपक्षी मिथ्याशब्दनिष्ठानिर्वचनीयशाब्दबोधौपयिक-किञ्चिदतिशयबोधतात्पर्यवानिति निश्चयो जायते । ततः तादृशातिशयस्तद्वाचकत्वमेव भवेत् । लक्षणादीनामनुपपत्तिज्ञानादिविलम्बितोपस्थितिकानामतिशयरूपत्वासम्भवात् । शक्तेरवश्यं प्राथमिकग्रहविषयत्वेन तत्सम्भवादिति निश्चयो जायत इति क्रमेण प्राधान्य-निर्देशस्य वाचकपक्षाङ्गीकाररूपकक्षीकरणज्ञापकत्वं तदनुमितौ लिङ्गत्वं च निर्वहतीति भावः। अङ्गीकारोऽपि तद्बोधतात्पर्यमेवेति नोक्तविरोधः । अनुमित्यन्वयपक्षे करणतृतीयैव । धूमेन वह्न्यनुमानाय यतत इतिवदिति द्रष्टव्यम् । मिथ्याशब्देनेत्युक्तौ वाचकत्वस्यैव कुतो विशिष्य न लाभ इत्यत आह ।। मिथ्याशब्देनेति ।। साधारण्यादिति ।। कर्तृत्वेन निर्देशाभावे उक्तरीत्या विमर्शद्वारानुमितिर्नैंव जायते । अनुमितावुक्तलिङ्गास्फूर्तेः विमर्शबीजाभावाच्च । शाब्दप्रतीतिकरणत्वं तु लाक्षणिकालाक्षणिकपदसाधारणम् । तेन च न शब्दस्य वाचकत्व-सिद्धिः । तत्प्रयोगेण च प्रयोक्तुर्न वाचकत्वपक्षाभिप्रायत्वसिद्धिरिति भावः ।
ननु तत्पदस्य तद्वाचकत्वे सति घटपदेन घटं वदतीति प्रयोगात् घटे घटपदवाच्यत्व-सिद्धिवत् मिथ्याशब्देन अनिर्वचनीयं वदतीत्युक्तावपि तत्कर्मकवदधात्वर्थान्वितस्वार्थज्ञान-करणत्वलिङ्गेन मिथ्याशब्दस्यानिर्वचनीयवाचकत्वसिद्धौ तत्प्रयोगाद्वाचकत्वपक्षाङ्गीकारसिद्धिश्च भवतीति गूढाभिसन्धिराशङ्कते ।। वदतिरिति ।। वाचकत्वे वाचकत्वे सति । गूढाभि-सन्धिरेवाभिप्रायमजानान इव पहिरति ।। सत्यमिति ।। वाचकत्वे सति प्रयुज्यतां पाम तावता नास्माकं काचित्क्षतिरिति भावः । नियमबोधकैवकाराप्रयोगेऽपि सर्वं वाक्यं सावधारणमिति न्यायान्नियमपरमेव मद्वाक्यम् । अतोऽवतारिकोक्तरीत्या अस्मदभिमत-सिद्धिरिति तदभिप्रायस्फुटीकरणे अस्याभिप्रायमाविष्करोति ।। न त्विति ।। तथा च भवदुक्तनियमासिद्धेरुक्तशङ्का न युक्तैवेति भावः । कुत इत्यतो व्यभिचारादित्याह ।। शाब्द-प्रतीतिमात्र इति ।। तत्पदवाच्यविषयकत्वलक्ष्यविषयकत्वादिविशेषमपहाय तज्जन्यशाब्द-प्रतीतिसामान्यघटितार्थे वदतेर्भूरिप्रयोगदर्शनादित्यर्थः । मात्रेणेति तृतीयान्तपाठे तेन निमित्तेनेत्यर्थः । अध्ययनेन वसतीत्यादौ फलस्यापि निमित्तत्वादिति भावः ।
एतेन लाक्षणिकं पदं नानुभावकमित्यभियुक्तोक्तेर्लाक्षणिकपदस्य शाब्दप्रतीतिकरणत्वा-भावेन करणत्वबोधकेन मिथ्याशब्देनानिर्वचनीयं वदतीति निर्देशेनापि वाचकत्वपक्ष-कक्षीकरणसूचनसम्भवादुक्तकुसृष्ट्यादरणं मूलकृतामयुक्तमेवेत्यपि निरस्तम् । देवदत्तो गङ्गापदेन तीरं वदति बोधयतीत्यादिप्रामाणिकव्यवहारबलेन लाक्षणिकपदस्यापि करणतायाः सिद्धत्वात् । सिद्धविषयस्य युक्त्याऽपह्नोतुमशक्यत्वात् ।
।। वदतिर्वाचकत्वे इति ।। वाचकत्वे इत्येतन्न सति सप्तम्यन्तम् । किं तु विषयसप्तमी । तथा च वदतिर्वाचकत्वरूपविषये प्रयुज्यते वाचकत्ववाचक इति यावदिति व्याख्यानमसत् । एतच्छङ्कनस्य पूर्वोक्तसाधारण्यदूषणद्वारा शब्दो वदतीति प्रयोगासामञ्जस्यासम्पादकतया वाचकत्वस्यैव धातुमुख्यार्थत्वे शब्दस्यैव मुख्यकर्तृत्वप्राप्त्या पूर्वोक्तवैपरीत्यस्यैव सम्पादकतया च असङ्गतत्वापत्तेः । न चैतद्वाक्यस्योक्तार्थकत्वे तटस्थस्यैवेयमाशङ्का । तथा हि । ननु पूर्वोक्तरीत्या काष्ठं पचतीति प्रयोगवत् एतत्प्रयोगसमर्थनं भवतामयुक्तम् । वदतेर्वाचकत्व-वाचकतया तन्मुख्यकर्तृभूतमिथ्याशब्दे कर्तृत्वव्यवहारस्य मूलकृत्कृतस्य स्वत एव युक्त-त्वादिति तस्याभिप्राय इति वाच्यम् । तथात्वे सत्यमित्यादिपरिहारग्रन्थासङ्गतिप्रसङ्गात् । सत्यमित्यनेन वदतेर्वाचकत्वार्थकत्वस्य स्वयमङ्गीकृतत्वस्य प्रप्त्या तेन शङ्कादार्ढे्य सति अन्यत्रापि तत्प्रयोगप्रदर्शकेणोत्तरवाक्येन तदपरिहारात् । न ह्यन्यत्र प्रयोगो वर्तत इत्येतावता मुख्यार्थप्रयोगो न कर्तव्यो येनेदं सङ्गतं स्यादिति उक्तरीत्यैव व्याख्या युक्ता ।
ननु भवद्व्याख्याने वदतेर्वाचकत्ववाचकत्वं नास्त्येवेति टीकाकृदभिप्राय इत्यागतम् । अन्यथा तेषामुक्तरीत्यनुसरणस्य असङ्गतत्वापत्तेः । तथा च स न युक्तः । गङ्गापदं नदीं वक्ति ब्रूते न तीरमिति प्रामाणिकव्यवहारानुरोधेन वचब्रूञादीनां वाचकत्वार्थकत्वस्या-विवादतया तत्समानार्थकवदतेरपि तदर्थकत्वप्राप्तेः । गोपदं गां वदति नाश्वमित्यादिव्यवहार-स्यापि सत्त्वात् शक्तिवादादौ गदाधरप्रभृतिभिः उक्तधातूनां शक्त्यर्थकत्वस्यैवाश्रयणादिति चेन्न । चेत्रो वदति मैत्रो वदति वक्ति ब्रूते परे वदन्ति सङ्गिरन्ते इत्यादीनां प्रयोगाणां बहुलमुपलम्भात् पुरुषकर्तृकव्यापार एव तद्धातूनां मुख्यार्थः । गोपदं गां ब्रूत इत्यादीनां प्रयोगाणां विरलानां काष्ठं पचतीत्यादिवत् उक्तरीत्योपपन्नत्वान्न शक्तिर्मुख्यार्थः । प्रयोगप्राचुर्यस्यैव तद्वाचकत्वनियामकत्वात् । अन्यथा काष्ठस्थाल्यादिव्यापाराणामपि पचिमुख्यार्थत्वप्रसङ्गात् । शक्तिवादे उक्तधातूनां शक्तिमुख्यार्थकत्वं नाश्रितमेव । अवान्तरव्यापारः शक्तिरेवेत्यभिप्रायेण यदा तादृशप्रयोगः तद्वाक्यार्थविचारपराण्येव तद्वाक्यानि । मुख्यार्थत्वाभिप्रायकत्वे त्वनुपादेयान्येव । ननु शक्तेरवान्तरव्यापारत्वे शब्दो वदतीति वाक्येनैव शाब्दबोधानुकूलशक्तिमत्त्वस्य शब्दमर्यादया लाभात् किमर्थं प्राग्वाचकत्वपक्षकक्षीकरणसूचनार्थमित्युक्तम् । वाचकत्वपक्षलाभायेत्येव वक्तव्यं स्यादिति चेन्न । स्वरूपसच्छक्तेः शब्दानुपयोगितया तद्वत्त्वेन ज्ञानविषयताया एव धातुबोध्यत्वात् । तद्विषयशक्तेरपि तथात्वेऽपि व्यापारत्वेनैव धातुबोध्यतया शक्तित्वेनालब्धतया तल्लाभ-स्यानुमानफलत्वेन पूर्वोक्तिसम्भवात् ।। एतदेवोत्तरमिति ।। तथा चोक्तिलाघवेनास्यैवोभय-पक्षदूषणपरत्वात्स्वायत्त इति न्यायेन मिथ्याशब्दोऽनिर्वचनीयवाचक इत्यत्र चेत्येव कुतो नोक्तमिति शङ्कानवकाशः ।। तेनेति ।। मिथ्याशब्देनेत्यर्थः । एतेन तृतीयान्तम-बहुब्रीहिसमासापन्नमेव मौलं मिथ्याशब्दपदमावर्तत इत्युक्तं भवति ।। प्रमाणान्तरेणेति ।। वक्ष्यमाणानुमानादिनेत्यर्थः किमनेन तदुपजीव्यानिर्वचनीयविषयकत्वसिद्धिकप्रत्यक्षप्रमाणस्यैव प्रथममुपन्यासेन । किं न किमपि । अनिर्वचनीयसिद्धिर्न भवतीति भावः ।